Sukta 6.16
स हि यो मानुषा युगा सीदद्धोता कविक्रतुः । दूतश्च हव्यवाहनः ॥
स हि यो मानु॑षा यु॒गा सीद॒द्धोता॑ क॒विक्र॑तुः । दू॒तश्च॑ हव्य॒वाह॑नः ॥
sá hí yó mā́nuṣā yugā́ sī́dad dhótā kavi-krátuḥ | dūtáś ca havya-vā́hanaḥ ||
แท้จริงเขานั่นเอง ผู้ประทับอยู่ตลอดยุคสมัยของมนุษย์—เป็นปุโรหิตผู้เชิญ (Hotṛ) ผู้มีกำลังตามเจตจำนงแห่งฤๅษีกวี (kavi-kratu); และเขายังเป็นทูต (dūta) ผู้ขนส่งเครื่องบูชาไปสู่เทพทั้งหลาย (havyavāhana).
सः । हि । यः । मानु॑षा । यु॒गा । सीद॑त् । होता॑ । क॒विऽक्र॑तुः । दू॒तः । च॒ । ह॒व्य॒ऽवाह॑नः ॥सः । हि । यः । मानुषा । युगा । सीदत् । होता । कविक्रतुः । दूतः । च । हव्यवाहनः ॥saḥ | hi | yaḥ | mānuṣā | yugā | sīdat | hotā | kavi-kratuḥ | dūtaḥ | ca | havya-vāhanaḥ