
本章以吉祥赞颂(Maṅgalācaraṇa)开篇,层层祈请师长、象头神伽内沙、婆苏提婆/那罗延、那罗–那罗多多摩与辩才天女萨拉斯瓦蒂,并赞叹本初至上者,其部分显现统摄为梵天–毗湿奴–大自在天。于奈弥沙林中,绍那迦等圣贤修苦行,以祭祀、智慧与奉爱(bhakti)礼敬毗湿奴,求得圆融之道以成就法(dharma)、利(artha)、欲(kāma)与解脱(mokṣa)。他们得知苏多·罗摩诃尔沙那——毗耶娑弟子、获准宣说诸《往世书》者——居于悉达阿湿罗摩,遂前往其处,目睹奉那罗延之阿耆尼什托摩祭的情境,并等待阿瓦婆利他终礼。诸贤以“以智为待客”相请,询问如何取悦毗湿奴、正当礼拜、种姓与住期(varṇa–āśrama)之行、敬客之法、能结果之业,以及能解脱的奉爱之性。苏多答言将宣说圣子萨那迦与诸大圣贤对那罗陀所歌咏之教,并宣示《那罗陀往世书》与吠陀相应、能灭罪,且听闻/诵读各章有次第功德,并立严谨的说法礼仪与听法资格。章末强调解脱之法:忆念那罗延、专一聆听,能生起奉爱并圆满一切人生四义(puruṣārtha)。
Verse 1
ॐ श्रीगुरुभ्यो नमः । ॐ श्रीगणेशाय नमः । ॐ नमो भगवते वासुदेवाय । ॐ नारायाणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं चैवततो जयमुदीरयेत् ॥ १ ॥
唵——礼敬诸位圣师。唵——礼敬圣伽内沙。唵——礼敬薄伽梵·婆苏提婆。顶礼那罗延,并礼敬那罗与至上之那罗(那罗多摩),又礼敬女神萨拉斯瓦蒂,然后应为此神圣开示宣唱“胜利”。
Verse 2
ॐ वेदव्यासाय नमः । वृन्दे वृन्दावनासीनमिन्दिरानन्दन्दमन्दिरम् । उपेन्द्रं सांद्रकारुण्यं परानन्दं परात्परम् ॥ १॥ १ ॥
唵——礼敬韦陀毗耶娑。噢,温达啊!我敬拜安坐于温达伐那的优彭陀罗——他是因提罗(吉祥天女拉克希米)喜乐的殿堂与居处;其慈悲浓厚而洋溢;他即至上安乐,超越至高之上。
Verse 3
ब्रह्मविष्णुमहेशाख्यां यस्यांशा लोकसाधकाः । तमादिदेवं चिद्रूपं विशुद्ध परमं भजे ॥ २ ॥
我礼拜那位本初神祇——至净至上、纯识之体;其分现被称为梵天、毗湿奴与大自在天(湿婆),以成就诸世界的治理与运转。
Verse 4
शौनकाद्या महात्मान ऋषयो ब्रह्मवादिनः । नैमिषाख्ये महारण्ये तपस्तेपुर्मुमुक्षवः ॥ ३ ॥
绍那迦等大圣贤——宣说梵(梵我真理)者——在名为奈弥沙的大森林中,为求解脱而修行苦行。
Verse 5
जितेन्द्रिया जिताहाराः सन्तः सत्यपराक्रमाः । यजन्तः परया भक्त्या विष्णुमाद्यं सनातनम् ॥ ४ ॥
他们克制诸根,饮食有度;诸位圣善之人——其勇毅立于真实——以至上奉爱礼敬毗湿奴,那位本初而永恒的主。
Verse 6
अनीर्ष्याः सर्वधर्म्मज्ञा लोकानुग्रहतत्पराः । निर्म्ममा निरहंकाराः परस्मिन्नतमानसाः ॥ ५ ॥
他们无嫉妒,通达一切法之要义,专志饶益世间;无占有、无我慢,令心俯伏,奉献于至上者。
Verse 7
न्यस्तकामा विवृजिनाः शमादिगुणसंयुताः । कृष्णाजिनोत्तरीयास्ते जटिला ब्रह्मचारिणः ॥ ६ ॥
他们放下诸欲,远离罪垢,具足以寂静等为首的德行;披黑羚羊皮为上衣,发结成髻,作为持梵行的梵行者而住。
Verse 8
गृणन्तः परमं ब्रह्म जगच्चक्षुः समौजसः । धर्म्मशास्त्रार्थतत्त्वज्ञास्तेपुर्नैमिषकानने ॥ ७ ॥
那些圣贤赞颂至上梵——宇宙之眼的主宰;他们灵力均等,通晓《法论》之要义,于奈弥沙林中修行苦行。
Verse 9
यज्ञैर्यज्ञपतिं केचिज्ज्ञानैर्ज्ञानात्मकं परे । केचिच्च परया भक्त्या नारायणमपूजयन् ॥ ८ ॥
有人以祭祀礼敬祭主;有人以智慧礼敬那本性即智慧者;也有人以至上的奉爱(bhakti)礼拜那罗延(Nārāyaṇa)。
Verse 10
एकदा ते महात्मानः समाजं चक्रुरुतमाः । धर्मार्थकाममोक्षाणामुपायाञ्ज्ञातुमिच्छवः ॥ ९ ॥
有一次,那些德行崇高的大圣者召开集会,渴望知晓成就法(dharma)、利(artha)、欲(kāma)与解脱(mokṣa)之道。
Verse 11
षङ्विंशतिसहस्त्राणि मुनीनामूर्द्ध्वरेतसाम् । तेषां शिष्यप्रशिष्याणां संख्या वक्तुं न शक्यते ॥ १० ॥
有二万六千位牟尼圣者,守持梵行而灵性高升;其弟子与再传弟子的数目,实难尽言。
Verse 12
मुनयो भावितात्मानो मिलितास्ते महौजसः । लोकानुग्रहकर्तारो वीतरागा विमत्सराः ॥ ११ ॥
那些牟尼圣者——自心已修、灵光炽盛——齐聚一处;远离贪染与嫉妒,为诸世界的安乐与提升而行。
Verse 13
कानि क्षेत्राणि पुण्यानि कानि तीर्थानि भूतले । कथं वा प्राप्यते मुक्तिर्नृणां तापार्तचेतसाम् ॥ १२ ॥
大地之上,哪些圣域真正具足功德,哪些提尔塔(朝圣渡口)确实存在?而心为苦恼所灼的人类,又当如何证得解脱(莫克沙)?
Verse 14
कथं हरौ मनुष्याणां भक्तिरव्यभिचारिणी । केन सिध्येत च फलं कर्मणस्त्रिविधात्मनः ॥ १३ ॥
人间如何生起对哈利(毗湿奴)不偏不移、纯一无杂的奉爱(bhakti)?又凭何法门,使三类业(karma)之果得以圆满成就?
Verse 15
इत्येवं प्रष्टुमात्मानमुद्यतान्प्रेक्ष्य शौनकः । प्राञ्जलिर्वाक्यमाहेदं विनयावनतः सुधीः ॥ १४ ॥
见他们如此准备发问,智者绍那迦合掌致敬,谦恭俯首,遂说出如下言辞。
Verse 16
शौनक उवाच । आस्ते सिद्धाश्रमे पुण्ये सूतः पौराणिकोत्तमः । यजन्मखैर्बहुविधैर्विश्वरुपं जनार्दनम् ॥ १५ ॥
绍那迦说道:在神圣的悉达阿湿罗摩中,住着苏多——诸《往世书》讲述者之最胜者;他以种种祭祀之法,礼敬具宇宙之形的主宰阇那尔达那。
Verse 17
स एतदखिलं वेत्ति व्यासशिष्यो महामुनिः । पुराणसंहितावक्ता शान्तो वै रोमहर्षणिः ॥ १६ ॥
他对这一切了然于胸、无所不知——大圣者罗摩哈尔沙那,毗耶娑之弟子,性情寂静,宣诵《往世书》总集者。
Verse 18
युगे युगेऽल्पकान्धर्मान्निरीक्ष्य मधुसूदनः । वेदव्यास स्वरूपेण वेदभागं करोति वै ॥ १७ ॥
在每一个时代,摩度苏达那(主毗湿奴)见正法日渐衰微,便确然示现为吠陀毗耶娑,将吠陀分为诸部。
Verse 19
वेदव्यासमुनिः साक्षान्नारायण इति द्विजाः । शुश्रुमः सर्वशास्त्रेषु सूतस्तु व्यासशासितः ॥ १८ ॥
诸位再生的婆罗门圣者啊,我们在一切经典中听闻:牟尼吠陀毗耶娑实为那罗延亲自示现;而苏多则是受毗耶娑教诲并委任之人。
Verse 20
तेन संशासितः सूतो वेदव्यासेन धीमता । पुराणानि स वेत्त्येव नान्यो लोके ततः परः ॥ १९ ॥
蒙睿智的吠陀毗耶娑教诲,苏多(罗摩哈尔沙那)确实通达诸《往世书》;在此世间,就此学识而言无人胜过他。
Verse 21
स पुराणार्थविल्लोके स सर्वज्ञः स बुद्धिमान् । स शान्तो मोक्षधर्मज्ञः कर्मभक्तिकलापवित् ॥ २० ॥
在此世间,唯有他真正通达《普罗那》之义;他全知而睿智,心地寂静,了知导向解脱(mokṣa)的法(dharma),并且熟谙业(karma)与奉爱(bhakti)的一切门类。
Verse 22
वेदवेदाङ्गशास्त्राणां सारभूतं मुनीश्वराः । जगद्धितार्थं तत्सर्वं पुराणेषूक्तवान्मुनिः ॥ २१ ॥
噢,诸位大圣牟尼!吠陀与诸吠陀支(Vedāṅga)经典之精髓,圣者已在《普罗那》中尽皆宣说——为的是世间众生的福祉。
Verse 23
ज्ञानार्णवो वै सूतस्तत्सर्वतत्त्वार्थकोविदः । तस्मात्तमेव पृच्छाम इत्यूचे शौनको मुनीन् ॥ २२ ॥
苏多确是智慧之海,通晓一切真理(tattva)的义理与旨趣。因此,我们只当请问他一人——邵那迦如是对诸圣者说道。
Verse 24
ततस्ते मुनयः सर्वे शौनकं वाग्विदां वरम् । समाश्लिष्य सुसंप्रीताः साधु साध्विति चाब्रुवन् ॥ २३ ॥
于是诸位圣贤拥抱邵那迦——众多圣言大师中最为卓越者——欢喜无量,同声称赞:“善哉!善哉!”
Verse 25
अथ ते मुनयो जग्मुः पुण्यं सिद्धाश्रमं वने । मृगव्रजसमाकीर्णं मुनिभिः परिशोभितम् ॥ २४ ॥
随后诸位圣者前往林中神圣的悉达阿湿罗摩(Siddhāśrama)——其地群鹿成行,又因众多苦行仙人驻锡而更显庄严。
Verse 26
मनोज्ञभूरुहलताफलपुष्पविभूषितम् । युक्तं सरोभिरच्छोदैरतिथ्यातिथ्यसंकुलम् ॥ २५ ॥
彼处以悦目之树与藤蔓为饰,果实花朵繁盛;又有清澈纯净之湖泊点缀,其间常行迎宾待客之礼,宾客往来不绝。
Verse 27
ते तु नारायणं देवमनन्तमपराजितम् । यजन्तमग्निष्टोमेन ददृशू रोमहर्षणिम् ॥ २६ ॥
然而他们得见天神那罗延那——无尽而不可战胜者——正以阿耆尼湿多摩祭行崇拜;此等圣见令人毛发悚然,心生敬畏。
Verse 28
यथार्हमर्चितास्तेन सूतेन प्रथितौजसः । तस्यावभृथमीक्षन्तस्तत्र तस्थुर्मखालये ॥ २७ ॥
他们既受那位威德著称的苏多如法礼敬,便留在祭祀殿中,守候观望祭事终了之“阿婆婆利他”(avabhṛtha)沐浴仪式。
Verse 29
अधरावभृथस्नातं सूतं पौराणिकोत्तमम् । पप्रच्छुस्ते सुखासीनां नैमिषारण्यवासिनः ॥ २८ ॥
当苏多——诸《往世书》叙述者中最卓越者——于阿婆婆利他终礼后沐浴毕,奈弥沙林之住民见其安坐,便向他发问。
Verse 30
ऋषय ऊचुः । वयं त्वतिथयः प्राप्ता आतिथेयास्तु सुव्रत । ज्ञानदानोपचारेण पूजयास्मान्यथाविधिः ॥ २९ ॥
诸仙人说道:“噢,持善誓者,我们已作为你的宾客而来。故你为主人,当依正法如仪接纳礼敬我们,以知识之施为供养,并以相称的待客之礼相待。”
Verse 31
दिवौकसो हि जीवन्ति पीत्वा चन्द्रकलामृतम् । ज्ञानामृतं भूसुरास्तु मुने त्वन्मुखनिःसृतम् ॥ ३० ॥
天界众生确以饮月光所流之甘露而生;而婆罗门啊,圣者,他们以从你口中涌出的智慧甘露而活。
Verse 32
येनेदमखिलं जातं यदाधारं यदात्मकम् । यस्मिन्प्रतिष्ठितं तात यस्मिन्वा लयमेष्यति ॥ ३१ ॥
由彼而生此一切宇宙——彼即其依止,亦即其自性;亲爱的啊,万有安立于彼,终亦归于彼而融灭。
Verse 33
केन विष्णुः प्रसन्नः स्यात्स कथं पूज्यते नरैः । कथं वर्णाश्रमाचारश्चातिथेः पूजनं कथम् ॥ ३२ ॥
以何法能令毗湿奴欢喜?世人当如何礼拜供奉于祂?又当如何遵行种姓与住期之正行,并且如何敬奉来客?
Verse 34
सफलं स्याद्यथा कर्म मोक्षोपायः कथं नृणाम् । भक्त्या किं प्राप्यते पुंभिस्तथा भक्तिश्च कीदृशी ॥ ३३ ॥
如何使行为真正结出善果?人类通向解脱之道为何?凭借奉爱(bhakti),人能获得什么?又当修习何等奉爱?
Verse 35
वद सूत मुनिश्रेष्ट सर्वमेतदसंशयम् । कस्य नो जायते श्रद्धा श्रोतुं त्वद्वचनामृतम् ॥ ३४ ॥
请说吧,苏多啊,诸牟尼中最胜者——将这一切无疑地宣说。谁会不生信心与渴慕,愿听你言语之甘露呢?
Verse 36
सूत उवाच । श्रृणुध्वमृषयः सर्वे यदिष्टं वो वदामि तत् । गीतं सनकमुख्यैस्तु नारदाय महात्मने ॥ ३५ ॥
苏多说道:“诸位圣仙啊,请你们都聆听。我将如你们所愿,确切宣说——这神圣的教诲,乃由萨那迦等最上仙人歌咏,传与大心的那罗陀。”
Verse 37
पुराणं नारदोपाख्यमेतद्वेदार्थसंमितम् । सर्वपापप्रशमनं दुष्टग्रहनिवारणम् ॥ ३६ ॥
此部《那罗陀往世书》与吠陀之义完全相应;能平息一切罪业,并遮止由凶恶星曜影响所致的诸般苦患。
Verse 38
दुःस्वप्ननाशनं धर्म्यं भुक्तिमुक्तिफलप्रदम् । नारायणकथोपेतं सर्वकल्याणकारणम् ॥ ३७ ॥
它能摧灭恶梦,性属正法,并赐予世间受用与解脱之果;因具足那罗延的神圣事迹,遂成为一切吉祥之因。
Verse 39
धर्मार्थकाममोक्षाणां हेतुभूतं महाफलम् । अपूर्वपुण्यफलदं श्रृणुध्वं सुसमाहिताः ॥ ३८ ॥
请以专注之心聆听:此教法为法、利、欲、解脱之因;果报广大,并赐予前所未有的福德之果。
Verse 40
महापातकयुक्तो वा युक्तो वाप्युपपातकैः । श्रृत्वैतदार्षं दिव्यं च पुराणं शुद्धिमाप्नुयात् ॥ ३९ ॥
即便有人染著重罪,或亦带有诸般小罪,只要聆听这部圣仙所传的天启《往世书》,亦能获得清净。
Verse 41
यस्यैकाध्यायपठनाद्वाजिमेधफलं लभेत् । अध्यायद्वयपाठेन राजसूयफलं तथा ॥ ४० ॥
诵读此《普罗那》一章,即得阿湿婆梅陀(马祭)之功德;诵读两章,亦同得罗阇苏耶(王祭)之功德。
Verse 42
ज्येष्ठमासे पूर्णिमायां मूलक्षें प्रयतो नरः । स्नात्वा च यमुना तोये मथुरायामुपोषितः ॥ ४१ ॥
在阇耶湿吒月的满月之日,于牟罗宿之时,持戒之人当沐浴于亚穆那河水,并在摩图罗守持斋戒(优婆婆娑)。
Verse 43
अभ्यर्च्य विधितवत्कृष्णं यत्फलं लभते द्विजाः । तत्फलं समवाप्रोति अध्यायत्रयपाठतः ॥ ४२ ॥
噢,二次生者啊!依仪轨如法礼拜克里希纳所得之果报,诵读三章亦能圆满获得同等功德。
Verse 44
तत्प्रवक्ष्यामि वः सम्यक् शृणुध्वं गदतो मम । जन्मायुतार्जितैः पापैर्मुक्तः कोटिकुलान्वितः ॥ ४३ ॥
我将为你们如实宣说——当谛听我言。由此,人能解脱累世万生所积之罪业,并连同其家族无数代系一并得度。
Verse 45
ब्रह्मणः पदमासाद्य तत्रैव प्रतितिष्ठति । श्रुत्वास्य तु दशाध्यायान्भक्तिभावेन मानवः ॥ ४४ ॥
得至梵天之位,便于彼处安住不退。然凡人若以奉爱之心(bhakti)聆听此十章,亦能证得同一境界。
Verse 46
निर्वाणमूक्तिं लभते नात्र कार्या विचारणा । श्रेयसां परमं श्रेयः पवित्राणामनुत्तमम् ॥ ४५ ॥
人得证涅槃之解脱——于此无需疑虑,亦不必再作思量。此乃诸善之中最上之善,亦为诸净之中无上之净化者。
Verse 47
दुःखप्रनाशनं पुण्यं श्रोतव्यं यत्नतो द्विजाः । श्रद्धया सहितो मर्त्यः श्लोकं श्लोकार्द्धमेव वा ॥ ४६ ॥
噢诸位二生者,此能灭除忧苦的福德圣教,当以勤勉而听。凡夫若具信心,即便只听一偈,乃至半偈,亦当聆受。
Verse 48
पठित्वा मुच्यते सद्यो महापातकराशिभिः । सतामेव प्रवक्तव्यं गुह्याद्गुह्यतरं यतः ॥ ४७ ॥
诵读此文,便能立刻从重罪之堆中解脱。因此只应向贤善之人宣说,因为它比秘密更为隐密。
Verse 49
वावयेत्पुरतो विष्णोः पुण्यक्षेत्रे द्विजान्तिके । ब्रह्यद्रोहपराणां च दंभाचारयुतात्मनाम् ॥ ४८ ॥
当令此圣诵在毗湿奴之前举行——于圣地之中,并在婆罗门近前——尤其为那些执意敌对神圣(梵/婆罗门)且心与伪善、邪行相系之人。
Verse 50
जनानां बकवृतीनां न ब्रूयादिदमुत्तमम् । त्यक्तकामादिदोषाणां विष्णुभक्तिरतात्मनाम् ॥ ४९ ॥
此无上教法,不应对披着伪善外衣之人宣说;它是为那些已舍离欲等过失、其心安住于对毗湿奴之奉爱(bhakti)者而设。
Verse 51
सदाचारपराणां च वक्तव्यं मोक्षयसाधनम् । सर्वदेवमयो विष्णुः स्मरतामार्तिनाशनः ॥ ५० ॥
对于奉行正行者,应当宣说通向解脱之道。毗湿奴具足一切诸天之德,能摧灭忆念祂之人的忧苦。
Verse 52
सद्भक्तिवत्सलो विप्रा भक्त्या तुष्यति नान्यथा । अश्रद्धयापि यांन्नाच्चि कीर्तितेऽथ स्मूतेऽपि वा ॥ ५१ ॥
婆罗门们啊,主怜爱真实的奉爱者;唯以奉爱(bhakti)而喜悦,别无他法。即便无信而称念其名、歌咏颂扬(kīrtana),乃至仅仅忆念,也仍具灵性功德。
Verse 53
विमुक्तः पातकैर्मर्त्यो लभते पदमव्ययम् । संसारधोरकान्ताग्दावाग्रिर्मधुसुदनः ॥ ५२ ॥
凡人既脱诸罪,便得不坏之境。于轮回可怖旷野尽头那炽燃的林火之前,摩度苏陀那(毗湿奴)即是能焚尽其火的圣焰。
Verse 54
स्मरतां सर्वपापानि नाशयत्याशु सत्तमाः । तदर्थद्योतकमिदं पुराणं श्राव्यमुत्तमम् ॥ ५३ ॥
诸善中最胜者啊,对忆念此义者,它迅速灭尽一切罪业。因此,这部阐明并照耀其义的殊胜《往世书》,确应聆听。
Verse 55
श्रवणात्पठनाद्वापि सर्वपापविनाशकृत् । यस्यास्य श्रवणे बुद्धिर्जायते भक्तिसंयुता ॥ ५४ ॥
仅以听闻,乃至诵读,它便能灭除一切罪业。若有人于听闻之时生起与奉爱(bhakti)相应的正智,则其果报臻于最上。
Verse 56
स एव कृतकृत्यस्तु सर्वशास्त्रार्थकोविदः । यदर्जितं तपः पुण्यं तन्मन्ये सफलं द्विजाः ॥ ५५ ॥
唯有此人方为真正圆满,且通达一切经典(śāstra)之义。其所积修的苦行(tapas)与福德(puṇya)——噢诸位二生者,我认为皆得真实之果。
Verse 57
यदस्य श्रवणे भाक्तिरन्यथा नहि जायते । सत्कथासु प्रर्वतन्ते सज्जना ये जगाद्धिताः ॥ ५६ ॥
由聆听此法,奉爱(bhakti)方能生起——别无他途。凡为世间福祉而行的善人,皆乐于投入圣善之谈(sat-kathā),宣说清净法语。
Verse 58
निन्दायां कलहे वापि ह्यसन्तः पाप्तात्पराः । पुराणेष्वर्थवादत्वं ये वदन्ति नराधमाः ॥ ५७ ॥
凡喜好诽谤与争斗之不善者,实为恶人——比罪人更甚。又有卑劣之徒宣称诸《普罗那》(Purāṇa)不过是“义赞”(arthavāda)之空夸者,同样当受谴责。
Verse 59
तैरर्जितानि पुण्यानि क्षयं यान्ति द्विजोत्तमाः । समस्तकर्मनिर्मूलसाधनानि नराधमः ॥ ५८ ॥
噢二生中的至上者,由那些手段所得之福德终将耗尽;而卑劣之人却依凭能从根本拔除一切业行之法门。
Verse 60
पुराणान्यर्थवादेन ब्रुवन्नरकमश्नुते । अन्यानि साधयन्त्येव कार्याणि विधिना नराः ॥ ५९ ॥
若有人以“义赞”(arthavāda)之名,将《普罗那》说成只是夸饰之赞辞,必堕地狱;而世人完成其他诸事,也唯有依正当法则与仪轨(vidhi)而行方能成就。
Verse 61
पुराणानि द्विजश्रेष्टाः साधयन्ति न मोहिताः । अनायासेन यः पुण्यानीच्छतीह द्विजोत्तमाः ॥ ६० ॥
噢,最胜的二生者!不为迷惑者依诸《普罗那》而成就所愿;凡于此世欲不劳而得福德者——噢,最上婆罗门——当依止《普罗那》。
Verse 62
श्रोतव्यानि पुराणानि तेन वै भक्तिभावतः । पुराणश्रवणे बुद्धिर्यस्य पुंसः प्रवर्तते ॥ ६१ ॥
因此,确应以奉爱之心聆听诸《普罗那》;凡其智慧趋向听闻《普罗那》之人,奉爱(bhakti)便被唤起并得坚固。
Verse 63
पुरार्जितानि पापानि तस्य नश्यन्त्यसंशयम् । पुराणे वर्तमानेऽपि पापपाशेन यन्त्रितः । आदरेणान्यगाथासु सक्तबुद्धिः पतत्यधः ॥ ६२ ॥
他往昔所积诸罪,必定消灭,无有疑惑。然而即使《普罗那》正在诵读,若仍为罪之绳索所缚,并以错置的敬重使心执著于其他世俗歌谣与故事,便将堕落下沉。
Verse 64
सत्सङ्गदेवार्चनसत्कथासु हितोपदेशे निरतो मनुष्यः । प्रयाति विष्णोः परमं पदं यद्देहावसानेऽच्युततुल्यतेजाः ॥ ६३ ॥
恒常安住于圣贤相聚(sat-saṅga)、礼敬诸天、听闻圣妙传说与利益教诲之人,得至毗湿奴的至上住处;当此身寿尽之时,亦放大光明,其威辉可比阿周多(毗湿奴)。
Verse 65
तस्मादिदं नारदनामधेयं पुण्यं पुराणं श्रुणुत द्विजेन्द्राः । यस्मिञ्छ्रुते जन्मजरादिहीनो नरो भवेदच्युतनिष्टचेताः ॥ ६४ ॥
因此,噢,最胜二生者!请聆听这部以“那罗陀”为名的圣净《普罗那》。一经听闻,人便脱离生、老等诸苦,心念坚定安住于阿周多(毗湿奴)。
Verse 66
वरं वरेण्यं वरदं पुराणं निजप्रभाभावितसर्वलोकम् । संकल्पितार्थप्रदमादिदेवं स्मृत्वाव्रजेन्मुक्तिपदं मनुष्यः ॥ ६५ ॥
凡人若忆念此最胜、最堪礼敬之《往世书》——赐福施愿,以自身光辉照耀诸世界,并成就所求之愿——并忆念原初之神(Ādi-deva),便得证解脱之境。
Verse 67
ब्रह्मेशविष्ण्वादिशरीरभेदैर्विश्वं सृजत्यत्ति च पाति विप्राः । तमादिदेवं परमं परेशमाधाय चेतस्युपयाति मुक्तिम् ॥ ६६ ॥
婆罗门们啊,祂以梵天、伊湿(湿婆)、毗湿奴等差别之身示现,创造宇宙,维系其存续,亦复摄归。若将那原初之神——至上之主、诸主之主——安住于心,便得解脱。
Verse 68
यो नाम जात्यादिविकल्पहीनः परः पराणां परमः परस्मात् । वेदान्तवेद्यः स्वजनप्रकाशः समीड्यते सर्वपुराणवेदैः ॥ ६७ ॥
其圣名本离一切分别,如出生、种姓等;祂超越一切超越者,为诸至上之至上,高于最高。祂可由吠檀多而知,并对自身的奉爱者自显光明;一切《往世书》与诸吠陀皆赞颂祂。
Verse 69
तस्मात्तिमीशं जगतां विमुक्तिमुपासनायालमजं मुरारिम् । परं रहस्यं पुरुषार्थहेतुं स्मृत्वा नरो याति भवाब्धिपारम् ॥ ६८ ॥
因此,当忆念并礼拜不生的穆拉里(Murāri)——诸世界之主、宇宙之解脱本身、至上奥秘与一切人生目标之因——人便能渡越轮回之海。
Verse 70
वक्तव्यं धार्मिकेभ्यस्तु श्रद्दधानेभ्य एव च । मुमुक्षुभ्यो यतिभ्यश्च वीतरागेभ्य एव च ॥ ६९ ॥
此教法应只对持法之人宣说,确实只对具信者宣说;亦可对求解脱者、对行者(yati)宣说,并且只对离贪著者宣说。
Verse 71
वक्तव्यं पुण्यदेशे च सभायां देवतागृहे । पुण्यक्षेत्रे पुण्यतीर्थे देव ब्राह्मणसन्निधौ ॥ ७० ॥
此圣教当于圣地、会众之中、神庙之内宣说;亦当于福德之域与圣渡口(tīrtha)宣说,尤宜在诸天与婆罗门面前。
Verse 72
उच्छिष्टदेशे वक्तार आख्यानमिदमुत्तमम् । पच्यन्ते नरके घोरे यावदाभूतसंप्लवम् ॥ ७१ ॥
若在不净之处诵说此至上圣传者,将于可怖地狱中被煎煮,直至一切众生之大毁灭(劫尽)。
Verse 73
मृषा श्रृणोति यो मूढो दम्भी भक्तिविवर्जितः । सोऽपि तद्वन्महाघोरे नरके पच्यतेऽक्षये ॥ ७२ ॥
若愚人以虚伪之心而听,矫饰自夸、无有奉爱(bhakti),彼亦如诸犯者,堕入无尽之极怖地狱,被煎煮不息。
Verse 74
नरो यः सत्कथामध्ये संभाषां कुरुतेऽन्यतः । स याति नरकं घोरं तदेकाग्रमना भवेत् ॥ ७३ ॥
若人在圣善法谈(sat-kathā)之中却与他人旁语杂谈,必堕可怖地狱;故当令心一境,专注于圣传。
Verse 75
श्रोता वक्ता चविप्रेन्द्रा एष धर्मः सनातनः । असमाहितचित्तस्तु न जानाति हि किंचना ॥ ७४ ॥
婆罗门中之最胜者啊:为真听者、为真说者,此即永恒之法(sanātana-dharma)。然其心不摄、不定者,实则一无所知。
Verse 76
तत एकमना भूत्वा पिबेद्धरिकथामृतम् । कथं संभ्रान्तचित्तस्य कथास्वादः प्रजायते ॥ ७५ ॥
因此,当令心一境,饮受哈利圣传之甘露。若其心纷扰散乱,又怎能生起对此法语的妙味?
Verse 77
किं सुखं प्राप्यते लोके पुंसा संभ्रान्तचेतसा । तस्मात्सर्वं परित्यज्य कामं दुःखस्य साधनम् ॥ ७६ ॥
心神躁动之人,在此世间能得何乐?是故当舍弃一切,断除欲爱(kāma),因为它正是招致痛苦之具。
Verse 78
समाहितमना भूत्वाकुर्यादच्युतचिन्तनम् । येन केनाप्युपायेन स्मृतो नारायणोऽव्ययः ॥ ७७ ॥
当令其心安住,应观念阿周多(Acyuta)。无论以何方便,皆当忆持不坏的那罗延那(Nārāyaṇa)。
Verse 79
अपि पातकयुक्तस्य प्रसन्नः स्यान्नसंशयः । यस्य नारायणे भक्तिर्विभौ विश्वेश्वरेऽव्यये । तस्य स्यात्सफलं जन्म मुक्तिश्चैव करे स्थिता ॥ ७८ ॥
即便罪业缠身之人,若对遍一切处、不坏的宇宙主那罗延那怀有奉爱(bhakti),亦必蒙主悦纳,毫无疑问。如此奉献者,其生得以圆满,解脱仿佛立于掌中。
Verse 80
धर्मार्थकाममोक्षाख्यपुरुषार्था द्विजोत्तमाः । हरिभक्तिपराणां वै संपद्यन्ते न संशयः ॥ ७९ ॥
噢,二生中之最胜者!名为法(dharma)、利(artha)、欲(kāma)与解脱(mokṣa)的诸人间目标,必定在专注于哈利奉爱者身上圆成;对此无有疑惑。
Śaunaka cites śāstric tradition that Vyāsa is Nārāyaṇa’s incarnation who divides the Veda in each age, and that Sūta is specifically instructed and appointed by Vyāsa. This establishes a recognized Purāṇic pramāṇa chain, making Sūta the proper conduit for dharma, karma, and bhakti teachings leading to mokṣa.
While acknowledging sacrifice and knowledge, the chapter repeatedly centers bhakti—especially hearing sacred narrative, one-pointed attention, and remembrance/uttering of Nārāyaṇa’s name—as the decisive purifier and liberating force, capable of destroying sins and fulfilling the four puruṣārthas.