Atma
दैवेन नीयते देहो यथा कालोपभुक्तिषु ।
लक्ष्यालक्ष्यगतिं त्यक्त्वा यस्तिष्ठेत्केवलात्मना॥
शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः ।
जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः॥
दैवेन । नीयते । देहः । यथा । काल-उपभुक्तिषु ।
लक्ष्य-अलक्ष्य-गतिम् । त्यक्त्वा । यः । तिष्ठेत् । केवल-आत्मना ॥
शिवः । एव । स्वयम् । साक्षात् । अयम् । ब्रह्म-विद्-उत्तमः ।
जीवन् । एव । सदा । मुक्तः । कृत-अर्थः । ब्रह्म-वित्-तमः ॥
daivena nīyate deho yathā kālopabhuktiṣu |
lakṣyālakṣya-gatiṃ tyaktvā yas tiṣṭhet kevalātmanā ||
śiva eva svayaṃ sākṣād ayaṃ brahmaviduttamaḥ |
jīvanneva sadā muktaḥ kṛtārtho brahmavittamaḥ ||
କାଳକ୍ରମରେ ଭୋଗ/ଅନୁଭବ ପାଇଁ ଦେହ ଦୈବବଶେ ବହି ନିଆଯାଏ। ଲକ୍ଷ୍ୟ–ଅଲକ୍ଷ୍ୟ ପ୍ରତି ଧାଉଁଥିବା ଗତିକୁ ତ୍ୟାଗ କରି ଯେ କେବଳ ଆତ୍ମା ଭାବେ ଅବସ୍ଥିତ—ସେ ସାକ୍ଷାତ୍ ସ୍ୱୟଂ ଶିବ; ସେ ଶ୍ରେଷ୍ଠ ବ୍ରହ୍ମବିଦ୍। ଜୀବନ୍ତ ଥିଲେ ମଧ୍ୟ ସଦା ମୁକ୍ତ, କୃତାର୍ଥ—ସେ ପରମ ବ୍ରହ୍ମବିଦ୍।
The body is carried along by destiny for enjoyments/experiences in time. He who, abandoning movement toward the aimed-at and the not-aimed-at, stands as the Self alone—he is verily Śiva himself, directly; the highest knower of Brahman. Even while living he is always liberated, fulfilled—the supreme knower of Brahman.