Skanda
अच्युतोऽस्मि महादेव तव कारुण्यलेशतः । विज्ञानघन एवास्मि शिवोऽस्मि किमतः परम् ॥१॥
अच्युतः । अस्मि । महा-देव । तव । कारुण्य-लेशतः । विज्ञान-घनः । एव । अस्मि । शिवः । अस्मि । किम् । अतः । परम् ॥
acyuto’smi mahādeva tava kāruṇyaleśataḥ | vijñānaghana evāsmi śivo’smi kim ataḥ param ||1||
हे महादेव! तुझ्या करुणेच्या एका कणामुळे मी अच्युत (अविनाशी) आहे. मी निश्चयच विज्ञान-घन आहे; मी शिव आहे—यापलीकडे मग काय?
I am Acyuta (the imperishable), O Mahādeva, by a mere particle of your compassion. I am indeed a mass of consciousness; I am Śiva—what is beyond this?