Nirvana
अथ निर्वाणोपनिषदं व्याख्यास्यामः । परमहंसः सोऽहम् । परिव्राजकाः पश्चिमलिङ्गाः । मन्मथः क्षेत्रपालः । गगनसिद्धान्तः अमृतकल्लोलनदी । अक्षयं निरञ्जनम् । निःसंशय ऋषिः । निर्वाणो देवता । निष्कुलप्रवृत्तिः । निष्केवलज्ञानम् ॥१-११॥
अथ । निर्वाण-उपनिषदम् । व्याख्यास्यामः । परमहंसः । सः । अहम् । परिव्राजकाः । पश्चिम-लिङ्गाः । मन्मथः । क्षेत्र-पालः । गगन-सिद्धान्तः । अमृत-कल्लोल-नदी । अक्षयम् । निरञ्जनम् । निःसंशयः । ऋषिः । निर्वाणः । देवता । निष्कुल-प्रवृत्तिः । निष्केवल-ज्ञानम् ॥
atha nirvāṇopaniṣadaṃ vyākhyāsyāmaḥ | paramahaṃsaḥ so’ham | parivrājakāḥ paścimaliṅgāḥ | manmathaḥ kṣetrapālaḥ | gaganasiddhāntaḥ amṛtakallolanadī | akṣayaṃ nirañjanam | niḥsaṃśaya ṛṣiḥ | nirvāṇo devatā | niṣkulapravṛttiḥ | niṣkevalajñānam ||1-11||
今当宣说《涅槃奥义书》:“我即大天鹅(Paramahaṃsa)。”云游出家者(parivrājaka)为“西方之相”(liṅga)。摩摩他(Manmatha)为圣域守护者。其教义为“虚空之定论”;其河为“甘露波涌之河”。(所趣)为不坏、无垢。其圣仙(ṛṣi)名“离疑”。其神祇为涅槃。其行持为“无族无系”。其智为“绝对不二之智”。
Now we shall expound the Nirvāṇa Upaniṣad. “I am the Paramahaṃsa.” The wandering renunciants are the ‘western marks (liṅgas)’. Manmatha is the guardian of the sacred precinct. The doctrine is the ‘conclusion of the sky’; the river is the ‘nectar-river with waves’. (The goal is) the imperishable, the stainless. The seer is ‘Free-from-doubt’. The deity is Nirvāṇa. The activity is ‘without clan/lineage’. The knowledge is ‘non-dual, absolute knowledge’.