Adhyaya 176
Varaha PuranaAdhyaya 17693 Shlokas

Adhyaya 176: The Māhātmya of Kṛṣṇagaṅgodbhava, Kāliñjara, and the Five Sacred Baths: The Tale of Pāñcāla and Tilottamā

Kṛṣṇagaṅgodbhava–Kāliñjara–Pañcatīrtha-māhātmya (Pāñcāla–Tilottamā-upākhyāna)

Tīrtha-māhātmya (Pilgrimage Theology) and Ethical-Discourse (Transgression, Atonement, and Social Harm)

在伐罗诃与大地女神(Pṛthivī)的教诲框架中,本章以事例说明:世间圣地(tīrtha)如何成为修复伦理过失的工具。商人婆罗门青年般遮罗(Pāñcāla)来到摩图罗(Mathurā),反复在“黑河涌现圣浴处”Kṛṣṇagaṅgodbhava沐浴,外相得清净;但一旦不浴,隐秘罪业便以虫蛆显现。仙人苏曼图(Sumantu)见其污秽循环,追问缘由,遂得知他与亲妹提洛多摩(Tilottamā)有乱伦之行,被叙事视为毁坏家系、伤害社会。二人欲以自焚赎罪时,空中天声劝其改行非暴力的净化:勤修圣地供奉(tīrtha-sevā),并依“五圣浴”pañcatīrtha之规定,在特定月日(tithi)沐浴。伐罗诃最后强调:摩图罗之水与迦梨因阇罗(Kāliñjara)之圣德,能洗除道德污染,恢复社会与生态的秩序。

Primary Speakers

VarāhaPṛthivī

Key Concepts

tīrtha-māhātmya (sacred geography as moral remediation)prāyaścitta (atonement) versus deha-tyāga (self-destruction)agamyāgamana (incestuous transgression) and kula-nāśa (lineage/social collapse)ritual purity cycles (snāna producing visible/hidden transformations)pañcatīrtha and calendrical discipline (tithi-based observance)Earth-stewardship framing: waterscapes as restorative infrastructures for dharma

Shlokas in Adhyaya 176

Verse 1

श्रीवराह उवाच ॥ पञ्चानां तु कनिष्ठो यः पञ्चालो ब्राह्मणात्मजः ॥ वाणिज्यभाण्डमादाय समूहस्य प्रसङ्गतः

圣者婆罗诃说道:五兄弟之中,最年少者名为般遮罗,乃婆罗门之子;他携带货物,因缘际会而加入商旅之众。

Verse 2

सार्थेन निष्ठितः सोऽथ धनवान् रूपवांस्ततः ॥ क्रमेण ते सर्वदेशान् विषयान् पर्वतान् नदीः

随后他在商队中立足,遂致富且仪容俊美;不久他们遍历诸方:诸国土、群山与江河。

Verse 3

आक्रम्य तत्र सम्प्राप्ता यत्र सा मथुरा पुरी ॥ आवासं कारयामासुः प्रभूतयवसेन्धने

他们继续前行,抵达那座城——摩图罗;并备办住处,饲草与薪柴皆甚充足。

Verse 4

तस्मिन्स्थाने स पाञ्चालः प्रातस्तु पुरुषैः सह ॥ तस्मिंस्तीर्थवरे स्नाप्य वस्त्रालङ्कारभूषितः ॥ ऐश्वर्यमदभावेन यानेन महता तदा

在那地方,般遮罗清晨与随从同往,于殊胜的渡口圣地(tīrtha)沐浴;身着华服、佩饰庄严,而因不染富贵之傲,遂乘宏大的车舆而行。

Verse 5

कौतुकार्थं ततो गत्वा देवं गर्त्तेश्वरं तदा ॥ तिलोत्तमायास्तद्रूपं दृष्ट्वा मोहवशं गतः

随后他出于好奇前往,来到加尔特提湿伐罗(Gartteśvara)神前;见到提洛多摩(Tilottamā)的那般形相,便陷入迷惑之力。

Verse 6

धात्रेयिकायास्तस्याश्च बहुमानपुरःसरम् ॥ वस्त्राणि बद्धरूपाणि कटकानां शतानि च

他以恭敬为先,献给那位达特雷伊迦(Dhātreyikā)整饰精美的衣裳,并且还有成百的手镯。

Verse 7

हारा रत्नमयास्तद्वद्ददौ लोभविमोहितः ॥ ददावगुरुसारं च सकर्पूरं सचन्दनम्

同样地,他又献上宝石所制的项链;因贪欲而迷乱,他还奉上上等沉香精华,并配以龙脑香与檀香。

Verse 8

देवतादर्शनं कृत्वा दत्त्वा दानान्यनेकशः

既已瞻礼神明,又以种种方式施与众多供献,

Verse 9

तस्या गृहवरे तत्र वसति स्म दिनेदिने ॥ प्रहरार्धे दिने जाते ततः स्वशिबिरं ययौ

他在那里住在她那上好的宅邸中,日复一日;待白昼过了半个时段(prāhara)后,便前往自己的营地。

Verse 10

एवं तु कुर्वतस्तस्य मासषट्कं ततो गतम् ॥ अथैकदा समायातः स्नातुं तत्र सुमन्तुना ॥

他就这样持续行事,转眼六个月过去了。后来有一次,苏曼图来到那里沐浴。

Verse 11

स्वाश्रमस्थेन दृष्टः स कृमियुक्तः समागतः ॥ कृमयो रोमकूपेभ्यः पतमानाऽनेकशः ॥

住在自己精舍的人看见他:那人前来时满身虫蛆;虫子从皮肤的毛孔里成群坠落。

Verse 12

यावत्स्नानं स कुरुते पतते राशिमात्रकः ॥ स्नाने कृते नश्यति च सुरूपश्चाभिजायते ॥

只要他在沐浴,虫子便如堆积般坠落。沐浴完毕,它们便消失,他也变得容貌端正悦目。

Verse 13

एवं सुमन्तुना दृष्टमाश्चर्यं बहुवासरम् ॥ सुमन्तुस्तर्कयामास कोऽयं कस्यात्मजो युवा ॥

就这样,苏曼图多日目睹此奇事。随后他思量道:“这青年是谁?又是谁的儿子?”

Verse 14

इति चिन्तासमायुक्तस्तमपृच्छद्विशङ्कितः ॥ कस्त्वं कस्यासि सुभग का जातिः कश्च ते पिता ॥

他心怀忧虑与疑惑,便问道:“你是谁,吉祥之人?你隶属何处?你出身何等族类,你的父亲是谁?”

Verse 15

किं करोṣi दिवरात्रौ ब्रूहि त्वं पृच्छतो मम ॥ पाञ्चाल उवाच ॥ पाञ्चालो ब्राह्मणसुतो वाणिज्यं च समाश्रितः ॥

“你白昼与夜间做什么?请如实告诉我,我在询问你。”般遮罗说道:“我名般遮罗,是婆罗门之子,今依止商贸之业。”

Verse 16

दक्षिणापथदेशाच्च मथुरायां समागतः ॥ निशामुषित्वा शिबिरे प्रातस्तीर्थं समाश्रितः ॥

我自名为达克希那帕他(南道)之地来到摩图罗。夜宿营地之后,清晨便趋向圣地渡口(tīrtha)。

Verse 17

स्नात्वा महेश्वरं दृष्ट्वा त्रिगर्तेश्वरसंज्ञितम् ॥ कालिञ्जरं भवत्पादौ गच्छामि शिबिरं ततः ॥

沐浴之后,又瞻礼名为三伽尔提湿伐罗的摩诃伊湿伐罗;随后我前往迦林阇罗,至于你的圣足,之后再回营地。

Verse 18

सुमन्तुरुवाच ॥ आश्चर्यं तव देहेऽस्मिन्नित्यं पश्यामि निःसृतम् ॥ अस्नाते कृमिसंपूर्णं स्नाते निर्मलवर्चसम् ॥

苏曼图说道:“我常见你身上显出奇异之相:未沐浴时,遍满虫蠹;既沐浴后,则光彩清净。”

Verse 19

कालिञ्जरस्य संस्पर्शाच्छुद्धं देहं च दृश्यते ॥

因触及迦林阇罗,亦可见其身得以清净。

Verse 20

निरूप्य कथयास्माकं यत्ते प्रच्छन्नकिल्बिषम्

既已审察,请向我们说明:你所隐匿的罪过或过失究竟是什么?

Verse 21

तीर्थमाहात्म्याभवं च दृष्ट्वा पृच्छामि ते हितम् ॥ इति तस्य मुनेः श्रुत्वा त्रिकालज्ञस्य भाषितम्

又见圣地的威德似已衰减,我便询问对你有益之事。于是,听闻那位通达三时(过去、现在、未来)之牟尼所言……

Verse 22

किञ्चिन्नोवाच पृष्टोऽपि एवमेव गतः पुनः ॥ तस्यामासीत्तस एकान्ते तां तु पप्रच्छ सादरम्

纵被询问,她亦不答;他又如前般离去。随后在私下独处时,他留在她身旁,恭敬地询问她。

Verse 23

का त्वं कस्यासि सुभगे कश्च देशः प्रियंवदे ॥ किं तत्कारणमुद्दिश्य वसस्यत्र सुखं सदा

你是谁,福相的女子——你属何族何家?甜言者,你的国土在何处?又因何缘故常安乐地住在此地?

Verse 24

इति निर्बन्धतः पृष्टा किञ्चिन्नोवाच तं प्रति ॥ पुनःपुनश्च पप्रच्छ सा प्रोवाच न किञ्चन

她被再三逼问,却仍不向他作答;他一问再问,她终究一句也未说。

Verse 25

किञ्चित्कालं समास्थाय तेनोक्तं हि प्रियां प्रति ॥ त्यक्ष्यामि हि प्रियान्प्राणान्यदि सत्यं न वक्ष्यति

稍候片刻之后,他对心爱之人说道:“若你不说出真实之言,我必舍弃我珍贵的生命之息。”

Verse 26

निर्बन्धं तस्य तज्ज्ञात्वा दुःखेनोवाच तं प्रति ॥ पितरौ भ्रातरश्चेति देशं ज्ञातिं ततः कुलम्

明白了他的执拗,她悲伤地对他说道:(她叙述了)自己的父母与兄弟,继而又说到她的国土、亲族与家系。

Verse 27

पाञ्चालनगरी रम्या गङ्गायाश्चोत्तरे तटे ॥ तस्यां तौ पितरौ मह्यं वसतश्च यदृच्छया

在恒河(Gaṅgā)北岸,有一座美丽的城邑名为般遮罗(Pāñcāla)。我的双亲因缘际会,便居住在那里。

Verse 28

तस्मिन् स्थाने पितुर्मह्यं पञ्च पुत्रा मया सह ॥ जातास्तेषामहं षष्ठी कनिष्ठा विधवाऽभवम्

在那地方,我父亲与我一同生下了五个儿子。于他们之中,我为第六个——最年幼者——而后成了寡妇。

Verse 29

योऽसौ कनिष्ठको भ्राता मम ज्येष्ठश्च पञ्चमः ॥ बाल एव गतो देशं धनतृष्णाप्रलोभितः

我那最小的兄弟——在诸兄中为第五位——尚在童年便被对财富的渴求所诱惑,离乡前往他国。

Verse 30

तस्मिङ्गतेऽथ पितरौ कालधर्ममुपेयतुः ॥ तीर्थेऽस्मिन्नस्थिपातार्थमहं सार्थैः सहागता ॥

他离去之后,我的父母便遭遇时间之法(即逝世)。我与商旅队伍一同来到这处神圣的渡口,为的是安置并投放他们的遗骨(丧葬遗骸)。

Verse 31

अत्र स्नानपरा नित्यं देवब्राह्मणवन्दनम् ॥ कुर्वन्ती वशमापन्ना आसां यस्या ममेदृशम् ॥

在此处,我恒常专注于沐浴礼,并时常礼敬诸神与婆罗门;然而我仍落入他人控制之下,成了那些境况与我相似的女子之一。

Verse 32

नीता नरकमत्युग्रं मया पापिष्ठया भृशम् ॥ एवं सा तस्य तत्सर्वं कथयित्वा तिलोत्तमा ॥

因我这最为罪恶之人,她被重重驱入极其可怖的地狱。于是天女提洛多摩将这一切尽数告知于他后,又继续叙述。

Verse 33

रुरोद सुस्वरं दीना स्मृत्वा पूर्वं कुलं वरम् ॥ विलप्य बहुधा रात्रौ संस्मृत्य स्वं विचेष्टितम् ॥

她凄苦地以清亮之声哭泣,追忆往昔高贵的家族。整夜多次哀号,回想自己所作所为与诸般过失。

Verse 34

तस्याः विलपितं श्रुत्वा स्त्रीजनः स तदागतः ॥ सान्त्वयामास तां बालां कि भद्रे रुदितं तव ॥

众女听见她的哀泣,便来到那里。她们安慰那少女道:“善女啊,你为何哭泣?”

Verse 35

आश्रिता कुलटाधर्मं कुलनाशो मया कृतः ॥ कुलद्वये च पुरुषा एकविंशतिसंख्यया ॥

我依从了娼伎之行,亲手招致家族的覆灭。并且在两支族系中,男子共二十一人,皆受牵连。

Verse 36

एतच्छ्रुत्वा स पाञ्चाल्यो मूर्च्छितो धरणीं गतः ॥ ताः स्त्रियस्तां समाश्वास्य पाञ्चाल्यं परिवार्य च ॥

听到这些,那位般遮罗人昏厥倒地。那些女子先安慰了她,继而也围拢在那位般遮罗男子身旁。

Verse 37

ततस्तेन सवृत्तान्तं कथितं च कुलं महत् ॥ तिलोत्तमासहायानां स्त्रीणामग्रे सविस्तरम् ॥

随后,在提洛多摩的女伴们面前,他详尽叙述了全部经过,以及所牵涉的显赫家族。

Verse 38

ततः स विमना जातो अगम्यागमनेन च ॥ प्रायश्चित्ते मतिरभून्निर्विण्णस्य दुरात्मनः ॥

于是他因触犯不可触犯之事而心神沮丧。那失意而邪行之人的心,转向了赎罪之法(prāyaścitta)。

Verse 39

ब्रह्महा च सुरापश्च ब्राह्मणो यदि जायते ॥ प्रायश्चित्तं विनिर्दिष्टं मुनिभिर्देहनाशनम् ॥

若一位婆罗门竟成杀婆罗门者,又饮酒犯戒,诸牟尼所宣示的赎罪之法,乃是舍弃此身——以身灭为终的苦行。

Verse 40

मातरं गुरुपत्नीं च स्वसारं पुत्रिकां वधूम् ॥ गत्वा तु प्रविशेदग्निं नान्या शुद्धिर्विधीयते ॥

Having violated one’s mother, the preceptor’s wife, one’s sister, one’s daughter, or one’s daughter-in-law, one should go and enter fire; no other means of purification is prescribed.

Verse 41

ब्रह्मघ्नश्च सुरापश्च स्त्रीघ्नश्च गुरुतल्पगः ॥ अगम्यागमनं कृत्वा एषां स समतामियात् ॥

One who has intercourse with a forbidden woman becomes equal in status (of culpability) to a slayer of a brāhmaṇa, a drinker of intoxicants, a slayer of a woman, and one who violates the teacher’s bed.

Verse 42

इति श्रुत्वा तु पाञ्चाली ज्येष्ठभ्रातरमेव तम् ॥ द्विजेभ्यः प्रददौ सर्वमङ्गलग्नं विभूषणम् ॥

Having heard this, Pāñcālī (Draupadī) gave to the twice-born (brāhmaṇas) all the auspicious ornaments that were then upon her (worn at that auspicious time).

Verse 43

रत्नं वस्त्रं धनं धान्यं यत्किञ्चित्तत्र संस्थितम् ॥ तत्सर्वं ब्राह्मणेभ्यश्च दत्त्वाशेषं ददौ धनम् ॥

Whatever was present there—jewels, garments, wealth, grain, anything at all—having given all of that to the brāhmaṇas, she gave away the remaining wealth as well.

Verse 44

कालिञ्जरस्य भूषार्थमारामार्थं विशेषतः ॥ कृष्णगङ्गोद्भवे तीर्थे चितां कृत्वा विधानतः ॥

For the adornment of Kāliñjara, and especially for the establishment of a pleasure-grove (ārāma), at the sacred ford that arises from the Kṛṣṇagaṅgā, a funeral pyre was constructed according to prescribed procedure.

Verse 45

आत्मनश्च विशुद्ध्यर्थं प्रजज्वाल हुताशनम् ॥ इति निश्चित्य तत्रैव स्नात्वा देवं प्रणम्य च ॥

为求自身清净,她点燃圣火;既已如此决定,便就在彼处沐浴,并向神明顶礼。

Verse 46

मरणायोपयोग्यानि कृत्वा कर्माणि तत्र च ॥ माथुरान्स समाहूय दत्त्वा दानानि सर्वशः ॥

并且他在那里行了适用于临终之礼的诸般仪式;随后召集摩图罗人(Māthura),以各种方式广施赠与。

Verse 47

क्रीत्वा ग्रामांश्च तत्रैव ब्राह्मणेभ्यो ददौ तदा ॥ ईशावास्यं जपं दिव्यं जापकेभ्यः शृणोति च ॥

他购得诸村落,便在彼处将其施与婆罗门;并且也聆听由专门诵者所诵的《伊沙瓦西亚》(Īśāvāsya)之神圣持诵(japa)。

Verse 48

तेभ्योऽपि प्रददौ द्रव्यं सत्रार्थं च विभागशः ॥ और्ध्वदैहिकभागार्थं कल्पयित्वा यथाविधि ॥

他也赐予他们资财,按份分配以供萨特拉(satra,集体祭仪/施食)之用;并依仪轨妥善安排用于葬后仪式的那一份。

Verse 49

स्नात्वा तीर्थे च कृष्णस्य देवं दृष्ट्वा प्रणम्य च ॥ कालिञ्जरस्य पूजार्थं सत्रार्थं परिकल्प्य च ॥

他在黑天(Kṛṣṇa)的圣地(tīrtha)沐浴,瞻仰神明并顶礼之后,又筹备供品,以奉祀迦邻阇罗(Kāliñjara),并为萨特拉(satra)之用作安排。

Verse 50

देवालयं च तत्रैव कृत्वा सन्दिश्य सार्थकान् ॥ सुमन्तोः प्रवरस्याथ पादौ जग्राह धर्मवित् ॥

他就在那处建起一座神庙,并嘱咐商队首领诸事之后,那位守法之人便俯身执持卓越的苏曼图之足。

Verse 51

देव ज्ञानं च ते दिव्यमद्भुतं लोमहर्षणम् ॥ अगम्यागमनादेव पापं जातं मम प्रभो ॥

主啊,你的神圣智慧奇妙非凡,令人战栗生敬。然而,仅因我前往本不应接近之处,罪业便在我身上生起,噢主宰。

Verse 52

आगतोऽहं यदारभ्य मथुरायां ततो गुरो ॥ भगिन्या सह संयोगे जातोऽयं कुलनाशकः ॥

自我来到摩图罗以来,师长啊,由于与我姊妹的结合,便生出了这毁灭家族血脉者。

Verse 53

त्वया निर्मलदृष्ट्या च वीक्षितोऽहं पुरा मुने ॥ कृमयो मम गात्रात्तु निर्गच्छन्तो हि नित्यदा ॥

往昔,圣者啊,当你以清净之目观照我时,蛆虫便日日不断从我身躯中爬出。

Verse 54

कृष्णगङ्गाप्रभावेण पुनर्निर्मलतां गतम् ॥ तत्सर्वं हि त्वया दृष्टं पृष्टश्चाहं पुनः पुनः ॥

凭借黑恒河(Kṛṣṇa-Gaṅgā)的威力,我再次获得清净。那一切确由你亲见,而你也一再询问于我。

Verse 55

अनुज्ञां देहि भो स्वामिंस्तव पादौ नमाम्यहम् ॥ विश्राव्य तस्य तत्पापं चितां दीप्य घृतोक्षिताम् ॥

“请赐允准,尊主;我顶礼于您足下。”他宣告其罪后,点燃了以酥油洒净的火葬柴堆。

Verse 56

प्रवेष्टुकामं तत्राग्नौ खे प्रोवाचाशरीरिणी ॥ मैवं कार्षीः साहसं च विपाप्मानौ यतश्च वाम् ॥

当他欲投入那火时,空中有无形之声说道:“莫要如此鲁莽;因为你们二人已离罪垢。”

Verse 57

कस्माद्वा कस्य सन्त्रासान्मरणे कृतनिश्चयौ ॥ यत्र कृष्णस्य सञ्चारः क्रीडितं च यथासुखम् ॥

你们为何、又畏惧何人,竟决意赴死?此处乃黑天(Kṛṣṇa)往来游行、自在嬉戏之地。

Verse 58

चक्राङ्कितपदा तेन स्थानं ब्रह्मसमं शुभम् ॥ अन्यत्र हि कृतं पापं तीर्थमासाद्य गच्छति ॥

因其足迹带有神轮之印,那处圣地吉祥,等同于梵天之境。于他处所作之罪,至于圣地渡口(tīrtha)便得消散。

Verse 59

तीर्थे च यत्कृतं पापं वज्रलेपो भविष्यति ॥ द्वावेतौ च यथावश्यं गङ्गासागरसम्गमे ॥

然而,在圣地渡口(tīrtha)所造之罪,将如“金刚之覆层”般坚固难除。此二事在恒河与大海交汇处尤为确然。

Verse 60

सकृदेव नरः स्नात्वा मुच्यते ब्रह्महत्यया ॥ पृथिव्यां यानि तीर्थानि सर्वाण्येवाभिषेचनात् ॥

一人纵使仅沐浴一次,亦能解脱“杀婆罗门”之罪;由此神圣的沐浴灌顶之功德,仿佛遍摄大地上一切圣地渡口(tīrtha)。

Verse 61

तत्पञ्चतीर्थस्नानेन समं नास्त्यत्र संशयः ॥ एकादश्यां च विश्रान्तौ द्वादश्यां सौकरे तथा ॥

此处无有能与“Pañcatīrtha”之沐浴相等者,毫无疑问。于月相第十一日(ekādaśī)在Viśrānta处休憩并行浴,于第十二日(dvādaśī)亦当如是于Saukara。

Verse 62

त्रयोदश्यां नैमिषे च प्रयागे च चतुर्दशीम् ॥ कार्त्तिक्यां पुष्करे चैव कार्त्तिकस्य सितासिते ॥

第十三日(trayodaśī)当在Naimiṣa;第十四日(caturdaśī)当在Prayāga;又于Kārttika月亦可在Puṣkara——在Kārttika之白半月与黑半月期间。

Verse 63

कालेष्वेषु नरः स्नात्वा सर्वपापं व्यपोहति ॥ मथुरायां च तीर्थेभ्यो विश्रान्तः पञ्चतीर्थके ॥

于这些时日沐浴者,能除尽一切罪垢。又在Mathurā诸tīrtha之中,应于Pañcatīrtha范围内的Viśrānta处沐浴。

Verse 64

कृष्णगङ्गा दशगुणं लभते च दिनेदिने ॥ ज्ञातोऽज्ञातो वा अपि यत्पापं समुपार्जितम् ॥

在Kṛṣṇagaṅgā,此功德之果报日复一日增至十倍。无论明知或不知,凡所积聚的一切罪业——

Verse 65

सुकृतं दुष्कृतं चापि मथुरायां प्रणश्यति ॥ वराहेण पुरा चेदं पृथिव्यै कथितं शुभम् ॥

据说在摩图罗(Mathurā),善业与恶业也都会消融。往昔,野猪化身瓦拉哈(Varāha)曾向大地女神普利提维(Pṛthivī)宣说此吉祥之事。

Verse 66

तीर्थानां गुणमाहात्म्यं महापातकनाशनम् ॥ सर्वदेवमयो योऽसौ सर्ववेदमयस्तथा ॥

此乃诸圣地(tīrtha)的功德与盛名之伟大,能灭除重罪。彼实相含摄一切诸神,亦同样含摄一切吠陀。

Verse 67

अनन्तश्चाप्रमेयश्च यस्य चान्तो न विद्यते ॥ यस्य श्रोत्रैकदेशे तु आकाशो लेशमात्रकः ॥

彼者无量无边、不可度量,其终极不可得知。于其一耳之微分处,虚空本身也仅如一丝微尘。

Verse 68

विलीनो ज्ञायते नैव तस्य देवस्य का कथा ॥ तथा नयनयोः प्रान्ते तेजो लीनं न दृश्यते ॥

一旦融没,便全然不可知——又何况谈论那位神祇呢?同样地,在眼之边际,光明一经融没,亦不复可见。

Verse 69

निःश्वासे च विलीनोऽसौ वायुर्नष्टो न दृश्यते ॥ खुराग्रेषु तथा लीनाः समुद्राः सप्त च प्रभोः ॥

又于呼气之中,那风一经融没便不复可见,已然消失。亦复如是,在主之蹄尖处,七大海洋皆融摄其中。

Verse 70

दृश्यन्ते स्वेदसङ्काशा नाममात्रा यथा पुरा ॥ रोमकूपान्तरे लग्ना सशैलवनकानना

它们只被看作如汗迹般的痕印——仅以名相而存,如同往昔——黏附在(神圣之身的)毛孔之内,并连同其山岳、森林与林苑一并存在。

Verse 71

नष्टा पृथ्वी न लभ्येत तस्माद्देवात्तु कोऽधिकः ॥ सोऽत्र तीर्थपरित्राणं कुर्वन्देवः स्वयं प्रभुः

若大地失落,便不可复得;因此,谁还能超越那位神祇?在此,这位主宰——亲自为神——行护持诸圣地渡口(tīrtha)之事。

Verse 72

वराहः संस्थितः साक्षात्पुराणं येन सूचितम् ॥ पृथिव्याः सर्वसन्देहान् स्फोटयामास योऽव्ययः

婆罗诃(Varāha)亲自现前而立——此《往世书》(Purāṇa)由他所指示——他乃不坏者,粉碎了大地的一切疑惑。

Verse 73

नवम्यां ज्येष्ठ शुक्लस्य स्नात्वा गङ्गोदके नरः ॥ सूकरे तु त्रिरात्रं च मानवो दीपदः सकृत्

在耶湿吒月(Jyeṣṭha)白半第九日,人于恒河(Gaṅgā)水中沐浴后,在苏迦罗(Sūkara)应守持三夜之仪,并供奉一盏明灯一次。

Verse 74

दत्त्वा दानं यथाशक्ति सर्वपापैः प्रमुच्यते ॥ कालिञ्जरे च द्वादश्यां स्नात्वा सम्पूज्य देवताम्

依自身能力布施,则能解脱一切罪垢。又在迦林阇罗(Kāliñjara),于第十二日沐浴,并如法礼敬神祇……

Verse 75

द्वादशादित्यसङ्काशो विमाने च समास्थितः ॥ विष्णुना समनुज्ञातो विष्णुलोके महीयते

他光辉如十二轮太阳,安坐于天界飞车(vimāna)之上;蒙毗湿奴(Viṣṇu)许可,在毗湿奴之界中受尊崇。

Verse 76

वराह उवाच ॥ एवं सुखदशब्देन देववाण्या प्रचोदितः ॥ पाञ्चालसंज्ञकस्तत्र सुमन्तुं पर्यपृच्छत

野猪化身(Varāha)说道:就这样,在天启之声以悦耳言辞的催促下,那位名为般遮罗(Pāñcāla)者在那里询问苏曼图(Sumantu)。

Verse 77

अस्मद्गुरुः पिता त्वं च ब्रूहि किं करवाणि वै ॥ पावकालम्भनं मे स्यादुताहो तीर्थसेवनम्

你既是我的师长,也是我的父亲;请告诉我我当作何事。是应修持火行之戒,还是应当奉事诸圣地(tīrtha)?

Verse 78

त्रिरात्रं कृच्छ्रपाराक चान्द्रायणमथापि वा ॥ तव पादाङ्किते वापि स्थित्वा मोक्षमवाप्नुयाम्

是应行三夜之苦行,或严厉的kṛcchra-pārāka,乃至cāndrāyaṇa月行之戒?抑或住于印有你足迹之处,我便能得解脱(mokṣa)?

Verse 79

आकाशभारती यत्तु तत्सत्यं नानृतं क्वचित् ॥ मया प्रत्यक्षतः पूर्वं तव गात्रेषु पातकम्

然而,虚空之声所言皆为真实,绝无虚妄。我先前亲眼见到,你的肢体之上确有罪垢。

Verse 80

दिनेदिने च स्नानात्प्राक् प्रतिगच्छति नित्यशः ॥ आश्रमे त्वं स्थितश्चात्र निर्मलश्च शशी यथा ॥

日复一日,他总在沐浴之时之前离去。然而你住在此道场(阿湿罗摩)中,依然清净,如同明月。

Verse 81

तिष्ठोपरमितः पापाद्यावৎकालं च जीवसि ॥ इयं तु भगिनी पापादुपावृत्ता सती परम् ॥

当你活着之时,当坚定不移,止息诸罪。然而这位姊妹虽具德行,却是历经艰难才从罪中回转。

Verse 82

कृष्णगङ्गोद्भवस्यापि तथा कालिञ्जरस्य च ॥ सूकरस्य च माहात्म्यं यथा ते वर्णितं पुरा ॥

Kṛṣṇagaṅgā-udbhava 的伟大,以及 Kāliñjara 的伟大,又有 Śūkara 的伟大——正如先前已向你宣说的那样。

Verse 83

यः शृणोति वरारोहे श्रद्धया परया युतः ॥ पठति प्रातरेवापि न स पापेन लिप्यते ॥

美髋者啊,凡以至上信心聆听此者——或清晨诵读者——皆不为罪所染。

Verse 84

सप्तजन्मकृतं पापं तस्य सर्वं व्यपोहति ॥ फलं च गोशतस्यापि दत्तस्य समवाप्नुयात् ॥ अमृतत्वं च लभते स्वर्गलोकं च गच्छति ॥

它能除去七生所积一切罪业。他亦得如施舍百牛之果报;并获得不死之境,往生天界。

Verse 85

स्नात्वा तीर्थे समीपे च कृष्णगङ्गोद्भवे सदा ॥ एवं नित्यं प्रसक्तो हि करोति द्रव्यगर्वितः ॥

他在圣渡口沐浴,又常在名为“克里希纳恒河出源”(Kṛṣṇagaṅgā-udbhava)之地附近沐浴;如此日日执著于此等行持,因财富而自负,遂有所作为。

Verse 86

अस्ति किञ्चिन्महत्पापं तव प्रच्छन्नसम्भवम् ॥ अस्यां तीर्थप्रभावेण स्नानाद्गच्छति दूरतः ॥

你有一桩大罪,起于隐秘之因;凭此圣地(tīrtha)的威力,只要沐浴,它便远远离去。

Verse 87

दुर्भिक्षपीडिते राष्ट्रे गतौ तौ दक्षिणापथम् ॥ नर्मदादक्षिणे कूले ब्राह्मणानां पुरोत्तमे ॥

当国土遭饥荒所困时,他们二人前往南方大道(Dakṣiṇāpatha),到那尔摩陀河(Narmadā)南岸的一处最为卓越的婆罗门聚落。

Verse 88

तैस्तै रुपायैर्विविधैर्जीवयित्वा च तं नरम् ॥ लब्धप्राणं तु तं दृष्ट्वा पप्रच्छुर्मोहकारणम् ॥

他们以种种方法使那人苏醒复生;见他气息复归,便询问他迷乱的缘由。

Verse 89

पाञ्चालोऽपि विधानॆन नमस्कृत्य मुनिं गुरुम् ॥ सुमन्तुं च महाभागमुपविश्याग्रतश्च सः ॥

般遮罗(Pāñcāla)亦依仪轨向牟尼圣者——其师——以及吉祥的苏曼图(Sumantu)顶礼;随后在他面前坐下。

Verse 90

तत्सत्यं मम सञ्जातमगम्यागमपातकम् ॥ तत्पापस्य विशुद्ध्यर्थं देहत्यागं करोमि वै ॥

此事确已应验于我:由非法亲近所生之罪。为求净除此过,我确将舍弃此身。

Verse 91

असिकुण्डे सरस्वत्यां तथा कालिञ्जरस्य च ॥ पञ्चतीर्थाभिषेकाच्च यत्फलं लभते नरः ॥

凡人于阿私昆陀沐浴、于萨拉斯瓦蒂河沐浴,亦于迦邻阇罗沐浴,并在“五圣渡处”行灌沐之礼所获之果报——

Verse 92

तस्य सन्दर्शनादेव सर्वपापविवर्जितः ॥ तत्क्षणादेव जायेत नात्र कार्याविचारणा ॥

但仅一见之,即于当下刹那远离一切罪垢;于此无须再作思量。

Verse 93

सगतिश्च विपापा च भविष्यति न संशयः ॥ श्रीवराह उवाच ॥ एवं प्रभावस्तीर्थस्य मथुरायां वसुन्धरे ॥

必得善趣,亦复离罪,无有疑也。圣瓦拉哈言:大地女神瓦孙达罗啊,摩图罗之圣渡处具如是威力。

Frequently Asked Questions

The chapter contrasts violent expiation (deha-tyāga through entering fire) with non-violent remediation through tīrtha-sevā and regulated ritual practice. It frames moral injury (pāpa) as socially and bodily consequential (kula-nāśa, visible impurity) while presenting sacred waters and disciplined observance as mechanisms for restoration, guided by sagely inquiry (Sumantu) and corrective instruction (the aerial voice, then Varāha’s concluding framing).

The text specifies calendrical observances tied to lunar days and months: ekādaśī and dvādaśī are highlighted in relation to resting/bathing sequences; navamī in the bright half of Jyeṣṭha (jyeṣṭha-śukla-navamī) is named for Gaṅgā bathing; dvādaśī is also specified for bathing and worship at Kāliñjara; Kārttika month observances are mentioned (kārttikasya sitāsite), alongside comparative references to Naimiṣa, Prayāga, and Puṣkara timings.

Within Varāha’s Earth-oriented discourse, tīrthas are treated as terrestrial infrastructures that absorb, transform, and neutralize human moral pollution, thereby stabilizing dharmic order on Pṛthivī. The narrative links water-based sites (Kṛṣṇagaṅgodbhava, pañcatīrtha, Gaṅgā contexts) and landscape shrines (Kāliñjara, Trigarteśvara) to purification processes that prevent further social harm, implying an early model where maintaining sacred waterscapes supports communal and ethical equilibrium.

The narrative references Pāñcāla (a brāhmaṇa’s son engaged in trade), his sister Tilottamā (presented here as a woman whose past conduct caused social damage), and the sage Sumantu as the key diagnostic authority. It also names deities and cult-sites (Mahādeva as Trigarteśvara; Viṣṇu/Varāha) and invokes broader pilgrimage geographies (Naimiṣa, Prayāga, Puṣkara, Gaṅgā–Sāgara) as culturally recognized nodes rather than dynastic royal genealogies.