Adhyaya 46
Purva BhagaSecond QuarterAdhyaya 46103 Verses

Threefold Suffering, Twofold Knowledge, and the Definition of Bhagavān (Vāsudeva); Prelude to Keśidhvaja–Janaka Yoga

苏多叙述:那罗陀在弥提罗听闻关于自我的开示后,怀着亲爱之心向善难陀那请问,如何避免三重苦恼。善难陀那答言:有身之生自胎中至老年,恒为三苦所印;究竟良药在于证得薄伽梵——超越一切扰动的清净安乐。继而说明修道之具:知与行;知有二类——由阿伽摩而来的“声梵”(śabda-brahman)与由辨慧(viveka)而证的“胜梵”(para-brahman),并以阿闼婆那圣闻所说高、下二种明(vidyā)为据。本章建立有规可循的神学语义:“薄伽梵”指不坏的至上者;“薄伽”(bhaga)定义为六种圆满德相:主宰、力、名闻、富饶、智、离欲,并确认此名最恰当归于婆苏提婆(Vāsudeva)。又宣说瑜伽为唯一能灭除烦恼(kleśa)者,并引出计施陀缚阇–卡安迪迦(阇那迦)的故事:王位之争成为忏悔(prāyaścitta)、师资供养(guru-dakṣiṇā)与教示无明为在非我上执“我”与“我所”的场域,终而转向瑜伽与自知。

Shlokas

Verse 1

सूत उवाच । तच्छृत्वा नारदो विप्रा मैथिलाध्यात्ममुत्तमम् । पुनः पप्रच्छ तं प्रीत्या सनंदनमुदारधीः ॥ १ ॥

苏多(Sūta)曰:诸婆罗门啊,听闻那密提罗关于真我之最上内证教法后,心量广大而欢喜的那罗陀(Nārada)又以爱敬之情再问善难陀那(Sanandana)。

Verse 2

नारद उवाच । आध्यात्मिकादित्रिविधं तापं नानुभवेद्यथा । प्रब्रूहि तन्मुने मह्यं प्रपन्नाय दयानिधे ॥ २ ॥

那罗陀曰:圣者啊,请为我开示,如何才能不受三种苦恼之逼迫,先从内在之苦(ādhyātmika)说起。慈悲之宝藏啊,我已归依于你。

Verse 3

सनंदन उवाच । तदस्य त्रिविधं दुःखमिह जातस्य पंडित । गर्भे जन्मजराद्येषुस्थानेषु प्रभविष्यतः ॥ ३ ॥

善难陀那说道:“噢,智者啊,凡在此世受身而生者,其苦有三种;它在母胎中生起,也在出生、衰老等诸境中生起。”

Verse 4

निरस्तातिशयाह्लादसुखभावैकलक्षणा । भेषजं भगवत्प्राप्तिरैका चात्यंतिकी मता ॥ ४ ॥

唯有一事被认作无尽的究竟良药:证得薄伽梵——其自性是一味无上安乐,远离一切过度与扰动。

Verse 5

तस्मात्तत्प्राप्तये यत्नः कर्तव्यः पंडितैर्नरैः । तत्प्राप्तिहेतुज्ञानं च कर्म चोक्तं महामुने ॥ ५ ॥

因此,智者之人当竭力求得“彼”(至上归趣)。噢,大牟尼啊,关于促成其证得之因的知见,以及相应的修行之业(karma),也都已宣说。

Verse 6

आगमोत्थं विवेकाञ्च द्विधा ज्ञानं तथोच्यते । शब्दब्रह्मागममयं परं ब्रह्मविवेकजम् ॥ ६ ॥

所谓知识有二:一者由阿伽摩(圣典传承)而生,一者由辨别(viveka)而生。以音声为相的梵(声梵,śabda-brahman)由阿伽摩所成;而至上梵(para-brahman)则由抉择明见而生。

Verse 7

मनुरप्याह वेदार्थं स्मृत्वायं मुनिसत्तमः । तदेतच्छ्रूयतामत्र सुबोधं गदतो मम ॥ ७ ॥

这位最胜的牟尼——摩奴——也曾忆起吠陀之旨而宣说。因此,请在此聆听同一教诲;我今将以明白易解之言加以宣示。

Verse 8

द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ ८ ॥

应当了知梵有二:一为圣音之梵(śabda-brahman),一为至上之梵(para-brahman)。若于圣音之梵通达纯熟,便能证得至上梵。

Verse 9

द्वे विद्ये वेदितव्ये चेत्याह चाथर्वणी श्रुतिः । परमा त्वक्षरप्राप्तिर्ऋग्वेदादिमया परा ॥ ९ ॥

阿闼婆那《圣传》宣说:应当了知二种知识。其至上者,能令行者证得不坏者(Akṣara);其余者,则为《梨俱吠陀》及其余诸吠陀之学。

Verse 10

यत्तदव्यक्तमजरमनीहमजमव्ययम् । अनिर्देश्यमरूपं च पाणिपादादिसंयुतम् ॥ १० ॥

彼至上者不显现、不衰坏、无欲、无生而不灭;不可言说、无相无形——然于超越之义,具足手足等诸分。

Verse 11

विभुं सर्वगतं नित्यं भूतयोनिमकारणम् । व्याप्यं व्याप्तं यतः सर्वं तं वै पश्यंति सूरयः ॥ ११ ॥

智者观见那至上主:广大无边、遍一切处、恒常不变;为万有众生之本胎,而自身无任何(物质)因。由彼故,一切皆被充满、遍布而展开。

Verse 12

तद्ब्रह्म तत्परं धाम तद्ध्येयं मोक्षकांक्षिभिः । श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ॥ १२ ॥

彼即是梵;彼即是至上住处。求解脱者当于彼作观修。其义微妙,由《圣传》之言所宣说——此即毗湿奴(Viṣṇu)之最高境地。

Verse 13

तदेव भगवद्वाच्यं स्वरूपं परमात्मनः । वाचको भगवच्छब्दस्तस्योद्दिष्टोऽक्षयात्मनः ॥ १३ ॥

至上自我(Paramātman)的本质真相,正由“薄伽梵”(Bhagavān)一词所指示;而“薄伽梵”乃专为那不坏不灭之自性而设的称名。

Verse 14

एवं निगदितार्थस्य यत्तत्वं तस्य तत्त्वतः । ज्ञायते येन तज्ज्ञानं परमन्यत्त्रयीमयम् ॥ १४ ॥

因此,凭借那种知识,能如实了知所陈述之义的真实本体——当知此知识为至上,迥异于仅属三部吠陀之学。

Verse 15

अशब्दगोचरस्यापि तस्य वै ब्रह्मणो द्विजा । पूजायां भगवच्छब्दः क्रियते ह्यौपचारिकः ॥ १५ ॥

噢诸位再生者,即便那梵(Brahman)超越言语所及,在礼拜供奉之时,“薄伽梵”之称亦只是依俗约定、权宜而用。

Verse 16

शुद्धे महाविभूत्याख्ये परे ब्रह्मणि वर्त्तते । भगवन्भगवच्छब्दः सर्वकारणकारणे ॥ १६ ॥

“薄伽梵”一词,用以指称至上梵——清净无垢,被称为具大威德神辉者——安住为一切因之因。

Verse 17

ज्ञेयं ज्ञातेति तथा भकारोऽर्थद्वयात्मकः । तेनागमपिता स्रष्टा गकारोऽयं तथा मुने ॥ १६ ॥

音节“bha”具双重义:‘所应知者’与‘能知者’。因此,噢牟尼,当知音节“ga”亦表诸阿伽摩之父,并且亦为造物主。

Verse 18

ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञानवैराग्ययोश्चैव षण्णां भग इतीरणा ॥ १७ ॥

圆满的主宰、英勇之力、名声、吉祥富足,以及智慧与离欲——此六者被宣说为“bhaga”(神圣圆满的德能与福祐)之义。

Verse 19

वसंति तत्र भूतानि भूतात्मन्यखिलात्मनि । सर्वभूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः ॥ १८ ॥

一切众生皆安住于彼处——安住于众生之我、遍一切之大我。由于祂无余地住在一切众生之中,故音节“va”之义即为“不坏者”(Avyaya)。

Verse 20

एवमेव महाशब्दो भगवानिति सत्तम । परमब्रह्मभूतस्य वासुदेवस्य नान्यगः ॥ १९ ॥

亦复如是,善德之最胜者啊,“薄伽梵”(Bhagavān)这一崇高大名不属他人,唯指具至上梵(Paramabrahman)本性的婆苏提婆(Vāsudeva)。

Verse 21

तत्र पूज्यपदार्थोक्तिः परिभाषासमन्वितः । शब्दोऽयं नोपचारेण चान्यत्र ह्युपचारतः ॥ २० ॥

在此语境中,此说所指乃可敬之境,并伴随界定之规(paribhāṣā)。此处该词并非借喻或引申而用;而在他处,则唯以譬喻之用而称。

Verse 22

उत्पत्तिं प्रलयं चैव भूतानामागतिं गतिम् । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिति ॥ २१ ॥

知晓众生之生起与灭尽、其来与去,并且通达真知(vidyā)与无明(avidyā)者——当称为“薄伽梵”(Bhagavān)。

Verse 23

ज्ञानशक्तिबलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः ॥ २२ ॥

圆满的智慧、威能、力量、主宰、英勇与光辉——无一遗漏——皆为“薄伽梵”(Bhagavān)一词所指;且唯有当这些德相远离一切可责之过失等染污时,方名为真。

Verse 24

सर्वाणि तत्र भूतानि वसंति परमात्मनि । भूतेषु वसनादेव वासुदेवस्ततः स्मृतः ॥ २३ ॥

一切众生皆安住于至上之我(Paramātman)之中;又因祂住于一切众生之内,故被忆念为“婆苏提婆”(Vāsudeva)。

Verse 25

खांडिक्यं जनकं प्राह पृष्टः केशिध्वजः पुरा । नामव्याख्यामनंतस्य वासुदेवस्य तत्त्वतः ॥ २४ ॥

往昔,克西提德伐阇(Keśidhvaja)在被问及时,对康迪迦·阇那迦(Khāṇḍikya Janaka)开示:如实阐明无尽者阿难陀(Ananta)之名——“婆苏提婆”(Vāsudeva)的真义。

Verse 26

भूतेषु वसते सोंऽतर्वसंत्यत्र च तानि यत् । धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥ २५ ॥

祂住于一切众生之内,而一切众生亦安住于祂。故“婆苏提婆”(Vāsudeva)为主宰:既是维持者,亦是诸世界的安立者与制定者。

Verse 27

स सर्वभूतप्रकृतिं विकारं गुणादिदोषांश्च मुने व्यतीतः । अतीतसर्वावरणोऽखिलात्मा तेनास्तृतं यद्भुवनांतरालम् ॥ २६ ॥

圣者啊,祂超越一切众生之本性及其诸变异,亦超越由诸“古那”(guṇa)等所起的一切过失。祂越过所有覆障与帷幕,为万有之我;正是由祂,诸世界之间的广大空间皆被遍满、充塞。

Verse 28

समस्तकल्याणगुणं गुणात्मको हित्वातिदुःखावृतभूतसर्गः । इच्छागृहीताभिमतोरुदेहः संसाधिताशेषजगद्धितोऽसौ ॥ २७ ॥

祂是一切吉祥德性的精髓,亦是诸德之主。纵使有身之众生界被剧苦所覆,祂仍以自愿取其所喜之广大圣身,成就遍宇宙之安乐与利益。

Verse 29

तेजोबलैश्वर्यमहावबोधं स्ववीर्यशक्त्यादुगुणैकराशिः । परः पराणां सकला न यत्र क्लेशादयः संति परावरेशे ॥ २८ ॥

在祂之中汇聚光辉、力量、主宰与大觉知——如其自身的英勇与神力等诸德,皆为不分之宝藏。祂超越一切至上者而为至上;于统御高界与下界之主中,烦恼痛苦等全然不存。

Verse 30

स ईश्वरो व्यष्टिसमष्टिरूपोऽव्यक्तस्वरूपः प्रकटस्वरूपः । सर्वेश्वरः सर्वनिसर्गवेत्ता समस्तशक्तिः परमेश्वराख्यः ॥ २९ ॥

祂是主宰,具个体(vyaṣṭi)与宇宙总体(samaṣṭi)之形;其真实本性本为不显,而亦能示现为显相。祂为一切之主,洞知造化全体之秩序,具足诸般神力;故称为至上主——Parameśvara。

Verse 31

स ज्ञायते येन तदस्तदोषं शुद्धं परं निर्मलमेव रूपम् । संदृश्यते चाप्यवगम्यते च तज्ज्ञानमतोऽन्यदुक्तम् ॥ ३० ॥

由此而能认识那无过失、清净、超越且本质全然无垢的至上者;又由此而仿佛得以亲见并真实了悟者——唯此方名为“知识”;其余一切,皆被说为非知识。

Verse 32

स्वाध्यायसंयमाभ्यां स दृश्यते पुरुषोत्तमः । तत्प्राप्तिकारणं ब्रह्म तवेतत्प्रतिपद्यते ॥ ३१ ॥

凭借经教自习(svādhyāya)与自制调伏(saṃyama),至上人格——Puruṣottama——得以真实被观见。那作为得达祂之因的梵(Brahman),汝当如实领会并证悟。

Verse 33

स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमामनेत् । स्वाध्याययोगसंपत्त्या परमात्मा प्रकाशते ॥ ३२ ॥

由svādhyāya(自修圣典)当入于瑜伽;由瑜伽又当归于svādhyāya。凭借自修与瑜伽圆满相应,至上自我——Paramātmā——便显现光明。

Verse 34

तदीक्षणाय स्वाध्यायश्चक्षुर्योगस्तथापरम् । न मांसचक्षुषा द्रष्टुं ब्रह्मभूतः स शक्यते ॥ ३३ ॥

欲观照彼至上实相,‘眼’即是svādhyāya,亦是更高的瑜伽修持。已成梵(Brahman)者,非肉眼所能见。

Verse 35

नारद उवाच । भगवंस्तमहं योगं ज्ञातुमिच्छामि तं वद । ज्ञाते यन्नाखिलाधारं पश्येयं परमेश्वरम् ॥ ३४ ॥

那罗陀说道:“噢,具福者,请为我宣说我渴望知晓的那瑜伽。愿我因知此法而得见至上主(Parameśvara),祂是一切之依止、全宇宙之根基。”

Verse 36

सनंदन उवाच । केशिध्वजो यथा प्राह खांडिक्याय महात्मने । जनकाय पुरा योगं तथाहं कथयामि ते ॥ ३५ ॥

萨难陀那说道:“正如往昔克西提德瓦阇曾将瑜伽教示于大心者 Khāṇḍikya——亦教示于阇那迦王——我也将同样为你讲解那瑜伽。”

Verse 37

नारद उवाच । खांङिक्यः कोऽभवद्बह्यन्को वा केशिध्वजोऽभवत् । कथं तयोश्च संवादो योगसंबन्धवानभूत् ॥ ३६ ॥

那罗陀说道:“Khāṃṅikya 是谁?Keśidhvaja 又是谁?他们二人之间那与瑜伽相关的对话,是如何发生的?”

Verse 38

सनंदन उवाच । धर्मध्वजो वै जनक तस्य पुशेऽमितध्वजः । कृतध्वजोऽस्य भ्राताभूत्सदाध्यात्मरतिर्नृपः ॥ ३७ ॥

善难陀那说道:“确有一位始祖名为达摩幢(Dharmadhvaja)。由他诞生阿弥多幢(Amitadhvaja)。其弟为克利多幢(Kṛtadhvaja),乃恒常乐住于我(Ātman)之智的国王。”

Verse 39

कृतध्वजस्य पुत्रोऽभूद्धन्यः केशिध्वजो द्विजः । पुत्रोऽमितव्वजस्यापि खांडिक्यजनकाभिधः ॥ ३८ ॥

克利多幢(Kṛtadhvaja)之子为二生者(dvija)计尸幢(Keśidhvaja),以“达尼亚”(Dhanya,福善者)之名著称。阿弥多瓦阇(Amitavvaja)之子亦名为康迪迦(Khāṇḍikya),又称阇那迦(Janaka)。

Verse 40

कर्ममार्गे हि खांडिक्यः स्वराज्यादवरोपितः । पुरोधसा मंत्रिभिश्च समवेतोऽल्पसाधनः ॥ ३८ ॥

确实,康迪迦(Khāṇḍikya)从自身王权中被贬黜后,转而踏上业行之道(karma-mārga),即祭仪之途。随行者有家祭(purohita)与诸大臣,而资具却极为匮乏。

Verse 41

राज्यान्निराकृतः सोऽथ दुर्गारण्यचरोऽभवत् । इयाज सोऽपि सुबहून यज्ञाञ्ज्ञानव्यपाश्रयः ॥ ३९ ॥

他被逐出王国之后,便居于险固难入的密林。即便在那里,他仍依止灵性之智,举行了许多祭祀(yajña)。

Verse 42

ब्रह्मविद्यामधिष्टाय तर्तुं मृत्युमपि स्वयम् । एकदा वर्तमानस्य यागे योगविदां वर ॥ ४० ॥

他安住于梵智(Brahma-vidyā),凭此甚至能独自超越死亡。曾有一次,当祭祀(yajña)正在进行之时——噢,瑜伽知者中最胜者——此事便发生了。

Verse 43

तस्य धेनुं जघानोग्रः शार्दूलो विजने वने । ततो राजा हतां ज्ञात्वा धेनुं व्याघ्रेण चर्त्विजः ॥ ४१ ॥

在荒寂的林中,一只凶猛的虎杀了他的母牛。国王与主祭婆罗门得知母牛为虎所害,心中忧惧不安。

Verse 44

प्रायश्चित्तं स पप्रच्छ किमत्रेति विधीयताम् । ते चोचुर्नवयंविद्मः कशेरुः पृच्छ्यतामिति ॥ ४२ ॥

他询问赎罪之法(prāyaścitta)说:“此事当如何规定?”众人答道:“我们不知——请去问迦舍鲁。”

Verse 45

कशेरुरपि तेनोक्तस्तथेति प्राह नारद । शुनकं पृच्छ राजेन्द्र वेद स वेत्स्यति ॥ ४३ ॥

迦舍鲁也被他询问,便答道:“如是,”哦那罗陀。“大王中之最胜者,当问舒那迦——他通晓吠陀,必为你开示。”

Verse 46

स गत्वा तमपृच्छञ्च सोऽप्याह नृपतिं मुने । न कशेरुर्नचैवाहं न चान्यः सांप्रतं भुवि ॥ ४४ ॥

他前往问之,那人亦答:“牟尼啊,如今世间既无迦舍鲁,也无我,亦无他人(能如是者)。”

Verse 47

वेत्त्येक एव त्वच्छत्रुः खांडिक्यो यो जितस्त्वया । स चाह तं व्रजाम्येष प्रष्टुमात्मरिपुं मुने ॥ ४५ ॥

唯有一人知晓你的仇敌——那被你征服的坎迪迦。那人说道:“牟尼啊,我今即往彼处,询问关于内在之敌(ātma-ripu)。”

Verse 48

प्राप्त एव मया यज्ञे यदि मां स हनिष्यति । प्रायश्चित्तं स चेत्पृष्टो वदिष्यति रिपुर्मम ॥ ४६ ॥

若他来到祭祀之中,果真要杀我,那么——若有人问起——我的仇敌自己也将说出赎罪净化之法(prāyaścitta)。

Verse 49

ततश्चाविकलो योगो मुनिश्रेष्ट भविष्यति । इत्युक्त्वा रथमारुह्य कृष्णाजिनधरो नृपः ॥ ४७ ॥

“于是,噢,诸牟尼中最胜者,你的瑜伽将无有障碍而得圆满。”说罢,那位披着黑羚羊皮的国王登上战车。

Verse 50

वनं जगाम यत्रास्ते खांडिक्यः स महीपतिः । तमायांतं समालोक्य खांजडिक्यो रिपुमात्मनः ॥ ४८ ॥

他前往那片森林,那里正住着国王迦ṇḍikya。见他走近,Khāṃjaḍikya——他自身的仇敌——便注目而视。

Verse 51

प्रोवाच क्रोधताम्राक्षः समारोपितकार्मुकः । खांडिक्य उवाच । कृष्णाजिनत्वक्कवचभावेनास्मान्हनिष्यसि ॥ ४९ ॥

他怒目赤红,弓已上弦,便开口说道。Khāṇḍikya说:“你将杀我们,只因你披着黑羚羊皮,如同护身甲胄。”

Verse 52

कृष्णाजिनधरे वेत्सि न मयि प्रहरिष्यति । मृगानां वद पृष्टेषु मूढ कृष्णाजिनं न किम् ॥ ५० ॥

你以为:“因为我披着黑羚羊皮,他就不会击我。”可告诉我吧,愚人——在鹿的背上,难道不也有黑羚羊皮吗?

Verse 53

येषां मत्वा वृथा चोग्राः प्रहिताः शितसायकाः । स त्वामहं हनिष्यामि न मे जीवन्विमोक्ष्यसे ॥ ५१ ॥

想到我那猛烈的利箭徒然射向他人,现在我要杀了你——你休想活着逃脱。

Verse 54

आतताय्यसि दुर्बुद्धे मम राज्यहरो रिपुः । केशिध्वज उवाच । खांडिक्य संशयं प्रष्टुं भवंतमहमागतः ॥ ५२ ॥

“你是个凶残的侵略者,心术不正之人——夺走我王国的敌人!”凯西德瓦贾说:“噢,坎迪基亚,我来找你是为了请教一个疑问。”

Verse 55

न त्वां हंतुं विचार्यतैत्कोपं बाणं च मुंच वा । ततः स मंत्रिभिः सार्द्धमेकांते सपुरोहितः ॥ ५३ ॥

深思熟虑后,他决定不杀他;他按捺住怒火,没有射出那一箭。随后,他在大臣和家祭司的陪同下,退到一个僻静处商议。

Verse 56

मंत्रयामास खांडिक्यः सर्वैरेव महामतिः । तमूर्मंत्रिणो वध्यो रिपुरेष वशंगतः ॥ ५४ ॥

睿智的坎迪基亚与众人商议。大臣们说:“这敌人已落入我们手中,应当将他处死。”

Verse 57

हतेऽत्र पृथिवी सर्वा तव वश्या भविष्यति । खांडिक्यश्चाह तान्सर्वानेवमेव न संशयः ॥ ५५ ॥

“杀了他,这整个大地都将归你统辖。”坎迪基亚也对众人说:“确是如此,毫无疑问。”

Verse 58

हते तु पृथिवी सर्वा मम वश्या भविष्यति । परलोकजयस्तस्य पृथिवी सकला मम ॥ ५६ ॥

但一旦他被诛灭,整个大地都将归于我之掌控。对那征服来世者而言,这整片大地皆为我所有。

Verse 59

न हन्मि चेल्लोकजयो मम वयत्वस्सुंधरा । परलोकजयोऽनंतः स्वल्पकालो महीजयः ॥ ५७ ॥

若我不杀(此敌),则我在此世的征服不过是青春的短暂装饰。来世之胜无穷无尽,而对大地的胜利只存片刻。

Verse 60

तस्मान्नैनं हनिष्येऽहं यत्पृच्छति वदामि तत् । ततस्तमभ्युपेत्याह खांडिक्यो जनको रिपुम् ॥ ५८ ॥

“因此我不杀他;他所问之事,我皆如实告之。”作此决定后,迦ṇḍikya走近他的敌人阇那迦王,对他说道。

Verse 61

प्रष्टव्यं यत्त्वया सर्वं तत्पृच्छ त्वं वदाम्यहम् । ततः प्राह यथावृत्तं होमधेनुवधं मुने ॥ ५९ ॥

“你想问什么,尽管尽数发问;我必告知。”于是,噢牟尼,他如实叙述了祭祀之牛——霍摩德奴(Homadhenu)被杀的经过。

Verse 62

ततश्च तं स पप्रच्छ प्रायश्चित्तं हि तद्रूतम् । स चाचष्ट यथान्यायं मुने केशिध्वजाय तत् ॥ ६० ॥

随后他又询问此事应行的适当赎罪法(prāyaścitta);而那人依照达摩之规,向圣者计施陀伐阇(Keśidhvaja)详加开示。

Verse 63

प्रायश्चित्तमशेषं हि यद्वै तत्र विधीयते । विदितार्थः स तेनैवमनुज्ञातो महात्मना ॥ ६१ ॥

确实,彼处所规定的一切圆满的赎罪法(prāyaścitta)皆已宣设。既明其义,他便如此得那位大心者的许可。

Verse 64

यागभूमिमुपागत्य चक्रे सर्वां क्रियां क्रमत् । क्रमेण विधिवद्यागं नीत्वा सोऽवभृथाप्लुतः ॥ ६२ ॥

抵达祭场后,他依次完成一切仪轨;又按法度循序主持祭祀,随后入行终结的阿瓦布里塔(avabhṛtha)沐浴。

Verse 65

कृतकृत्यस्ततो भूत्वा चिंतयामास पार्थिवः । पूजिता ऋत्विजः सर्वे सदस्या मानिता मया ॥ ६३ ॥

随后国王自觉诸事已毕,便思量道:“我已恭敬供奉所有主祭的祭官(ṛtvij),也已如法礼敬会众中的诸位博学之士。”

Verse 66

तथैवार्थिजनोऽप्यर्थोजितोऽभिमतैर्मया । यथाहं मर्त्यलोकस्य मया सर्वं विचष्टितम् ॥ ६४ ॥

同样地,求财之人也会因我赐予其所愿之物而被我折服;因为我已观察并洞悉这人世凡界的一切。

Verse 67

अनिष्पन्नक्रियं चेतस्तथा न मम किं यथा । इत्थं तु चिंतयन्नेव सम्मार स महीपतिः ॥ ६५ ॥

“我的心念不能成就任何决意,丝毫不受我掌控。”他如此反复思惟,那位国王便陷入迷惘与绝望。

Verse 68

खांडिक्याय न दत्तेति मया वैगुरुदक्षिणा । स जगाम ततो भूयो रथमारुह्य पार्थिवः ॥ ६६ ॥

他心想:“我未曾向迦ṇḍikya奉上师资之礼(guru-dakṣiṇā)。”于是国王再度启程,又一次登上战车。

Verse 69

स्वायंभुवः स्थितो यत्र खांडिक्योऽरण्यदुर्गमम् । खांडिक्योऽपि पुनर्द्दष्ट्वा तमायान्तं धृतायुधः ॥ ६७ ॥

在那片难以进入的林中要塞——斯瓦扬布瓦所居之处——迦ṇḍikya也在其间。迦ṇḍikya手执兵器,见他再度逼近,便戒备以待。

Verse 70

तस्थौ हंतुं कृतमतिस्ममाह स पुनर्नृपः । अहं तु नापकाराय प्राप्तः खांडिक्य मा क्रुधः ॥ ६८ ॥

他决意出手,站定欲击;然而国王又对他说:“噢,迦ṇḍikya,莫要动怒。我来此并非要加害于你。”

Verse 71

गुरोर्निष्कृतिदानाय मामवेहि सेमागतम् । निष्पादितो मया यागः सम्यक् त्वदुपदेशतः ॥ ६९ ॥

当知我此来,是为向我的上师奉献应尽的补偿与酬报。祭祀(yajña)已由我依你教诲,圆满而如法地完成。

Verse 72

सोऽहं ते दातुमिच्छामि वृणीष्व गुरुदक्षिणाम् । इत्युक्तो मंत्रयामास स भूयो मंत्रिभिः सह ॥ ७० ॥

“因此我愿赠你供养;请自择师资之礼(guru-dakṣiṇā)。”他听罢,便又与群臣一同商议。

Verse 73

गुरोर्निष्कृतिकामोऽय किमयं प्रार्थ्यतां मया । तमूचुर्मंत्रिणो राज्यमशेषं याच्यतामयम् ॥ ७१ ॥

“此人渴求就冒犯上师之罪得以赎净;那么我应向他求取何物?”群臣答曰:“当向他索取整个王国。”

Verse 74

कृताभिः प्रार्थ्यते राज्यमनायासितसैनिकैः । प्राहस्य तानाह नृपः स खांडिक्यो महापतिः ॥ ७२ ॥

当克利多族——其军队尚未在战阵中劳顿——前来恳求王权时,大君主旃提迦王含笑而语,对他们说道。

Verse 75

स्वल्पकालं महीराज्यं मादृशैः प्रार्थ्यते कथम् । एतमेतद्भंवतोऽत्र स्वार्थ साधनमंत्रिणः ॥ ७३ ॥

“大地之王权短暂如露,我等之辈岂可求取?这正是你们这些谋私的臣子在此处想要成就的盘算。”

Verse 76

परमार्थः कथं कोऽत्र यूयं नात्र विचक्षणाः । इत्युक्त्वा समुपेत्यैंनं स तु केशिध्वजं नृपम् ॥ ७४ ॥

“此处怎会有至上义(paramārtha)?你们在此事上并不明辨。”说罢,他走近那位国王——计施幢伽(Keśidhvaja)。

Verse 77

उवाच किमवश्यं त्वं दास्यसि गुरुदक्षिणाम् । बाढमित्येव तेनोक्तः खांडिक्यस्तमथाब्रवीत् ॥ ७५ ॥

他问道:“你必定要奉上的师资供养(guru-dakṣiṇā)是什么?”对方答曰:“必然如此。”于是旃提迦便对他说道。

Verse 78

भवानध्यात्मविज्ञानपरमार्थविचक्षणः । यदि चेद्दीयते मह्यं भवता गुरुनिष्क्रयः ॥ ७६ ॥

你洞察我我之学(自性之智)与至上真理。若你愿意,愿赐我“依师解脱之道”(guru-niṣkraya)——由上师作出决定性的开示,使弟子得以解脱。

Verse 79

तत्क्लेशप्रशमायालं यत्कर्म तदुदीरय । केशिध्वज उवाच । न प्रार्थितं त्वया कस्मान्मम राज्यमकंटकम् ॥ ७७ ॥

“请宣说那足以平息此苦恼的修持。”克西提德瓦迦说道:“为何你不向我求取我的国土——无刺之国(即无纷扰与对抗)呢?”

Verse 80

राज्यलाभाः द्धि नास्त्यन्यत्क्षत्रियाणामतिप्रियम् । खांडिक्य उवाच । केशिध्वज निबोध त्वं मया न प्रार्थितं यतः ॥ ७८ ॥

对刹帝利而言,没有什么比获得王国更可爱。罕迪迦说道:“克西提德瓦迦,你当明白——我所求并非为此缘故;我不是向你求王权。”

Verse 81

राज्यमेतदशेषेण यन्न गृघ्रंति पंडिताः । क्षत्रियाणामयं धर्मो यत्प्रजापरिपालनम् ॥ ७९ ॥

智者并不为权力本身而贪恋完整的王位。刹帝利的正法在于:护持百姓,并以正道治理臣民。

Verse 82

वधश्च धर्मयुद्धेन स्वराज्यपरिपंथिनाम् । यत्राशक्तस्य मे दोषो नैवास्त्यपकृते त्वया ॥ ८० ॥

并且,在正法之战中诛灭那些阻碍正当王权之人——于此,我这无力者并无过失,因为作恶的是你。

Verse 83

बंधायैव भवत्येषा ह्यविद्या चाक्रमोज्झिता । जन्मोपभोगलिप्सार्थमियं राज्यस्पृहा मम ॥ ८१ ॥

此实为系缚之因——未能弃除的无明(avidyā)。为贪求反复受生与世间享乐,我心中生起了对王权的渴望。

Verse 84

अन्येषां दोपजानेव धर्ममेवानुरुध्यते । न याच्ञा क्षत्रबंधूनां धर्मायैतत्सतां मतम् ॥ ८२ ॥

对他人而言,随顺正法仿佛只是附带所得;但对真正的刹帝利来说,乞求并不被视为护持法(dharma)之道——此乃贤善者之见。

Verse 85

अतो न याचित राज्यमविद्यांतर्गतं तव । राज्यं गृध्नंति विद्वांसो ममत्वाकृष्टचेतसः ॥ ८३ ॥

因此我未向你求取王位,因为主权仍在无明(avidyā)的境域之中。唯有那些被“我与我所”的执取牵引其心的所谓学者,才贪恋一国之位。

Verse 86

अहंमानमह्य पानमदमत्ता न मादृशाः । केशिध्वज उवाच । अहं च विद्यया मृत्युं तर्तुकामः करोमि वै ॥ ८४ ॥

我因我慢与饮酒之傲而沉醉,自谓无人可比。克西提幢(Keśidhvaja)说道:“而我,凭真实之明(vidyā),确实努力欲渡越死亡。”

Verse 87

राज्यं यज्ञांश्च विविधान्भोगे पुण्यक्षयं तथा । तदिदं ते मनो दिष्ट्या विवेकैश्चर्यतां गतम् ॥ ८५ ॥

王国、种种祭祀与世间享乐,也会导致福德耗尽。因此你实为有福——凭借辨慧(viveka),你的心已转向正行与明智的自制之道。

Verse 88

श्रूयतां चाप्यविद्यायाः स्वरूपं कुलनंदन । अनात्मन्यात्मबुद्धिर्या ह्यस्वे स्वविषया मतिः ॥ ८६ ॥

也请聆听无明(avidyā)的真实体相,噢族裔之欢:在非真我处起“我”想,于非己有处生“我所”之执,即是无明。

Verse 89

अविद्यातरुसंन्भूतं बीजमेतद्द्विधा स्थितम् । पंचभूतात्मके देहे देही मोहतमोवृत्तः ॥ ८७ ॥

此种子由无明之树所生,而以二相而住。在由五大所成之身中,具身之我在迷妄与黑暗(tamas)之势下转动。

Verse 90

अहमेतदितीत्युञ्चैः कुरुते कुमतिर्मतिम् । आकाशवाय्वग्रिजलपृथिवीभिः पृथक् स्थिते ॥ ८८ ॥

真我本与虚空、风、火、水、地各各分离,然而迷妄之智仍高声起念:“我就是此身。”

Verse 91

आत्मन्यात्ममयं भावं कः करोति कलेवरे । कलेवरोपभोग्यं हि गृहक्षेत्रादिकं च यत् ॥ ८९ ॥

谁能在此躯壳中安立“真我之觉”呢?因为凡为身体所受用者——房舍、田地等——都只是身体经验之所系。

Verse 92

अदेहे ह्यात्मनि प्राज्ञो ममेदमिति मन्यते । इत्थं च पुत्रपौत्रेषु तद्देहोत्पादितेषु च ॥ ९० ॥

真我本无形身,迷失真实者却念“这是我的”。同样地,他又将“我所”之执扩展到子与孙,乃至由此身所生之诸身(其后裔)。

Verse 93

करोति पंडितः स्वाम्यमनात्मनि कलेवरे । सर्वदेहोपभोगाय कुरुते कर्म मानवः ॥ ९१ ॥

所谓智者却宣称此非真我之身为“我所有”;为求以全身受用,世人遂造作业(karma)。

Verse 94

देहं चान्यद्यदा पुंसस्सदा बंधाय तत्परम् । मृण्मयं हि यथा गेहं लिप्यते वै मृदंभसा ॥ ९२ ॥

当人把身体当作他物,却认作“我”或“我的”时,这种执著便全然趋向系缚。正如泥土之屋又被泥水反复涂抹,执身为我亦屡屡积聚更深的缠缚垢染。

Verse 95

पार्थिवोऽयं तथा देहो मृदंभोलेपनस्थितिः । पंचभोगात्मकैर्भोगैः पंचभोगात्मकं वपुः ॥ ९३ ॥

此身本属地性,依泥土、清水与涂抹而维持。由五种感官境界所成的享受,使此身亦仿佛由那五种享受所构成。

Verse 96

आप्यायते यदि ततः पुंसो गर्वोऽत्र किंकृतः । अनेकजन्मसाहस्त्रं ससारपदवीं व्रजन् ॥ ९४ ॥

纵使一人得享富足,又何必生傲慢?因为他已在轮回(saṃsāra)之路上漂泊,历经千百生。

Verse 97

मोहश्रमं प्रयातोऽसौ वासनारेणुगुंठितः । प्रक्षाल्यते यदा सौम्य रेणुर्ज्ञानोष्णवारिणा ॥ ९५ ॥

灵魂因迷妄而疲惫,被潜在习气(vāsanā)之尘所覆。然则,温和者啊,当此尘以灵性智慧的温水洗净时,澄明便随之显现。

Verse 98

तदा संसारपांथस्य याति मोहश्रमः शमम् । मोहश्रमे शमं याते स्वच्छांतःकरणः पुमान् ॥ ९६ ॥

于是,在轮回之路上,由迷妄所生的疲惫得以止息;当这令人困乏的迷妄被平息时,人的内在器官(心与意)便清明而净化。

Verse 99

अनन्यातिशयाधारः परं निर्वाणमृच्छति । निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः ॥ ९७ ॥

唯以至上者为唯一依止的人,得至最高的涅槃。此自我(我性)本即涅槃之性:清净无垢,由觉知与智慧所成。

Verse 100

दुःखाज्ञानमया धर्माः प्रकृतेस्ते तुनात्मनः । जलस्य नाग्निना संगः स्थालीसंगात्तथापि हि ॥ ९८ ॥

由痛苦与无明所成的诸种性质与境况,属于原质(Prakṛti),并不属于自我。正如水与火并无真实接触;看似相连,只因同在一器之中——自我与那些性质的相系亦复如是,不过是似有而已。

Verse 101

शब्दोद्रेकादिकान्धर्मान्करोति हि यथा बुधः । तथात्मा प्रकृतेः संगादहंमानादिदूषितः ॥ ९९ ॥

正如智者也会表现出高声言说等种种行仪;同样,自我因与原质(Prakṛti)相杂,便被我执(ahaṃkāra)、傲慢等过失所染。

Verse 102

भजते प्राकृतान्धर्मान्न्यस्तस्तंभो हि सोऽव्ययः । तदेतत्कथितं बीजमविद्याया मया तव ॥ १०० ॥

纵已弃却所依之柱,那不坏者仍复承担世间物质之法。此即我向你所说:乃无明(avidyā)之种子。

Verse 103

क्लेशानां च क्षयकरं योगादन्यन्न विद्यते ॥ १०१ ॥

除瑜伽之外,别无他法能灭尽诸烦恼(kleśa)。

Frequently Asked Questions

The chapter asserts a paribhāṣā (defining rule) that “Bhagavān” is the signifier for the Imperishable Supreme Self, and then identifies that Supreme as Vāsudeva—who indwells all beings and in whom all beings abide—thereby treating the usage as primary in that context rather than merely figurative.

The text presents a disciplined reciprocity: from svādhyāya one enters Yoga, and from Yoga one returns to svādhyāya; through their accomplished union the Supreme Self becomes manifest. Yoga is singled out as the destroyer of kleśas, while viveka yields para-brahman realization.

It dramatizes the shift from external conflict and ritual concerns (cow killed during yajña, prāyaścitta, avabhṛtha) to the ‘inner enemy’ (avidyā). The guru-dakṣiṇā request becomes a request for liberating instruction, framing Yoga and Self-knowledge as superior to transient sovereignty and merit-exhausting enjoyments.