
Steya-doṣa-nirūpaṇa (On the Nature and Gravity of Theft) — within the Hayagrīva–Agastya Saṃvāda frame
अस्मिन्नध्याये संवादरूपेण धर्मशास्त्रीयो निरूपणः। पूर्वं हिंसादिदोषलक्षणं श्रुत्वा इन्द्रः बृहस्पतिं स्तेयस्य लक्षणभेदान् तारतम्यं च पृच्छति। बृहस्पतिः स्तेयं महापापेषु गणयन् विशेषतया शरणागतस्य वा विश्वस्तस्य द्रोहपूर्वकं हरणं, तथा विदुषः दरिद्रस्य आश्रितपोषकस्य धनापहरणं प्रायश्चित्तातीतप्रायं इति दर्शयति। ततः पुरातनइतिहासः—काञ्चीपुरे वज्रनामा चौरः स्तेयधनं सञ्चित्य निगूढं निधत्ते; तदंशं किरातो वनवासी लभते हृत्वा च नयति—इत्यनेन अपहरण-गोपन-फलश्रृङ्खला धर्मार्थं प्रतिपाद्यते।
Verse 1
इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने हिंसाद्यस्वरूपकथनं नाम षष्ठो ऽध्यायः इन्द्र उवाच भगवन्सर्वमाख्यातं हिंसाद्यस्य तु लक्षणम् / स्तेयस्य लक्षणं किं वा तन्मे विस्तरतो वद
इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने हिंसाद्यस्वरूपकथनं नाम षष्ठोऽध्यायः । इन्द्र उवाच— भगवन् सर्वमाख्यातं हिंसाद्यस्य तु लक्षणम् । स्तेयस्य लक्षणं किं वा तन्मे विस्तरतो वद ॥
Verse 2
बृहस्पतिरुवाच पापानामधिकं पापं हननं जीवजातिनाम् / एतस्मादधिकं पापं विश्वस्ते शरणं गते
बृहस्पतिरुवाच— पापानामधिकं पापं हननं जीवजातिनाम् । एतस्मादधिकं पापं विश्वस्ते शरणं गते ॥
Verse 3
विश्वस्य हत्वा पापिष्ठं शूद्रं वाप्यन्त्यजातिजम् / ब्रह्महत्याधिकं पापं तस्मान्नास्त्यस्य निष्कृतिः
विश्वस्य हत्वा पापिष्ठं शूद्रं वाप्यन्त्यजातिजम् । ब्रह्महत्याधिकं पापं तस्मान्नास्त्यस्य निष्कृतिः ॥
Verse 4
ब्रह्मज्ञस्य दरिद्रस्य कृच्छ्रार्जितधनस्य च / बहुपुत्रकलत्रस्य तेन जीवितुमिच्छतः / तद्द्रव्यस्तेयदोषस्य प्रायश्चित्तं न विद्यते
ब्रह्मज्ञस्य दरिद्रस्य कृच्छ्रार्जितधनस्य च । बहुपुत्रकलत्रस्य तेन जीवितुमिच्छतः । तद्द्रव्यस्तेयदोषस्य प्रायश्चित्तं न विद्यते ॥
Verse 5
विश्वस्तद्रव्यहरणं तस्याप्यधिकमुच्यते / विश्वस्ते वाप्यविश्वस्ते न दरिद्रधनं हरेत्
विश्वस्तद्रव्यहरणं तस्याप्यधिकमुच्यते। विश्वस्ते वाप्यविश्वस्ते न दरिद्रधनं हरेत्॥
Verse 6
ततो देवद्विजातीनां हेमरत्नापहारकम् / यो हन्यादविचारेण सो ऽश्वमेधफलं लभेत्
ततो देवद्विजातीनां हेमरत्नापहारकम्। यो हन्यादविचारेण सोऽश्वमेधफलं लभेत्॥
Verse 7
गुरुदेवद्विजसुहृत्पुत्रस्वात्मसुखेषु च / स्तेयादधःक्रमेणैव दशोत्तरगुणं त्वघम्
गुरुदेवद्विजसुहृत्पुत्रस्वात्मसुखेषु च। स्तेयादधःक्रमेणैव दशोत्तरगुणं त्वघम्॥
Verse 8
अन्त्यजात्पादजाद्वैश्यात्क्षत्रियाद्ब्राह्मणादपि / दशोत्तरगुणैः पापैर्लिप्यते धनहारकः
अन्त्यजात्पादजाद्वैश्यात्क्षत्रियाद्ब्राह्मणादपि। दशोत्तरगुणैः पापैर्लिप्यते धनहारकः॥
Verse 9
अत्रैवोदाहरन्तीममितिहासं पुरातनम् / रहस्यातिरहस्यं च सर्वपापप्रणाशनम्
अत्रैवोदाहरन्तीममितिहासं पुरातनम्। रहस्यातिरहस्यं च सर्वपापप्रणाशनम्॥
Verse 10
पुरा काञ्चीपुरे जातो वज्राख्यो नाम चोरकः / तस्मिन्पुरवरे रम्ये सर्वैश्वर्यसमन्विताः / सर्वे नीरोगिणो दान्ताः सुखिनो दययाञ्चिताः
पुरा काञ्चीपुरे वज्राख्यो नाम चोरकः जातः। तस्मिन् रम्ये पुरवरे सर्वैश्वर्यसमन्विताः जनाः; सर्वे नीरोगिणो दान्ताः सुखिनो दयासम्पन्नाश्च आसन्।
Verse 11
सर्वैश्वर्यसमृद्धे ऽस्मिन्नगरे स तु तस्करः / स्तोकास्तोकक्रमेणैव बहुद्रव्यमपाहरत्
अस्मिन् सर्वैश्वर्यसमृद्धे नगरे स तु तस्करः। स्तोकास्तोकक्रमेणैव बहुद्रव्यम् अपाहरत्।
Verse 12
तदरण्ये ऽवटं कृत्वा स्थापयामास लोभतः / तद्गोपनं निशार्धायां तस्मिन्दूरं गते सति
तद् अरण्येऽवटं कृत्वा लोभतः स्थापयामास। तद्गोपनं निशार्धायां तस्मिन् दूरं गते सति।
Verse 13
किरातः कश्चिदागत्य तं दृष्ट्वा तु दशांशतः / जहाराविदितस्तेन काष्ठभारं वहन्ययौ
किरातः कश्चिद् आगत्य तं दृष्ट्वा तु दशांशतः। जहार अविदितस्तेन काष्ठभारं वहन् ययौ।
Verse 14
सो ऽपि तच्छिलयाच्छाद्य मृद्भिरापूर्ययत्नतः / पुनश्च तत्पुरं प्रायाद्वज्रो ऽपि धनतृष्मया
सोऽपि तत् शिलया छाद्य मृद्भिः आपूर्य यत्नतः। पुनश्च तत्पुरं प्रायात् वज्रोऽपि धनतृष्णया।
Verse 15
एवं बहुधनं त्दृत्वा निश्चिक्षेप महीतले / किरातो ऽपि गृहं प्राप्य बभाषे मुदितः प्रियाम्
एवं बहुधनं दृष्ट्वा निश्चिक्षेप महीतले । किरातोऽपि गृहं प्राप्य मुदितः प्रियामभाषत ॥
Verse 16
मया काष्ठं समाहर्तुं गच्छता पथि निर्जने / लब्धं धनमिदं भीरु समाधत्स्व धनार्थिनि
मया काष्ठं समाहर्तुं गच्छता पथि निर्जने । लब्धं धनमिदं भीरु समाधत्स्व धनार्थिनि ॥
Verse 17
तच्छ्रुत्वा तत्समादाय निधायाभ्यन्तरे ततः / चिन्तयन्ती ततो वाक्यमिदं स्वपतिमब्रवीत्
तच्छ्रुत्वा तत्समादाय निधायाभ्यन्तरे ततः । चिन्तयन्ती ततो वाक्यमिदं स्वपतिमब्रवीत् ॥
Verse 18
नित्यं संचरते विप्रो मामकानां गृहेषु यः / मां विलोक्यैवमचिराद्बहुभाग्यवती भवेत्
नित्यं संचरते विप्रो मामकानां गृहेषु यः । मां विलोक्यैवमचिराद्बहुभाग्यवती भवेत् ॥
Verse 19
चातुर्वर्ण्यासु नरीषु स्थेयं चेद्राजवल्लभा / किं तु भिल्ले किराते च शैलूषे चान्त्यजातिजे / लक्ष्मीर्न तिष्ठति चिरं शापाद्वल्मीकजन्मनः
चातुर्वर्ण्यासु नरीषु स्थेयं चेद्राजवल्लभा । किं तु भिल्ले किराते च शैलूषे चान्त्यजातिजे । लक्ष्मीर्न तिष्ठति चिरं शापाद्वल्मीकजन्मनः ॥
Verse 20
तथापि बहुभाग्यानां पुण्यानामपि पात्रिणे / दृष्टपूर्वं तु तद्वाक्यं न कदाचिद्वृथा भवेत्
तथापि बहुभाग्यानां पुण्यवतामपि पात्रिणे तद्वाक्यं पूर्वदृष्टं न कदाचिद्वृथा भवेत्।
Verse 21
अथ वात्मप्रयासेन कृच्छ्राद्यल्लभ्यते धनम् / तदेव तिष्ठति चिरादन्यद्गच्छति कालतः
अथ वा आत्मप्रयासेन कृच्छ्राद्यल्लभ्यते धनम्, तदेव चिरं तिष्ठति; अन्यत् तु कालतः गच्छति।
Verse 22
स्वयमागतवित्तं तु धर्मार्थैर्विनियोजयेत् / कुरुष्वैतेन तस्मात्त्वं वापीकूपादिकाञ्छुभान्
स्वयमागतवित्तं तु धर्मार्थैर्विनियोजयेत्; तस्मात् त्वं एतेन शुभान् वापीकूपादिकान् कुरु।
Verse 23
इति तद्वचनं श्रुत्वा भाविभाग्यप्रबोधितम् / बहूदकसमं देशं तत्र तत्र व्यलोकयत्
इति तद्वचनं श्रुत्वा भाविभाग्यप्रबोधितः, बहूदकसमं देशं तत्र तत्र व्यलोकयत्।
Verse 24
निर्ममे ऽथ महेन्द्रस्य दिग्भागे विमलोदकम् / सुबहुद्रव्यसं साध्यं तटाकं चाक्षयोदकम्
अथ महेन्द्रस्य दिग्भागे विमलोदकं, सुबहुद्रव्यसं साध्यं तटाकं चाक्षयोदकं निर्ममे।
Verse 25
दत्तेषु कर्मकारिभ्यो निखिलेषु धनेषु च / असंबूर्णं तु तत्कर्म दृष्ट्वा चिन्ताकुलो ऽभवत्
कर्मकारिभ्यः सर्वेषु दत्तेषु धनेषु च, तत्कर्म असम्पूर्णं दृष्ट्वा स चिन्ताकुलोऽभवत्।
Verse 26
तं चोर वज्रनामानमज्ञातो ऽनुचराम्यहम् / तेनैव बहुधा क्षिप्तं धनं भूरि महीतले
वज्रनामानं तं चोरम् अहम् अज्ञातोऽनुचरामि; तेनैव बहुधा क्षिप्तं भूरि धनं महीतले।
Verse 27
स्तोकंस्तोकं हरिष्यामि तत्रतत्र धनं बहु / इति निश्चित्य मनसा तेनाज्ञातस्तमन्वगात्
स्तोकं स्तोकं तत्रतत्र बहु धनं हरिष्यामि—इति मनसा निश्चित्य, तेन अज्ञातः तम् अन्वगात्।
Verse 28
तथैवात्दृत्य तद्द्रव्यं तेन सेतुमपूरयत् / मध्ये जलावृतस्तेन प्रासादश्चापि शार्ङ्गिणः
तथैव आदृत्य तद्द्रव्यं तेन सेतुम् अपूरयत्; तेन मध्ये जलावृतः शार्ङ्गिणः प्रासादोऽपि।
Verse 29
तत्तटाकमभूद्दिव्यमशोषितजलं महत् / सेतुमध्ये चकारासौ शङ्करायतनं महत्
तत् तटाकम् अभूद् दिव्यम्, महद् अशोषितजलं; सेतुमध्ये चकारासौ महत् शङ्करायतनम्।
Verse 30
काननं च क्षयं नीतं बहुसत्त्वसमाकुलम् / तेनाग्र्याणि महार्हाणि क्षेत्राण्यपि चकार सः
काननं बहुसत्त्वसमाकुलं क्षयं नीतं; तेन सः अग्र्याणि महार्हाणि क्षेत्राण्यपि चकार।
Verse 31
देवताभ्यो द्विजेभ्यश्च पदत्तानि विभज्य वै / ब्राह्मणांश्च समामन्त्र्य देवव्रातमुखान्बहून्
देवताभ्यो द्विजेभ्यश्च पदत्तानि विभज्य वै; ब्राह्मणान् समामन्त्र्य देवव्रातमुखान् बहून्।
Verse 32
संतोष्य हेमवस्त्राद्यैरिदं वचनमब्रवीत् / क्व चाहं वीरदत्ताख्यः किरातः काष्ठविक्रयी
हेमवस्त्राद्यैः सन्तोष्य इदं वचनमब्रवीत्— क्व चाहं वीरदत्ताख्यः किरातः काष्ठविक्रयी।
Verse 33
क्व वा महासेतुबन्धः क्व देवालयकल्पना / क्व वा क्षेत्राणि कॢप्तानि ब्राह्मणायतनानि च
क्व वा महासेतुबन्धः क्व देवालयकल्पना; क्व वा क्षेत्राणि कॢप्तानि ब्राह्मणायतनानि च।
Verse 34
कृपयैव कृतं सर्वं भवतां भूसुरोत्तमाः / प्रतिगृह्य तथैवैतद्देवव्रातमुखा द्विजाः
कृपयैव कृतं सर्वं भवतां भूसुरोत्तमाः; प्रतिगृह्य तथैवैतद् देवव्रातमुखा द्विजाः।
Verse 35
द्विजवर्मेति नामास्मै तस्यै शीलवतीति च / चक्रुः संतुष्टमनसो महात्मानो महौजसः
तदा महात्मानः महौजसः संतुष्टमनसः तस्मै ‘द्विजवर्मा’ इति नाम, तस्यै च ‘शीलवती’ इति नाम चक्रुः।
Verse 36
तेषां संरक्षणार्थाय बन्धुमिः सहितो वशी / तत्रैव वसतिं चक्रे मुदितो भार्यया सह
तेषां संरक्षणार्थाय वशी बन्धुभिः सहितः तत्रैव भार्यया सह मुदितो वसतिं चक्रे।
Verse 37
पुरोहिताभिधानेन देवरातपुरन्त्विति / नाम चक्रे पुरस्यास्य तोष यन्नखिलान्द्विजान्
पुरोहिताभिधानेन ‘देवरातपुरम्’ इति अस्य पुरस्य नाम चक्रे, येन अखिलान् द्विजान् तोषयामास।
Verse 38
ततः कालवशं प्राप्तो द्विजवर्मा मृतस्तदा / यमस्य ब्रह्मणो विष्णोर्दूता रुद्रस्य चागताः
ततः कालवशं प्राप्तः द्विजवर्मा तदा मृतः; यमस्य ब्रह्मणो विष्णोः रुद्रस्य च दूताः आगताः।
Verse 39
अन्यो ऽन्यमभवत्तेषां युद्धं देवासुरोपमम् / अत्रान्तरे समागत्य नारदो मुनिरब्रवीत्
तेषां परस्परं देवासुरोपमं युद्धम् अभवत्; अत्रान्तरे समागत्य नारदो मुनिर् अब्रवीत्।
Verse 40
मा कुर्वन्तु मिथो युद्धं शृण्वन्तु वचनं मम / अयं किरातश्चैर्येण सेतुबन्धं पुराकरोत्
मा कुर्वन्तु मिथो युद्धं, शृण्वन्तु मम वचनम्। अयं किरातः चौर्येण पुरा सेतुबन्धं अकरोत्॥
Verse 41
वायुभूतस्चरेदेको यावद्द्रव्यवतो मृतिः / स बहुभ्यो हरेद्द्रव्यं तेषां यावत्तथा मृतिः
वायुभूतः स एकाकी चरेद् यावद् द्रव्यवतो मृतिः। स बहुभ्यो हरेद् द्रव्यं तेषां यावत्तथा मृतिः॥
Verse 42
गतेष्वखिलदूतेषु श्रुत्वा नारदभाषितम् / चचार द्वादशाब्दं तु वायुभूतोंऽतरिक्षगः
गतेष्वखिलदूतेषु श्रुत्वा नारदभाषितम्। चचार द्वादशाब्दं तु वायुभूतोऽन्तरिक्षगः॥
Verse 43
भार्यां तस्याह स मुनिस्तव दोषो न किञ्चन / त्वया कृतेन पुण्येन ब्रह्मलोकमितो व्रज
तस्य भार्यां स मुनिराह—तव दोषो न किञ्चन। त्वया कृतेन पुण्येन ब्रह्मलोकमितो व्रज॥
Verse 44
वायुभूतं पतिं दृष्ट्वा नेच्छति ब्रह्ममन्दिरम् / निर्वेदं परमापन्ना मुनिमेवमभाषत
वायुभूतं पतिं दृष्ट्वा नेच्छति ब्रह्ममन्दिरम्। निर्वेदं परमापन्ना मुनिमेवमभाषत॥
Verse 45
विना पतिमहं तेन न गच्छेयं पितामहम् / हहैवास्ते पतिर्यावत्स्वदेहं लभते तथा
पत्याऽभावेऽहं तेन विना पितामहं न गच्छेयम्। हा हा—यावत् पतिः स्वदेहं लभते, तावत् एवास्ते॥
Verse 46
ततस्तु या गतिस्तस्य तामेवानुचराम्यहम् / परिहारो ऽथवा किं तु मया कार्यस्तु तेन वा
ततः तस्य या गतिः, तामेवाहमनुचरामि। परिहारोऽथवा किं? मया किं कर्तव्यं, तेन वा॥
Verse 47
इति तस्या वचः श्रुत्वा प्रीतः प्राह तपोधनः / भोगात्मकं शरीरं तु कर्म कार्यकरं तव
इति तस्या वचः श्रुत्वा तपोधनः प्रीतोऽब्रवीत्। भोगात्मकं शरीरं तु तव कर्म कार्यकरं स्मृतम्॥
Verse 48
मम प्रभावाद्भविता परिहारं वदामि ते / निराहारो महातीर्थेस्नात्वा नित्यं हि सांबिकम्
मम प्रभावाद् भविता परिहारः; तेऽहं वदामि। निराहारः सन् महातीर्थे स्नात्वा नित्यं हि साम्बिकम्॥
Verse 49
पूजयित्वा शिवं भक्त्या कन्दमूलफलाशनः / ध्यात्वा हृदि महेशानं शतरुद्रमनुं जपेत्
शिवं भक्त्या पूजयित्वा कन्दमूलफलाशनः। हृदि महेशानं ध्यात्वा शतरुद्रमनुं जपेत्॥
Verse 50
ब्रह्महा मुच्यते पापैरष्टोत्तरसहस्रतः / पापैरन्यैश्च सकलैर्मुच्यते नात्र संशयः
ब्रह्महा अष्टोत्तरसहस्रसंख्यैः पापैर्मुच्यते; अन्यैश्च सर्वैः पापैः अपि विमुच्यते—अत्र न संशयः।
Verse 51
इत्यादिश्य ददौ तस्यै रुद्राध्यायं तपोधनः / अनुगृह्येति तां नारीं तत्रैवान्तर्द्धिमागमत्
इत्यादिश्य तपोधनः तस्यै रुद्राध्यायं ददौ; ‘अनुगृह्य’ इति तां नारीं कृपया, तत्रैव अन्तर्धिम् आगमत्।
Verse 52
भर्तुः प्रियार्थे संकल्प्य जजाप परमं जपम् / विमुक्तस्तेयदोषेण स्वशरीरमवाप सः
भर्तुः प्रियार्थे संकल्प्य सः परमं जपं जजाप; स्तेयदोषात् विमुक्तः सन् स्वशरीरं पुनरवाप।
Verse 53
ततो वज्राभिधश्चौरः कालधर्ममुपागतः / अन्ये तद्द्रव्यवन्तो ऽपि कालधर्ममुपागताः
ततः वज्राभिधः चौरः कालधर्मम् उपागतः; अन्येऽपि तद्द्रव्यवन्तः कालधर्मम् उपागताः।
Verse 54
यमस्तु तान्समाहूय वाक्यं चैतदुवाच ह
यमस्तु तान् समाहूय एतद्वाक्यं उवाच ह।
Verse 55
भवद्भिस्तु कृतं पापं दैवात्सुकृतमप्युत / किमिच्छथ फलं भोक्तुं दुष्कृतस्य शुभस्य वा
भवद्भिः कृतं पापं दैवात् सुकृतमप्युत। किमिच्छथ फलं भोक्तुं दुष्कृतस्य शुभस्य वा॥
Verse 56
इति तस्य वचः श्रुत्वा प्रोचुर्वज्रादिकास्ततः / सुकृतस्य फलं त्वादौ पश्चात्पापस्य भुज्यते
इति तस्य वचः श्रुत्वा प्रोचुर्वज्रादिकास्ततः। सुकृतस्य फलं त्वादौ पश्चात्पापस्य भुज्यते॥
Verse 57
पुनराह यमो यूयं पुत्रमित्र कलत्रकैः / एतस्यैव बलात्सर्वे त्रिदिवं गच्छत द्रुतम्
पुनराह यमो यूयं पुत्रमित्रकलत्रकैः। एतस्यैव बलात्सर्वे त्रिदिवं गच्छत द्रुतम्॥
Verse 58
ते ऽधिरुह्य विमानाग्र्यं द्विजवर्माणमाश्रिताः / यथोचितफलोपेतास्त्रिदिवं जग्मुरञ्जसा
तेऽधिरुह्य विमानाग्र्यं द्विजवर्माणमाश्रिताः। यथोचितफलोपेतास्त्रिदिवं जग्मुरञ्जसा॥
Verse 59
द्विजवर्माखिलांल्लोकानतीत्य प्रमदासखः / गाणपत्यमनुप्राप्य कैलासे ऽद्यापि मोदते
द्विजवर्माखिलाँल्लोकानतीत्य प्रमदासखः। गाणपत्यमनुप्राप्य कैलासेऽद्यापि मोदते॥
Verse 60
इन्द्र उवाच तारतम्यविभागं च कथय त्वं महामते / सेतुबन्धादिकानां च पुण्यानां पुण्यवर्धनम्
इन्द्र उवाच—हे महामते, तारतम्यविभागं कथय; सेतुबन्धादिकानां पुण्यानां पुण्यवर्धनं च ब्रूहि।
Verse 61
बृहस्पतिरुवाच पुण्यस्यार्द्धफलं प्राप्य द्विजवर्मा महायशाः / वज्रः प्राप्य तदर्धं तु तदर्धेन युताः परे
बृहस्पतिरुवाच—पुण्यस्यार्धफलं प्राप्य द्विजवर्मा महायशाः; वज्रः तदर्धं प्राप्य, परे तु तदर्धेन युताः।
Verse 62
मनोवाक्कायचेष्टाभिश्चतुर्धाक्रियते कृतिः / विनश्येत्तेन तेनैव कृतैस्तत्परिहारकैः
मनोवाक्कायचेष्टाभिश्चतुर्धा क्रियते कृतिः; विनश्येत् तेन तेनैव कृतैस्तत्परिहारकैः।
Verse 63
इन्द्र उवाच आसवस्य तु किं रूपं को दोषः कश्चवा गुणः / अन्नं दोषकरं किं तु तन्मे विस्तरतो वद
इन्द्र उवाच—आसवस्य तु किं रूपं, को दोषः कश्च वा गुणः? अन्नं दोषकरं किं तु? तन्मे विस्तरतो वद।
Verse 64
बृहस्पतिरुवाच पैष्टिकं तालजं कैरं माधूकं गुडसंभवम् / क्रमान्न्यूनतरं पापं तदर्द्धार्द्धार्द्धतस्तथा
बृहस्पतिरुवाच—पैष्टिकं तालजं कैरं माधूकं गुडसंभवम्; क्रमान्न्यूनतरं पापं तदर्धार्द्धार्द्धतस्तथा।
Verse 65
क्षत्रियादित्रिवर्णानामासवं पेयमुच्यते / स्त्रीणामपि तृतीयादि पेयं स्याद्ब्राह्मणीं विना
क्षत्रियादित्रिवर्णानाम् आसवं पेयम् उच्यते। स्त्रीणामपि तृतीयादि पेयं स्यात्, ब्राह्मणीं विना॥
Verse 66
पतिहीना च कन्या च त्यजेदृतुमती तथा / अभर्तृसन्निधौ नारी मद्यं पिबति लोलुपा
पतिहीना च कन्या च त्यजेद् ऋतुमती तथा। अभर्तृसन्निधौ नारी मद्यं पिबति लोलुपा॥
Verse 67
उन्मादिनीति साख्याता तां त्यजेदन्त्यजामिव
उन्मादिनीति साख्याता तां त्यजेद् अन्त्यजामिव॥
Verse 68
दशाष्टषट्चतस्रस्तु द्विजातीनामयं भवेत् / स्त्रीणां मद्यं तदर्द्धं स्यात्पादं स्याद्भर्तृसङ्गमे
दशाष्टषट्चतस्रस्तु द्विजातीनाम् अयं भवेत्। स्त्रीणां मद्यं तदर्धं स्यात् पादं स्याद् भर्तृसङ्गमे॥
Verse 69
मद्यं पीत्वा द्विजो मोहात्कृच्छ्रचान्द्रायमं चरेत् / जपेच्चायुतगायत्रीं जातवेदसमेव वा
मद्यं पीत्वा द्विजो मोहात् कृच्छ्रचान्द्रायमं चरेत्। जपेच्चायुतगायत्रीं जातवेदसमेव वा॥
Verse 70
अम्बिका हृदयं वापि जपेच्छुद्धो भवेन्नरः / क्षत्रियो ऽपि त्रिवर्णानां द्विजादर्धोर्ऽधतः क्रमात्
अम्बिकाहृदयमन्त्रं वा यः शुद्धचित्तः जपति, स नरः पवित्रो भवति। क्षत्रियस्यापि त्रिवर्णेषु द्विजात् क्रमशः अर्धं वा तदर्धं जपः विधीयते।
Verse 71
स्त्रीणामर्धार्धकॢप्तिः स्यात्कारयेद्वा द्विजैरपि / अन्तर्जले सहस्रं वा जपेच्छुद्धिमवाप्नुयात्
स्त्रीणां तु अर्धार्धकॢप्तिः स्यात्, अथवा द्विजैः कारयेत्। अन्तरजले स्थित्वा सहस्रं वा जपेत्, शुद्धिमवाप्नुयात्।
Verse 72
लक्ष्मीः सरस्वती गौरी चण्डिका त्रिपुरांबिका / भैरवो भैरवी काली महाशास्त्री च मातरः
लक्ष्मीः सरस्वती गौरी चण्डिका त्रिपुराम्बिका। भैरवो भैरवी काली महाशास्त्री च मातरः॥
Verse 73
अन्याश्च शक्तयस्तासां पूजने मधु शस्यते / ब्राह्मणस्तु विना तेन यजेद्वेदाङ्गपारगः
अन्याश्च तासां शक्तयः; तासां पूजने मधु प्रशस्यते। ब्राह्मणस्तु तेन विना वेदाङ्गपारगः यजेत्।
Verse 74
तन्निवेदितमश्नन्तस्तदनन्यास्तदात्मकाः / तासां प्रवाहा गच्छन्ति निर्लेपास्ते परां गतिम्
तन्निवेदितं भुञ्जानाः, तदनन्याः तदात्मकाः। तासां प्रवाहं गच्छन्ति; निर्लेपाः ते परां गतिम्।
Verse 75
कृतस्याखिलपापस्य ज्ञानतो ऽज्ञानतो ऽपि वा / प्रायश्चित्तमिदं प्रोक्तं पराशक्तेः पदस्मृतिः
कृतस्याखिलपापस्य ज्ञानतोऽज्ञानतोऽपि वा । प्रायश्चित्तमिदं प्रोक्तं पराशक्तेः पदस्मृतिः ॥
Verse 76
अनभ्यर्च्य परां शक्तिं पिबेन्मद्यं तु यो ऽधमः / रौरवे नरके ऽब्दं तु निवसेद्ब्रिन्दुसंख्यया
अनभ्यर्च्य परां शक्तिं पिबेन्मद्यं तु योऽधमः । रौरवे नरकेऽब्दं तु निवसेद्बिन्दुसंख्यया ॥
Verse 77
भोगेच्छया तु यो मद्यं पिबेत्स मानुषाधमः / प्रायश्चितं न चैवास्य शिलाग्निपतनादृते
भोगेच्छया तु यो मद्यं पिबेत्स मानुषाधमः । प्रायश्चितं न चैवास्य शिलाग्निपतनादृते ॥
Verse 78
द्विजो मोहान्न तु पिबेत्स्नेहाद्वा कामतो ऽपि वा / अनुग्रहाच्च महतामनुतापाच्च कर्मणः
द्विजो मोहान्न तु पिबेत्स्नेहाद्वा कामतोऽपि वा । अनुग्रहाच्च महतामनुतापाच्च कर्मणः ॥
Verse 79
अर्चनाच्च पराशक्तेर्यमैश्च नियमैरपि / चान्द्रायणेन कृच्छ्रेण दिनसंख्याकृतेन च / शुद्ध्येच्च ब्राह्मणो दोषाद्द्विगुणाद्बुद्धिपूर्वतः
अर्चनाच्च पराशक्तेर्यमैश्च नियमैरपि । चान्द्रायणेन कृच्छ्रेण दिनसंख्याकृतेन च । शुद्ध्येच्च ब्राह्मणो दोषाद्द्विगुणाद्बुद्धिपूर्वतः ॥
It defines steya (theft), ranks its severity across contexts (especially breach-of-trust theft), and uses an itihāsa set in Kāñcīpura to demonstrate moral causality and social harm.
Indra questions and Bṛhaspati answers; the material is situated within the broader Hayagrīva–Agastya transmission frame indicated by the chapter colophon style.
Not primarily; it is normative-ethical. Its ‘map data’ is instead social-moral metadata: protected persons/wealth categories, severity multipliers, and exemplar narrative anchors (Kāñcīpura, Vajra, Kirāta).