Adhyaya 20
Brahma KhandaBrahmottara KhandaAdhyaya 20

Adhyaya 20

本章以苏多(Sūta)的简明宣说开篇:聆听与诵读鲁陀罗叉(Rudrākṣa)之功德,能净化身心,其利益遍及不同身份与不同虔信层次的众人。继而将鲁陀罗叉阐明为如同大誓戒(mahā-vrata)般的严谨修持,列举理想的念珠数目与佩戴部位,并提出仪轨功德的对等:以鲁陀罗叉“洗头”可得如沐浴恒河(Gaṅgā)之福;供奉鲁陀罗叉可比同供奉林伽(liṅga)。又说持咒念诵(japa)若依鲁陀罗叉助缘,其果报胜于不依者,并将其与涂灰(bhasma)及三道额印(tripuṇḍra)并列,作为湿婆派(Śaiva)虔修者的标志。 随后叙事转入教诲性的传说:克什米尔的跋陀罗塞那王(Bhadrasena)询问圣者波罗舍罗(Parāśara),为何有两位少年天生敬奉鲁陀罗叉。波罗舍罗追述前生因缘:一位敬湿婆的歌妓;一位商人献上宝石手镯,并托付一尊宝石林伽。忽遭大火焚毁林伽,商人决意投火自焚;歌妓因自己所立之真言誓约,也准备入火。湿婆显现,说明此事乃试炼,赐予恩愿,并解脱她及其所依之人。先前佩戴鲁陀罗叉而幸存的猴与雄鸡,被说转生为那两位少年,由此解释其与生俱来的修持,源于往昔功德与习气。

Shlokas

Verse 1

सूत उवाच । अथ रुद्राक्षमाहात्म्यं वर्णयामि समासतः । सर्वपापक्षयकरं शृण्वतां पठतामपि

苏多(Sūta)说道:今我略说鲁陀罗眼(Rudrākṣa)之大功德;此事迹能令一切罪业消灭,凡聆听者,乃至诵读者,皆得其益。

Verse 2

अभक्तो वापि भक्तो वा नीचो नीचतरोपि वा । रुद्राक्षान्धारयेद्यस्तु मुच्यते सर्वपातकैः

无论无信或有信,无论卑下乃至更卑下者;凡佩持鲁陀罗眼(Rudrākṣa)之人,皆得解脱一切重罪。

Verse 3

रुद्राक्षधारणं पुण्यं केन वा सदृशं भवेत् । महाव्रतमिदं प्राहुर्मुनयस्तत्त्वदर्शिनः

佩持鲁陀罗眼(Rudrākṣa)之功德,何物可与之比?洞见真理之牟尼宣说:此即“大誓”(mahā-vrata)。

Verse 4

सहस्रं धारयेद्यस्तु रुद्राक्षाणां धृतव्रतः । तं नमंति सुराः सर्वे यथा रुद्रस्तथैव सः

若有人持戒坚固,佩戴一千枚鲁陀罗眼(Rudrākṣa);诸天皆向其顶礼,如同礼敬鲁陀罗(Rudra)一般;他亦由此与鲁陀罗相似。

Verse 5

अभावे तु सहस्रस्य बाह्वोः षोडश षोडश । एकं शिखायां करयोर्द्वादश द्वादशैव हि

若不能得一千颗,则两臂各佩十六颗;发髻顶上佩一颗;两手各佩十二颗,确然如是。

Verse 6

द्वात्रिंशत्कंठदेशे तु चत्वारिंशत्तु मस्तके । एकैक कर्णयोः षट् षट् वक्षस्यष्टोत्तरं शतम् । यो धारयति रुद्राक्षान्रुद्रवत्सोपि पूज्यते

颈上当佩三十二颗,头上当佩四十颗;两耳各佩六颗;胸前佩一百零八颗。如此佩戴鲁陀罗眼者,亦受尊崇,如同尊崇鲁陀罗。

Verse 7

मुक्ताप्रवालस्फटिकरौप्यवैदूर्यकांचनैः । समेतान्धारयेद्यस्तु रुद्राक्षान्स शिवो भवेत्

若有人将鲁陀罗眼与珍珠、珊瑚、水晶、白银、猫眼宝石与黄金一同佩戴,他便成就如湿婆般的境界。

Verse 8

केवलानपि रुद्राक्षान्यथालाभं बिभर्ति यः । तं न स्पृशंति पापानि तमांसीव विभावसुम्

即便只佩戴鲁陀罗眼,随其所得、量力而行,罪业也不能触及他,正如黑暗不能触及太阳。

Verse 9

रुद्राक्षमालया जप्तो मंत्रोऽनंतफलप्रदः । अरुद्राक्षो जपः पुंसां तावन्मात्रफलप्रदः

以鲁陀罗眼念珠持诵之真言,能赐无尽功果;若无鲁陀罗眼而行持诵,则只得有限之果报。

Verse 10

यस्यांगे नास्ति रुद्राक्ष एकोपि बहुपुण्यदः । तस्य जन्म निरर्थं स्यात्त्रिपुंड्ररहितं यदि

若一人身上连一颗赐予广大功德的鲁陀罗叉(rudrākṣa)都不佩戴,又缺少三道圣灰印——三条灰线(Tripuṇḍra),则其出生亦成徒然。

Verse 11

रुद्राक्षं मस्तके बद्ध्वा शिरःस्नानं करोति यः । गंगास्नानफलं तस्य जायते नात्र संशयः

凡将鲁陀罗叉系于头上而后洗头者,必得沐浴圣恒河(Gaṅgā)之果报;对此毫无疑惑。

Verse 12

रुद्राक्षं पूजयेद्यस्तु विना तोयाभिषेचनम् । यत्फलं लिंगपूजायास्तदेवाप्नोति निश्चितम्

然而,凡礼敬鲁陀罗叉,即使不以清水作灌顶供奉(abhiṣeka),也必定获得礼拜湿婆林伽(Śiva-liṅga)之同等功德。

Verse 13

एकवक्त्राः पंचवक्त्रा एकादशमुखाः परे । चतुर्दशमुखाः केचिद्रुद्राक्षा लोकपूजिताः

有的鲁陀罗叉为一面,有的为五面,另有十一面者;亦有十四面者——这些鲁陀罗叉为世人所礼敬。

Verse 14

भक्त्या संपूजितो नित्यं रुद्राक्षः शंकरात्मकः । दरिद्रं वापि कुरुते राजराजश्रियान्वितम्

若以虔敬之心日日供奉本具商羯罗(Śaṅkara)自性之鲁陀罗叉,它甚至能令贫者亦具王者之富贵与荣华。

Verse 15

अत्रेदं पुण्यमाख्यानं वर्णयंति मनीषिणः । महापापक्षयकरं श्रवणात्कीर्त्तनादपि

在此,智者宣说这段圣洁的传记;即使仅仅聆听或诵念,也能消除重罪。

Verse 16

राजा काश्मीरदेशस्य भद्रसेन इति श्रुतः । तस्य पुत्रो ऽभवद्धीमान्सुधर्मानाम वीर्यवान्

在迦湿弥罗之地,有一位闻名的国王,名为跋陀罗塞那(Bhadrasena)。他有一子,智慧勇武,名叫苏达摩(Sudharmā)。

Verse 17

तस्यामात्यसुतः कश्चित्तारको नाम सद्गुणः । बभूव राजपुत्रस्य सखा परमशोभनः

又有一位大臣之子,名为塔罗迦(Tāraka),具足善德;他成为王子的挚友,极其可敬可爱。

Verse 18

तावुभौ परमस्निग्धौ कुमारौ रूपसुन्दरौ । विद्याभ्यासपरौ बाल्ये सह क्रीडां प्रचक्रतुः

那两位少年王子彼此情谊深厚,形貌俊美;幼时专心习学,也一同嬉戏玩耍。

Verse 19

तौ सदा सर्वगात्रेषु रुद्राक्षकृतभूषणौ । विचेरतुरुदारांगौ सततं भस्मधारिणौ

他们常在周身佩戴由鲁陀罗叉(rudrākṣa)制成的饰物;体态高雅,恒常行走时持涂圣灰。

Verse 20

हारकेयूरकटककुंडलादिविभूषणम् । हेमरत्नमयं त्यक्त्वा रुद्राक्षान्दधतुश्च तौ

他们舍弃了金与宝石所制的项链、臂钏、手镯与耳环等饰物,转而佩戴起神圣的鲁陀罗叉(Rudrākṣa)念珠。

Verse 21

रुद्राक्षमालितौ नित्यं रुद्राक्षकरकंकणौ । रुद्राक्षकंठाभरणौ सदा रुद्राक्षकुंडलौ

他们恒常以鲁陀罗叉为花鬘;手上的饰环是鲁陀罗叉;颈上的佩饰是鲁陀罗叉;连耳坠也总是鲁陀罗叉。

Verse 22

हेमरत्नाद्यलंकारे लोष्टपाषाणदर्शनौ । बोध्यमानावपि जनैर्न रुद्राक्षान्व्यमुंचताम्

在他们眼中,金与宝石的饰物不过如土块与石子;纵使众人劝阻,他们也不肯舍弃鲁陀罗叉。

Verse 23

तस्य काश्मीरराजस्य गृहं प्राप्तो यदृच्छया । पराशरो मुनिवरः साक्षादिव पितामहः

机缘之下,大圣者帕罗沙罗(Parāśara)来到那位迦湿弥罗国王的府邸,宛如祖父神毗多摩诃(梵天 Brahmā)亲自显现。

Verse 24

तमर्चयित्वा विधिवद्राजा धर्मभृतां वरः । प्रपच्छ सुखमासीनं त्रिकालज्ञं महामुनिम्

国王依仪轨恭敬礼拜之后——这位护持正法者之最——便向安然端坐、通晓三时(过去、现在、未来)的大牟尼请问。

Verse 25

राजोवाच । भगवन्नेष पुत्रो मे सोपि मंत्रिसुतश्च मे । रुद्राक्षधारिणौ नित्यं रत्नाभरणनिःस्पृहौ

国王说道:“噢,圣者啊,这是我的儿子,那位是我大臣之子。二人恒常佩戴鲁陀罗叉(Rudrākṣa),对珠宝饰物毫无贪恋。”

Verse 26

शास्यमानावपि सदा रत्नाकल्पपरिग्रहे । विलंघितास्मद्वचनौ रुद्राक्षेष्वेव तत्परौ

尽管人们不断劝导他们接受珠宝华饰,他们却违背我的话,只一心专注于鲁陀罗叉(Rudrākṣa)。

Verse 27

नोपदिष्टाविमौ बालौ कदाचिदपि केनचित् । एषा स्वाभाविकी वृत्तिः कथमासीत्कुमारयोः

这两个孩子从未在任何时候受过任何人的教导。那么,这种天生的品性又如何在两位少年身上生起呢?

Verse 28

पराशर उवाच । शृणु राजन्प्रवक्ष्यामि तव पुत्रस्य धीमतः । यथा त्वं मंत्रिपुत्रस्य प्राग्वृत्तं विस्मयावहम्

波罗舍罗(Parāśara)说道:“听着,国王啊;我将为你讲明你那贤慧之子的前世因缘,也同样述说大臣之子令人惊异的往昔。”

Verse 29

नंदिग्रामे पुरा काचिन्महानंदेति विश्रुता । बभूव वारवनिता शृंगारललिताकृतिः

从前在难提伽罗摩(Nandigrāma),住着一位名闻遐迩的歌伎,名叫摩诃难陀(Mahānandā),体态娴雅,善于妆饰与媚态。

Verse 30

छत्रं पूर्णेंदुसंकाशं यानं स्वर्णविराजितम् । चामराणि सुदंडानि पादुके च हिरण्मये

一柄如满月般辉耀的华盖,一乘以黄金装饰而灿然的车舆,柄坚的牦尾拂尘(chāmara),乃至金制的履屣——皆为她庄严殊胜的珍藏。

Verse 31

अंबराणि विचित्राणि महार्हाणि द्युमंति च । चंद्ररश्मिनिभाः शय्या पर्यंकाश्च हिरण्मयाः

她有纹样繁多、珍贵而光耀的衣裳;又有柔润如月光的床榻,以及以黄金制成的卧榻与长榻。

Verse 32

गावो महिष्यः शतशो दासाश्च शतशस्तथा

牛与水牛各有数百,仆从亦复数百。

Verse 33

सर्वाभरणदीप्तांग्यो दास्यश्च नवयौवना । भूषणानि परार्ध्याणि नवरत्नोज्ज्वलानि च

她的侍女皆值青春新盛,遍身璎珞而光彩照人;又有至为珍贵的饰物,九宝辉映,灿然夺目。

Verse 34

गन्धकुंकुमकस्तूरीकर्पूरागुरुलेपनम् । चित्रमाल्यावतंसश्च यथेष्टं मृष्टभोजनम्

又有诸般香气与涂香:藏红花、朱砂香粉(kunkuma)、麝香、龙脑(樟脑)与沉香膏;缤纷花鬘与发间饰物,并有随心所欲的甘美饮食。

Verse 35

नानाचित्रवितानाढ्यं नानाधान्यमयं गृहम् । बहुरत्नसहस्राढ्यं कोटिसंख्याधिकं धनम्

她的宅邸华盖缤纷、陈设繁丽,充满各类谷粮;又有成千上万种宝珠珍玉,财富之多,甚至超过以“俱胝”(crore)计数。

Verse 36

एवं विभवसंपन्ना वेश्या कामविहारिणी । शिवपूजारता नित्यं सत्यधर्मपरायणा

她虽富贵具足、身处欢娱之境,却恒常专心礼敬湿婆(Śiva),并坚定奉行真实与达摩(dharma)。

Verse 37

सदाशिवकथासक्ता शिवनामकथोत्सुका । शिवभक्तांघ्र्यवनता शिवभक्तिरतानिशम्

她沉浸于萨达湿婆(Sadāśiva)的圣传,渴慕听闻湿婆圣名的讲述;她俯伏于湿婆信众足下,昼夜欢喜于对湿婆的奉爱(bhakti)。

Verse 38

विनोदहेतोः सा वेश्या नाट्यमण्डपमध्यतः । रुद्राक्षैभूषयित्वैकं मर्कटं चैव कुक्कुटम्

为取欢娱,那位妓女在舞台中央,以鲁陀罗叉(rudrākṣa)念珠装饰一只猴子,又装饰了一只公鸡。

Verse 39

करतालैश्च गीतैश्च सदा नर्तयति स्वयम् । पुनश्च विहसंत्युच्चैः सखीभिः परिवारिता

她以击掌与歌唱亲自令它们常常起舞;随后又被女伴(sakhī)环绕,屡屡放声大笑。

Verse 40

युग्मम् । रुद्राक्षैः कृतकेयूरकर्णाभरणभूषणः । मर्कटः शिक्षया तस्याः सदा नृत्यति बालवत्

那猴子佩戴以鲁陀罗叉(rudrākṣa)珠制成的臂钏与耳饰,在她的教导下,常常如孩童般起舞。

Verse 41

शिखायां बद्धरुद्राक्षः कुक्कुटः कपिना सह । चिरं नृत्यति नृत्यज्ञः पश्यतां चित्रमावहन्

鸡冠上系着一颗鲁陀罗叉珠,那善舞的公鸡与猴子一同久舞,使观者得见奇妙景象。

Verse 42

एकदा भवनं तस्याः कश्चिद्वैश्यः शिवव्रती । आजगाम सरुद्राक्षस्त्रिपुंड्री निर्ममः कृती

有一次,一位奉行湿婆誓戒的吠舍来到她家:身佩鲁陀罗叉珠,额饰三道圣灰纹,离于执著,行持严谨。

Verse 43

स बिभ्रद्भस्म विशदे प्रकोष्ठे वरकंकणम् । महारत्नपरिस्तीर्णं ज्वलंतं तरुणार्कवत्

他身披明净的圣灰;其前臂戴着一只上妙手镯,镶满大宝,光焰如初升之日。

Verse 44

तमागतं सा गणिका संपूज्य परया मुदा । तत्प्रकोष्ठगतं वीक्ष्य कंकणं प्राह विस्मिता

他到来时,那歌伎以极大欢喜迎接并恭敬供奉;继而见他前臂上的手镯,惊叹而语。

Verse 45

महारत्नमयः सोऽयं कंकणस्त्वत्करे स्थितः । मनो हरति मे साधौ दिव्यस्त्रीभूषणोचितः

你手上的这只手镯由上等宝石铸成。贤善之人啊,它摄住我的心神,确是适合作为天界女子的神圣饰物。

Verse 46

इति तां वररत्नाढ्य सस्पृहां करभूषणे । वाक्ष्योदारमतिर्वैश्यः सस्मितं समभाषत

于是,他见她珠宝华美,且渴慕那手上饰物,心地宽厚的吠舍便含笑对她说道。

Verse 47

वैश्य उवाच । अस्मिन्रत्नवरे दिव्ये यदि ते सस्पृहं मनः । तमेवादत्स्व सुप्रीता मौल्यमस्य ददासि किम्

吠舍说道:“若你心中渴望这颗神圣而上妙的宝珠,就欢喜地取去吧。你愿付它多少价钱?”

Verse 48

वेश्यो वाच । वयं तु स्वैरचारिण्यो वेश्यास्तु न पतिव्रताः । अस्मत्कुलोचितो धर्मो व्यभिचारो न संशयः

妓女说道:“我们本是行止自由的女子;妓女并非守夫之贞的贤妻。我们这一类的本分之法(dharma),就是婚外之交,毫无疑问。”

Verse 49

यद्येतद्रत्नखचितं ददासि करभूषणम् । दिनत्रयमहोरात्रं तव पत्नी भवाम्यहम्

“若你把这镶嵌宝石的手上饰物给我,那么三日三夜之间,我便作你的妻子。”

Verse 50

वैश्य उवाच । तथास्तु यदि ते सत्यं वचनं वारवल्लभे । ददामि रत्नवलयं त्रिरात्रं भव मद्वधूः

商人说道:“如是——若你所言真实,噢我所爱的歌妓。我将赠你宝石手镯;三夜之间,作我的妻子。”

Verse 51

एतस्मिन्व्यवहारे तु प्रमाणं शशिभास्करौ । त्रिवारं सत्यमित्युक्त्वा हृदयं मे स्पृश प्रिये

“在此约定中,月与日为证。你三次说‘此乃真实’,然后触我心间,亲爱的。”

Verse 52

वेश्योवाच । दिनत्रयमहोरात्रं पत्नी भूत्वा तव प्रभो । सहधर्मं चरामीति सा तद्धृदयमस्पृशत्

歌妓说道:“三日三夜,主啊,我作你的妻子,将与你共行同一法(dharma)。”说罢,她触了他的心。

Verse 53

अथ तस्यै स वैश्यस्तु प्रददौ रत्नकङ्कणम् । लिंगं रत्नमयं चास्या हस्ते दत्त्वेदमब्रवीत्

随后那商人给了她宝石手镯;又将一尊宝石所成的林伽(Liṅga)置于她手中,便如此说道。

Verse 54

इदं रत्नमयं शैवं लिंगं मत्प्राणसंनिभम् । रक्षणीयं त्वया कांते तस्य हानिर्मृतिर्मम

“此宝石所成的湿婆圣林伽(Śaiva Liṅga),于我如同性命。爱人啊,你当守护;若失此物,便是我的死。”

Verse 55

एवमस्त्विति सा कांता लिंगमादाय रत्नजम् । नाट्यमण्डपिकास्तंभे निधाय प्राविशद्गृहम्

“就如此吧,”那爱侣说道。她取起宝生的林伽,将其安置在小小戏亭的柱中,随后进入屋内。

Verse 56

सा तेन संगता रात्रौ वैश्येन विटधर्मिणा । सुखं सुष्वाप पर्यंके मृदुतल्पोपशोभिते

那一夜,她与那放纵行径的商人同寝,在铺着柔软褥垫的榻上安乐而眠。

Verse 57

ततो निशीथसमये नाट्यमण्डपिकांतरे । अकस्मादुत्थितो वह्निस्तमेव सहसावृणोत्

随后在午夜时分,戏亭之内忽然起火,迅疾将其吞没。

Verse 58

मण्डपे दह्यमाने तु सहसोत्थाय संभ्रमात् । सा वेश्या मर्कटं तत्र मोचयामास बंधनात्

亭中燃烧之时,她惊惶跃起;那娼女就在彼处解开一只猴子的束缚,使其得脱。

Verse 59

स मर्कटो मुक्तबंधः कुक्कुटेन सहामुना । भीतो दूरं प्रदुद्राव विधूयाग्निकणान्बहून्

那猴子既脱其缚,便与那只公鸡一同惊惧远遁,抖落身上许多火星。

Verse 60

स्तंभेन सह निर्दग्धं तल्लिंगं शकलीकृतम् । दृष्ट्वा वेश्या च वैश्यश्च दुरंतं दुःखमापतुः

他们看见那林伽与其基座一同被焚,且碎裂成片;妓女与商人(吠舍)顿时被难以承受的悲痛所淹没。

Verse 61

दृष्ट्वा प्राणसमं लिंगं दग्धं वैश्यपतिस्तथा । स्वयमप्याप्तनिर्वेदो मरणाय मतिं दधौ

那位商主见到视若生命的林伽被焚,心生深切厌离,遂立意求死。

Verse 62

निर्वेददान्नितरां खेदाद्वैश्यस्तामाह दुःखिताम् । शिवलिंगे तु निर्भिन्ने नाहं जीवितुमुत्सहे

因悔恨而更添悲恸,那吠舍对哀伤的女子说道:“既然湿婆林伽已碎,我再无心力继续活下去。”

Verse 63

चितां कारय मे भद्रे तव भृत्यैर्बलाधिकैः । शिवे मनः समावेश्य प्रविशामि हुताशनम्

“贤淑的夫人啊,请命你强健的侍从为我筑起火葬柴堆;我将心安住于湿婆,步入烈火。”

Verse 64

यदि ब्रह्मेंद्रविष्ण्वाद्या वारयेयुः समेत्य माम् । तथाप्यस्मिन्क्षणे धीरः प्रविश्याग्निं त्यजाम्यसून्

“纵使梵天、因陀罗、毗湿奴等诸神齐来阻我,我也将在此刻坚定地入火,舍弃生命之息。”

Verse 65

तमेवं दृढबंधं सा विज्ञाय बहुदुःखिता । स्वभृत्यैः कारयामास चितां स्वनगराद्बहिः

她得知他如此坚决,悲痛欲绝,便命仆人在城外搭建火葬柴堆。

Verse 66

ततः स वैश्यः शिवभक्तिपूतः प्रदक्षिणीकृत्य समिद्धमग्निम् । विवेश पश्यत्सु जनेषु धीरः सा चानुतापं युवती प्रपेदे

于是,那位因信奉湿婆而净化的吠舍绕行烈火,在众人的注视下坚定地步入火中;那年轻女子顿时悔恨交加。

Verse 67

अथ सा दुःखिता नारी स्मृत्वा धर्मं सुनिर्मलम् । सर्वान्बन्धून्समीक्ष्यैव बभाषे करुणं वचः

随后,这位悲伤的女子忆起纯洁的正法,注视着所有的亲眷,说出了充满慈悲的话语。

Verse 68

रत्नकंकणमादाय मया सत्यमुदाहृतम् । दिनत्रयमहं पत्नी वैश्यस्यामुष्य संमता

“拿着这只宝石手镯,我所言非虚:这三天来,我已被公认为那位吠舍的妻子。”

Verse 69

कर्मणा मत्कृतेनायं मृतो वैश्यः शिवव्रती । तस्मादहं प्रवेक्ष्यामि सहानेन हुताशनम् । सधर्मचारिणीत्युक्तं सत्यमेतद्धि पश्यथ

“因我所作之业,这位持守湿婆誓愿的吠舍已死。因此,我将随他一同进入火中。‘正法伴侣’——此言不虚;你们且看这真理。”

Verse 70

सत्येन प्रीतिमायांति देवास्त्रिभुवनेश्वराः । सत्यासक्तिः परो धर्मः सत्ये सर्वं प्रतिष्ठितम्

以真理,三界之主的诸天欢喜。执守真理为至上之法;一切皆安立于真理之上。

Verse 71

सत्येन स्वर्गमोक्षौ च नासत्येन परा गतिः । तस्मासत्यं समाश्रित्य प्रवेक्ष्यामि हुताशनम्

凭真理可得天界与解脱;凭虚妄则无至上归宿。故我依止真理,将入此火。

Verse 72

इति सा दृढनिर्बंधा वार्यमाणापि बंधुभिः । सत्यलोपभयान्नारी प्राणांस्त्यक्तुं मनो दधे

如是,虽为亲族所阻,她仍坚守其誓愿。惧怕有失真理,那女子决意舍弃自身性命。

Verse 73

सर्वस्वं शिवभक्तेभ्यो दत्त्वा ध्यात्वा सदाशिवम् । तमग्निं त्रिः परिक्रम्य प्रदेशाभिमुखी स्थिता

她将所有财物施与湿婆的奉献者,并观想常住之湿婆(Sadāśiva)。继而绕火三匝,遂面向火焰而立,准备前行。

Verse 74

तां पतंतीं समिद्धेऽग्नौ स्वपदार्पितमानसाम् । वारयामास विश्वात्मा प्रादुर्भूतः शिवः स्वयम्

当她将坠入炽燃之火,心已奉献于其足下之时,湿婆自身——宇宙之我——现身而止住了她。

Verse 75

सा तं विलोक्याखिलदेव देवं त्रिलोचनं चन्द्रकलावतंसम् । शशांकसूर्यानलकोटिभासं स्तब्धेव भीतेव तथैव तस्थौ

她一见到他——诸神之神、三目者、以新月为冠,光辉如亿万月、日与火焰——便如同惊惧失神一般,呆立不动。

Verse 76

तां विह्वलां परित्रस्तां वेपमानां जडी कृताम् । समाश्वास्य गलद्बाष्पां करे गृह्याब्रवीद्वचः

见她心神恍惚、惊恐战栗、如同麻木,他便安慰她;握住她的手,任泪水滑落,开口说道。

Verse 77

शिव उवाच । सत्यं धर्मं च ते धैर्यं भक्तिं च मयि निश्चलाम् । निरीक्षितुं त्वत्सकाशं वैश्यो भूत्वाहमागतः

湿婆说道:“为见证你的真实、你的法(dharma)、你坚定的勇气,以及你对我不动摇的虔敬,我化作吠舍(vaiśya)来到你身边。”

Verse 78

माययाग्निं समुत्थाप्य दग्धवान्नाट्यमंडपम् । दग्धं कृत्वा रत्नलिंगं प्रवृष्टोस्मि हुताशनम्

“凭我的幻力(māyā),我燃起烈火,焚毁了演艺之堂;又使宝石林伽(liṅga)看似被烧毁,我也随之入火,以成此试验。”

Verse 79

वेश्याः कैतवकारिण्यः स्वैरिण्यो जनवंचकाः । सा त्वं सत्यमनुस्मृत्य प्रविष्टाग्निं मया सह

“娼伎多行诡诈,放纵无度,迷惑世人;而你却忆念真实,与我一同踏入火中。”

Verse 80

अतस्ते संप्रदास्यामि भोगांस्त्रिदशदुर्लभान् । आयुश्च परमं दीर्घमारोग्यं च प्रजोन्नतिम् । यद्यदिच्छसि सुश्रोणि तत्तदेव ददामि ते

因此我将赐予你连诸天神也难得的福享:最为长久的寿命、无病安康,以及子嗣兴盛。你所愿求的一切,善腰之女啊,我都如是赐给你。

Verse 81

सूत उवाच । इति ब्रुवति गौरीशे सा वेश्या प्रत्यभाषत

苏多说道:当高丽之主如此言说时,那位歌伎便答道。

Verse 82

वेश्योवाच । न मे वांछास्ति भोगेषु भूमौ स्वर्गे रसातले । तव पादांबुजस्पर्शादन्यत्किंचिन्न वै वृणे

歌伎说道:我不贪恋诸般享乐——无论在人间、天界,或地下世界。除却触及你莲华之足,我确实别无所求。

Verse 83

एते भृत्याश्च दास्यश्च ये चान्ये मम बांधवाः । सर्वे त्वदर्चनपरास्त्वयि संन्यस्तवृत्तयः

这些仆从与婢女,以及我其余的亲族——愿他们都专心于对你的礼拜,将其一切行持尽皆托付、归依于你。

Verse 84

सर्वानेतान्मया सार्धं नीत्वा तव परं पदम् । पुनर्जन्मभयं घोरं विमोचय नमोस्तु ते

愿你携我并这一切众人同往你至上的住处,使我们脱离可怖的再生之惧。向你顶礼。

Verse 85

तथेति तस्या वचनं प्रतिनंद्य महेश्वरः । तान्सर्वांश्च तया सार्धं निनाय परमं पदम्

摩诃湿伐罗说道:“如是。”他赞许她的话语,并与她一同引领众人进入至上的境界。

Verse 86

पराशर उवाच । नाट्यमंडपिकादाहे यौ दूरं विद्रुतौ पुरा । तत्रावशिष्टौ तावेव कुक्कुटो मर्कटस्तथा

帕罗娑罗说:从前小小的戏台亭燃烧时,有两者远远逃走;然而留下的正是那两者——公鸡与猴子。

Verse 87

कालेन निधनं यातो यस्तस्या नाट्यमर्कटः । सोभूत्तव कुमारोऽसौ कुवकुटो मंत्रिणः सुतः

时日流转,那戏台的猴子走向死亡;他已转生为你的儿子,而那(昔日的)公鸡则成了大臣之子。

Verse 88

रुद्राक्षधारणोद्भूतात्पुण्यात्पूर्वभवार्जितात् । कुले महति संजातौ वर्तेते बालकाविमौ

由于佩戴鲁陀罗叉所生之福德——乃前世所积——这两个孩子得生于伟大尊贵之家,如今安住其中。

Verse 89

पूर्वाभ्यासेन रुद्राक्षान्दधाते शुद्धमानसौ । अस्मिञ्जन्मनि तं लोकं शिवं संपूज्य यास्य तः

凭借往昔修习之力,他们佩戴鲁陀罗叉,心意清净;就在此生,圆满礼敬湿婆,必将往生彼神圣世界。

Verse 90

एषा प्रवृत्तिस्त्वनयोर्बालयोः समुदाहृता । कथा च शिवभक्ताया किमन्यत्प्रष्टुमिच्छसि

至此,关于这两个男孩的经历已详尽叙述,也讲述了那位虔敬礼拜湿婆(Śiva)之人的故事。你还想问什么呢?