
Daily Duties of Brāhmaṇas: Snāna, Sandhyā, Sūrya-hṛdaya, Japa, Tarpaṇa, and the Pañca-mahāyajñas
承接诸仙对以戒行求解脱的探问,毗耶娑按一日次第开示婆罗门之常行(nitya-karman)。章首自梵明时(brahma-muhūrta)起修观想,继以净行(śauca)与晨浴为要,并阐明六种沐浴法(Brāhma、Āgneya、Vāyavya、Daiva、Vāruṇa,以及内在/瑜伽之浴——观想毗湿奴而证悟自性)。随后详述洁齿、反复行 ācamana、以咒语净水(Āpo hi ṣṭhā、诸 vyāhṛti、Sāvitrī),并强调暮旦礼(sandhyā-upāsanā)为核心:形上学上认定 Sandhyā 为超越 māyā 的至上神力(Parā-Śakti),仪轨上规定调息(prāṇāyāma)、持诵次数与向日礼敬。长篇《Sūrya-hṛdaya》赞颂苏利耶(Sūrya)为梵(Brahman)亦为鲁陀罗(Rudra),彰显哈利—哈罗(Hari–Hara)合一。修持次第又及火供(homa)、事师(guru-sevā)、诵习经典(svādhyāya)、午浴规矩(泥土用量、伐楼那咒、Aghamarṣaṇa)、持咒纪律(独处、秽净禁制、念珠材质),以及依圣线佩戴方式(upavīta/nivīta/prācīnāvīta)行供水祭(tarpaṇa)。终以家祭与五大祭(pañca-mahāyajña:deva、pitṛ、bhūta、manuṣya、brahma)作结,并警诫不行诸祭而食者将致灵性与业报之堕落。
Verse 1
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे सप्तदशो ऽध्यायः ऋषय ऊचुः अहन्यहनि कर्तव्यं ब्राह्मणानां महामुने / तदाचक्ष्वाखिलं कर्म येन मुच्येत बन्धनात्
如是,在《圣俱尔摩往世书》上部(Upari-bhāga)之《六千颂集》(Ṣaṭsāhasrī Saṃhitā)中,第十七章开启。诸仙(ṛṣi)说道:“噢大牟尼,请详尽宣说婆罗门日日应行之法业,由此得脱系缚。”
Verse 2
व्यास उवाच वक्ष्ये समाहिता यूयं शृणुध्वं गदतो मम / अहन्यहनि कर्तव्यं ब्राह्मणानां क्रमाद् विधिम्
毗耶娑说道:“汝等心神安定、专注聆听者,当听我所言。我将依次宣说婆罗门日日应行的日常仪则。”
Verse 3
ब्राह्मे मुहूर्ते तूत्थाय धर्ममर्थं च चिन्तयेत् / कायक्लेशं तदुद्भूतं ध्यायीत मनसेश्वरम्
于梵天时分(Brahma-muhūrta)起身,当思惟法(dharma)与利(artha);并观由此而生之身劳,复当禅念主宰心识之自在天(Īśvara)。
Verse 4
उषः काले ऽथ संप्राप्ते कृत्वा चावश्यकं बुधः / स्नायान्नदीषु सुद्धासु शौचं कृत्वा यथाविधि
当黎明时分到来,智者既已完成必要之事,当于清净河流中沐浴,并依仪轨圆满所规定的净行(śauca)。
Verse 5
प्रातः स्नानेन पूयन्ते ये ऽपि पापकृतो जनाः / तस्मात् सर्वप्रयत्नेन प्रातः स्नानं समाचरेत्
即便造作罪业之人,也能因清晨沐浴而得清净;是故当竭尽诸般精进,恒常修行晨浴之法。
Verse 6
प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टकरं शुभम् / ऋषीणामृषिता नित्यं प्रातः स्नानान्न संशयः
诸仙贤称赞清晨沐浴为吉祥之行,能成就可见与不可见之利益。对诸牟尼而言,此乃恒常而确立的戒行;关于晨浴,毫无疑惑。
Verse 7
मुखे सुप्तस्य सततं लाला याः संस्त्रवन्ति हि / ततो नैवाचरेत् कर्म अकृत्वा स्नानमादितः
人睡眠之时,口中涎液常常流溢。故未先行净浴,不应从事任何行为,尤其不宜起行诸仪轨之业。
Verse 8
अलक्ष्मीः कालकर्णो च दुः स्वप्नं दुर्विचिन्तितम् / प्रातः स्नानेन पापानि पूयन्ते नात्र संशयः
不幸之阿拉克什弥、凶灵迦罗迦耳那、恶梦与有害或不净之思——以清晨沐浴,诸罪皆得涤除;对此毫无疑惑。
Verse 9
न च स्नानं विना पुंसां पावनं कर्म सुस्मृतम् / होमे जप्ये विशेषेण तस्मात् स्नानं समाचरेत्
对世人而言,离开沐浴,任何净化之行都不被记为真正清净。尤其在火供(护摩)与诵持真言之时,因此应如法行浴。
Verse 10
अशक्तावशिरस्कं वा स्नानमस्य विधीयते / आर्द्रेण वाससा वाथ मार्जनं कापिलं स्मृतम्
若有人无力(行全仪)或头上无发,亦为其制定沐浴之法;或以湿布拭身,也被传记为名为“迦毗罗(Kāpila)”的净化方式。
Verse 11
असामर्थ्ये समुत्पन्ने स्नानमेवं समाचरेत् / ब्राह्मादीनि यथाशक्तौ स्नानान्याहुर्मनीषिणः
当出现无力之时,应依此方式行沐浴净礼。智者宣说:更高等的沐浴法——自“梵天浴”等起——皆应随各人能力而行。
Verse 12
ब्राह्ममाग्नेयमुद्दिष्टं वायव्यं दिव्यमेव च / वारुणं यौगिकं तद्वत् षोढा स्नानं प्रकीर्तितम्
所教示者有:梵天浴、火神浴;同样还有风神浴、天界浴、伐楼那浴,以及同样的瑜伽浴——因此沐浴净礼被宣说为六种。
Verse 13
ब्राह्मं तु मार्जनं मन्त्रैः कुशैः सोदकबिन्दुभिः / आग्नेयं भस्मना पादमस्तकाद्देहधूलनम्
“梵天净浴”是以真言作洒净(mārjana),用俱舍草并配以水滴而行;“火神净浴”是以圣灰涂拭清净其身,自足至顶而净。
Verse 14
गवां हि रजसा प्रोक्तं वायव्यं स्नानमुत्तमम् / यत्तु सातपवर्षेण स्नानं तद् दिव्यमुच्यते
牛群扬起的尘土,被宣说为最上等的“风神浴”(Vāyavya)。而以日光与雨水而浴——受日照、沾雨淋——则称为“天界浴”。
Verse 15
वारुणं चावगाहस्तु मानसं त्वात्मवेदनम् / यौगिकं स्नानमाख्यातं योगो विष्णुविचिन्तनम्
入水浸浴称为“伐楼那浴”;“心意之浴”乃对真我(Ātman)的直接证知。“瑜伽之浴”被宣说即是瑜伽——恒常观念毗湿奴。
Verse 16
आत्मतीर्थमिति ख्यातं सेवितं ब्रह्मवादिभिः / मनः शुचिकरं पुंसां नित्यं तत् स्नानमाचरेत्
此被称为“自我之圣地”(ātma-tīrtha),为通达梵(Brahman)的智者所敬奉与修行。因其能净化人心,当恒常行此内在之沐浴。
Verse 17
शक्तश्चेद् वारुणं विद्वान् प्राजापत्यं तथैव च / प्रक्षाल्य दन्तकाष्ठं वै भक्षयित्वा विधानतः
若有学德之人具足能力,当如法行瓦鲁那(Vāruṇa)之仪,并同样修行普罗阇波底耶(Prājāpatya)之忏悔。随后洗净齿木,依所制之法咀嚼/使用。
Verse 18
आचम्य प्रयतो नित्यं स्नानं प्रातः समाचरेत् / मध्याङ्गुलिसमस्थौल्यं द्वादशाङ्गुलसंमितम्
行完阿遮摩那(ācamana)以净口,并自持端肃者,当日日行晨浴。(适当的浴处/水深)规定为:厚度如中指,尺度为十二指宽。
Verse 19
सत्वचं दन्तकाष्ठं स्यात् तदग्रेण तु धावयेत् / क्षीरवृक्षसमुद्भूतं मालतीसंभवं शुभम् / अपामार्गं च बिल्वं च करवीरं विशेषतः
清洁牙齿时,应取带皮之齿木,以其尖端刷拭。吉祥之齿木出自乳汁树(白浆之树),亦可取自茉莉(mālatī);尤以apāmārga、bilva与karavīra之枝为胜。
Verse 20
वर्जयित्वा निन्दितानि गृहीत्वैकं यथोदितम् / परिहृत्य दिनं पापं भक्षयेद् वै विधानवित्
当避开一切受责之物,只依所说取那唯一许可之物;并将罪恶之日置于一旁,通晓仪轨者当依规而食。
Verse 21
नोत्पाटयेद्दन्तकाष्टंनाङ्गुल्या धावयेत् क्वचित् / प्रक्षाल्य भङ्क्त्वा तज्जह्याच्छुचौदेशे समाहितः
不应猛然拔出洁齿木,也不应以手指刷牙。洗净之后,当将其折断,置于清净之处弃放,心神安住而不散乱。
Verse 22
स्नात्वा संतर्पयेद् देवानृषीन् पितृगणांस्तथा / आचम्य मन्त्रवन्नित्यं पुनराचम्य वाग्यतः
沐浴之后,应如法以供养使诸天、诸仙圣(ṛṣi)以及祖灵众(pitṛ)得以满足。每日以真言行阿遮摩那(ācamana)后,再行一次阿遮摩那,继而摄持言语。
Verse 23
संमार्ज्य मन्त्रैरात्मानं कुशैः सोदकबिन्दुभिः / आपो हिष्ठा व्याहृतिभिः सावित्र्या वारुणैः शुभैः
当以真言自净,取洒有水滴的库沙草(kuśa)拂拭其身。继而以《Āpo hi ṣṭhā》之颂、以诸圣音(vyāhṛti)、以萨维特丽(Sāvitrī/伽耶特丽)及吉祥的伐楼那(Varuṇa)真言而行净化。
Verse 24
ओङ्कारव्याहृतियुतां गायत्रीं वेदमातरम् / जप्त्वा जलाञ्जलिं दद्याद् भास्करं प्रति तन्मनाः
诵念与“唵”(Oṁ)及诸圣音(vyāhṛti)相连的伽耶特丽——吠陀之母——之后,当以合掌之水供奉婆斯迦罗(Bhāskara,日神),令心专注于彼。
Verse 25
प्राक्कूलेषु समासीनो दर्भेषु सुसमाहितः / प्राणायामत्रयं कृत्वा ध्यायेत् संध्यामिति श्रुतिः
在河岸之上坐于达尔婆草(darbha),面向东方,心神端凝。行三次调息(prāṇāyāma)之后,当观想桑迪亚(Sandhyā,晨昏之神圣时分)——此乃圣传(śruti)所宣示。
Verse 26
या संध्या सा जगत्सूतिर्मायातीता हि निष्कला / ऐश्वरी तु पराशक्तिस्तत्त्वत्रयसमुद्भवा
此“桑迪亚”(暮晓交会之微妙关节)即是宇宙之胎藏——超越摩耶,无分无际。她是至上的主宰之力——帕拉·沙克蒂,由她生起三种根本原理。
Verse 27
ध्यात्वार्ऽकमण्डलगतां सावित्रीं वै जपन् बुधः / प्राङ्मुखः सततं विप्रः संध्योपासनमाचरेत्
观想萨维特丽安住于日轮之中后,智者婆罗门应恒常面向东方,以持诵(japa)修行暮晓礼敬(sandhyā-upāsanā)。
Verse 28
संध्याहीनो ऽशुचिर्नित्यमनर्हः सर्वकर्मसु / यदन्यत् कुरुते किञ्चिन्न तस्य फलमाप्नुयात्
若忽略桑迪亚仪轨,便恒常不净,诸般圣业皆不堪任;他所作的其他任何行为,也不得其果报。
Verse 29
अनन्यचेतसः शान्ता ब्राह्मणा वेदपारगाः / उपास्य विधिवत् संध्यां प्राप्ताः पूर्वं परां गतिम्
诸婆罗门专一寂静,通达吠陀;依仪轨如法礼敬桑迪亚,昔日便已证得至上境界。
Verse 30
यो ऽन्यत्र कुरुते यत्नं धर्मकार्ये द्विजोत्तमः / विहाय संध्याप्रणतिं स याति नरकायुतम्
那位最上等的二生者若把精勤用在别处的法行,却舍弃对桑迪亚的恭敬礼拜,便将堕入众多地狱之中。
Verse 31
तस्मात् सर्वप्रयत्नेन संध्योपासनमाचरेत् / उपासितो भवेत् तेन देवो योगतनुः परः
因此,应竭尽全力修行桑迪亚(Sandhyā,晨昏礼敬)。由此修持,形体即为瑜伽的至上神祇,便得真实供奉。
Verse 32
सहस्रपरमां नित्यं शतमध्यां दशावराम् / सावित्ररिं वै जपेद् विद्वान् प्राङ्मुखः प्रयतः स्थितः
智者应恒常诵持萨维特丽(Sāvitrī,即伽雅特丽)真言:最好一千遍,中等一百遍,至少十遍;当以清净自持之身站立,面向东方而诵。
Verse 33
अथोपतिष्ठेदादित्यमुदयन्तं समाहितः / मन्त्रैस्तु विविधैः सौरेरृग्यजुः सामसंभवैः
随后,当以摄心专注,恭立于初升的阿底提亚(Āditya,太阳)之前,以出自《梨俱》《夜柔》《娑摩》吠陀传统的种种太阳真言而礼敬供奉。
Verse 34
उपस्थाय महायोगं देवदेवं दिवाकरम् / कुर्वोत प्रणतिं भूमौ मूर्ध्ना तेनैव मन्त्रतः
既已趋近礼奉天光者帝瓦迦罗(Divākara)——至大瑜伽、诸神之神的太阳——便当以额触地,五体投地而顶礼,并以同一真言而行。
Verse 35
ॐ खखोल्काय शान्ताय कारणत्रयहेतवे / निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे / नमस्ते घृणिने तुभ्यं सूर्याय ब्रह्मरूपिणे
唵。顶礼于汝,遍包一切者,寂静安和者,三重因之因者。我今奉献此身于汝——顶礼于汝,智慧为体者。顶礼于汝,慈悲而光耀者——顶礼于汝,苏利耶(Sūrya)日神,梵(Brahman)性之显现者。
Verse 36
त्वमेव ब्रह्म परममापो ज्योती रसो ऽमृतम् / भूर्भुवः स्वस्त्वमोङ्कारः सर्वे रुद्राः सनातनाः / पुरुषः सन्महो ऽतस्त्वां प्रणमामि कपर्दिनम्
唯有你是至上的梵(Brahman)——是水、是光、是精髓、是不死的甘露(amṛta)。你是Bhūḥ、Bhuvaḥ、Svaḥ;你是圣音“Oṃ”。一切永恒的鲁陀罗(Rudra)实即是你。你是普鲁沙(Puruṣa)、真实者、伟大者;因此我顶礼于你,哦卡帕尔丁(Kapardin),结发之主。
Verse 37
त्वमेव विश्वं बहुधा सदसत् सूयते च यत् / नमो रुद्राय सूर्याय त्वामहं शरणं गतः
唯有你是宇宙万有——以种种方式显现为“有”与“无”,并显现为一切所生起者。礼敬你为鲁陀罗(Rudra),礼敬你为苏利耶(Sūrya);我已归依于你。
Verse 38
प्रचेतसे नमस्तुभ्यं नमो मीढुष्टमाय ते / नमो नमस्ते रुद्राय त्वामहं शरणं गतः
礼敬你,哦普拉切塔斯(Pracetas);礼敬你,最丰厚的施予者。我一次又一次顶礼鲁陀罗——我已归依于你。
Verse 39
हिरण्यबाहवे तुभ्यं हिरण्यपतये नमः / अम्बिकापतये तुभ्यमुमायाः पतये नमः
礼敬你,哦金臂者;礼敬你,黄金与福泽之主。礼敬你,安比迦(Ambikā)之配偶;礼敬你,乌玛(Umā)之夫。
Verse 40
नमो ऽस्तु नीलग्रीवाय नमस्तुभ्यं पिनाकिने / विलोहिताय भर्गाय सहस्राक्षाय ते नमः
礼敬青颈者;礼敬你,执持毗那迦弓(Pināka)者。礼敬赤红者;礼敬婆尔伽(Bharga),光辉而灭罪者;并礼敬你,千眼之主。
Verse 41
नमो हंसाय ते नित्यमादित्याय नमो ऽस्तु ते / नमस्ते वज्रहस्ताय त्र्यम्बकाय नमो ऽस्तु ते
我恒常礼敬您为哈ṃ萨;礼敬您为阿底提耶——太阳。礼敬您手执金刚杵;礼敬您为三目主特里安巴迦。
Verse 42
प्रपद्ये त्वां विरूपाक्षं महान्तं परमेश्वरम् / हिरण्मयं गृहे गुप्तमात्मानं सर्वदेहिनाम्
我皈依于您——毗卢帕克沙,多目遍观者,伟大的主宰、至上自在天。您以金色本质,隐住于身中,作为一切有身众生的真我。
Verse 43
नमस्यामि परं ज्योतिर्ब्रह्माणं त्वां परां गतिम् / विश्वं पशुपतिं भीमं नरनारीशरीरिणम्
我礼拜于您——至上之光、梵(Brahman)、最高归依与究竟之道。您即是宇宙本身;您是帕舒帕提,威严可畏的众生之主,其形同时具男与女。
Verse 44
नमः सूर्याय रुद्राय भास्वते परमेष्ठिने / उग्राय सर्वभक्ताय त्वां प्रपद्ये सदैव हि
礼敬苏利耶——亦即鲁陀罗——光辉灿然、至高无上。向那威猛而普爱众生的主,我确实恒常归依于您。
Verse 45
एतद् वै सूर्यहृदयं जप्त्वा स्तवमनुत्तमम् / प्रातः काले ऽथ मध्याह्ने नमस्कुर्याद् दिवाकरम्
诵毕这无上赞颂,名为“苏利耶·赫利达耶”(太阳之心)之后,应于黎明礼拜昼光之主迪瓦迦罗,并于正午再礼拜一次。
Verse 46
इदं पुत्राय शिष्याय धार्मिकाय द्विजातये / प्रदेयं सूर्यहृदयं ब्रह्मणा तु प्रदर्शितम्
此《苏利耶心咒》(Sūryahṛdaya)为梵天(Brahmā)所开示,当授予自己的儿子或弟子——授予守持正法的两次生者(dvija)——不可妄传他人。
Verse 47
सर्वपापप्रशमनं वेदसारसमुद्भवम् / ब्राह्मणानां हितं पुण्यमृषिसङ्घैर्निषेवितम्
此法能息灭一切罪业,出自吠陀之精髓;吉祥而清净,利益婆罗门众,并为诸仙圣(ṛṣi)之会所奉行与护持。
Verse 48
अथागम्य गृहं विप्रः समाचम्य यथाविधि / प्रज्वाल्य विह्निं विधिवज्जुहुयाज्जातवेदसम्
随后,婆罗门归家,应依仪则行阿遮摩那(ācamana);再燃起圣火,按法度向“知一切所生者”阇多吠陀(Jātavedas,阿耆尼 Agni)献供。
Verse 49
ऋत्विक्पुत्रो ऽथ पत्नी वा शिष्यो वापि सहोदरः / प्राप्यानुज्ञां विशेषेण जुहुयुर्वा यताविधि
在特别许可已依法取得之后,主祭(ṛtvik)之子——或妻子、弟子,乃至同胞兄弟——皆可依所定仪轨行献供之事。
Verse 50
पवित्रपाणिः पूतात्मा शुक्लाम्बरधरोत्तरः / अनन्यमानसो वह्निं जुहुयात् संयतेन्द्रियः
当以净化之手、清净之心,身着洁白净衣,安住于所定威仪;心不散乱,诸根摄持,应向圣火中如法献供。
Verse 51
विना दर्भेण यत्कर्म विना सूत्रेण वा पुनः / राक्षसं तद्भवेत् सर्वं नामुत्रेह फलप्रदम्
凡所行之仪式,若无达尔婆草,或复无圣线(yajñopavīta),则尽成“罗刹”之性,今世后世皆不得其果。
Verse 52
दैवतानि नमस्कुर्याद् देयसारान्निवेदयेत् / दद्यात् पुष्पादिकं तेषां वृद्धांश्चैवाभिवादयेत्
当礼敬诸天,奉献所宜供养之上品,献花等供物,并同样向长者致以恭敬礼拜。
Verse 53
गुरुं चैवाप्युपासीत हितं चास्य समाचरेत् / वेदाभ्यासं ततः कुर्यात् प्रयत्नाच्छक्तितो द्विजः
两次生者当以恭敬侍奉上师,行对师有益之事;其后当以殷勤之力,随己所能,修学并诵习《吠陀》。
Verse 54
जपेदध्यापयेच्छिष्यान् धारयेच्च विचारयेत् / अवेक्षेत च शास्त्राणि धर्मादीनि द्विजोत्तमः / वैदिकांश्चैव निगमान् वेदाङ्गानि वेशिषतः
两次生者之最胜者,当修持圣诵(japa),教导弟子,受持于心并加以思惟;亦当省察诸论典(śāstra),以《法》(Dharma)为先,尤应精研吠陀之尼伽摩(Nigama)与诸吠陀支(Vedāṅga)。
Verse 55
उपेयादीश्वरं चाथ योगक्षेमप्रसिद्धये / साधयेद् विविधानर्थान् कुटुम्बार्थे ततो द्विजः
其后,为确证成就瑜伽与刹摩(安泰与护持),两次生者当亲近主宰伊湿伐罗(Īśvara);继而为维系家族,当以正法求取种种正当生计。
Verse 56
ततो मध्याह्नसमये स्नानार्थं मृदमाहरेत् / पुष्पाक्षतान् कुशतिलान् गोमयं शुद्धमेव च
随后于正午时分,为行沐浴净礼,应取净土(净化之泥),并备花、阿克沙塔(不碎之米)、库沙草与芝麻,亦取纯净牛粪。
Verse 57
नदीषु देवखातेषु तडागेषु सरःसु च / स्नानं समाचरेन्नित्यं गर्तप्रस्त्रवणेषु च
应当日日行沐浴之法:于诸河流、诸天所凿之圣渠(deva-khāta)、池塘与湖泊之中,亦于蓄水之坑穴及自然水流、泉涌之处。
Verse 58
परकीयनिपानेषु न स्नायाद् वै कदाचन / पञ्चपिण्डान् समुद्धृत्य स्नायाद् वासंभवे पुनः
切不可在他人所属之饮水处沐浴。若因触及不净之处而须再浴,应先取出五团净土,然后再行沐浴。
Verse 59
मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि / अधश्च तिसृभिः कायं पादौ षड्भिस्तथैव च
以净土一抹洗头;以二抹洗脐上之处;以三抹洗脐下之身;双足亦如是,以六抹而净。
Verse 60
मृत्तिका च समुद्दिष्टा त्वार्द्रामलकमात्रिका / गोमयस्य प्रमाणं तत् तेनाङ्गं लेपयेत् ततः
所规定之泥土,其量当如一枚湿润的阿摩罗果(āmalaka)。牛粪之量亦同;以此分量,随后涂抹其身。
Verse 61
लेपयित्वा तु तीरस्थस्तल्लिङ्गैरेव मन्त्रतः / प्रक्षाल्याचम्य विधिवत् ततः स्नायात् समाहितः
立于圣洁渡口之岸,诵持真言,以同样的林伽标志涂抹净化之膏;继而洗净,依法行阿遮摩那(净口礼),随后以摄心安住之意沐浴。
Verse 62
अभिमन्त्र्य जलं मन्त्रैस्तल्लिङ्गैर्वारुणैः शुभैः / भावपूतस्तदव्यक्तं ध्यायन् वै विष्णुमव्ययम्
以吉祥的伐楼那真言,并具足相应的仪轨标志而加持此水;内在情志由虔诚净化者,当观想那不显之实相——即不坏的毗湿奴。
Verse 63
आपो नारायणोद्भूतास्ता एवास्यायनं पुनः / तस्मान्नारायणं देवं स्नानकाले स्मरेद् बुधः
诸水由那罗延而生,而此水亦复为祂的安住之处(āyana)。因此,沐浴之时,智者当忆念那罗延天主。
Verse 64
प्रोच्य सोंकारमादित्यं त्रिर्निमज्जेज्जलाशये / आचान्तः पुनराचामेन्मन्त्रेणानेन मन्त्रवित्
诵出圣音“唵”(Oṁ),并以日神为其神圣依止,当于水中三次沉浸。既行阿遮摩那后,通晓真言者应以此同一真言再行阿遮摩那。
Verse 65
अन्तश्चरसि भूतेषु गुहायां विश्वतो मुखः / त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसो ऽमृतम्
你行于一切众生之内,住于心窟,面向十方。你是祭祀,你亦是“婆刹”(vaṣaṭ)之呼;你是诸水、是光明、是精髓、是甘露不死之蜜。
Verse 66
द्रुपदां वा त्रिरभ्यस्येद् व्याहृतिप्रणवान्विताम् / सावित्रीं वा जपेद् विद्वान् तथा चैवाघमर्षणम्
或者,应当连同圣音 vyāhṛti“bhūḥ、bhuvaḥ、svaḥ”与普拉纳瓦“唵(Oṁ)”,将三足的伽雅特丽赞歌诵念三遍。又或者,智者当持诵萨维特丽(伽雅特丽咒),并同样持诵阿伽摩尔沙那——能涤除罪垢的圣颂。
Verse 67
ततः संमार्जनं कुर्यादापो हि ष्ठा मयोभुवः / इदमापः प्रवहत व्याहृतिभिस्तथैव च
随后应行净拭之仪(洒水并拭净),因为诸水确能赐生、赐乐。口诵“此诸水——流行吧!”,并同样配合诵出诸 vyāhṛti 而行之。
Verse 68
ततो ऽभिमन्त्र्य तत् तीर्थमापो हिष्ठादिमन्त्रकैः / अन्तर्जलगतो मग्नो जपेत् त्रिरघमर्षणम्
然后以“Āpo hiṣṭhā ……”等诸水咒加持那处圣渡(tīrtha);继而入水沉没。于浸没之时,应诵阿伽摩尔沙那三遍,以遣除罪垢。
Verse 69
त्रिपदां वाथ सावित्रीं तद्विष्णोः परमं पदम् / आवर्तयेद् वा प्रणवं देवं वा संस्मरेद्धरिम्
或者诵念三足的萨维特丽:“tad viṣṇoḥ paramaṃ padam”——毗湿奴至上的境地。或反复持诵普拉纳瓦“唵(Oṁ)”,或观想主宰,忆念哈利(Hari)。
Verse 70
द्रुपदादिव यो मन्त्रो यजुर्वेदे प्रतिष्ठितः / अन्तर्जले त्रिरावर्त्य सर्वपापैः प्रमुच्यते
那起首为“drupadā ……”、安立于《夜柔吠陀》的真言,若在水中浸没时诵念三遍,便能解脱一切罪业。
Verse 71
अपः पाणौ समादाय जप्त्वा वै मार्जने कृते / विन्यस्य मूर्ध्नि तत् तोयं मुच्यते सर्वपातकैः
以手掬水,诵念为净洒(mārjana)所规定的真言;随后将此已加持之水安置于头顶——便能解脱一切罪垢。
Verse 72
यथाश्वमेधः क्रतुराट् सर्वपापापनोदनः / तथाघमर्षणं सूक्तं सर्वपापापनोदनम्
正如阿湿婆梅陀(Aśvamedha)——诸祭之王的帝王大祭——能除尽一切罪业;同样,阿伽摩尔沙那(Aghamarṣaṇa)赞歌亦能除尽一切罪业。
Verse 73
अथोपतिष्ठेदादित्यं मूर्ध्नि पुष्पान्विताञ्जलिम् / प्रक्षिप्यालोकयेद् देवमुद्वयं तमसस्परि
随后应恭敬侍立于阿底提耶(Āditya,日神)之前,将盛满花的合掌(añjali)举于头顶;献花之后,当凝望那升起的神明——超越黑暗者。
Verse 74
उदुत्यं चित्रमित्येते तच्चक्षुरिति मन्त्रतः / हंसः शुचिषदेतेन सावित्र्या च विशेषतः
“Ud utyaṃ citram…”以及“Tac cakṣur…”——这些即为真言。凭借这些真言,尤其凭借萨维特丽(Sāvitrī,即伽雅特丽 Gāyatrī),应观想“哈ṃ萨”(Haṃsa)——住于光明界的清净者(内在自性“so’ham”)。
Verse 75
अन्यैश्च वैदिकैर्मन्त्रैः सौरैः पापप्रणाशनैः / सावित्रीं वै जपेत् पश्चाज्जपयज्ञः स वै स्मृतः
并以其他吠陀真言——与苏利耶(Sūrya,太阳)相应、能摧灭罪垢者——随后诵持萨维特丽(Sāvitrī,伽雅特丽 Gāyatrī)。此确被忆念为以诵念而行的祭(japa-yajña)。
Verse 76
विविधानि पवित्राणि गुह्यविद्यास्तथैव च / शतरुद्रीयमथर्वशिरः सौरांश्च शक्तितः
(他教导)种种清净的净化仪轨,以及秘密的咒法之学;并依行者之能力,亦传授《沙塔鲁德利耶》(Śatarudrīya)、《阿闼婆首罗》(Atharvaśiras)与太阳神颂歌(Saurā)。
Verse 77
प्राक्कूलेषु समासीनः कुशेषु प्राङ्मुखः शुचिः / तिष्ठंश्चेदीक्षमाणोर्ऽकं जप्यं कुर्यात् समाहितः
坐于朝东的岸边之库沙草上,面向东方,身心清净;若有需要可站立,并凝视太阳,以摄心专注而行所规定的持诵(japa)。
Verse 78
स्फाटिकेन्द्राक्षरुद्राक्षैः पुत्रजीवसमुद्भवः / कर्तव्या त्वक्षमाला स्यादुत्तरादुत्तमा स्मृता
念珠(akṣamālā)应以水晶(sphāṭika)、因陀罗叉(indrakṣa)与鲁陀罗叉(rudrākṣa)之珠串成,并以菩多罗吉瓦(putrajīva)为主珠(源珠)。此念珠被称为最上之品——胜于所谓“更好”。
Verse 79
जपकाले न भाषेत नान्यानि प्रेक्षयेद् बुधः / न कम्पयेच्छिरोग्रीवां दन्तान्नैव प्रकाशयेत्
持诵真言之时,智者不应言语,也不应东张西望。不可摇动头颈,亦不应露齿。
Verse 80
गुह्यका राक्षसा सिद्धा हरन्ति प्रसभं यतः / एकान्ते सुशुभे देशे तस्माज्जप्यं समाचरेत्
由于夜叉侍从(guhyaka)、罗刹(rākṣasa)及某些悉地者(siddha)能强行扰乱,乃至“夺走”修持之果,因此应在幽静、庄严而吉祥之处行持诵(japa)。
Verse 81
चण्डालाशौचपतितान् दृष्ट्वाचम्य पुनर्जपेत् / तैरेव भाषणं कृत्वा स्नात्वा चैव जपेत् पुनः
见到旃陀罗、污秽之人或堕落者时,应先行阿遮摩那(净口净手),然后再续诵真言。若曾与其交谈,则当先沐浴净身,方可再行持诵。
Verse 82
आचम्य प्रयतो नित्यं जपेदशुचिदर्शने / सौरान् मन्त्रान् शक्तितो वै पावमानीस्तु कामतः
行阿遮摩那而自持端严,遇见不净之事时,应常作持诵(japa)。随己之力,可诵太阳神(娑乌罗)诸真言;亦可随愿诵《帕瓦玛尼》净化偈颂。
Verse 83
यदि स्यात् क्लिन्नवासा वै वारिमध्यगतो जपेत् / अन्यथा तु शुचौ भूम्यां दर्भेषु सुसमाहितः
若衣裳湿润,应立于水中而行持诵。否则,当在清净之地,坐于达尔婆草上,摄心专注而诵。
Verse 84
प्रदक्षिणं समावृत्य नमस्कृत्वा ततः क्षितौ / आचम्य च यथाशास्त्रं शक्त्या स्वाध्यायमाचरेत्
圆满右绕礼行(pradakṣiṇā)之后,当俯身礼拜于地。继而依《圣典》(śāstra)之规行阿遮摩那,并随己之力修习诵读与自学(svādhyāya)。
Verse 85
ततः संतर्पयेद् देवानृषीन् पितृगणांस्तथा / अदावोङ्कारमुच्चार्य नमो ऽन्ते तर्पयामि वः
其后,当以供水作怙念(tarpana),奉献于诸天、诸仙圣(ṛṣi)及祖灵众。开首诵“唵(Oṃ)”,末了称:“南无,我今令汝等得满足。”
Verse 86
देवान् ब्रह्मःऋषींश्चैव तर्पयेदक्षतोदकैः / तिलोदकैः पितॄन् भक्त्या स्वसूत्रोक्तविधानतः
他应以含有完整米粒之水,向诸天与婆罗门圣仙行作塔尔帕那(献水供养);并以虔敬之心,以掺芝麻之水令祖灵(pitṛ)得满足——一切皆依其自家《家祭经》(Gṛhya-sūtra)所传之法而行。
Verse 87
अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु / देवर्षोस्तर्पयेद् धीमानुदकाञ्जलिभिः पितन्
以左手承托相辅,而以右手施行;智者当以合掌捧水而行献水之礼,使天仙(deva-ṛṣi)与祖灵(pitṛ)皆得满足。
Verse 88
यज्ञोपवीती देवानां निवीती ऋषीतर्पणे / प्राचीनावीती पित्र्ये तु स्वेन तीर्थेन भावतः
供奉诸天之仪,当以上衣式(upavīta)佩戴圣线(yajñopavīta);为圣仙行塔尔帕那时,当以垂挂式(nivīta)佩戴;而祖先(pitṛ)之祭,则当以向前式(prācīnāvīta)佩戴——并各依其所定之“渡口/手位”(tīrtha)而行,怀以相应的虔敬之心。
Verse 89
निष्पीड्य स्नानवस्त्रं तु समाचम्य च वाग्यतः / स्वैर्मन्त्रैरर्चयेद् देवान् पुष्पैः पत्रैरथाम्बुभिः
拧干沐浴之衣后,复行阿遮摩那(ācamana),并收摄言语;当以自持之真言礼敬诸神,可用花、叶,乃至仅以清水亦可。
Verse 90
ब्रह्माणं शङ्करं सूर्यं तथैव मधुसूदनम् / अन्यांश्चाभिमतान् देवान् भक्त्या चाक्रोधनो ऽत्वरः
当以虔敬之心,不起嗔怒,不急不躁,礼拜梵天(Brahmā)、商羯罗(Śaṅkara)、日神(Sūrya)与摩度苏陀那(Madhusūdana,毗湿奴);亦当同样礼敬自己所敬仰的其他诸神。
Verse 91
प्रदद्याद् वाथ पुष्पाणि सूक्तेन पौरुषेण तु / आपो वा देवताः सर्वास्तेन सम्यक् समर्चिताः
或者,应当一边诵念《普鲁沙颂》(Puruṣa-sūkta),一边供奉鲜花。确实,诸水(Āpaḥ)即是一切神祇;凭此赞颂/仪轨,便能如法而圆满地礼敬诸神。
Verse 92
ध्यात्वा प्रणवपूर्वं वै दैवतानि समाहितः / नमस्कारेण पुष्पाणि विन्यसेद् वै पृथक् पृथक्
先以圣音普罗那瓦(Oṁ)为首,摄心观想诸神;随后当以恭敬礼拜,分别为每一位神祇安置供花。
Verse 93
न विष्ण्वाराधनात् पुण्यं विद्यते कर्म वैदिकम् / तस्मादनादिमध्यान्तं नित्यमाराधयेद्धरिम्
一切吠陀仪式之功德,皆不及礼敬毗湿奴。故当恒常敬拜哈利——无始、无中、无终之主。
Verse 94
तद्विष्णोरिति मन्त्रेण सूक्तेन पुरुषेण तु / नैताभ्यां सदृशो मन्त्रो सूक्तेन पुरुषेण तु / नैताभ्यां सदृशो मन्त्रो वेदेषूक्तश्चतुर्ष्वपि
凭以“tad viṣṇoḥ”开首之真言,并凭《普鲁沙颂》(Puruṣa-sūkta)之圣歌——在四部吠陀中,没有任何真言能与此二者等同。确然,于一切吠陀圣言之中,唯“tad viṣṇoḥ”真言与《普鲁沙颂》无可比拟。
Verse 95
निवेदयेत स्वात्मानं विष्णावमलतेजसि / तदात्मा तन्मनाः शान्तस्तद्विष्णोरिति मन्त्रतः
当将自身奉献归入毗湿奴——其光明清净无垢。令身与意融摄于彼而得寂静,并以真言“tad viṣṇoḥ”而行之,即“此归于毗湿奴”。
Verse 96
अथवा देवमीशानं भगवन्तं सनातनम् / आराधयेन्महादेवं भावपूतो महेश्वरम्
或者,以真诚的奉爱净化其心,应当礼拜主宰——伊沙那(Īśāna),吉祥而永恒的薄伽梵——摩诃提婆(Mahādeva)、大自在天(Maheśvara)。
Verse 97
मन्त्रेण रुद्रागायत्र्या प्रणवेनाथ वा पुनः / ईशानेनाथ वा रुद्रैस्त्र्यम्बकेन समाहितः
当内心收摄专注时,应以持诵鲁陀罗·伽雅特丽(Rudra-Gāyatrī)真言入于三摩地;或以圣音“唵”(Praṇava);或以伊沙那(Īśāna)真言;或以鲁陀罗诸名/诸真言——尤以三目者(Tryambaka)真言为胜。
Verse 98
पुष्पैः पत्रैरथाद्भिर्वा चन्दनाद्यैर्महेश्वरम् / उक्त्वा नमः शिवायेति मन्त्रेणानेन योजयेत्
以花、以叶,乃至以清水——并以檀香等供品——应当供奉大自在天(Maheśvara);并诵“南无湿婆耶”(namaḥ śivāya),以此真言伴随而奉献每一供物。
Verse 99
नमस्कुर्यान्महादेवं ऋतं सत्यमितिश्वरम् / निवेदयीत स्वात्मानं यो ब्रह्माणमितीश्वरम्
当礼拜摩诃提婆(Mahādeva)——那被宣说为“梨多”(Ṛta,宇宙秩序)与“萨提亚”(Satya,真理)的主宰;并且,奉献者应将自身奉上,了知主即是梵(Brahman)。
Verse 100
प्रदक्षिणं द्विजः कुर्यात् पञ्च ब्रह्माणि वै जपन् / ध्यायीत देवमीशानं व्योममध्यगतं शिवम्
令再生者(dvija)行绕行礼(pradakṣiṇa),并确实诵念五梵真言(pañca-brahma);又当观想主宰伊沙那——湿婆——安住于苍穹之中、遍满虚空(ākāśa)之内。
Verse 101
अथावलोकयेदर्कं हंसः सुचिषदित्यृचा / कुर्यात् पञ्च महायज्ञान् गृहं गत्वा समाहितः
随后,心神安住者当凝望太阳,诵念以“Haṃsaḥ, suciṣad…”开头的阿底提耶圣偈。继而返归家中,应如法奉行五大祭(pañca‑mahāyajña)。
Verse 102
देवयज्ञं पितृयज्ञं भूतयज्ञं तथैव च / मानुष्यं ब्रह्मयज्ञं च पञ्च यज्ञान् प्रचक्षते
他们宣说五种神圣之行(五大祭):供奉诸天之祭(deva‑yajña)、供奉祖灵之祭(pitṛ‑yajña)、施与众生之祭(bhūta‑yajña)、款待人间宾客之祭(manuṣya‑yajña),以及奉献于梵的祭——即自修诵习并恭敬传承吠陀之业(brahma‑yajña)。
Verse 103
यदि स्यात् तर्पणादर्वाक् ब्रह्मयज्ञः कृतो न हि / कृत्वा मनुष्ययज्ञं वै ततः स्वाध्यायमाचरेत्
若在行塔尔帕那(tarpaṇa)之前,确未完成梵祭(brahma‑yajña,即诵习圣智),则应先圆满人祭(manuṣya‑yajña,奉事宾客与众人),随后再行自修诵学(svādhyāya)。
Verse 104
अग्नेः पश्चिमतो देशे भूतयज्ञान्त एव वा / कुशपुञ्जे समासीनः कुशपाणिः समाहितः
他当坐于一堆库沙草(kuśa)之上,手持库沙草,心神摄持;或坐在圣火之西,或于众生祭(bhūta‑yajña)终了之时而坐。
Verse 105
शालाग्नौ लौकिके वाग्नौ जले भूभ्यामथापिवा / वैश्वदेवं ततः कुर्याद् देवयज्ञः स वै स्मृतः
随后,无论在家火、凡火,乃至于水中或地上,都应行“毗湿瓦提婆”(Vaiśvadeva)供献;此即被忆念为天祭(deva‑yajña),献与诸天之祭。
Verse 106
यदि स्याल्लौकिके पक्वं ततो ऽन्नं तत्र हूयते / शालाग्नौ तत्र देवान्नं विधिरेष सनातनः
若食物是在寻常家火上煮熟的,就应当就在那处以熟饭/熟食作供;而在厅堂之火(śālāgni)中,它便成为诸天之分——此乃祭仪之永恒法则。
Verse 107
देवेभ्यस्तु हुतादन्नाच्छेषाद् भूतबलिं हरेत् / भूतयज्ञः स वै ज्ञेयो भूतिदः सर्वदेहिनाम्
将食物投入圣火奉献诸天之后,应从余食中分出一份作供(bali)施与众生。此即名为“众生祭”(Bhūta-yajña),能赐福一切有身之类。
Verse 108
श्वभ्यश्च श्वपचेभ्यश्च पतितादिभ्य एव च / दद्याद् भूमौ बलिं त्वन्नं पक्षिभ्यो ऽथ द्विजोत्तमः
而最胜的再生者应将一份食物作bali供置于地——施与犬类、被弃之人(食犬者)以及堕落者等;随后也当施食于飞鸟。
Verse 109
सायं चान्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत् / भूतयज्ञस्त्वयं नित्यं सायं प्रातर्विधीयते
傍晚食物既熟,当以妻之真言献出一份bali。此供即为众生祭(Bhūta-yajña),应日日奉行——晨夕皆然。
Verse 110
एकं तु भोजयेद् विप्रं पितॄनुद्दिश्य सत्तमम् / नित्यश्राद्धं तदुद्दिष्टं पितृयज्ञो गतिप्रदः
然而,应当为诸祖灵(Pitṛ)而供养哪怕一位贤善的婆罗门。此被宣说为“日常施祖”(nitya-śrāddha);它是赐予吉祥归趣(gati)的祖灵祭(Pitṛ-yajña)。
Verse 111
उद्धृत्य वा यथाशक्ति किञ्चिदन्नं समाहितः / वेदतत्त्वार्थविदुषे द्विजायैवोपपादयेत्
或者,心神安住、随己之力,分出少许食物,恭敬供养通达吠陀真实义趣的二生婆罗门。
Verse 112
पूजयेदतिथिं नित्यं नमस्येदर्चयेद् द्विजम् / मनोवाक्कर्मभिः शान्तमागतं स्वगृह ततः
应当常常礼敬来客,向二生婆罗门顶礼供奉。随后,迎接那位安和而至自家门前者,当以心、言、行三业寂静而侍奉之。
Verse 113
हन्तकारमथाग्रं वा भिक्षां वा शक्तितो द्विजः / दद्यादतिथये नित्यं बुध्येत परमेश्वरम्
二生之人应随其能力,常常施与来客:或家中所备之食,或布施之钵食;并当于施与之时,了知并观想至上主帕拉梅湿伐罗即在此客中现前。
Verse 114
भिक्षामाहुर्ग्रासमात्रमग्रं तस्याश्चतुर्गुणम् / पुष्कलं हन्तकारं तु तच्चतुर्गुणमुच्यते
诸贤宣说:布施之上等量为一口之食;所谓“充足”者,为其四倍。而“丰溢之施”——因过度而致害者——又说是那充足之量的四倍。
Verse 115
गोदोहमात्रं कालं वै प्रतीक्ष्यो ह्यतिथिः स्वयम् / अभ्यागतान् यथाशक्ति पूजयेदतिथिं यथा
阿底提(不期而至之客)应自愿只等待如挤一头牛乳之顷;而居家者当随其能力,礼敬供奉已到来的宾客。
Verse 116
भिक्षां वै भिक्षवे दद्याद् विधिवद् ब्रह्मचारिणे / दद्यादन्नं यथाशक्ति त्वर्थिभ्यो लोभवर्जितः
应依仪轨施舍于行乞的出家者,并按法度供养梵行者;离于贪欲,亦当随己之力施食于求乞者。
Verse 117
सर्वेषामप्यलाभे तु अन्नं गोभ्यो निवेदयेत् / भुञ्जीत बन्धुभिः सार्धं वाग्यतो ऽन्नमकुत्सयन्
若诸人皆不可得,则当以食物奉献于牛。随后摄持言语,不轻慢饮食,与亲族同食。
Verse 118
अकृत्वा तु द्विजः पञ्च महायज्ञान् द्विजोत्तमाः / भृञ्जीत चेत् स मूढात्मा तिर्यग्योनिं सगच्छति
噫,二生中之最胜者!若二生之人不行五大祭而仍食其食,此迷妄之魂将堕入畜生之胎(下劣之生)。
Verse 119
वेदाभ्यासो ऽन्वहं शक्त्या महायज्ञक्रिया क्षमा / नाशयत्याशु पापानि देवानामर्चनं तथा
每日随力诵习吠陀,并如法行持大祭之仪;同样,礼敬诸天之崇拜,皆能迅速灭除罪垢。
Verse 120
यो मोहादथवालस्यादकृत्वा देवतार्चनम् / भुङ्क्ते स याति नरकान् शूकरेष्वभिजायते
若有人因迷惑或懈怠,未先礼拜神祇而食者,彼将堕诸地狱,并转生于猪类之中。
Verse 121
तस्मात् सर्वप्रयत्नेन कृत्वा कर्माणि वै द्विजाः / भुञ्जीत स्वजनैः सार्धं सयाति परमां गतिम्
因此,噢二次生者,当以一切努力履行自身所规定的业行,并与亲族同享如法之受用;由此便能证得至上的境界。
The ‘mental bath’ is direct realization of the Self (ātma-sākṣātkāra), and the ‘yogic bath’ is Yoga understood as constant contemplation of Viṣṇu (Hari-smaraṇa). Together they are treated as an inner tīrtha (ātma-tīrtha) that purifies the mind continuously.
The hymn praises Sūrya as Supreme Brahman (Oṁ; Bhūḥ-Bhuvaḥ-Svaḥ; nectar of immortality) while repeatedly identifying him with Rudra/Śiva epithets (Tryambaka, Nīlakaṇṭha, Pinākin, Pāśupati, Kapardin). This functions as sāmanvaya—devotion to the Sun as a non-sectarian doorway into the one Īśvara.