
那罗陀请问:主为何降生为弥利迦ṇḍu之子,又为何摩尔迦ṇḍeya在宇宙洪劫(pralaya)中得见毗湿奴的幻力(māyā)。萨那迦叙述:弥利迦ṇḍu入居家道(gṛhastha);一子由哈利(Hari)光辉而生,并受乌帕那耶那(upanayana)入门礼。父亲教其晨昏礼拜(sandhyā)、研习吠陀、自制、远离伤人之语,并亲近德行具足的毗湿奴信众(Vaiṣṇava)。摩尔迦ṇḍeya为阿周陀(Acyuta)修苦行,得与《普拉那》编纂相关之加持;在哈利安住瑜伽之时,他如水上浮叶般历经大劫。经文继而详述宇宙时间尺度:自眨瞬(nimeṣa)至劫(kalpa)、摩奴期(manvantara)、梵天昼夜与帕拉尔达(parārdha)等。造化复起时,摩尔迦ṇḍeya赞颂贾那尔达那(Janārdana);主开示“薄伽梵行者之相”(Bhāgavata-lakṣaṇa):不害、无嫉、布施、守持十一斋日(Ekādaśī)、敬奉图拉西(Tulasi)、事奉父母/牛/婆罗门、朝礼圣地(tīrtha-yātrā),并以平等心观湿婆与毗湿奴。最终,摩尔迦ṇḍeya于沙拉格拉摩(Śālagrāma)以禅定与法(dharma)证入涅槃。
Verse 1
नारद उवाच । ब्रह्मन्कथं स भगवान्मृकण्डोः पुत्रतां गतः । किं चकार च तद् ब्रूहि हरिर्भार्गववंशजः ॥ १ ॥
那罗陀说道:“婆罗门啊,那位至福的主(Bhagavān)如何成为摩利迦ṇḍu之子而降生?又那位出自婆利古族系的诃利(Hari)做了什么?请为我宣说。”
Verse 2
श्रूयते च पुराणेषु मार्कण्डेयो महामुनिः । अपश्यद्वैष्णवीं मायां चिरञ्जीव्यस्य संप्लवे ॥ २ ॥
诸往世书亦传闻:大圣者马尔坎ḍेय在临于那位长寿者的宇宙大洪水(劫坏)之时,曾目睹毗湿奴的神圣幻力——毗湿奴幻(Vaiṣṇavī māyā)。
Verse 3
सनक उवाच । शृणु नारद वक्ष्यामि कथामेतां सनातनीम् । विष्णुभक्तिसमायुक्तां मार्कण्डेयमुनिं प्रति ॥ ३ ॥
萨那迦说道:“听着,那罗陀啊;我将为你宣说这永恒的故事——充满对毗湿奴的奉爱——并以马尔坎ḍेय牟尼为缘起。”
Verse 4
तपसोऽन्ते मृकण्डुस्तु भार्यामुद्वाह्य सत्तमः । गार्हस्थ्यमकरोद्धृष्टः शान्तो दान्तः कृतार्थकः ॥ ४ ॥
苦行圆满之际,圣贤摩利迦ṇḍu(Mṛkaṇḍu)这位至善者迎娶妻室,入于居士之道(家住期);其心坚定自信,安宁寂静,克制诸根,所愿已成。
Verse 5
तस्य भार्या शुचिर्दक्षा नित्यं पतिपरायणा । मनसा वचसा चापि देहेन च पतिव्रता ॥ ५ ॥
其妻清净贤能,恒常专心奉事夫君;以意、以言、以身皆守“夫誓”(pativratā)之戒,忠贞不二。
Verse 6
काले दधार सा गर्भं हरितेजॐशसंभवम् । सुषुवे दशमासान्ते पुत्रं तेजस्विनं परम् ॥ ६ ॥
时至其时,她怀上了胎儿,乃由哈利(Hari)光辉之一分所生;十月期满,诞下一位极其灿然的男婴。
Verse 7
स ऋषिः परमप्रीतो दृष्ट्वा पुत्रं सुलक्षणम् । जातकं कारयामास मङ्गलं विधिपूर्वकम् ॥ ७ ॥
那位圣仙见到具足吉相之子,欢喜无量;遂依经典仪轨,令行诞生礼(jātakarma)及诸吉祥仪式,悉皆如法。
Verse 8
स बालो ववृधे तत्र शुक्लपक्ष इवोडुपः । ततस्तु पञ्चमे वर्षे उपनीय मुदान्वितः ॥ ८ ॥
那孩子在彼处成长,如白半月中渐盈之月。其后至第五年,欢喜受行“入学礼”(upanayana),佩戴圣线。
Verse 9
शिक्षां चकार विप्रेन्द्र वैदिकीं धर्मसंहिताम् । नमस्कार्या द्विजाः पुत्र सदा दृष्ट्वा विधानतः ॥ ९ ॥
噢,婆罗门中的最胜者,他编纂了吠陀《师迦沙》(Śikṣā),成为次第分明的法(dharma)汇编。孩子啊,凡见到二次生者(dvija),当依正法仪轨,常以恭敬顶礼致敬。
Verse 10
त्रिकालं सूर्यमभ्यर्च्य सलिलाञ्जलिदानतः । वैदिकं कर्म कर्तव्यं वेदाध्ययनपूर्वकम् ॥ १० ॥
在一日三时交会之际礼拜太阳神,并以合掌捧水(añjali)作供献;随后应行吠陀仪轨,而其先当以研习诵读吠陀为本。
Verse 11
ब्रह्मचर्येण तपसा पूजनीयो हरिः सदा । निषिद्धं वर्जनीयं स्याद् दुष्टसंभाषणादिकम् ॥ ११ ॥
以梵行(brahmacarya)与苦行(tapas)之力,当恒常礼敬哈利(Hari);凡所禁戒者皆应远离——先从邪恶有害之言语等开始。
Verse 12
साधुभिः सह वस्तव्यं विष्णुभक्तिपरैः सदा । न द्वेषः कस्यचित्कार्यः सर्वेषां हितमाचरेत् ॥ १२ ॥
当常与诸善士同住——他们以毗湿奴之奉爱(bhakti)为归依。不可对任何人起憎恨;应行一切利益众生之事。
Verse 13
इज्याध्ययनदानानि सदा कार्याणि ते सुत । एवं पित्रा समादिष्टो मार्कण्डेयो मुनीश्वरः ॥ १३ ॥
“孩子啊,当恒常行供奉(ijyā)、研习吠陀与布施(dāna)。”如是受父亲教诲,伟大圣者马尔坎德耶(诸牟尼之尊)便依教奉行。
Verse 14
चचार धर्मं सततं सदा संचिन्तयन्हरिम् । मार्कण्डेयो महाभागो दयावान्धर्मवत्सलः ॥ १४ ॥
大福德的圣者摩尔甘德耶常行于法(Dharma)之道,恒常观念哈利(Hari);他慈悲为怀,深深爱敬正法。
Verse 15
आत्मवान्सत्यसन्धश्च मार्तण्डसदृशप्रभः । वशी शान्तो महाज्ञानी सर्वतत्त्वार्थकोविदः ॥ १५ ॥
他自持自守,誓愿真实不移;光辉如日;克己调御,寂静安然,为大智者,通达一切真理原则(tattva)之义。
Verse 16
तपश्चचार परममच्युतप्रीतिकारणम् । आराधितो जगन्नाथो मार्कण्डेयेन धीमता ॥ १६ ॥
智者摩尔甘德耶修行至高苦行,只为赢得阿周陀(Acyuta)之恩;因此他虔敬礼拜贾甘纳塔(Jagannātha),宇宙之主。
Verse 17
पुराणसंहितां कर्त्तुं दत्तवान्वरमच्युतः । मार्कण्डेयो मुनिस्तस्मान्नारायण इति स्मृतः ॥ १७ ॥
不堕之主阿周陀赐予他编纂《普拉那》总集之恩许;因此圣牟尼摩尔甘德耶被人忆念为“那罗延那(Nārāyaṇa)”。
Verse 18
चिरजीवी महाभक्तो देवदेवस्य चक्रिणः । जगत्येकार्णवीभूते स्वप्रभावं जनार्द्दनः ॥ १८ ॥
这位长寿的大奉献者,敬爱诸神之神、执轮之主;当整个世界化作一片汪洋时,他得见阇那尔达那(毗湿奴)本有的神圣威力。
Verse 19
तस्य दर्शयितुं विप्रास्तं न संहृतवान्हरिः । मृकण्डुतनयो धीमान्विष्णुभक्तिसमन्वितः ॥ १९ ॥
噢,诸婆罗门!为使其显现为榜样,诃利(Hari)并未将他从世间收回。他是牟利坎度(Mṛkaṇḍu)那位睿智之子,具足对毗湿奴(Viṣṇu)的虔敬之心。
Verse 20
तस्मिञ्जले महाघोरे स्थितवाञ्छीर्णपत्रवत् । मार्कण्डेयः स्थितस्तावद्यावच्छेते हरिः स्वयम् ॥ २० ॥
在那极其可怖的汪洋之中,马尔坎德耶(Mārkaṇḍeya)安住不动——如枯叶随波漂浮——直至诃利(Hari)亲自安卧于瑜伽之眠。
Verse 21
तस्य प्रमाणं वक्ष्यामि कालस्य वदतः शृणु । दशभिः पञ्चभिश्चैव निमैषैः परिकीर्तिता ॥ २१ ॥
且听我所言:我将宣说时间的度量。经中宣示:其数为十五个“尼梅沙”(nimeṣa)。
Verse 22
काष्ठा तत्त्रिंशतो ज्ञेया कला पद्मजनन्दन । तत्त्रिंशतो क्षणो ज्ञेयस्तैः षड्भिर्घटिका स्मृता ॥ २२ ॥
噢,莲生者(Padmajā,梵天)所钟爱的儿子啊:当知三十“卡什塔”(kāṣṭhā)为一“卡拉”(kalā);三十“卡拉”为一“刹那”(kṣaṇa);而六个这样的“刹那”,传统上称为一“伽提迦”(ghaṭikā)。
Verse 23
तद्द्वयेन मुहूर्त्तं स्याद्दिनं तत्त्रिंशताभवेत् । त्रिंशद्दिनैर्भवेन्मासः पक्षद्वितयसंयुतः ॥ २३ ॥
以该单位之二倍成一“牟呼尔塔”(muhūrta);三十牟呼尔塔为一日。三十日为一月,具足两半月(两“帕克沙”pakṣa)。
Verse 24
ऋतुर्मासद्वयेन स्यात्तत्त्रयेणायनं स्मृतम् । तद्द्वयेन भवेदब्दः स देवानां दिनं भवेत् ॥ २४ ॥
两个月成一季(ṛtu);三季合称为一“ayana”(半年)。两“ayana”为一年(abda),而这一年即为诸天的一日。
Verse 25
उत्तरं दिवसं प्राहू रात्रिर्वै दक्षिणायनम् । मानुषेणैव मासेन पितॄणां दिनमुच्यते ॥ २५ ॥
人们宣说:北行(uttarāyaṇa)为昼,南行(dakṣiṇāyana)确为夜。并且以人间一月,计为祖灵(Pitṛs)的一“日”。
Verse 26
तस्मात्सूर्येन्दुसंयोगे ज्ञातव्यं कल्पमुत्तमम् । दिव्यैर्वर्षसहस्रैर्द्वादशभिर्दैवतं युगम् ॥ २६ ॥
因此,当明了日月的会合与推算之法,便应知晓最殊胜的劫(kalpa)之度量。一“天界劫期”(daivata‑yuga)由一万二千个天年组成。
Verse 27
दैवे युगसहस्रे द्वे ब्राह्मः कल्पौ तु तौ नृणाम् । एकसप्ततिसंख्यातैर्दिव्यैर्मन्वन्तरं युगैः ॥ २७ ॥
两千个天界劫期(神圣 yuga)合为梵天之劫(Brāhma‑kalpa),以人间之算法而言;而一“摩奴期”(manvantara)则以七十一这样的天界劫期为量。
Verse 28
चतुर्द्दशभिरेतैश्च ब्रह्मणो दिवसं मुने । यावत्प्रमाणं दिवसं तावद्रा त्रिः प्रकीर्तिता ॥ २८ ॥
噢牟尼啊,由这十四个摩奴期(Manvantara)便确定了梵天之“昼”的时量;而其“夜”亦被宣说与此昼等量同长。
Verse 29
नाशमायाति विप्रेन्द्र तस्मिन्काले जगत्त्रयम् । मानुषेण सहस्रेण यत्प्रमाणं भवेच्छृणु ॥ २९ ॥
噢,婆罗门中最胜者,于彼时三界(诸世界)趋于毁灭。今当谛听:那时量度,以人间千年为计。
Verse 30
चतुर्युगसहस्राणि ब्रह्मणो दिवसं मुने । तद्वन्मासो वत्सरश्च ज्ञेयस्तस्यापि वेधसः ॥ ३० ॥
噢,牟尼啊,梵天(Brahmā)之一日,乃四劫(四瑜伽)轮回一千。亦复如是,彼维陀诃斯——造物主——之月与年,当知皆由此等日数而成。
Verse 31
परार्द्धद्वयकालस्तु तन्मतेन भवेद्द्विजाः । विष्णोरहस्तु विज्ञेयं तावद्रा त्रिः प्रकीर्तिता ॥ ३१ ॥
噢,诸二生者,依彼教义,当知两“帕拉尔达”(parārdha)之时量;而“毗湿奴之日”亦应知与此同量。其夜又被宣说为三重,分为三段。
Verse 32
मृकण्डुतनयस्तावत्स्थितः संजीर्णपर्णवत् । तस्मिन्घोरे जलमये विष्णुशक्त्युपबृंहितः । आत्मानं परमं ध्यायन्स्थितवान्हरिसन्निधौ ॥ ३२ ॥
于是,摩利坎度(Mṛkaṇḍu)之子如枯叶般不动而住。在那可怖、尽为水所充满的浩瀚之境中,他蒙毗湿奴之神力扶持,安住于哈利(Hari)亲临之前,观想至上我(最高自性)。
Verse 33
अथ काले समायाते योगनिद्रा विमोचितः । सृष्टवान्ब्रह्मरूपेण जगदेतच्चराचरम् ॥ ३३ ॥
随后,时辰既至,彼从瑜伽之眠中解脱而起;化现为梵天之相,创造此一切宇宙——动者与不动者皆然。
Verse 34
संहृतं तु जलं वीक्ष्य सृष्टं विश्वं मृकण्डुजः । विस्मितः परमप्रीतो ववन्दे चरणौ हरेः ॥ ३४ ॥
见诸水已收敛退去,而宇宙已然创成,摩利迦ṇḍu之子惊叹不已,心满至乐,遂俯伏顶礼于哈利圣足。
Verse 35
शिरस्यञ्जलिमाधाय मार्कण्डेयो महामुनिः । तुष्टाव वाग्भिरिष्टाभिः सदानन्दैकविग्रहम् ॥ ३५ ॥
大圣者摩尔迦ṇḍeya合掌置于顶上,以挚爱的祈祷之辞赞颂那唯以常乐为体的至尊。
Verse 36
मार्कण्डेय उवाच । सहस्रशिरसं देवं नारायणमनामयम् । वासुदेवमनाधारं प्रणतोऽस्मि जनार्दनम् ॥ ३६ ॥
摩尔迦ṇḍeya曰:我顶礼阇那尔达那——瓦苏德瓦、神圣的那罗延——千首具足,离诸病恼,不依外缘而自立。
Verse 37
अमेयमजरं नित्यं सदानन्दैकविग्रहम् । अप्रतर्क्यमनिर्द्देश्यं प्रणतोऽस्मि जनार्दनम् ॥ ३७ ॥
我顶礼阇那尔达那——无量不可测,不生不老,恒常不变;其身唯是一味常乐、无分无二;超越思辨,难以言诠。
Verse 38
अक्षरं परमं नित्यं विश्वाक्षं विश्वसम्भवम् । सर्वतत्त्वमयं शान्तं प्रणतोऽस्मि जनार्दनम् ॥ ३८ ॥
我顶礼阇那尔达那——不坏之常、至上恒常;遍观宇宙之主、宇宙所从生起之源;具足一切真理原则,寂静安然,亦即和平本身。
Verse 39
पुराणं पुरुषं सिद्धं सर्वज्ञानैकभाजनम् । परात्परतरं रूपं प्रणतोऽस्मि जनार्दनम् ॥ ३९ ॥
我顶礼阇那尔达那(Janārdana):永恒圆满的至上人格,正是《普罗那》本身,承载一切知识的唯一宝藏;其圣形超越“超越者”,高于至高之上。
Verse 40
परं ज्योतिः परं धाम पवित्रं परमं पदम् । सर्वैकरूपं परमं प्रणतोऽस्मि जनार्दनम् ॥ ४० ॥
你是至上的光明,至上的圣住处,至净之净——亦即最高境地。我顶礼阇那尔达那:至上者,于万相之中为一相。
Verse 41
तं सदानन्दचिन्मात्रं पराणां परमं पदम् । सर्वं सनातनं श्रेष्ठं प्रणतोऽस्मि जनार्दनम् ॥ ४१ ॥
我顶礼阇那尔达那:唯纯识、常乐之本体;超越诸境的至上归处;遍一切而常住的永恒真实;最胜、最尊。
Verse 42
सगुणं निर्गुणं शान्तं मायाऽतीतं सुमायिनम् । अरूपं बहुरूपं तं प्रणतोऽस्मि जनार्दनम् ॥ ४२ ॥
我顶礼阇那尔达那:具德相而又超越德相;寂静安然;超越摩耶而为摩耶之主;无相而现多相。
Verse 43
यत्र तद्भगवान्विश्वं सृजत्यवति हन्ति च । तमादिदेवमीशानं प्रणतोऽस्मि जनार्दनम् ॥ ४३ ॥
我顶礼阇那尔达那——本初之神、至上主宰;在他之中,薄伽梵创造宇宙、护持宇宙,并亦使之归于寂灭。
Verse 44
परेश परमानन्द शरणागतवत्सल । त्राहि मां करुणासिन्धो मनोतीत नमोऽस्तु ते ॥ ४४ ॥
噢至上主,至上安乐,怜爱归依者——愿救护我。噢慈悲之海,超越心意者——向您顶礼。
Verse 45
एवं स्तुवन्तं विप्रेन्द्रं मार्कण्डेयं जगद्गुरुम् । उवाच परया प्रीत्या शंखचक्रगदाधरः ॥ ४५ ॥
当婆罗门中最尊者——马尔坎德耶、世间之师——如此赞颂时,那执螺、轮与杵的主,以至高欢喜对他说道。
Verse 46
श्रीभगवानुवाच । लोके भागवता ये च भगवद्भक्तमानसाः । तेषां तुष्टो न सन्देहो रक्षाम्येतांश्च सर्वदा ॥ ४६ ॥
世尊说道:“世间凡为薄伽梵之信徒、心住于对主的奉爱,并且心系主之奉献者者——我必悦纳他们,毫无疑问;我恒常护佑他们。”
Verse 47
अहमेव द्विजश्रेष्ठ नित्यं प्रच्छन्नविग्रहः । भगवद्भक्तरूपेण लोकान्रक्षामि सर्वदा ॥ ४७ ॥
婆罗门中最胜者啊,唯我恒常以隐密之身而住;我化作主的奉献者之相,常护诸世界。
Verse 48
मार्कण्डेय उवाच । किं लक्षणा भागवता जायन्ते केन कर्म्मणा । एतदिच्छाम्यहं श्रोतुं कौतूहलपरो यतः ॥ ४८ ॥
马尔坎德耶说道:“薄伽梵信徒有何殊胜标志?他们因何种业行而成就?我愿聆听此事,因为我满怀求知之心。”
Verse 49
श्रीभगवानुवाच । लक्षणं भागवतानां शृणुष्व मुनिसत्तम । वक्तुं तेषां प्रभावं हि शक्यते नाब्दकोटिभिः ॥ ४९ ॥
世尊说道:“噢,最胜的牟尼啊,请听诸婆伽梵信众(Bhāgavata,主的奉献者)的特征。诚然,他们的伟大,即使以亿万言辞也难以尽述。”
Verse 50
ये हिताः सर्वजन्तूनां गतासूया अमत्सराः । वशिनो निस्पृहाः शान्तास्ते वै भागवतोत्तमाः ॥ ५० ॥
凡以一切众生之安乐为怀,离嫉妒、离恶意,自制无欲,心地寂静者——此等人确为最上婆伽梵信众,主之至高奉献者。
Verse 51
कर्म्मणा मनसा वाचा परपीडां न कुर्वते । अपरिग्रहशीलाश्च ते वै भागवताः स्मृताः ॥ ५१ ॥
不以行为、意念或言语伤害他人,并修持不执取、不占有之行者,确被忆念为真正的婆伽梵信众。
Verse 52
सत्कथाश्रवणे येषां वर्त्तते सात्विकी मतिः । तद्भक्तविष्णुभक्ताश्च ते वै भागवतोत्तमाः ॥ ५२ ॥
其清净的萨埵之慧安住于聆听圣善法谈,并且既敬爱主之奉献者、亦归依毗湿奴者——他们确为婆伽梵信众中最为殊胜者。
Verse 53
मातापित्रोश्च शुश्रूषां कुर्वन्ति ये नरोत्तमाः । गङ्गाविश्वेश्वरधिया ते वै भागवतोत्तमाः ॥ ५३ ॥
凡人中至善者,恭敬爱护而奉事父母,并以同等的神圣敬意视此奉事如恒河与宇宙之主——他们确为最上婆伽梵信众。
Verse 54
ये तु देवार्चनरता ये तु तत्साधकाः स्मृताः । पूजां दृष्ट्वानुमोदन्ते ते वै भागवतोत्तमाः ॥ ५४ ॥
凡乐于礼拜供奉薄伽梵者,及被称为其修行者者——见他人供奉便心生欢喜、随喜赞叹并予以认可——此等人实为诸薄伽梵奉者(Bhāgavata)中之最上。
Verse 55
व्रतिनां च यतीनां च परिचर्यापराश्च ये । वियुक्तपरनिन्दाश्च ते वै भागवतोत्तमाः ॥ ५५ ॥
凡专心侍奉持戒立誓者与诸瑜提(出离者、遁世者),且远离讥毁他人者——此等人实为薄伽梵奉者中之最上。
Verse 56
सर्वेषां हितवाक्यानि ये वदन्ति नरोत्तमाः । ये गुणग्राहिणो लोके ते वै भागवताः स्मृताः ॥ ५६ ॥
人中至善者,能说利益一切众生之语;并于世间善于取人之德、见他人之善——此等人被称念为真正的薄伽梵奉者(Bhāgavata)。
Verse 57
आत्मवत्सर्वभूतानि ये पश्यन्ति नरोत्तमाः । तुल्याः शत्रुषु मित्रेषु ते वै भागवतोत्तमाः ॥ ५७ ॥
人中至善者,以一切众生如同自身而观;对敌与友皆平等无二——此等人实为薄伽梵奉者中之最上。
Verse 58
धर्म्मशास्त्रप्रवक्तारः सत्यवाक्यरताश्च ये । सतां शुश्रूषवो ये च ते वै भागवतोत्तमाः ॥ ५८ ॥
凡宣说阐释达摩圣典(Dharma-śāstra)者,乐于说真实语者,并勤恳侍奉贤善之士者——此等人实为诸薄伽梵奉者中之最上。
Verse 59
व्याकुर्वते पुराणानि तानि शृण्वन्ति ये तथा । तद्वक्तरि च भक्ता ये ते वै भागवतोत्तमाः ॥ ५९ ॥
凡宣讲诸《普拉那》(Purāṇa)者,凡恭敬聆听者,以及对宣说此法之师怀抱虔敬者——此等人确为至上之婆伽梵信徒(Bhāgavata-uttama),为奉事 Bhagavān 的最胜者。
Verse 60
ये गोब्राह्मणशुश्रूषां कुर्वते सततं नराः । तीर्थयात्रापरा ये च ते वै भागवतोत्तमाः ॥ ६० ॥
恒常侍奉圣牛与婆罗门者,以及专心前往诸圣地(tīrtha)朝圣者——此等人确为最胜的婆伽梵信徒(Bhāgavata-uttama)。
Verse 61
अन्येषामुदयं दृष्ट्वा येऽभिनंदन्ति मानवाः । हरिनामपरा ये च ते वै भागवतोत्तमाः ॥ ६१ ॥
见他人兴盛昌隆而随喜赞叹、不生嫉妒者,以及全心依止哈利(Hari)圣名者——此等人确为至上之婆伽梵信徒(Bhāgavata-uttama)。
Verse 62
आरामारोपणरतास्तडागपरिरक्षकाः । कासारकूपकर्तारस्ते वै भागवतोत्तमाः ॥ ६२ ॥
乐于栽植营建园林者,守护池塘与水库者,以及开凿湖泊与井泉者——此等人确为最胜的婆伽梵信徒(Bhāgavata-uttama)。
Verse 63
ये वै तडागकर्तारो देवसद्मानि कुर्वते । गायत्रीनिरता ये च ते वै भागवतोत्तमाः ॥ ६३ ॥
为众生利益而修建池塘者,建造神祇居所(寺庙)者,以及恒常专注诵持伽雅特丽(Gāyatrī)者——此等人确为最胜的婆伽梵信徒(Bhāgavata-uttama)。
Verse 64
येऽभिनन्दन्ति नामानि हरेः श्रुत्वाऽतिहर्षिताः । रोमाञ्चितशरीराश्च ते वै भागवतोत्तमाः ॥ ६४ ॥
凡听闻哈利(Hari)圣名便大欢喜而称扬赞叹,身起战栗、毛发竖立者——彼等实为最上之薄伽梵信徒(Bhāgavata)。
Verse 65
तुलसीकाननं दृष्ट्वा ये नमस्कुर्वते नराः । तत्काष्ठाङ्कितकर्णा ये ते वै भागवतोत्तमाः ॥ ६५ ॥
凡见到图拉西(Tulasī)林便恭敬顶礼者;以及耳上以其圣木作记号或饰物者——彼等实为最上薄伽梵信徒,至胜的奉主者。
Verse 66
तुलसीगन्धमाघ्राय सन्तोषं कुर्वते तु ये । तन्मूलमृतिकां ये च ते वै भागवतोत्तमाः ॥ ६६ ॥
凡仅嗅闻图拉西(Tulasī)之清香便心生满足安宁者;并且亦敬奉其根下圣土者——彼等实为最上薄伽梵信徒。
Verse 67
आश्रमाचारनिरतास्तथैवातिथिपूजकाः । ये च वेदार्थवक्तारस्ते वै भागवतोत्तमाः ॥ ६७ ॥
凡勤于遵行诸住期(āśrama)之正行,亦敬奉来宾,并能宣说吠陀(Veda)义理者——彼等实为主之信徒中最上者(Bhāgavata)。
Verse 68
शिवप्रियाः शिवासक्ताः शिवपादार्च्चने रताः । त्रिपुण्ड्रधारिणो ये च ते वै भागवतोत्तमाः ॥ ६८ ॥
凡为湿婆(Śiva)所喜爱,心系湿婆,专注礼拜湿婆足下,并佩持三道圣灰线之三纹(tripuṇḍra)者——彼等实为最上薄伽梵信徒。
Verse 69
व्याहरन्ति च नामानि हरेः शम्भोर्महात्मनः । रुद्रा क्षालंकृता ये च ते वै भागवतोत्तमाः ॥ ६९ ॥
凡恒常宣说哈利(Hari)与大心的商婆(Śambhu,湿婆)圣名者,以及由此功德所庄严的诸鲁陀罗(Rudra),实为薄伽梵(Bhagavān)之奉主者中最上——薄伽跋多至胜者。
Verse 70
ये यजन्ति महादेवं क्रतुभिर्बहुदक्षिणैः । हरिं वा परया भक्त्या ते वै भागवतोत्तमाः ॥ ७० ॥
以丰厚布施相随的祭仪(kratu)礼敬大天(Mahādeva)者,或以至上奉爱(bhakti)礼敬哈利(Hari)者——此等人确为薄伽跋多至胜者,主之奉主者中最上。
Verse 71
विदितानि च शास्त्राणि परार्थं प्रवदन्ति ये । सर्वत्र गुणभाजो ये ते वै भागवताः स्मृताः ॥ ७१ ॥
凡通达诸经论(śāstra)而为他人福祉宣说教法者,且于一切处境皆分有德行者——此等人被忆念为薄伽跋多(Bhāgavata),即主之奉主者。
Verse 72
शिवे च परमेशे च विष्णौ च परमात्मनि । समबुद्ध्या प्रवर्त्तन्ते ते वै भागवताः स्मृताः ॥ ७२ ॥
凡以平等之心、同等恭敬而行于湿婆(Śiva,至上主)与毗湿奴(Viṣṇu,至上我 Paramātmā)者——此等人被称念为薄伽跋多(Bhāgavata),真正的奉主者。
Verse 73
शिवाग्निकार्यनिरताः पञ्चाक्षरजपे रताः । शिवध्यानरता ये च ते वै भागवतोत्तमाः ॥ ७३ ॥
勤修供奉湿婆之火供仪轨者,乐于持诵五字真言(pañcākṣara)者,并恒常安住于观想湿婆者——此等人实为薄伽跋多至胜者,奉主者中最上。
Verse 74
पानीयदाननिरता येऽन्नदानरतास्तथा । एकादशीव्रतरता ते वै भागवतोत्तमाः ॥ ७४ ॥
凡乐于施舍饮水、同样欢喜布施饮食,并坚定守持“爱迦达希”(Ekādaśī)斋戒之誓者——此等人确为薄伽梵的奉爱者中最上者。
Verse 75
गोदाननिरता ये च कन्यादानरताश्च ये । मदर्थं कर्म्मकर्त्तारस्ते वै भागवतोत्तमाः ॥ ७५ ॥
凡勤于施舍乳牛者,及勤于行“女施”(kanyādāna,嫁女之施)者,并以此等善业为我而作者——此等人确为薄伽梵奉爱者中最上者。
Verse 76
एते भागवता विप्र केचिदत्र प्रकीर्तिताः । मयाऽपि गदितुं शक्या नाब्दकोटिशतैरपि ॥ ७६ ॥
婆罗门啊,此处所称述的主之奉爱者(bhāgavata)不过是其中少分。即便是我,也不能尽数宣说——纵历百亿万年亦难穷尽。
Verse 77
तस्मात्त्वमपि विप्रेन्द्र सुशीलो भव सर्वदा । सर्वभूताश्रयो दान्तो मैत्रो धर्म्मपरायणः ॥ ७७ ॥
因此,婆罗门中最胜者啊,你也应恒常具足善行:作一切众生之依怙,自制调伏,和善友爱,并坚定归依于达摩。
Verse 78
पुनर्युगान्तपर्य्यन्तं धर्म्मं सर्वं समाचरन् । मन्मूर्तिध्याननिरतः परं निर्वाणमाप्स्यसि ॥ ७८ ॥
若你反复修行一切达摩,直至劫末,并恒常专注观想我的圣形,你将证得至上的涅槃境界。
Verse 79
एवं मृकण्डुपुत्रस्य स्वभक्तस्य कृपानिधिः । दत्त्वा वरं स देवेशस्तत्रैवान्तरधीयत ॥ ७९ ॥
于是,主宰——慈悲之海——赐福于摩利迦ṇḍु之子、祂自己的虔诚奉主者;随后,那位诸天之主便在原地隐没不见。
Verse 80
मार्कण्डेयो महाभागो हरिभक्तिरतः सदा । चचार परमं धर्ममीजे च विधिवन्मखैः ॥ ८० ॥
大福德的圣者摩利迦ṇḍ耶,恒常安住于对哈利的奉爱(bhakti);他修行至上的法(Dharma),并依经典所定的正仪举行祭祀。
Verse 81
शालग्रामे महाक्षेत्रे तताप परमं तपः । ध्यानक्षपितकर्मा तु परं निर्वाणमाप्तवान् ॥ ८१ ॥
在伟大的圣域舍罗伽罗摩(Śālagrāma),他修持至上的苦行;以禅定消尽诸业,遂证得无上的涅槃(nirvāṇa)。
Verse 82
तस्माज्जन्तुषु सर्वेषु हितकृद्धरिपूजकः । ईप्सितं मनसा यद्यत्तत्तदाप्नोत्यसंशयम् ॥ ८२ ॥
因此,凡礼敬哈利并利益一切众生者,必定无疑得遂其心中所愿。
Verse 83
सनक उवाच । एतत्सर्वं निगदितं त्वया पृष्टं द्विजोत्तम । भगवद्भक्तिमाहात्म्यं किमन्यच्छ्रोतुमिच्छसि ॥ ८३ ॥
萨那迦说道:“噢,最胜的二生者,我已如你所问尽皆宣说——即对主的奉爱(bhakti)之伟大。你还想听什么呢?”
Verse 84
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे मार्कण्डेयवर्णनं नाम पञ्चमोऽध्यायः ॥ ५ ॥
至此,尊贵的《广那罗陀往世书》前分第一品中,名为《马尔坎德耶之描写》的第五章圆满结束。
It functions as a theological demonstration of Viṣṇu’s sovereign māyā and protection of the devotee: Mārkaṇḍeya remains sustained on the cosmic waters while Hari abides in yogic repose, underscoring bhakti as a means of stability across dissolution and creation. The episode also motivates the chapter’s technical kalpa–manvantara chronology, placing devotion within a cosmic-scale framework.
A Bhāgavata is characterized by universal benevolence, non-injury in thought/speech/deed, freedom from envy, self-control and non-possessiveness, love of hearing Purāṇic discourse, service to parents, cows, and brāhmaṇas, observance of Ekādaśī, generosity (water/food/cow gifts), delight in Hari-nāma, reverence for Tulasi, and an equal-minded honoring of Śiva and Viṣṇu.
By defining time from nimeṣa up to Brahmā’s day/night and parārdha measures, the text frames vrata-kalpa, daily rites, and mokṣa-dharma within an ordered cosmic chronology—implying that dharma and bhakti are not merely personal piety but practices aligned with the structure of creation, dissolution, and divine governance.