नाहं मन्ये सुवेदेति नो न वेदेति वेद च । यो नस्तद्वेद तद्वेद नो न वेदेति वेद च ॥२॥
न । अहम् । मन्ये । सु-वेद । इति । न । उ । न । वेद । इति । वेद । च । यः । नः । तत् । वेद । तत् । वेद । नः । उ । न । वेद । इति । वेद । च ॥
nāhaṃ manye suvedeti no na vedeti veda ca | yo nas tad veda tad veda no na vedeti veda ca ||2||
नाहं मन्ये—सुवेदेति; नापि मन्ये—न वेदेति। यः अस्माकं मध्ये तद् वेद, स एव तद् वेद; स च वेद—न तद् लौकिकवद् ज्ञेयवस्तु इति॥२॥
I do not think, ‘I know it well’; nor (do I think), ‘I do not know.’ He among us who knows that (Brahman) knows it; and (he) knows also that (it is) not (an object) known (in the ordinary way).
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free sign-in with Google or Apple keeps your chat saved across web and the app.