
萨那多那向那罗陀讲授“特罗耶陀施”(Trayodaśī,第十三日)斋戒誓愿的仪轨,依月份与季节次第而行。开篇述摩度/柴特罗月明半第十三日礼拜摩陀那/阿难伽(迦摩天):以檀香塑制与彩绘,作花弓花箭之相,于正午行供养,以春神(Vasanta)与湿婆之名号称颂,诵真言致敬,并供养礼敬婆罗门夫妇。继而展开全年循环:迦摩诸名、供品与布施(尤以施羊为要),并说入河沐浴所生功德。又提出增益吉祥之时:大伐楼尼(Mahā Vāruṇī,伐楼尼日逢星期六)与大大日(Mahāmahā,室多毗沙宿Śatabhiṣaj + 星期六 + 法尔古那/摩度月明半)。随后列举多种誓愿:罗陀月的迦摩天誓;耶湿吒月明半“消除不幸誓”(Daurbhāgya-śamana),以与日神相关之花与祈祷;乌玛—摩诃伊湿伐罗的多日安置礼与五年周期;那婆斯/室罗伐那月的罗蒂—迦摩誓,十四年圆满并供奉像与施牛;婆陀罗钵陀月三夜“瞿特里夜”(Gotrirātra)的吉祥天女—那罗延誓,以五甘露供养并诵施牛真言;以及伊沙月的“阿输迦誓”(Aśoka-vrata),护佑妇女免于寡居。迦尔提迦月第十三日普罗多沙(pradoṣa)次第强调献灯,终以《湿婆百名赞》作结。末尾又补述各月要法:摩伽尸尔沙月礼阿难伽;保沙月以酥油器施与哈利;摩伽月三日沐浴誓;法尔古那月礼俱毗罗,以布像与金像供养。总言此等修持能得富饶、护持,终至湿婆之居处。
Verse 1
सनातन उवाच । अथातः संप्रवक्ष्यामि त्रयोदश्या व्रतानि ते । यानि कृत्वा नरो भक्त्या सुभगो जायते भुवि ॥ १ ॥
萨那坦那说道:如今我将为你详尽宣说在月相第十三日(Trayodaśī)所行的诸般誓戒。人若以虔敬之心(bhakti)奉行,便能在此世得福、得吉祥而兴盛。
Verse 2
मधौ शुक्लत्रयोदश्यां मदनं चन्दनात्मकम् । कृत्वा संपूज्य यत्नेन वीजेयव्द्यजनेन च ॥ २ ॥
在摩度(Madhu)月的白分第十三日(Trayodaśī),当以檀香塑作爱神摩陀那(Madana)之形,殷勤谨慎地供奉礼拜,继而以仪式之扇为其扇拂。
Verse 3
ततः संक्षुधितः कामः पुत्रपौत्रविवर्द्धनः । अनंगपूजाप्यत्रोक्ता तां निबोध मुनीश्वर ॥ ३ ॥
继而谈到欲(Kāma):当其强烈激发,据说能令子孙增盛;此处亦宣说对无身者阿难伽(Ananga,即迦摩)的礼拜之法。贤圣之主啊,当领会此教。
Verse 4
सिन्दूररजनीरागैः फलकेऽनंगमालिखेत् । रतिप्रीतियुतं श्लक्ष्णं पुष्पचापेषुधारिणम् ॥ ४ ॥
以朱砂与姜黄之色,在板上描绘无身者阿难伽(Ananga,迦摩):温柔俊美,偕同罗蒂与普利蒂,手持花弓与花箭。
Verse 5
कामदेवं वसन्तं च वाजिवक्त्रं वृषध्वजम् । मध्याह्ने पूजयेद्भक्त्या गंधस्रग्भूषणांशुकैः ॥ ५ ॥
至正午,当以虔敬之心礼拜迦摩天(Kāma-deva)、春神瓦桑塔(Vasanta)、马面尊(Vājivaktra)与牛旗者弗利沙德瓦迦(Vṛṣadhvaja,即湿婆),供献香芬、花鬘、饰物与华美衣服。
Verse 6
क्षभ्यैर्नानाविधैस्चापि मन्त्रेणानेन नारद । नमो माराय कामाय कामदेवस्य मूर्त्तये ॥ ६ ॥
噢,纳罗陀,以种种供品,并以此真言: “礼敬摩罗,礼敬迦摩——礼敬迦摩天(爱神)之具身圣相。”
Verse 7
ब्रह्मविष्णुशिवेंद्राणां मनःभोभकराय वै । तत्तस्याग्रतो भक्त्या पूजयेदंगनापतिम् ॥ ७ ॥
当以虔敬在彼神前礼拜“安伽那主”(Aṅganāpati);因为他确是梵天、毗湿奴、湿婆与因陀罗心中所生之子。
Verse 8
वस्त्रमाल्याविभूषाद्यैः कामोऽयमिति चिंतयेत् । संपूज्य द्विजदांपत्यं गंधवस्त्रविभूषणैः ॥ ८ ॥
以衣服、花鬘、饰物等供养时,当观想:“此即迦摩。”随后以香料、衣物与饰品,恭敬供奉婆罗门夫妇(双尊)。
Verse 9
एवं यः कुरुते विप्र वर्षे वर्षे महोत्सवम् । वसंतसमये प्राप्ते हृष्टः पुष्टः सदैव सः ॥ ९ ॥
如是,婆罗门啊,凡年年举行此大庆典者——当春时来临——恒常欢喜,身心充盛而昌隆。
Verse 10
प्रतिमासं पूजयेद्वा यावद्वर्षं समाप्यते । मदनं हृद्भवं कामं मन्मथं च रतिप्रियम् ॥ १० ॥
或可每月礼拜,直至满一年:摩陀那——心中所生者;迦摩;曼摩他;以及罗底所钟爱者。
Verse 11
अनंगं चैव कंदर्पं पूजयेन्मकरध्वजम् । कुसुमायुधसंज्ञं च ततः पश्चान्मनोभवम् ॥ ११ ॥
应当礼敬爱神迦摩(Kāma),亦以“无身者”(Anaṅga)与“坎达尔帕”(Kandarpa)之名;继而礼敬为“摩伽罗旗帜者”(Makaradhvaja)、以“花为武器者”(Kusumāyudha)之称,随后再礼敬为“心生者”(Manobhava)。
Verse 12
विषमेषु तथा विप्र मालतीगप्रियमित्यपि । अजाया दानमप्युक्तं स्नात्वा नद्या विधानतः ॥ १२ ॥
同样地,婆罗门啊,在不吉(不均)之日,也说应奉献所爱之物,如茉莉(mālatī)之花;并且在依仪轨于河中沐浴之后,还规定施舍一只母山羊。
Verse 13
अजाः पयस्विनीर्दद्याद्दरिद्राय कुटुंबिने । भूयस्त्वनेन दानेन स लोके नैव जायते ॥ १३ ॥
应将能产乳的山羊施与贫困的居家者。凭此布施之功德,施主在此世间不再复生。
Verse 14
यदीयं शनिना युक्ता सा महावारुणी स्मृता । गंगायां यदि लभ्येत कोटिसूर्यग्रहाधिका ॥ १४ ॥
当此瓦鲁尼(Vāruṇī)时分与土星(Śani)相合时,便被称为“大神瓦鲁尼”。若在恒河(Gaṅgā)得遇,其功德胜过千万次日食。
Verse 15
शुभयोगः शतर्क्षं च शनौ कामे मधौ सिते । महामहेति विख्याता कुलकोटिविमुक्तिदा ॥ १५ ॥
当吉祥之瑜伽与舍多毗沙(Śatabhiṣaj,亦称Śatārkṣa)星宿相会——在星期六,于迦摩月(Phālguna)或摩度月(Caitra)的白半月——便名为“摩诃摩诃”(Mahāmahā)。据说它能令家族亿万(crore)众生得解脱。
Verse 16
राधशुक्लत्रयोदश्यां कामदेवव्रतं स्मृतम् । तत्र गंधादिभिः कामं पूजयेदुपवासवान् ॥ १६ ॥
在罗陀月的白分(上弦)第十三日(Trayodaśī),规定修持名为“迦摩天誓”(Kāmadeva-vrata)的斋戒誓愿。于此日,持斋者当以香料、芬芳等供品礼拜迦摩天。
Verse 17
प्रतिमासं ततः पश्चात्त्रयोदश्यां सिते दले । एवमेव व्रतं कार्यं वर्षांते गामलंकृताम् ॥ १७ ॥
此后,每个月在白分的第十三日(Trayodaśī)都应如法同样修持此誓;到一年圆满之时,当以一头装饰庄严的母牛作为结愿之施。
Verse 18
दद्याद्विप्राय सत्कृत्य व्रतसांगत्वसिद्धये । ज्येष्ठशुक्लत्रयोदश्यां दौर्भाग्यशमनं व्रतम् ॥ १८ ॥
为使誓愿具足诸仪而圆满成就,应恭敬布施于博学的婆罗门。此誓于耶湿吒月白分第十三日修行,名为“达乌尔婆伽耶·沙摩那”(Daurbhāgya-śamana),旨在息除厄运。
Verse 19
तत्र स्नात्वा नदीतोये पूजयेच्छुचिदेशजम् । श्वेतमंदारमर्कं वा करवीरं च रक्तकम् ॥ १९ ॥
于彼处,先在河水中沐浴,然后以取自洁净之地的清净供品而礼拜:如白色曼陀罗花、阿尔迦花,或夹竹桃(karavīra)以及红花等。
Verse 20
निरीक्ष्य गगने सूर्यं प्रार्थयेन्मंत्रतस्तदा । मंदारकरवीरार्का भवंतो भास्करांशजाः ॥ २० ॥
随后仰观天际之日轮,应依所授真言祈祷:“噢,曼陀罗、迦罗毗罗与阿尔迦——汝等由婆斯迦罗(日神)之光辉所生,愿垂慈悯。”
Verse 21
पूजिता मम दौर्भाग्यं नाशयंतु नमोऽस्तु वः । इत्थं योऽर्चयते भक्त्या वर्षे वर्षे द्रुमत्रयम् ॥ २१ ॥
当你们受供奉时,愿你们摧毁我的不幸——向你们致敬。如此,凡以虔信(bhakti)年复一年礼敬这三株圣树者……
Verse 22
नश्यते तस्य दौर्भाग्यं नात्र कार्या विचारणा । शुचिशुक्लत्रयोदश्यामेकभक्तं समाचरेत् ॥ २२ ॥
他的厄运必被消除——对此无需疑虑。在清净明半月的第十三日(Trayodaśī),应如法行持“eka-bhakta”,即一日一食。
Verse 23
पूजयित्वा जगन्नाथावुमामाहेश्वरी तनूः । हैम्यौ रौप्यौ च मृन्मप्यौ यथाशक्त्या विधाय च ॥ २३ ॥
礼敬宇宙之主 Jagannātha 之后,也应礼敬 Umā 与 Maheśvara 的圣身;并随己力,或以金、或以银,乃至以泥土塑成其像。
Verse 24
सिंहोक्षस्थे देवगृहे गोष्ठे ब्राह्मणवेश्मनि । स्थापयित्वा प्रतिष्ठाप्य दैवमंत्रेण नारद ॥ २४ ॥
噢,Nārada,将其安置后,并以天圣真言如法作“安立”(pratiṣṭhā)——无论置于狮座或牛座,在庙宇、牛舍,或婆罗门之家——都应依仪轨完成 स्थापना。
Verse 25
ततः पंचदिनं पूजा चैकभक्तं व्रतं तथा । तृतीयदिवसे प्रातः स्नात्वा संपूज्य तौ पुनः ॥ २५ ॥
随后应行五日供养,并同样守持“eka-bhakta”之誓,即每日仅食一次。至第三日清晨,沐浴之后,当再以圆满仪轨礼敬那二尊。
Verse 26
समर्पणीयौ विप्राय वेदवेदांगशालिने । वर्षे वर्षे ततः पश्चाद्विधेयं वर्षपंचकम् ॥ २६ ॥
应当供奉给通晓《吠陀》及诸《吠陀支分》(Vedāṅga)的婆罗门。其后年复一年,当修行一套为期五年的戒行。
Verse 27
तदंते धेनुयुग्मेन सहितौ तौ प्रदापयेत् । इत्थं नरो वा नारी वा कृत्वा व्रतमिदं शुभम् ॥ २७ ॥
至其终了,应将那两物连同一对母牛一并布施。如此,无论男子或女子,依此法成就此吉祥誓戒者,皆得福德。
Verse 28
नैव दांपत्यविच्छेदं लभते सप्तजन्मसु । नभः शुक्लत्रयोदश्यां रतिकामव्रतं शुभम् ॥ २८ ॥
若于那婆娑月(Nabhas,即室罗伐那 Śrāvaṇa)白分第十三日(Trayodaśī)修持此吉祥“罗蒂—迦摩”誓戒者,七生之中不遭夫妻离散。
Verse 29
वैधव्यवारणं स्त्रीणां तथा संतानवर्धनम् । कृतोपवासा कन्यैव नारी वा द्विजसत्तम ॥ २९ ॥
此法能为女子遮止寡居之厄,亦能增长子嗣。噢,二次生者中之最胜者,无论处女或已婚妇人,既行斋戒(upavāsa),皆得此果。
Verse 30
ताम्रे वा मृन्मये वापि सौवर्णे राजते तथा । रतिकामौ प्रविन्यस्य गंधाद्यैः सम्यगर्चयेत् ॥ ३० ॥
无论以铜、陶土、黄金或白银所制,都应如法安置罗蒂与迦摩这一对神像,并以香料等诸供品恭敬礼拜。
Verse 31
ततस्तु द्विजदांपत्यं चतुर्दश्यां निमंत्र्य च । सतकृत्य भोज्य प्रतिमे दद्यात्ताभ्यां सदक्षिणे ॥ ३१ ॥
随后,于月相第十四日(caturdaśī)应邀请一对婆罗门夫妇;恭敬礼遇并供养饮食之后,当施与两尊圣像(pratimā),并奉上相称的供养金(dakṣiṇā)。
Verse 32
एवं चतुर्दशाब्दं च कृत्वा व्रतमनुत्तमम् । धेनुयुग्मान्विते देये व्रतसंपूर्तिहेतवे ॥ ३२ ॥
如此,奉行此无上誓愿满十四年之后,为使誓愿圆满,应作布施,并以一对乳牛相随为供。
Verse 33
भाद्रशुक्लत्रयोदश्यां गोत्रिरात्रव्रतं स्मृतम् । लक्ष्मीनारायणं कृत्वा सौवर्णं वापि राजतम् ॥ ३३ ॥
在婆陀罗钵陀月明半月的第十三日(trayodaśī),规定修持名为“三夜誓”的斋戒。应塑造吉祥天女—那罗延(Lakṣmī–Nārāyaṇa)圣像,可用黄金或白银。
Verse 34
पंचामृतेन संस्नाप्य मण्डलेऽष्टदले शुभे । पीठे विन्यस्य वस्त्राढ्यं गंधाद्यैः परिपूजयेत् ॥ ३४ ॥
以五甘露(pañcāmṛta)为圣像沐浴之后,于吉祥的八瓣曼荼罗中,将其安置于座(pīṭha)上,饰以衣服,并以香料等诸供品圆满礼拜。
Verse 35
आरार्तिकं ततः कृत्वा दद्यात्सान्नोदकं घटम् । एवं दिनत्रयं कृत्वा व्रतांते मासमर्च्य च ॥ ३५ ॥
随后行阿罗提(ārati),并供奉一只盛满清水的壶(ghaṭa),连同熟食一并奉献。如此行持三日;至誓愿终了,还应再礼拜供养一整月。
Verse 36
सम्यगर्थं च संपाद्य दद्यान्मंत्रेण नारद । पंचगावः समुत्पन्ना मथ्यमाने महोदधौ ॥ ३६ ॥
当如法备办所需供品后,噢那罗陀,应以所规定的真言而奉献。大海被搅拌之时,五种神圣的牛之产物(pañcagavya)由此出现。
Verse 37
तासां मध्ये तु या नंदा तस्यै धेन्वै नमो नमः । प्रदक्षिणीकृत्य ततो दद्याद्विप्राय मंत्रतः ॥ ३७ ॥
在那些母牛之中,有一头名为“难陀”(Nandā);对那头母牛,应当一再顶礼致敬。随后恭敬右绕行(pradakṣiṇā),并以相应真言,将此牛施与博学的婆罗门。
Verse 38
गावो ममाग्रतः सन्तु गावो मे संतु पृष्ठतः । गावो मे पार्श्वतः संतु गवां मध्ये वसाम्यहम् ॥ ३८ ॥
愿群牛在我前;愿群牛在我后。愿群牛在我两侧;愿我安住于群牛之中。
Verse 39
ततश्च द्विजदांपत्यं सम्यगभ्यर्च्य भोजयेत् । लक्ष्मीनारायणं तस्मै सत्कृत्य प्रतिपादयेत् ॥ ३९ ॥
随后应如法恭敬供养并款待一对婆罗门夫妇;在郑重礼敬之后,当将吉祥天女与那罗延(Lakṣmī‑Nārāyaṇa)的圣像(或象征)恭敬奉赠于他们。
Verse 40
अश्वमेधसहस्राणि राजसूयशतानि च । कृत्वा यत्फलमाप्नोति गोत्रिरात्रव्रताच्च तत् ॥ ४० ॥
行一千次马祭(Aśvamedha)与一百次王祭(Rājasūya)所得之功德,其同等之果报,亦可由守持“戈特里罗夜”(Gotrirātra)誓戒(vrata)而获得。
Verse 41
इषे शुक्लत्रयोदश्यां त्रिरात्रशोककव्रतम् । हैमं ह्यशोकं निर्माय पूजयित्वा विधानतः ॥ ४१ ॥
在Īṣa月明半月第十三日,应受持名为“阿输迦誓”的三夜誓戒;以黄金塑成阿输迦(树/神圣形相),并依仪轨如法礼拜供养。
Verse 42
उपवासपरा नारी नित्यं कुर्यात्प्रदक्षिणाः । अष्टोत्तरशतं विप्र मंत्रेणानेन सादरम् ॥ ४२ ॥
婆罗门啊,专心持斋的女子应当每日恭敬绕行(右绕礼敬)一百零八匝,并诵此一真言。
Verse 43
हरेण निर्मितः पूर्वं त्वमशोक कृपालुना । लोकोपकारकरणस्तत्प्रसीद शिवप्रिय ॥ ४३ ॥
阿输迦啊,你昔日由慈悲的哈利(Hari)为利益世间而造;因此请垂恩赐福——噢,湿婆所钟爱者。
Verse 44
ततस्तृतीये दिवसे वृक्षे तस्मिन्वृषध्वजम् । समभ्यर्च्य विधानेन द्विजं संभोज्य दापयेत् ॥ ४४ ॥
随后在第三日,应依仪轨于彼树上礼拜供奉“持牛旗者”Vṛṣadhvaja;并当供食一位婆罗门,复施以相称的供养礼金(dakṣiṇā)。
Verse 45
एवं कृतव्रता नारी वैधव्यं नाप्नुयात्क्वचित् । पुत्रपौत्रादि सहिता भर्तुश्च स्यात्सुवल्लभा ॥ ४५ ॥
如是修持此誓的女子,永不至于陷入寡居之苦;具足子孙等福德,亦将成为丈夫极其钟爱之人。
Verse 46
ऊर्ज्जकृष्णत्रयोदश्यामेकभक्तः समाहितः । प्रदोषे तैलदीपं तु प्रज्वाल्याभ्यर्च्य यत्नतः ॥ ४६ ॥
在乌尔迦月(迦尔提迦月)黑半月的第十三日(Trayodaśī),行者应安定专注,只进一餐;于黄昏时分(pradoṣa)点燃油灯后,当以谨慎勤恳之心礼拜供奉。
Verse 47
गृहद्वारे बहिर्दद्याद्यमो मे प्रीयतामिति । एवं कृते तु विप्रेंद्र यमपीडा न जायते ॥ ४७ ॥
应在家门外放置供物,并说道:“愿阎摩(Yama)喜悦于我。”如此行持,噢婆罗门中的尊者,阎摩之苦刑便不再生起。
Verse 48
ऊर्ज्शुक्लत्रयोदश्यामेकभोजी द्विजोत्तम । पुनः स्नात्वा प्रदोषे तु वाग्यतः सुसमाहितः ॥ ४८ ॥
噢二次生中的至上者,在乌尔迦月明半月第十三日(Trayodaśī),应只进一餐;随后于黄昏(pradoṣa)再沐浴一次,约束言语,令心坚定安住于定。
Verse 49
प्रदीपानां सहस्रेण शतेनाप्यथवा द्विज । प्रदीपयेच्छिवं वापि द्वात्रिंशद्दीपमालया ॥ ४९ ॥
噢二次生者,当以千盏灯——或至少百盏——照耀供奉湿婆(Śiva);或以三十二盏灯结成灯鬘,以此照明礼敬。
Verse 50
घृतेन दीपयेद्द्वीपान्गंधाद्यैः पूजयेच्छिवम् । फलैर्नानाविधैश्चैव नैवेद्यैरपि नारद ॥ ५० ॥
噢那罗陀(Nārada),应以酥油(ghee)点燃灯台上的灯火,以香料等供品礼拜湿婆(Śiva);并献上多种果品与食供(naivedya)。
Verse 51
ततः स्तुवीत देवेशं शिवं नाम्नां शतेन च । तानि नामानि कीर्त्यंते सर्वाभीष्टप्रदानि वै ॥ ५१ ॥
随后,应以一百圣名赞颂湿婆——诸天之主;这些名号当诵持,因为它们确能赐予一切所愿的福德。
Verse 52
नमो रुद्राय भीमाय नीलकंठाय वेधसे । कपर्द्दिने सुरेशाय व्योमकेशाय वै नमः ॥ ५२ ॥
礼敬鲁陀罗——威怖者;礼敬尼罗迦ṇṭha——青喉尊;礼敬韦陀诃——创造并安立法度者。礼敬卡帕尔丁——结发者;礼敬苏雷沙——诸天之主;礼敬毗约摩计沙——其发即苍穹者。
Verse 53
वृषध्वजाय सोमाय सोमनाथाय वै नमः । दिगंबराय भृंगाय उमाकांताय वर्द्धिने ॥ ५३ ॥
礼敬牛旗之主;礼敬苏摩;礼敬苏摩那他。礼敬迪甘婆罗——以虚空为衣的苦行者;礼敬婆陵伽;并礼敬乌玛迦安多——常令增益、赐予增长者。
Verse 54
तपोमयाय व्याप्ताय शिपिविष्याय वै नमः । व्यालप्रियाय व्यालाय व्यालानां पतये नमः ॥ ५४ ॥
礼敬由苦行之力所成、遍满一切、名为“湿毗毗什吒”(Śipiviṣṭa)者。礼敬为诸蛇所爱、自己即大蛇、并为一切蛇之主者。
Verse 55
महीधराय व्योमाय पशूनां पतये नमः । त्रिपुरघ्नाय सिंहाय शार्दूलायार्षभाय च ॥ ५५ ॥
礼敬大地之持者;礼敬广阔之苍穹;礼敬众生之主——帕舒帕提。礼敬诛灭三城(Tripura)者;礼敬狮子;礼敬猛虎;亦礼敬公牛。
Verse 56
मिताय मितनाथाय सिद्धाय परमेष्ठिने । वेदगीताय गुप्ताय वेदगुह्याय वै नमः ॥ ५६ ॥
顶礼于彼——虽可量而实不可量,乃一切量度之主;成就者(悉地者),至上统御者(Parameṣṭhin)。为诸吠陀所歌咏者,幽隐者,亦是吠陀最深秘奥之谜——诚心稽首。
Verse 57
दीर्घाय दीर्घरूपाय दीर्घार्थाय महीयसे । नमो जगत्प्रतिष्ठाय व्योमरूपाय वै नमः ॥ ५७ ॥
顶礼于汝——无尽者;形相无边,旨趣不可量;至伟者。顶礼于宇宙之所依;顶礼于形同虚空、以天际为身者。
Verse 58
कल्याणाय विशिष्याय शिष्टाय परमात्मने । गजकृत्ति धरायाथ अंधकासुरभेदिने ॥ ५८ ॥
顶礼于至上我(Paramātman)——吉祥者、最胜者、为贤善所敬者;披象皮者,劈灭阿修罗安达迦(Andhaka)者。
Verse 59
नीललोहितशुक्लाय चडमुंडप्रियाय च । भक्तिप्रियाय देवाय यज्ञांतायाव्ययाय च ॥ ५९ ॥
顶礼于神圣者——具蓝、红、白三色;为旃荼与牟荼(Caṇḍa、Muṇḍa)所爱;喜悦于奉爱(bhakti);为天神之主;为祭祀(yajña)之圆满;且永不坏灭。
Verse 60
महेशाय नमस्तुभ्यं महादेवहराय च । त्रिनेत्राय त्रिवेदाय वेदांगाय नमो नमः ॥ ६० ॥
顶礼于汝,摩诃伊湿伐罗(Mahesha);亦顶礼于摩诃提婆、诃罗(Mahādeva, Hara)。再三礼敬三目者;礼敬以三部吠陀为身者;礼敬具足吠陀支分(Vedāṅga)者——顶礼,顶礼。
Verse 61
अर्थायार्थस्वरूपाय परमार्थाय वै नमः । विश्वरूपाय विश्वाय विश्वनाथाय वै नमः ॥ ६१ ॥
我至诚顶礼于彼:祂是意义与归宿,祂的本性即是意义,祂是至上之义。又顶礼于彼:祂以宇宙为形,祂即宇宙,祂是宇宙之主。
Verse 62
शंकराय च कालाय कालावयवरूपिणे । अरूपाय विरूपाय सूक्ष्मसूक्ष्माय वै नमः ॥ ६२ ॥
我至诚顶礼于商羯罗(Śaṅkara),亦即时间者;其形由时间之诸分肢所成。顶礼于彼:无相而超越一切相,微细胜于至微。
Verse 63
श्मशानवासिने तुभ्यं नमस्ते कृत्तिवाससे । शशांकशेखरायाथ रुद्रभूमिश्रिताय च ॥ ६३ ॥
我至诚顶礼于汝,住于火葬场者;顶礼于汝,披兽皮为衣者。亦顶礼于月为冠者,并顶礼于安住于鲁陀(Rudra)圣地者。
Verse 64
दुर्गाय दुर्गपाराय दुर्गावयवसाक्षिणे । लिंगरूपाय लिंगाय लिंगानपतये नमः ॥ ६४ ॥
我至诚顶礼于护佑之力(杜尔迦,Durgā),令众生渡越诸难者,见证一切肢体与诸根者。顶礼于彼:以林伽(Liṅga)为形,彼即林伽本身,乃一切林伽之主。
Verse 65
नमः प्रभावरूपाय प्रभावार्थाय वै नमः ॥ ६५ ॥
我至诚顶礼于彼:其形体即神圣威光;亦顶礼于彼:其旨意在于赐予并显现此威光。
Verse 66
नमो नमः कारणकारणाय ते मृत्युंजयायात्मभवस्वरूपिणे । त्रियंबकाय शितिकंठभार्गिणे गौरीयुजे मंगलहेतवे नमः ॥ ६६ ॥
顶礼,顶礼于您——万因之因;战胜死亡者;自性为真我、为一切生成之源者;三目之主、青颈者、执婆尔吉斧者;与高丽女神为侣者;一切吉祥之泉源——顶礼于您。
Verse 67
नाम्नां शतमिदं विप्र पिनाकिगुणकीर्तनम् । पठित्वा दक्षिणीकृत्य प्रायान्निजनिकेतनम् ॥ ६७ ॥
婆罗门啊,诵毕这百名之赞——宣扬持弓者毗那迦(湿婆)功德的圣颂——并依仪奉献达克希那之后,他便启程回到自己的住处。
Verse 68
एवं कृत्वा व्रतं विप्र महादेवप्रसादतः । भुक्त्वेह भोगानखिलानंते शिवपदं लभेत् ॥ ६८ ॥
婆罗门啊,如此奉行誓戒,蒙大天(摩诃提婆)恩赐,今世得享一切福乐,终则证得湿婆之境(湿婆之住处)。
Verse 69
मार्गशुक्लत्रयोदश्यां योऽनंगं विधिना यजेत् । त्रिकालमेककालं वा शिवसंगमसंभवम् ॥ ६९ ॥
凡于摩伽希尔沙月明半之第十三日(Trayodaśī),依正仪礼敬拜无身者阿难伽(迦摩)——日三时或仅一时亦可——即是在礼敬由湿婆(与雪克提)合一而生者。
Verse 70
गन्धाद्यैरुपचारैस्तु पूजयित्वा विधानतः । घटे मंगलपट्टे वा भोजयेद्द्विजदंपती ॥ ७० ॥
依仪以香等供品及诸恭敬侍奉圆满礼拜之后,应供养婆罗门夫妇用食——或在圣水罐(ghaṭa)之前,或在吉祥仪布(maṅgala-paṭṭa)之前。
Verse 71
ततश्च दक्षिणां दत्वा स्वयमेकाशनं चरेत् । एवं कृते तु विधिवद्व्रती सौभाग्यभाजनः ॥ ७१ ॥
随后,依仪轨奉献规定的达克希那(祭司供养),当亲自修持只食一餐之戒。如此如法而行,持誓者便成为福运的受者。
Verse 72
जायते भुवि विप्रेन्द्र महादेवप्रसादतः ॥ ७१ ॥
噢,婆罗门中的最胜者,此事在世间得以成就,皆由大天(湿婆)之恩典。
Verse 73
पौषशुक्लत्रयोदश्यां समभ्यर्च्याच्युतं हरिम् । घृतपात्रं द्विजेन्द्राय प्रदद्यात्सर्वसिद्धये ॥ ७२ ॥
在普沙月明半的第十三日(Trayodaśī),如法礼拜供奉不堕者阿周多·哈利,应将一器酥油施与尊贵婆罗门,以成就一切悉地。
Verse 74
माघशुक्लत्रयोदश्यां समारभ्य दिनत्रयम् । माघस्नानव्रतं विप्र नानाकामफलावहम् ॥ ७३ ॥
婆罗门啊,自摩伽月明半第十三日开始,持续三日,便发起“摩伽沐浴誓”(māgha-snāna-vrata);此誓能赐予诸多所愿之果。
Verse 75
प्रयागे माघमासे तु त्र्यहं स्नातस्य यत्फलम् । नाश्वमेघसहस्रेण तत्फलं लभते भुवि ॥ ७४ ॥
在摩伽月于普拉亚伽沐浴三日所得之功德,即使在世间举行千次马祭(Aśvamedha)也难以获得同等之果。
Verse 76
तत्र स्नानं जपो होमो दानं चानंत्यमश्नुते । फाल्गुने तु सिते पक्षे त्रयोदश्यामुपोषितः ॥ ७५ ॥
在彼处,沐浴、持诵(japa)、火供(homa)与布施(dāna)皆得不坏之功德。于法尔古那月之白分,若于第十三日(Trayodaśī)守斋者,必得无失之果报。
Verse 77
नमस्कृत्य जगन्नाथं प्रारंभे धनदव्रतम् । महाराजं यक्षपतिं गंधाद्यैरुपचारकैः ॥ ७६ ॥
于仪式之始,当先顶礼世主 Jagannātha;继而以香膏等供品与诸般供养,礼敬大王 Dhanada(Kubera),即夜叉之主。
Verse 78
लिखितं वर्णकैः पट्टे पूजयेद्भक्तिभावतः । एवं शुक्लत्रयोदश्यां प्रतिमासं द्विजोत्तम ॥ ७७ ॥
当以彩色书绘于布幡之上,并以虔敬之心礼拜供养。如是,每月白分之第十三日(Trayodaśī)皆当奉行,噢,最胜之二生者。
Verse 79
संपूजयेत्सोपवासश्चैकभुक्तो भवेन्नरः । ततो व्रतांते तु पुनः सौवर्णं धननायकम् ॥ ७८ ॥
当以圆满恭敬而礼拜,守斋并仅食一餐。其后于誓愿圆满之时,再奉献一尊金制库贝拉(Kubera)像,乃财富之主。
Verse 80
विधाय निधिभिः सार्द्धं सौवर्णाभिर्द्विजोत्तम । उपचारैः षोडशभिः स्नानैः पंचामृतादिभिः ॥ ७९ ॥
噢,最胜婆罗门,当如法陈设珍宝与金供,并以十六种供养之法恭敬奉事;复以五甘露(pañcāmṛta)等诸圣物行灌沐之礼。
Verse 81
नैवेद्यैर्विविधैर्भक्त्या पूजयेत्तु समाहितः । ततो धेनुमलंकृत्य वस्त्रस्रग्गंधभूषणैः ॥ ८० ॥
当以专注之心,以奉爱(bhakti)供奉神明,献上种种供食(naivedya,供品食物)。随后以衣饰、花鬘、香氛与饰物庄严母牛,并依仪轨继续所规定的施赠之行。
Verse 82
सवत्सां दापयेद्विप्र सम्यग्वेदविदे शुभाम् । संभोज्य विप्रान्मिष्टान्नैर्द्वादशाथ त्रयोदश ॥ ८१ ॥
噢婆罗门啊,当如法将一头吉祥良牛连同其犊,布施给堪受者——通晓吠陀之人。又以甘美之食供养诸婆罗门之后,当依教继续第十二与第十三之仪行。
Verse 83
गुरुं समर्च्य वस्त्राद्यैः प्रतिमां तां निवेदयेत् । द्विजेभ्यो दक्षणां शक्त्या दत्वा नत्वा विसृज्य च ॥ ८२ ॥
先以衣物等供品如法礼敬上师(Guru),继而奉献那尊圣像(pratimā)。再依自身能力向诸二生者(dvija)奉上达克希那(dakṣiṇā,供养礼金),顶礼致敬,恭敬送别,以终其仪。
Verse 84
स्वयं भुंजीत मतिमानिष्टैः सह समाहितः । एवं कृते व्रते विप्र निर्धनः प्राप्य वैभवम् ॥ ८३ ॥
智者当心神安住,亲手与至爱之人同食。此誓行(vrata)若如是成就,即便贫困的婆罗门亦能获得富足与丰饶。
Verse 85
मोदते भुवि विख्यातो राजराज इवापरः ॥ ८४ ॥
其名闻于世间,在大地上欢喜安乐,宛如诸王之中又一位帝王。
Verse 86
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वादशमासस्थितत्रयोदशीव्रतकथनं नाम द्वाविंशदधिकशततमोऽध्यायः ॥ १२२ ॥
至此,在《圣大那罗陀往世书》之前分(Pūrva-bhāga)与《广大副传》(Bṛhad-upākhyāna)中,题为“十二个月中奉行特罗约达希誓戒之叙述”的第一百二十二章圆满结束。
Trayodaśī is presented as a repeatable calendrical hinge for vrata-kalpa, where timing (tithi plus weekday/nakṣatra/yoga) amplifies merit; the text links it to prosperity (Kubera, dāna), lineage outcomes (progeny), marital stability (Rati–Kāma), and Śaiva grace (pradoṣa lamp-worship culminating in Śiva’s abode).
It specifies iconographic construction (sandalwood Madana; painted Ananga with flower-bow and arrows), a focused mantra salutation to Māra/Kāma, seasonal embedding in Vasanta, and a structured extension across months via multiple epithets (Madana, Manmatha, Kandarpa, Makaradhvaja, Kusumāyudha, Manobhava).
Nearly every vow includes brahmin-couple honoring, feeding, and dakṣiṇā, along with major dānas (cow/calf, goats, ghee vessel, pratimā gifts), framing personal merit as inseparable from redistribution and ritual hospitality.
The Kārttika Trayodaśī portion emphasizes pradoṣa-time discipline (single meal, twilight bathing, restraint), large-scale dīpa-dāna (100–1000 lamps or 32-lamp garland), and a hundred-name praise that is said to grant desired boons and culminate in attaining Śiva’s state.