Adhyaya 30
Kashi KhandaPurva ArdhaAdhyaya 30

Adhyaya 30

本章中,司建陀对阿迦斯提亚开示,阐明跋耆罗陀为三界安乐而迎请恒河降世之功,最终使恒河与迦尸之摩尼迦耳尼迦圣地相系。经文进一步彰显“不离处”(Avimukta)之神学:迦尸为湿婆永不舍离之地,是至上的救度田;即便不依通常的哲学修持体系,亦可凭湿婆的慈恩与临终所授“度脱真言”(tāraka)而得解脱。 随后说明圣域的护持地理与受规制的入境。诸天建立守护机构,并以阿西河与伐罗那河为界,由此得名“伐罗那西”。湿婆又任命诸护门者(含毗那夜迦)掌管出入;未获毗湿韦湿瓦(Viśveśa)许可者,被说为既不能久住,亦不得圣域之果。 文中嵌入譬喻:商人达那阇耶孝敬其母,携运母亲遗骨;因挑夫盗取等一连串事件,并以“未经许可的迁动”为主题,显示圣域之果取决于正当获准的进入与端正的心向。末段长篇赞颂伐罗那西无与伦比的救度地位,宣称诸类众生若于彼处命终,皆在湿婆摄护之下得至殊胜归趣。

Shlokas

Verse 1

स्कंद उवाच । शृण्वगस्त्यमहाभाग स च राजा भगीरथः । आराध्य श्रीमहादेवमुद्दिधीर्षुः पितामहान्

斯坎达说道:听着,福德深厚的阿伽斯提耶啊。那位国王薄伽罗他(Bhagīratha),为救度祖先,礼敬供奉光辉的摩诃提婆(Mahādeva)。

Verse 2

ब्रह्मशाप विनिर्दग्धान्सर्वान्राजर्षिसत्तमः । महता तपसा भूमिमानिनाय त्रिवर्त्मगाम्

那位最胜的王仙,以广大苦行之力,为了救济一切被梵天(Brahmā)诅咒所灼者,使行于三途的(恒河)降临大地。

Verse 3

त्रयाणामपि लोकानां हिताय महते नृपः । समानैषीत्ततो गंगां यत्रासीन्मणिकर्णिका

为三界的广大安乐,国王随后将恒河引至摩尼迦耳尼迦(Maṇikarṇikā)所在之处。

Verse 4

आनंदकाननं शंभोश्चक्रपुष्करिणी हरेः । परब्रह्मैकसुक्षेत्रं लीलामोक्षसमर्पकम्

此乃商婆(Śambhu)之欢喜林(Ānandakānana);此乃诃利(Hari)之轮池(Cakrapuṣkariṇī);亦是至上梵(Parabrahman)唯一殊胜的圣域,作为神圣戏游而赐予解脱。

Verse 5

प्रापयामास तां गंगां दैलीपिः पुरतश्चरन् । निर्वाणकाशनाद्यत्र काशीति प्रथिता पुरी

达伊利毗走在她前方,引领圣洁的恒河来到此城——此处因能照耀涅槃之道,故此城闻名为“迦尸(Kāśī)”。

Verse 6

अविमुक्तं महाक्षेत्रं न मुक्तं शंभुना क्वचित । प्रागेव हि मुनेऽनर्घ्यं जात्यं जांबूनदं स्वयम्

圣者啊,阿毗穆克塔(Avimukta)是至大的圣域(kṣetra),商布(湿婆)从不在任何时候舍离。它本自无价,犹如纯净天然的阎浮那陀金(Jāmbūnada)。

Verse 7

पुनर्वारितरेणापि हीरेणयदि संगतम् । चक्रपुष्करणीतीर्थं प्रागेव श्रेयसांपदम्

纵使与千锤百炼的金刚石相合,轮莲池圣渡(Cakrapuṣkaraṇī Tīrtha)自始即为吉祥与至善之所归。

Verse 8

ततः श्रेष्ठतरं शंभोर्मणिश्रवणभूषणात् । आनंदकानने तस्मिन्नविमुक्ते शिवालये

比商布那镶宝耳饰更为殊胜的,是那湿婆之居——阿毗穆克塔(Avimukta)——坐落在喜乐之林阿难陀迦那那(Ānandakānana)之中。

Verse 9

प्रागेव मुक्तिः संसिद्धा गंगासंगात्ततोधिका । यदा प्रभृति सा गंगा मणिकर्ण्यां समागता

彼处解脱本已圆满成就;然而自恒河来到摩尼迦尔尼(Māṇikarṇī)以来,因与恒河相合,其功德更为增上。

Verse 10

तदाप्रभृति तत्क्षेत्रं दुष्प्रापं त्रिदशैरपि । कृत्वा कर्माण्यनेकानि कल्याणानीतराणि वा

自那时起,那片神圣的圣域便连诸天也难以企及;纵使众生造作无量诸业,或吉祥或不吉祥。

Verse 11

तानि क्षणात्समुत्क्षिप्य काशीसंस्थोऽमृतोभवेत् । तस्यां वेदांतवेद्यस्य निदिध्यासनतो विना

刹那间抛却那些(业负),安住于迦尸者便得不死。在那里,即使不作对吠檀多所证之“一者”的深观(尼迪迪亚萨那)……

Verse 12

विना सांख्येन योगेन काश्यां संस्थोऽमृतो भवेत् । कर्मनिर्मूलनवता विना ज्ञानेन कुंभज

即使不依数论(Sāṅkhya)与瑜伽(Yoga),安住于迦尸者亦得不死。噢,壶生者(库姆巴迦,阿迦斯提耶),即使没有那能根除业的智慧……

Verse 13

शशिमौलिप्रसादेन काशीसंस्थोऽमृतो भवेत् । यत्नतोऽयत्नतो वापि कालात्त्यक्त्वा कलेवरम्

蒙月冠之主(湿婆)慈恩,安住于迦尸者得不死——无论努力与否,于命定之时舍离此身。

Verse 14

तारकस्योपदेशेन काशीसंस्थोऽमृतो भवेत् । अनेकजन्मसंसिद्धैर्बद्धोऽपि प्राकृतैर्गुणैः

凭借塔罗迦(Tāraka)之教诲,安住于迦尸者得不死——纵然被多生累积而坚固的自然三德(guṇa)所系缚。

Verse 16

देहत्यागोऽत्र वै योगः काश्यां निर्वाणसौख्यकृत् । प्राप्योत्तरवहां काश्यामतिदुष्कृतवानपि

在此,确然所谓“瑜伽”即是舍弃此身;于迦尸(Kāśī)能成就涅槃之乐。即便背负极重恶业之人,一旦抵达北流恒河所润泽的迦尸……

Verse 17

यायात्स्वं हेलया त्यक्त्वा तद्विष्णोः परमं पदम् । यमेंद्राग्निमुखा देवा दृष्ट्वा मुक्तिपथोन्मुखान्

他们把自己的居处如同微不足道之物般抛下,疾趋向毗湿奴(Viṣṇu)那至上的境地。见众生转向解脱之道,阎摩、因陀罗、阿耆尼等诸天便警觉守护。

Verse 18

सर्वान्सर्वे समालोक्य रक्षां चक्रुः पुरापुरः । असिं महासिरूपां च पाप्यसन्मतिखंडनीम्

诸神遍观一切,于城城之前设下守护。又安立一柄宝剑——如巨刃之形——其职能在于斩断罪垢与邪曲之见。

Verse 19

दुष्टप्रवेशं धुन्वानां धुनीं देवा विनिर्ममुः । वरणां च व्यधुस्तत्र क्षेत्रविघ्ननिवारिणीम्

诸天造作一条圣流,能震荡并驱逐恶人之入侵。又于彼处安立瓦拉那河(Varaṇā),以除去危害圣域(kṣetra)之诸障。

Verse 20

दुर्वृत्तसुप्रवृत्तेश्च निवृत्तिकरणीं सुराः । दक्षिणोत्तरदिग्भागे कृत्वाऽसिं वरणां सुराः

为令众生得以自制——使恶行退转、令善心趋进——诸天设立此等威力。于南北两方,他们安置阿西(Asi)与瓦拉那(Varaṇā)。

Verse 21

क्षेत्रस्य मोक्षनिक्षेप रक्षां निर्वृतिमाप्नुयुः । क्षेत्रस्य पश्चाद्दिग्भागे तं देहलिविनायकम्

于是他们守护此圣域(kṣetra)——解脱之所寄——而得安乐;又在圣地西方安置了“门槛毗那夜迦”(Dehalī‑Vināyaka),即守门之伽内沙。

Verse 22

स्वयं व्यापारयामास रक्षार्थं शशिशेखरः । अनुज्ञातप्रवेशानां विश्वेशेन कृपावता

月冠之主(Śaśiśekhara,湿婆)亲自承担守护之任,使得蒙慈悲的毗湿韦湿(Viśveśa)准许入内者皆得护佑。

Verse 23

ते प्रवेशं प्रयच्छंति नान्येषां हि कदाचन । इत्यर्थे कथयिष्येऽहमितिहासं पुरातनम् । आश्चर्यकारिपरमं काशीभक्तिप्रवर्धनम्

他们赐予入门之权,绝不在任何时候给予他人。为阐明此意,我将讲述一则古老传说,至为奇妙,能增长对迦尸(Kāśī)的虔敬。

Verse 24

स्कंद उवाच । दक्षिणाब्धितटे कश्चित्सेतुबंधसमीपतः । वणिग्धनंजयो नाम मातृभक्तिसमन्वितः

斯坎达说道:在南海之滨、塞图班达(Setubandha)附近,住着一位商人,名叫檀那姆阇耶(Dhanaṃjaya),具足孝敬母亲的虔心。

Verse 25

पुण्यमार्गार्जित धनो धनतोषितमार्गणः । मार्गणस्फारितयशा यशोदातनयार्चकः

他的财富由正道积得;以其资财使求乞者心满意足。因布施而名声远播,并且他礼敬耶输陀之子(克里希纳,Kṛṣṇa)。

Verse 26

समुन्नतोपि संपत्त्या विनयानतकंधरः । आकरोपि गुणानां हि गुणिष्वाकारगोपकः

虽因富贵而显达,他却以谦卑俯首。虽为德行之宝藏,他仍在诸贤之中隐其光华。

Verse 27

रूपसंपदुदारोपि परदारपराङ्मुखः । ससंपूर्णकलोप्यासीन्निष्कलंकोदयः सदा

虽具俊美之形与高贵之富,他常常背离他人之妻。虽通达诸艺,他的行止却恒常清净无垢。

Verse 28

ससत्यानृतवृत्तिश्च प्रायः सत्यप्रियो मुने । वर्णेतरोप्यभूल्लोके सुवर्णकृतवर्णनः

他行于真与伪之间,然多半时候,哦牟尼,他爱慕真实。虽生于诸种姓之外,却在世间以“造金者”闻名——铸就辉煌名声之人。

Verse 29

सदाचरणगोप्येष सुखयानचरः कृती । अदरिद्रोपि मेधावी सोभूत्पापदरिद्रधीः

他的过失藏在善行的外衣之下;他安逸而行,能干而有成。虽不贫于财物,亦具聪慧,却因罪业而成“心智之贫”。

Verse 30

तस्यैवं वर्तमानस्य कदाचित्कालपर्ययात् । जननी निधनं प्राप्ता व्याधिताऽतिजरातुरा

当他如此度日之时,某一日——因时运流转——其母罹病缠身,极度衰老困顿,遂至命终。

Verse 31

तया च यौवनं प्राप्य मेघच्छायातिचंचलम् । प्रावृण्नदीपूरसमं स्वपतिः परिवंचितः

她既得青春——如云影般飘忽不定,如雨季江河般汹涌——便欺诳了自己的夫君。

Verse 32

दिन त्रिचतुरस्थायि या नारी प्राप्य यौवनम् । भर्तारं वंचयेन्मोहात्साऽक्षयं नरकं व्रजेत्

女子得了青春——仿佛只停留三四日——若因迷妄而欺骗夫君,必堕入无尽地狱。

Verse 33

शीलभंगेन नारीणां भर्ताधर्मपरोपि हि । पतेद्दुःखार्जितात्स्वर्गाच्छीलं रक्ष्यं ततः स्त्रिया

因女子失守贞德,纵其夫专心奉持法(dharma),亦可能从辛苦所获之天界坠落;故女子当护持其德行。

Verse 34

विष्ठागर्ते च निरये स्वयं पतति दुर्मतिः । आभूतसंप्लवं यावत्ततः स्याद्ग्रामसूकरी

那心怀恶念者自投粪秽坑狱之地狱;直至宇宙大劫坏灭,随后转为村中母猪。

Verse 35

स्वविष्ठापायिनी चाथ वल्गुली वृक्षलंबिनी । उलूकी वा दिवांधा स्याद्वृक्षकोटरवासिनी

继而她化为啖食自身秽物者;或为倒悬林木之蝙蝠;或为昼盲之鸮,栖居树洞之中。

Verse 36

रक्षणीयं महायत्नादिदं सुकृतभाजनम् । वपुः परस्य दुःस्पर्शात्सुखाभासात्मकात्स्त्रिया

此身乃积德之器,当以大力护持,远离他人妻子那有害的触碰;其所谓欢愉,不过是幸福的幻影。

Verse 37

अनेनैव शरीरेण भर्तृसाद्विहितेन हि । किं सती न च तस्तंभ भानुमुद्यंतमाज्ञया

正以此身——因夫之苦而羸弱——那贞洁之妇岂不凭其命令,竟使初升之日停驻不前?

Verse 38

अत्रिपत्न्यनसूया किं भर्तृभक्तिप्रभावतः । दधार न त्रयीं गर्भे पतिव्रत परायणा

阿底利之妻阿那苏雅,专一奉持夫誓(pativratā),岂不凭对夫的虔敬之力,于胎中承持“三重吠陀”?

Verse 39

इह कीर्तिश्च विपुला स्वर्गेवासस्तथाऽक्षयः । पातिव्रत्यात्स्त्रिया लभ्यं सखित्वं च श्रिया सह

女子之夫誓德(pativratā)能生此世广大名声,亦得天界不坏之居处,乃至与吉祥天女室利(Śrī,福德)为伴。

Verse 40

सादुर्वृत्त्या परित्यज्य पतिधर्मं सनातनम् । स्वच्छंदचारिणी भूत्वामृतानिरयमुद्ययौ

然彼女以恶行弃舍对夫之永恒本分,放纵随心而行,死后堕入地狱而去。

Verse 41

धनंजयोपि च मुने केनचिच्छिवयोगिना । सार्धं तपोदयादित्थं सोऽभवद्धर्मतत्परः

圣者啊,檀那ṃ阇耶亦因亲近某位湿婆瑜伽行者,并由苦行之力兴起,于是成为专注于达摩之人。

Verse 42

धनंजयोपि धर्मात्मा मातृभक्तिपरायणः । आदायास्थीन्यथो मातुर्गंगा मार्गस्थितोऽभवत्

檀那ṃ阇耶亦复如是:其心正直,至诚孝敬其母;遂捧起母亲遗骨,踏上通往恒河之路。

Verse 43

पंचगव्येन संस्नाप्य ततः पंचामृतेन वै । यक्षकर्दमलेपेन लिप्त्वा पुष्पैः प्रपूज्य च

他先以五牛圣物(pañcagavya)为之沐洗,继而确以五甘露(pañcāmṛta)再浴;又以夜叉泥膏(yakṣa-kardama)涂抹,并以花供奉礼拜。

Verse 44

आवेष्ट्य नेत्रवस्त्रेण ततः पट्टांबरेण वै । ततः सुरसवस्त्रेण ततो मांजिष्ठवाससा

他先以细净之布裹之,继而确以丝衣包覆;再以芬芳之布覆裹,随后又以茜草(mañjiṣṭhā)染成之衣布包裹。

Verse 45

नेपालकंबलेनाथ मृदाचाऽथ विशुद्धया । ताम्रसंपुटके कृत्वा मातुरंगान्यहो वणिक्

随后,他以尼泊尔羊毛毯并以净洁之泥土相护,将母亲遗骸安置于铜匣之中——唉,那位商人啊!

Verse 46

अस्पृष्टहीनजातिः स शुचिष्मान्स्थंडिलेशयः । आनयञ्ज्वरितोप्यासीन्मध्ये मार्गं धनंजयः

虽出身卑微,被视为“不可触者”,他却清净自持,卧于裸地;即使身染热病,檀那阇耶仍在道路中央继续搬运(遗骸)。

Verse 47

भारवाहः कृतस्तेन कश्चिद्दत्त्वोचितां भृतिम् । किं बहूक्तेन घटज काशी प्राप्ताऽथ तेन वै

他雇了一人作脚夫,并付以相称的工钱。还需多言吗,壶生者(阿伽斯提耶)啊?不久他确实抵达了迦尸。

Verse 48

धृत्वा संभृतिरक्षार्थं भारवाहं धनंजयः । जगामापणमानेतुं किंचिद्वस्त्वशनादिकम्

为守护所积存的物品,檀那阇耶令脚夫留守看护,自己前往市集购取些许东西——食物等物。

Verse 49

भारवाह्यंतरं प्राप्य तस्य संभृतिमध्यतः । ताम्रसंपुटमादाय धनं ज्ञात्वा गृहं ययौ

他进入脚夫的住处,从那堆储物之中取出一只铜匣;知其内有钱财,便回到家中。

Verse 50

वासस्थानमथागत्य तमदृष्ट्वा धनंजयः । त्वरावान्संभृतिं वीक्ष्य ताम्रसंपुटवर्जिताम्

檀那阇耶回到住处不见其人,便急忙查看所存之物,发现那只铜匣已然不在。

Verse 51

हाहेत्याताड्य हृदयं चक्रंद बहुशो भृशम् । इतस्ततस्तमालोक्य गतस्तदनुसारतः

他呼喊“哀哉!”,捶击自己的胸膛,悲恸地一再哭泣。又四下张望,随即循着他的踪迹追随而去。

Verse 52

अकृत्वा जाह्नवीस्नानमनवेक्ष्य जगत्पतिम् । तस्य संवसथं प्राप्तो भारवोढुर्धनंजयः

他既未在阇诃那毗河(恒河)行圣浴,也未得瞻仰世间之主;负重者檀那阇耶便回到了自己的住处。

Verse 53

भारवाडप्यरण्यान्यां ताम्रसंपुटमध्यतः । दृष्ट्वास्थीनि विनिःश्वस्य तानि त्यक्त्वा गृहं ययौ

在林中,那搬运者也打开铜匣,见其中竟是白骨。长叹一声后,他将其弃置,便回家去了。

Verse 54

वणिक्च तद्गृहं प्राप्य शुष्ककंठोष्ठतालुकः । दृष्ट्वाऽथ चैलशकलं तृणकुट्यंतरे तदा

那商人来到那屋前,喉咙、嘴唇与上腭尽皆干渴;这时他看见草庵之内有一块布片。

Verse 55

आशया किंचिदाश्वस्य तत्पत्नीं परिपृष्टवान् । सत्यं ब्रूहि न भेतव्यं दास्याम्यन्यदपि ध्रुवम्

他怀着一线希望,稍加安慰后便问那人的妻子:“如实说来,不必畏惧;我必定还会另赐你一些。”

Verse 56

वसु क्व ते गतो भर्ता मातुरस्थीनिमेऽर्पय । वयं कार्पटिका भद्रे भवामो न च दुःखदाः

“你的丈夫带着财物去了哪里?把你母亲的遗骨交给我。善良的夫人,我们只是衣衫褴褛的穷人,并非作恶害人的人。”

Verse 57

अज्ञात्वा लोभवशतस्तेन नीतोऽस्थिसंपुटः । तस्यैष दोषो नो भद्रे मातुर्मे कर्म तादृशम्

“他不知其真相,却被贪欲驱使,带走了那装骨的匣子。过错只在他,善良的夫人;不在我母亲,她的作为并非如此。”

Verse 58

अथवा न प्रसू दोषो मंदभाग्योऽस्मि तत्सुतः । सुतेनकृत्यं यत्कृत्यं तत्प्राप्तिर्नास्ति भिल्लि मे

“或者母亲全无过失;我——她的儿子——才是命薄之人。儿子应尽之责,我未能成就,噢,毗梨(Bhillī)。”

Verse 59

उद्यमं कृतवानस्मि न सिद्ध्येन्मंदभाग्यतः । आयातु सत्यवाक्यान्मे मा बिभेतु वनेचरः

“我已竭力而为,却因命薄未能成功。愿凭我真实之言的威力,使那林中之人归来;愿他不惧于我。”

Verse 60

अस्थीनि दर्शयत्वाशु धनं दास्येऽधिकं ततः । इत्युक्ता तेन सा भिल्ली व्याजहार निजं पतिम्

“快把遗骨给我看;随后我还要给你更多财物。”他如此说道,那位毗梨便对自己的丈夫开口。

Verse 61

लज्जानम्रशिराःसोऽथ वृत्तांतं विनिवेद्य च । निनाय तामरण्यानीं शबरस्तं धनंजयम्

于是他羞愧地低下头,禀告了经过,便由那位舍婆罗(猎人/山林部族之人)带领,将檀那ṃ阇耶引入荒林深处。

Verse 62

वनेचरोऽथ तत्स्थानं दैवाद्विस्मृतवान्मुने । दिग्भ्रांतिं समवाप्याथ परिबभ्राम कानने

随后那林中行者,因命运使然,竟忘却了那处所在,圣者啊;迷失方向之后,便在林间徘徊流转。

Verse 63

इतोरण्यात्ततो याति ततोरण्यादितो व्रजेत् । वनाद्वनांतरं भ्रांत्वा खिन्नः सोपि वनेचरः

他从这片林子走向那片林子,又从那片林子折回此处;在林与林之间辗转迷行,连那林中行者也疲惫不堪。

Verse 64

विहाय मध्येऽरण्यानि तं ययौ च स्वपक्कणम् । द्वित्राण्यहानि संभ्रम्य स कार्पटिकसत्तमः

他抛下诸林,回到自己的住处。那位最上等的迦尔帕提迦(行脚乞士),在惶惶不安中奔走两三日之后……

Verse 66

तन्मंदभाग्यतां श्रुत्वा लोकात्कार्पटिको मुने । कृत्वा गयां प्रयागं च ततः स्वविषयं ययौ

圣者啊,迦尔帕提迦(朝圣行者)从众人处听闻那不幸之后,前往伽耶与普拉雅伽朝礼;随后回到自己的故土。

Verse 67

काश्यां प्रवेशं प्राप्यापि तदस्थीनि घटोद्भव । विना वैश्वेश्वरीमाज्ञां बहिर्यातानि तत्क्षणात्

即便已进入迦尸(Kāśī),那些遗骨——噢,壶生者伽陀陀婆(阿伽斯提耶)——若无毗湿毗湿瓦丽(Vaiśveśvarī)的敕令,也在当下立刻被抛出城外。

Verse 68

एवं काश्यां प्रविश्यापि पापी धर्मानुषंगतः । न क्षेत्रफलमाप्नोति बहिर्भवति तत्क्षणात्

同样地,即使罪人进入迦尸,若仍被对法(dharma)的浅薄执著所染,他也得不到圣域(Kṣetra)的果报;就在那一刻便被逐出其恩泽之外。

Verse 69

तस्माद्विश्वेश्वराज्ञैव काशीवासेऽत्र कारणम् । असिश्च वरणा यत्र क्षेत्ररक्षाकृतौ कृते

因此,正是依毗湿毗湿瓦罗(Viśveśvara)亲自的命令,居住于迦尸在此才具大功德——在这里,阿西河(Asi)与伐罗那河(Varaṇā)被安置以守护圣域。

Verse 70

वाराणसीति विख्याता तदारभ्य महामुने । असेश्च वरणायाश्च संगमं प्राप्य काशिका

自那时起,噢,大牟尼,迦尸迦(Kāśikā)因抵达阿西与伐罗那两河的汇合处,而闻名为“婆罗那西”(Vārāṇasī)。

Verse 71

वाराणसीह करुणामयदिव्यमूर्तिरुत्सृज्य यत्र तु तनुं तनुभृत्सुखेन । विश्वेशदृङ्महसि यत्सहसा प्रविश्य रूपेण तां वितनुतां पदवीं दधाति

在此婆罗那西,慈悲的神圣显现——众生得以安然舍身之处——忽然进入毗湿毗湿瓦(Viśveśa)目光的光辉之中,并以新得之形,证得那广大而崇高的境地。

Verse 72

जातो मृतो बहुषु तीर्थवरेषु रे त्वं जंतो न जातु तव शांतिरभून्निमज्य । वाराणसी निगदतीह मृतोऽमृतत्वं प्राप्याधुना मम बलात्स्मरशासनः स्याः

你在许多殊胜的圣地(tīrtha)中一再出生、一再死去,众生啊——即使沐浴沉浸,也从未得安宁。然而瓦拉纳西宣告:“若在此处死去,便得不死甘露。”如今凭我的威力,你将成为征服迦摩(欲爱、情欲)者。

Verse 73

अन्यत्र तीर्थ सलिले पतितोद्विजन्मा देवादिभावमयते न तथा तु काश्याम् । चित्रं यदत्र पतितः पुनरुत्थितिं न प्राप्नोति पुल्कसजनोपि किमग्र जन्मा

在别处,二次出生者若坠入圣地(tīrtha)之水,尚可再起而趋向天界之境;但在迦尸(Kāśī)却不如此。奇哉:在此坠落者不再获得世间的再起;若连生于普尔迦萨者亦得解脱,更何况出身更高者?

Verse 74

नैषा पुरी संसृतिरूपपारावारस्य पारं पुरहा पुरारिः । यस्यां परं पौरुषमर्थमिच्छन्सिद्धिं नयेत्पौरपरंपरांसः

此城并非寻常城邑;它是名为轮回(saṃsāra)之海的彼岸——由摧毁三城(Tripura)堡垒者、魔王普拉之敌所昭示。在此,求取人身至高目的者,将被引向圆满成就(siddhi),甚至藉由此地居民的世系传承而得。

Verse 75

तीर्थांतराणि मनुजः परितोऽवगाह्य हित्वा तनुं कलुषितां दिवि दैवतं स्यात् । वाराणसीपरिसरे तु विसृज्य देहं संदेहभाग्भवति देहदशाप्तयेपि

人可以遍浴诸多其他圣地(tīrtha),舍弃污浊之身而升为天界之神(deva)。但若在瓦拉纳西的境域中舍身,则连“再得一具身躯”的可能也成疑——因为再生之路在此被截断。

Verse 76

वाराणसी समरसीकरणादृतेपि योगादयोगिजनतां जनतापहंत्री । तत्तारकं श्रवणगोचरतां नयंती तद्बह्मदर्शयति येन पुनर्भवो न

瓦拉纳西——即使不凭任何强行的“同一化”,也能消除众人之苦,无论瑜伽行者或非行者——使那救度之“塔罗迦”(Tāraka)真理进入耳闻可及之处,并显现那使人不再回返轮回的梵(Brahman)。

Verse 77

वाराणसी परिसरे तनुमिष्टदात्रीं धर्मार्थकामनिलयामहहाविसृज्य । इष्टं पदं किमपि हृष्टतरोभिलष्य लाभोस्तुमूलमपि नो यदवाप शून्यम्

唉!在瓦拉纳西的圣境中舍弃此身——那赐予所愿、为法(dharma)、利(artha)与欲(kāma)之所依者——众生欢喜地希求某种心所爱慕的至上境界;愿得真实之利,因为在此连其根本亦非空无,必定可证得。

Verse 78

आःकाशिवासिजनता ननु वंचिताभूद्भाले विलोचनवतावनितार्धभाजा । आदाय यत्सन्ध्यकृतभाजनमिष्टदेहं निर्वाणमात्रमपवर्जयतापुनर्भु

唉!居住在迦尸(Kāśī)的人们,似乎被那三目之主——以女神为半身者——所“亏待”;因为他夺去他们由暮时礼拜(sandhyā)所成就的可爱之身,只赐予涅槃(nirvāṇa),并遮止再生。

Verse 79

वाराणसी स्फुरदसीमगुणैकभूमिर्यत्र स्थितास्तनुभृतःशशिभृत्प्रभावात् । सर्वे गले गरलिनोऽक्षियुजो ललाटे वामार्धवामतनवोऽतनवस्ततोंऽते

瓦拉纳西是一处独一之地,无量功德于此闪耀。凭借月冠之主(湿婆)的威力,凡居于彼处的有身众生,皆于喉间如同负毒者,于额上如同三目者,于形体如同共享吉祥的左半身;于是终究证得他无身之境——解脱。

Verse 80

आनंदकाननमिदं सुखदं पुरैव तत्त्रापि चक्रसरसी मणिकर्णिकाऽथ । स्वः सिंधुसंगतिरथो परमास्पदं च विश्वेशितुः किमिह तन्न विमुक्तये यत्

此安乐林(Ānandakānana)自古以来即赐予喜乐。其间有轮池(Cakrasarasī)——摩尼迦尔尼迦(Maṇikarṇikā)——亦有天河汇合之处。此乃毗湿维湿伐罗(Viśveśvara,湿婆)之至上住处。此地有何物不导向解脱?

Verse 81

वाराणसीह वरणासि सरिद्वरिष्ठा संभेदखेदजननी द्युनदी लसच्छ्रीः । विश्रामभूमिरचलाऽमलमोक्षलक्ष्म्याहैनां विहाय किमुसीदति मूढजंतुः

噫,瓦拉纳西!噫,瓦拉那(Varaṇā)!诸河之最胜,天界之流,光辉灿然;你能消融分隔,使疲惫止息。你是不动的安息之地,具足清净解脱(mokṣa)之福。舍弃了你,迷妄的众生何以还要沉沦于世间败坏?

Verse 82

किं विस्मृतं त्वहहगर्भजमामनस्यं कार्तांतदूतकृतबंधन ताडनं च । शंभोरनुग्रह परिग्रह लभ्य काशीं मूढो विहाय किमु याति करस्थ मुक्तिम्

你难道忘了吗——唉——从胎中开始的苦楚,以及阎摩使者所加的捆缚与鞭挞?迦尸(Kāśī)唯由商婆(Śambhu,湿婆)慈悲摄受与恩宠方可得。愚人若舍弃迦尸,又怎能获得那仿佛已在掌中的解脱(mokṣa)?

Verse 83

तीर्थांतराणि कलुषाणि हरति सद्यः श्रेयो ददत्यपि बहु त्रिदिवं नयंति । पानावगाहनविधानतनुप्रहाणैर्वाराणसी तु कुरुते बत मूलनाशम्

其他圣地渡口(tīrtha)确能立刻除去垢染,也赐予诸多福祉,并能引人升天;然而瓦拉纳西(Vārāṇasī)——藉由饮其水、行沐浴沉浸之法,乃至于在那里舍身——确实成就对罪业从根本处的奇妙摧灭。

Verse 84

काशीपुरी परिसरे मणिकर्णिकायां त्यक्त्वा तनुं तनुभृतस्तनुमाप्नुवंति । भाले विलोचनवतीं गलनीललक्ष्मीं वामार्धबंधुरवधूं विधुरावरोधाः

凡具身者若在迦尸境内的摩尼迦尔尼迦(Maṇikarṇikā)舍弃此身,便得天妙之形。诸障尽除,他们获得那可爱的新娘:额洁如玉,双目具光,喉间饰以吉祥的青蓝辉耀——她乃主(湿婆)左半之妙侣,亦即其圣力(Śakti)。

Verse 85

ज्ञात्वा प्रभावमतुलं मणिकर्णिकायां यः पुद्गलं त्यजति चाशुचिपूयगंधि । स्वात्मावबोधमहसा सहसा मिलित्वा कल्पांतरेष्वपि स नैव पृथक्त्वमेति

知晓摩尼迦尔尼迦(Maṇikarṇikā)无比威德者,若在那里舍弃这团肉身——污秽不净,腥臭如脓——便立刻与自证之光辉灿然相融;纵历他世诸劫(kalpa),亦不再堕入分离之境。

Verse 86

रागादिदोषपरिपूर मनो हृषीकाः काशीपुरीमतुलदिव्यमहाप्रभावाम् । ये कल्पयंत्यपरतीर्थसमां समंतात्ते पापिनो न सह तैः परिभाषणीयम्

凡其心与诸根充满贪染等过失者,若处处妄想迦尸城——具无比、神圣而广大之威力——不过与他处诸圣地(tīrtha)等同,此等人即为罪者;甚至不应与之交谈。

Verse 87

वाराणसीं स्मरहरप्रियराजधानीं त्यक्त्वा कुतो व्रजसि मूढ दिगंतरेषु । प्राप्याप्यजाद्यसुलभांस्थिरमोक्षलक्ष्मीं लक्ष्मीं स्वभावचपलां किमु कामयेथाः

舍弃瓦拉纳西——爱神毁灭者斯摩罗诃罗(湿婆)所钟爱的王都——你这迷者为何还要奔走于遥远四方?既已得那连梵天等亦难得的、坚固不动的解脱之吉祥(Lakṣmī),又何必贪求本性飘忽的世间福泽之吉祥?

Verse 89

विद्या धनानि सदनानि गजाश्वभृत्याः स्रक्चंदनानि वनिताश्च नितांत रम्याः । स्वर्गोप्यगम्य इह नोद्यमभाजिपुंसि वाराणसीत्वसुलभा शलभादिमुक्तिः । धात्रा धृतानि तुलया तुलनामवैतुं वैकुंठमुख्यभुवनानि च काशिका च । तान्युद्ययुर्लघुतयान्यगियं गुरुत्वात्तस्थौ पुरीह पुरुषार्थचतुष्टयस्य

学识、财富、宅第、象马仆从、花鬘与檀香、以及极其妩媚的女子——乃至天界——对勤勉之人而言,在此并不难得;然而那在瓦拉纳西如飞蛾脱壳般容易获得的解脱,在别处却并非如此易得。 造物主将毗昆陀等诸胜世界与迦尸迦一并置于天平,以验其轻重;诸世界因轻而上升,而此(迦尸)以其重而安然不动——此地正是具足人之四义:法(dharma)、利(artha)、欲(kāma)与解脱(mokṣa)之城。

Verse 90

काशी पुरीमधिवसन्द्रिनरोनरोपिह्मारोप्यमाणैहमान्यहवैकरुद्रः । नानोपसर्गजनिसर्गजदुःखभारैःकर्मापनुद्यसविशेत्परमेशधाम्नि

凡居住于迦尸城者——纵被诸多患难所压,背负由种种灾厄与世缘所生的沉重苦担——亦能涤除其业(karma),进入至上主帕拉梅湿伐罗的无上居处;彼为唯一应受一切敬礼之鲁陀罗。

Verse 91

स्थिरापायं कायं जननमरणक्लेशनिलयं विहायास्यां काश्यामहहपरिगृह्णीत न कुतः । वपुस्तेजोरूपं स्थिरतरपरानंदसदनं विमूढोऽसौ जंतुः स्फुटितमिवकांम्यं विनिमयन्

人为何,唉,不舍此身——无常易坏、只是生死苦恼之所——而转而归依此迦尸?因为在此,具身之众得成由神圣光辉所铸之形,成为更为恒久的至乐之宅;然而迷妄之生灵,却如以无瑕宝珠相易,拿无价之善去换那仅是欲求之物。

Verse 92

अहो लोकः शोकं किमिह सहते हंतहतधीर्विपद्भारैः सारैर्नियतनिधनैर्ध्वसित धनैः । क्षितौ सत्यां काश्यां कथयति शिवो यत्र निधने श्रुतौ किंचिद्भूयः प्रविशति न येनोदरदरीम्

唉,世人为何在此忍受忧苦,慧力被击倒,被灾厄重担所压,又被那些只是一味“毁灭之精髓”的财物所缠——注定败坏、转瞬消散?当大地上自有真实的迦尸:于临终之际,湿婆亲自向耳中宣说;闻此圣言者,不复再入胎门之隙——不再回到轮回再生。

Verse 93

काशिवासिनिजने वनेचरेद्वित्रिभुज्यपि समीरभोजने । स्वैरचारिणि जितेंद्रियेप्यहो काशिवासिनि जने विशिष्टता

即使居住在迦尸(Kāśī)的人如林中行者般生活——一日仅食一、二或三次,仿佛只以清风为食——虽行止自在、已制伏诸根,唉!迦尸之民仍自有一种独特的殊胜功德。

Verse 94

नास्तीह दुष्कृतकृतां सुकृतात्मनां वा काचिद्विशेषगतिरंतकृतां हि काश्याम् । बीजानि कर्मजनितानि यदूषरायां नांकूरंयति हरदृग्ज्वलितानितेषाम्

在迦尸(Kāśī)之中,无论作恶者或性本善者,都无所谓各别的死后去向;因为在迦尸,终结死亡的主宰赐予同一至上的归途。由业力所生的种子,一旦被哈拉(Hara)炽烈的目光灼烧,便不再发芽——如同撒在瘠土上的种子,终不萌生。

Verse 95

शशका मशका बकाः शुकाः कलविंकाश्च वृकाः सजंबुकाः । तुरगोरग वानरानरा गिरिजे काशिमृताः परामृतम्

噢,吉丽迦(Girijā),无论是野兔或蚊蚋,鹤或鹦鹉,迦罗毗吽迦鸟,狼与豺,马、蛇、猴,乃至人类——凡在迦尸(Kāśī)命终者,皆得至上的不死甘露,即最高解脱。

Verse 96

अरुद्ररुद्राक्षफणींद्रभूषणास्त्रिपुंड्रचंद्रार्धधराधरागताः । निरंतरं काशिनिवासिनोजना गिरींद्रजे पारिषदा मता मम

噢,山王之女啊,那些恒常居住于迦尸(Kāśī)的人——佩戴鲁陀罗叉(Rudrākṣa)念珠与蛇王之饰,额上具三道圣灰纹,头戴半月——依我之见,应当视为湿婆(Śiva)亲自的侍从众(pāriṣada)。

Verse 97

यावंत एव निवसंति च जंतवोऽत्र काश्यां जलस्थलचरा झषजंबुकाद्याः । तावंत एव मदनुग्रह रुद्रदेहा देहावसानमधिगम्य मयि प्रविष्टाः

凡在此迦尸(Kāśī)居住的众生有多少——或水行、或陆行,如鱼、豺及其类——他们在身命终尽之时,亦有多少进入于我;因为蒙我恩泽,他们得成鲁陀罗之身。

Verse 98

ये तु वर्षेषवोरुद्रा दिवि देवि प्रकीर्तिताः । वातेषवोंऽतरिक्षे ये ये भुव्यन्नेषवः प्रिये

女神啊,那些被宣说为在天界主宰雨水的鲁陀罗——那些在中界(空际)主宰诸风的鲁陀罗,以及那些在大地的五谷中主宰滋养的鲁陀罗,亲爱的——皆是一体的神圣显现。

Verse 99

रुद्रा दश दश प्राच्यवाची प्रत्यगुदक्स्थिताः । ऊर्ध्वदिक्स्थाश्च ये रुद्राः पठ्यंते वेदवादिभिः

鲁陀罗被说为十位一组:与东方相应者,安住于西方与北方者,以及住于上方之界者;如此诸鲁陀罗,为宣说吠陀者所诵读。

Verse 100

असंख्याताः सहस्राणि ये रुद्रा अधिभूतले । तत्सर्वेभ्योऽधिका काश्यां जंतवो रुद्ररूपिणः

大地之上有无量千千的鲁陀罗;然而在迦尸,具鲁陀罗本形之众生,甚至胜过他们一切。

Verse 110

दैनंदिनेऽथ प्रलये त्रिशूलकोटौ समुत्क्षिप्य पुरीं हरः स्वाम् । बिभर्ति संवर्त महास्थिभूषणस्ततो हि काशी कलिकालवर्जिता

在每日的小劫坏灭之时,亦在大劫的宇宙坏灭之际,诃罗将自己的城邑举于三叉戟尖端而承持之——他即大能的三末伐多,饰以巨骨为严。故迦尸不受迦梨时代之患。

Verse 114

अतः परं कलशज किं शुश्रूषसि तद्वद । काशीकथा कथ्यमाना ममापि परितोषकृत्

那么,噶拉舍阇(阿伽斯提耶)啊,你还想听什么?请说出来。因为讲述迦尸的圣传,即使于我亦能生起欢喜。

Verse 158

असिसंभेद योगेन काशीसंस्थोऽमृतो भवेत् । देहत्यागोऽत्र वै दानं देहत्यागोत्र वै तपः

凭借名为“Asisaṃbheda”的瑜伽,安住于迦尸(Kāśī)者得不死。于此处,舍身本身即是布施(dāna);于此处,舍身本身即是苦行(tapas)。

Verse 865

क्षुत्क्षामः शुष्ककंठोष्ठो हाहेति परिदेवयन् । पुनः काशीपुरीं प्राप्तः परिम्लानमुखो वणिक्

他被饥饿折磨得形容枯槁,喉咙与嘴唇干裂,哀叹着“唉呀,唉呀!”,那商人又一次来到迦尸城(Kāśī)——面容尽显憔悴。