Opening the text

Sāmbaśāpaḥ Sūryārādhanavidhiś ca
Ritual-Manual (Prāyaścitta) with Ethical-Discourse and Sacred-Geography
婆罗诃(Varāha)教诲大地女神(Pṛthivī)聆听一段发生在都罗迦(Dvārakā)的往事,主角为三摩婆(Sāmba)。那罗陀(Nārada)来访,受礼款待后私下告诫黑天(Kṛṣṇa):三摩婆的俊美扰动成群天女,引发流言与道德隐患。黑天在会众中示现天女的骚动,并以社会伦理之语说明欲望无常、行止难以隐秘(依叙事所设)。那罗陀阐明其因,劝黑天约束三摩婆,以除将损害宗族的耻辱。黑天遂诅咒三摩婆得畸形与库什吒(kuṣṭha,麻风)。随后那罗陀开示补赎之法:于特定时地依次礼敬太阳神苏利耶(Sūrya)。本章铺陈仪轨行程——日出(udaya)、正午(madhyāhna)、日落(astamaya)——尤重摩图罗(Mathurā)与克利须那恒河(Kṛṣṇagaṅgā);终至三摩婆痊愈、建立苏利耶圣像,并在三摩婆城(Sāmbapura)举行摩伽月第七日(Māgha-saptamī)战车游行(rathayātrā),以规范修持而除罪、安乐人间。
Verse 1
श्रीवराह उवाच ॥ शृणु चान्यद्वरारोहे कृष्णस्य अन्यद्विचेष्टितम् ॥ द्वारकां वसमानस्य साम्बशापादिकं शृणु ॥
圣瓦拉哈言:“再听我说,腰肢婀娜者啊,关于黑天(克里希那)另一段行迹。请听他住于堕罗迦时,萨姆巴所受诅咒及其相关诸事。”
Verse 2
सुखासीनस्य कृष्णस्य पुत्रदारसुतैः सह ॥ आगतो नारदस्तत्र यदृच्छागमनो मुनिः ॥ पाद्यमर्घ्यं च आसनं च मधुपर्कं सभाजनम् ॥ गां च दत्त्वा यथान्यायं कृतं संवादमुत्तमम् ॥
当黑天(Kṛṣṇa)安坐,与其诸子、妻与后嗣同在时,圣贤那罗陀(Nārada)随缘自来,来到其处。遂奉上洗足水、敬献之礼(arghya)、座位、蜜乳供(madhuparka)及应有的礼遇;又依正当仪轨施与一头母牛,于是展开了一场极为殊胜的对谈。
Verse 3
एकान्ते प्राप्य कृष्णं च विज्ञप्तिमकरोत्प्रभुः ॥ कृष्ण किञ्चिद्वक्तुकामस्तत्त्वं शृणु महामते ॥ साम्बनाम तव युवा पुत्रो वाग्मी तु रूपवान् ॥ स्पृहणीयः सदा कान्तः स्त्रीजनस्य सुरेश्वर ॥
在僻静处得见黑天(Kṛṣṇa)后,那位尊者陈述道:“黑天啊,我欲说一事——请听其要旨,伟大心志者。你那名为三婆(Sāmba)的少壮之子,善言辞而容貌俊美,常为女子所倾慕,令人神往,天神之主啊。”
Verse 4
एतास्तु वरनार्यो वै क्रीडार्थं हि सुरेश्वरः । देवयोन्यो ददुस्तुभ्यं सहस्राणि च षोडश ॥
诚然,这些上妙的女子,皆出自天界之族,赐予于你,天神之主,为作神圣游乐之缘;其数为一万六千。
Verse 5
साम्बं दृष्ट्वा च सर्वासां क्षुभ्यते च मनः प्रभो ॥ एतत्तु ब्रह्मलोके च गीयते दैवतैः स्वयम् ॥
然而一见三婆(Sāmba),她们众人的心意便为之骚动,主宰啊。此事甚至在梵天界亦由诸天亲自歌咏传唱。
Verse 6
त्वत्प्रियार्थं समायातः कथितुं ते सुरोत्तम ॥ श्रूयते चार्थ विद्रूपः श्लोको द्वैपायनेन वै ॥
为你所珍爱之事,我特来告知于你,诸神之最胜者。又闻有一偈,义旨峻切,据说乃由岛生(Dvaipāyana)所宣说。
Verse 7
क्रियातः स्वर्गवासोऽस्ति नरकस्तद्विपर्ययात् ॥ पुण्यरूपं तु यत्कर्म दिशो भूमिं च संस्पृशेत्
由正当之行则得居天界;由其相反则堕地狱。凡具福德(puṇya)之业,据说其功用遍及十方并及于大地。
Verse 8
नरके पुरुषः प्रोक्तो विपरीतो मनीषिभिः ॥ तस्मात्साम्बं समाहूय तथा देवीगणं च तम्
智者说:人若违逆正行,便被称为堕入地狱。因此,他召来萨姆巴(Sāmba),并同样召集那群女神的会众,(遂而行事)。
Verse 9
आसनेषूपविष्टानां तासां क्षोभं च तत्त्वतः ॥ लक्षयिष्याम्यहं सर्वं सत्यं चासत्यमेव च
当她们各就其座时,我将如实辨察她们的骚动;我将观察一切——真实与不真实。
Verse 10
तावत्सभ्यासनान्येव स्वास्तीर्य च विभागशः ॥ सर्वास्तास्तु समाहूय आसने चोपवेश्य च
其间,会众之座已铺设妥当,并按次第分列;随后将她们尽皆召来,使其各坐其座。
Verse 11
पश्चात्साम्बः समायातस्तस्याग्रे करसंपुटम् ॥ कृत्वा स्थितो मुहूर्तं तु किमाज्ञापयसि प्रभो
随后萨姆巴(Sāmba)来到;他在其前合掌而立,片刻停驻,说道:“主啊,你有何命令?”
Verse 12
दृष्ट्वा रूपमतीवास्य साम्बस्यैव वरस्त्रियः ॥ चुक्षुभुः सकला देव्यो कृष्णस्यैव तु पश्यतः
众人见到萨姆巴(Sāmba)极其俊美的形貌,那些高贵的女子——乃至一切女神——都心神激荡,即使克里希纳(Kṛṣṇa)在旁注视亦然。
Verse 13
उत्तिष्ठत प्रियाः सर्वा गच्छत स्वनिवेशनम् ॥ कृष्णवाक्यात्तदा देव्यो जग्मुः स्वं स्वं निवेशनम्
(他说:)“诸位爱者,皆起身,各归自宅。”于是女神们依克里希纳(Kṛṣṇa)之言,各自回到自己的居所。
Verse 14
साम्बस्तत्रैव संतस्थौ वेपमानः कृताञ्जलिः ॥ स कृष्णो नारदं वीक्ष्य लज्जयावाङ्मुखोऽभवत्
萨姆巴(Sāmba)仍立于彼处,战栗不已,合掌致敬。克里希纳(Kṛṣṇa)见到那罗陀(Nārada),因羞惭而垂首噤言,面色亦低。
Verse 15
कृष्णस्तु कथयामास नारदाय सविस्तरम् ॥ स्त्रीस्वभावं चरित्रं च आश्चर्यं पापकाकरकम्
随后克里希纳(Kṛṣṇa)向那罗陀(Nārada)详尽叙述此事——关于女子的性情与行止——此事既令人惊异,亦易引生过失。
Verse 16
क्षणो नास्ति रहो नास्ति नास्ति कृत्ये विभावना ॥ तेन नारद नारीणां सतीत्वमुपजायते
既无片刻停歇,亦无隐密独处,于所当行之事又少有思量;因此,噢那罗陀(Nārada),便有了女子之“萨蒂性”(satītva),即贞信之名与其确立。
Verse 17
सुरूपं पुरुषं दृष्ट्वा क्षरन्ति मुनिसत्तम ॥ स्वभाव एष नारीणां साम्बस्य शृणु कारणम् ॥
噢,诸牟尼中最胜者,女子见到容貌俊美的男子便会湿润;此乃其天性。现在请听关于萨姆巴(Sāmba)之事的缘由。
Verse 18
अतीव मानी तेजस्वी धार्मिकॊऽतिगुणान्वितः ॥ रूपकारणमुद्दिश्य गतः क्षोभं कथञ्चन ॥
他极其自负,光辉炽盛,且守持正法,具足众多德行;然而因一桩与美貌相关之事,不知何故而起了骚动不安。
Verse 19
नारदस्त्वेवमेवं च प्रतिपूज्य हरेर्वचः ॥ अन्तरज्ञ उवाचेदं साम्बशापकरेण तथा ॥
那罗陀(Nārada)如是恭敬领受哈利(Hari)之言后,因内知诸事,便说出此段缘起——即导致萨姆巴(Sāmba)受诅咒的经过。
Verse 20
यथा एकेन चक्रेण रथस्य न गतिर्भवेत् ॥ पुरुषास्वादनाच्चैवं क्षरन्ति सततं स्त्रियः ॥
正如战车若仅有一轮便不能行进,同样地,由于对男子的“享受/亲近”,女子便不断湿润。
Verse 21
पुंसः सुदृष्टिपातेन कृतकृत्या भवन्ति ताः ॥ प्रद्युम्नं वीक्ष्य नार्यस्तु लज्जामापुः सुपुष्कलाम् ॥
仅凭男子俊美目光的一瞥,她们便觉得如同所愿已遂;然而见到普拉丢姆那(Pradyumna)时,众女子却被深重的羞惭所攫住。
Verse 22
साम्बं दृष्ट्वैव ताः सर्वा अनङ्गेन प्रपीडिताः ॥ उद्दीपनविभावोऽयं तासां गन्धादिकं यथा ॥
然而,仅仅见到萨姆巴,她们所有人便受到阿南伽(爱神)的折磨。这对她们而言是一种激发性的助缘,犹如香气之类。
Verse 23
तस्मात्साम्बस्तु दुष्टात्मा तव स्त्रीणां विनाशकृत् ॥ सत्यलोके प्रवादो यस्तव जातो दुरत्ययः ॥
因此,心怀恶意的萨姆巴成为你家中女子毁灭的根源;而在真界中关于你的流言,难以消除。
Verse 24
मया श्रुतस्तु लोकेभ्यो ब्रह्मर्षिभ्यो मुहुर्मुहुः ॥ साम्बत्यागात्प्रमार्ष्टुं त्वमयशः कुलनाशकम् ॥
我屡次从诸世界和梵仙处听闻:你应当舍弃萨姆巴,以消除那毁灭家族的耻辱。
Verse 25
त्वमिहार्हस्यमेयात्मन् मया नु कथितं हितम् ॥ इत्युक्त्वा वचनं तत्र नारदो मौनमास्थितः ॥
哦,灵魂不可测量者,你在此应当如此行事;我确实已说出有益之言。说完这些话后,那罗达便归于沉默。
Verse 26
शरीरात्तु गलद्रक्तं पूतिगन्धयुतं सदा ॥ पशुवत्कर्तितो यस्तु तद्वद्देहोऽस्य दृश्यते ॥
从他身体中滴落鲜血,常伴有恶臭。如同被宰杀的牲畜,他的身体显现出如此状态。
Verse 27
ततस्तु नारदेनैव साम्बशापविनाशकः ॥ समादिष्टो महान्धर्म आदित्यआराधनं प्रति
随后,纳罗陀亲自教导他那能消除商婆诅咒的伟大法——即修持供奉、安抚阿底提耶(太阳神)的法门。
Verse 28
साम्ब साम्ब महाबाहो शृणु जाम्बवतीसुत ॥ पूर्वाचले च पूर्वाह्ने उद्यन्तं तु विभावसुम्
“商婆啊,商婆啊,大臂勇士、阎婆伐底之子——听着:在东方之山,于上午时分,当毗婆婆苏(太阳)升起之际,应当礼敬他。”
Verse 29
नमस्कुरु यथान्यायं वेदोपनिषदादिभिः ॥ त्वयोदितं रविः श्रुत्वा तुष्टिं यास्यति नान्यथा
“当依正法行礼,以《吠陀》、诸《奥义书》及相关经典之咒句致敬;罗毗(太阳)听闻你所诵赞辞,必得欢喜,否则不然。”
Verse 30
साम्ब उवाच ॥ अगम्यगमनात्पापाद्व्याप्तो यः पुरुषो भवेत् ॥ तस्य देवः कथं तुष्टो भविष्यति स वै मुने
商婆说道:“圣者啊,若有人因趋近不当之境而为罪所遍染,神明又怎会对他生起欢喜?”
Verse 31
नारद उवाच ॥ भविष्यत्पुराणमिति तव वादाद्भविष्यति ॥ ब्रह्मलोके पठिष्यामि ब्रह्मणोऽग्रे त्वहं सदा
纳罗陀说道:“由于你的这番话,它将被称为《未来往世书》(Bhaviṣyatpurāṇa)。在梵天界(Brahmaloka),我将常在梵天面前诵读它。”
Verse 32
सुमन्तुर्मर्त्यलोके च मनोः प्र कथयिष्यति ॥ साम्ब उवाच ॥ कथं पूर्वाचले गत्वा मांसपिण्डोपमः प्रभो
(那罗陀继续说:)“而苏曼图将在凡人之世把此事讲述给摩奴。” 桑婆说:“主啊,我如同一团肉块,怎能前往普尔瓦恰拉(东山)?”
Verse 33
त्वत्प्रसादान्महद्दुःखं प्राप्तस्त्वहमकल्मषः ॥ नारद उवाच ॥ यथोदयाचले देवमाराध्य लभते फलम्
“承你恩泽,我遭遇了巨大的痛苦,然而我心无垢染。” 那罗陀说:“正如在优陀耶恰拉礼敬神明,便能获得果报……”
Verse 34
मथुरायां तथा गत्वा षट्सूर्ये लभते फलम् ॥ मध्याह्ने च तथा देवं फलप्रियं अकल्मषम्
“同样地,前往摩图罗,在名为‘六日轮’(Ṣaṭsūrya)之处可得其果。又同样地,于正午礼敬神明——乐于赐果、无垢清净者。”
Verse 35
मथुरायां तथा पुण्यमुदयास्तं रवेर् जपन् ॥ मध्याह्ने प्रयतो वाग्भिः जपन् मुच्येत पातकात्
“同样在摩图罗,于罗毗(太阳)升起与落下之时诵念,便得功德;而在正午,谨守言语而诵念者,得以解脱诸罪过。”
Verse 36
कृष्णगङ्गोद्भवे स्नात्वा सूर्यं आराध्य यत्नतः ॥ सर्वपापविनिर्मुक्तः कुष्ठादिभ्यो विमुच्यते
“在黑恒河(Kṛṣṇagaṅgā)之源沐浴,并勤勉礼敬太阳者,得以脱离一切罪业,并从麻风等诸疾患中解脱。”
Verse 37
श्रीवराह उवाच ॥ ततः साम्बो महाबाहुः कृष्णाज्ञप्तो ययौ पुरीम् ॥ मथुरां मुक्तिफलदां रवेराराधनोत्सुकः ॥
圣瓦拉哈说:随后,臂力雄伟的萨姆巴奉克里希纳之命前往摩图罗城;此城被称为赐予解脱之果。他渴望礼敬罗毗——太阳神。
Verse 38
नारदोक्तेन विधिना साम्बो जाम्बवतीसुतः ॥ षट्सूर्यान्पूजयामास उदयन्तं दिवाकरम् ॥
依那罗陀所传之仪轨,萨姆巴——姜婆伐蒂之子——以六重形相礼拜太阳,恭敬供奉初升的天照者(迪瓦迦罗)。
Verse 39
कृत्वा योगेन चात्मानं साम्बस्याग्रे रविस्तदा ॥ वरं वृणीष्व भद्रं ते मद्व्रतख्यापनाय च ॥
随后,罗毗以瑜伽神力显现在萨姆巴面前,说道:“择取一愿赐福于你,愿其吉祥;并且也为宣扬我之誓戒(vrata)而择取。”
Verse 40
यस्तोषितो नारदेन तद्वदस्व ममाग्रतः ॥ साम्ब पञ्चाशकैः श्लोकैर्वेदगृह्यपदाक्षरैः ॥
“萨姆巴啊,在我面前宣说那使我因那罗陀而欢喜之赞辞:以五十颂(śloka)诵出,所用词句与音节当合乎吠陀与家祭(Gṛhya)之规范。”
Verse 41
यः स्तुतोऽहं त्वया वीर तेन तुष्टोऽस्मि ते सदा ॥ स्पृष्टो देवेन सर्वाङ्गे तत्क्षणाद्दीप्तसच्छविः ॥
“勇士啊,由你所献之赞颂,我恒常对你满意。”当神触及他全身之时,就在那一刹那,他光辉焕发,肤色灿然明净。
Verse 42
व्यक्ताङ्गावयवः साक्षाद्द्वितीयोऽभूद्रविर्यथा ॥ मध्याह्ने याज्ञवल्क्यस्य यज्ञं माध्यन्दिनीयकम् ॥
其肢体与诸相皆已显现,宛如化作可见形体的第二个罗毗(Ravi,日神)。至于正午,则提及雅若那伐迦(Yājñavalkya)的正午祭仪——“Mādhyandinīyaka”。
Verse 43
अध्यापयत्साम्बयुतो रविर्मध्यन्दिनोऽभवत् ॥ वैकुण्ठपश्चिमे पार्श्वे तीर्थं माध्यन्दिनीयकम् ॥
罗毗(Ravi)与三摩婆(Sāmba)相伴而教诲之,因此与“正午”(mādhyandina)的传承相系。在毗昆陀(Vaikuṇṭha)西侧,有一处名为“Mādhyandinīyaka Tīrtha”的圣渡口。
Verse 44
सायाह्ने कृष्णगङ्गाया दक्षिणे संस्थितस्तदा ॥ तत्र दृष्ट्वा तु सायाह्ने रविमस्तोदयं प्रभुम् ॥
随后在傍晚,他立于黑天恒河(Kṛṣṇa-Gaṅgā)南岸。于彼处黄昏之际,他瞻仰主宰之日神在沉落与升起的交界时分(即日轮转换的关口),故事遂续。
Verse 45
सर्वपापविशुद्धात्मा परं ब्रह्माधिगच्छति ॥ श्रीवराह उवाच ॥ एवं साम्बस्य तुष्टेन मध्याह्ने तु नभस्तलात् ॥
凡自性净除一切罪垢者,得证至上梵(Brahman)。圣瓦拉哈(Śrī Varāha)曰:如是,因悦纳三摩婆,于正午时分,自天穹之上,事相遂起。
Verse 46
द्विधाकृतात्मयोगेन साम्बकुष्ठमपोहितम् ॥ साम्बः प्रख्याततीर्थे तु तत्रैवान्तरधीयत ॥
以一种令自我分为二的瑜伽之行,三摩婆的麻风被除去。其后,三摩婆于彼著名的圣地(tīrtha)当处隐没不现。
Verse 47
साम्बस्तु सह सूर्येण रथस्थेन दिवानिशम् ॥ रविं पप्रच्छ धर्मात्मा पुराणं सूर्यभाषितम्
萨姆巴与乘坐天车的苏利耶同在,昼夜不息地询问罗毗;那位持守正法者探问由太阳所宣说的《往世书》。
Verse 48
भविष्यमिति विख्यातं ख्यातं कृत्वा पुनर्नवम् ॥ साम्बः सूर्यप्रतिष्ठां च कारयामास तत्त्ववित्
他使名为“婆毗沙”(Bhaviṣya)的传统再度显扬,并使之焕然如新;通达真理的萨姆巴遂令举行对苏利耶的安立与奉祀。
Verse 49
उदयाचलमाश्रित्य यमुनायाश्च दक्षिणे ॥ मध्ये कालप्रियं देवं मध्याह्ने स्थाप्य चोत्तमम्
他依止于乌达耶阿遮罗(Udayācala),并在亚穆那河的南岸;于中央之处,在正午时分,安置那位至上、为时间秩序所亲爱的神祇。
Verse 50
मूलस्थानं ततः पश्चादस्तमानाचले रविम् ॥ स्थाप्य त्रिमूर्तिं साम्बस्तु प्रातर्मध्यापराह्णिकम्
随后,他在西方的落日之山安立罗毗为根本座;萨姆巴又设立三重形相,分别对应清晨、正午与午后。
Verse 51
मथुरायां तथा चैकें स्थाप्य साम्बो वसुन्धरे ॥ स्वनाम्ना स्थापयामास पुराणविधिना स्वयम्
同样地,噢大地女神瓦孙达罗,在摩图罗安置一处之后,萨姆巴亲自依循《往世书》的仪轨,以自己的名号建立之。
Verse 52
गच्छन्ति तत्पदं शान्तं सूर्यमण्डलभेदकम् ॥ एतत्ते कथितं देवि साम्बशापसमुद्भवम्
他们到达那安宁之境,被称为“穿透太阳之轮”;因此,女神啊,这由萨姆巴(Sāmba)之诅咒所生的缘起已向你宣说。
Verse 53
पापप्रशमनाख्यानं महापातक नाशनम्
此为能平息罪业之叙事,亦能摧灭重大罪过。
Verse 54
एवं साम्बपुरं नाम मथुरायां कुलेश्वरम् ॥ रथयात्रां तथा कृत्वा रविणा कथिता यदा
于是,在摩图罗(Mathurā)有一处名为萨姆巴城(Sāmbapura)之地,供奉库勒湿伐罗(Kuleśvara);当车乘巡行亦已举行之时,此事便由拉维(Ravi,太阳)宣说。
Verse 55
यावत्त स शब्दो भवति तावत्पुरुष उच्यते ॥ पुरुषश्चाविनाशी च कथ्यते शाश्वतोऽव्ययः
只要那“声/言”存在,便称之为“补卢沙”(puruṣa);而补卢沙被说为不坏者——常住、无衰、无变。
Verse 56
एकवासास्तथा गौरी श्यामा वा वरवर्णिनी ॥ मध्यं गता प्रगल्भा च वयोऽतीतास्तथा स्त्रियः
女子亦然:或仅着一衣;或白或黧,容色殊胜;处于中年而自信果敢;亦包括已越过青春之龄者。
Verse 57
कृष्णः शशाप साम्बं तु विरूपत्वं भविष्यति ॥ शापयुक्तः स साम्बस्तु कुष्ठयुक्तोऽभवत्क्षणात् ॥
于是克里希纳诅咒桑巴:“你将遭受形体残缺。”受诅咒所击,桑巴顷刻间染上麻风。
Verse 58
मथुरायां च मध्याह्ने मध्यन्दिन रवौ तथा ॥ अस्तङ्गते तथा देवं सद्यो राज्यफलं भवेत् ॥
在摩图罗,若于正午——太阳居于天顶之时——礼拜神祇,并同样于日落时礼拜,据说其果报立刻显现,堪比王权之果。
Verse 59
स्नात्वा मध्यन्दिनं दृष्ट्वा सर्वपापैः प्रमुच्यते ॥ उदयास्ते ततो देवः साम्बेन सहितो विराट् ॥
沐浴之后观瞻正午之日,便能解脱一切罪业。其后,那威严的神祇——与桑巴同在——被描述为升起与落下。
Verse 60
माघमासस्य सप्तम्यां दिव्यं साम्बपुरं नराः ॥ रथयात्रां प्रकुर्वन्ति सर्वद्वन्द्वविवर्जिताः ॥
在摩伽月第七日(saptamī),人们在神圣的桑巴普拉城举行战车巡行,远离一切争执与二元对立。
Varāha, continuing his didactic narration to Pṛthivī, introduces an episode from Kṛṣṇa’s Dvārakā life to illustrate how private misconduct becomes public disorder and how expiation is ritually engineered through Sūrya-centered discipline.
Nārada arrives at Dvārakā, is honored, and then privately warns Kṛṣṇa that Sāmba’s extraordinary beauty is provoking celestial women and generating rumor (pravāda) that threatens kula-stability; Kṛṣṇa publicly demonstrates the agitation and frames it as a social-ethical lesson on desire’s volatility and the impossibility of secrecy in such matters.
To arrest clan-damaging disgrace, Kṛṣṇa curses Sāmba with deformity and kuṣṭha (leprosy); Nārada then prescribes a structured prāyaścitta: systematic Sūrya worship synchronized to sunrise–noon–sunset and anchored in specific tīrthas (notably Mathurā and Kṛṣṇagaṅgā), culminating in Sāmba’s cure and the establishment of Sūrya icons and public rites.
Implied phala: Sūryārādhana performed at the prescribed times and tīrthas removes sin, restores bodily integrity, protects lineage reputation, and promotes terrestrial well-being; the Māgha-saptamī rathayātrā at Sāmbapura is presented as especially efficacious for purification and prosperity.
Dvārakā; Mathurā; Yamunā; Kṛṣṇagaṅgā (a named sacred watercourse); Pūrvācala (eastern mountain/horizon region associated with sunrise rites); Astamānācala (western/setting-horizon region); Sāmbapura (a Sūrya-related sacred settlement in/near Mathurā); Vaikuṇṭha (as a directional/locational marker for a tīrtha); Mādhyandinīyaka-tīrtha (a noon-rite sacred site).
The text frames uncontrolled desire and public rumor (pravāda) as socially corrosive forces that endanger household and lineage stability (kula). It presents restraint and corrective discipline as necessary for communal order, and positions prāyaścitta—here, regulated Sūrya worship—as a mechanism for restoring moral and bodily integrity after misconduct.
The narrative emphasizes diurnal markers—sunrise (udaya), noon (madhyāhna/madhyandina), and sunset (asta/astamaya)—as distinct ritual moments. It also specifies a calendrical observance: Māgha-māsa saptamī, on which a rathayātrā is performed at the divya Sāmbapura.
Although the episode is framed as personal and social correction, it links bodily purification, regulated daily rhythms, and tīrtha-centered water practice (snāna in Kṛṣṇagaṅgā) to the maintenance of dharmic order. In the Varāha–Pṛthivī pedagogical frame, such regulation functions as an early ‘ecology of conduct’: disciplined use of sacred landscapes and waters to stabilize community life that, by implication, supports Pṛthivī’s sustaining order.
Key figures include Kṛṣṇa and his son Sāmba (identified as Jāmbavatīsuta), the sage Nārada, and the solar deity Ravi/Sūrya. The chapter also references Dvaipāyana (Vyāsa) in connection with a cited śloka, and Yājñavalkya in relation to a noon-associated ritual context (mādhyandinīyaka), situating the narrative within recognizable Purāṇic and Vedic-sage lineages.
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free sign-in with Google or Apple keeps your chat saved across web and the app.
Read Varaha Purana in the Vedapath app
Scan the QR code to open this directly in the app, with word-by-word meanings, Sanskrit recitation where available, and more.