Atma
असत्यत्वेन भानं तु संसारस्य निवर्तकम् । घटोऽयमिति विज्ञातुं नियमः कोऽन्वपेक्षते॥५॥
विना प्रमाणसुष्ठुत्वं यस्मिन् सति पदार्थधीः । अयमात्मा नित्यसिद्धः प्रमाणे सति भासते॥६॥
असत्यत्वेन । भानम् । तु । संसारस्य । निवर्तकम् । घटः । अयम् । इति । विज्ञातुम् । नियमः । कः । अन्व्-अपेक्षते ॥ ५ ॥
विना । प्रमाण-सुष्ठुत्वम् । यस्मिन् । सति । पदार्थ-धीः । अयम् । आत्मा । नित्य-सिद्धः । प्रमाणे । सति । भासते ॥ ६ ॥
asatyatvena bhānaṃ tu saṃsārasya nivartakam | ghaṭo 'yam iti vijñātuṃ niyamaḥ ko 'nvapekṣate ||5||
vinā pramāṇasuṣṭhutvaṃ yasmin sati padārthadhīḥ | ayam ātmā nityasiddhaḥ pramāṇe sati bhāsate ||6||
ಆದರೆ ಜಗತ್ತು ಅಸತ್ಯವೆಂದು ಭಾಸಿಸುವುದೇ ಸಂಸಾರದ ನಿವೃತ್ತಿಗೆ ಕಾರಣ. ‘ಇದು ಘಟ’ ಎಂದು ತಿಳಿಯಲು ಯಾವ ನಿಯಮವನ್ನು ಅವಲಂಬಿಸಬೇಕು? ಯಥಾರ್ಥ ಪ್ರಮಾಣಕ್ರಿಯೆಯಿಲ್ಲದೆ ವಸ್ತುಬುದ್ಧಿ ಉಂಟಾದರೂ—ಈ ಆತ್ಮ ನಿತ್ಯಸಿದ್ಧ; ಪ್ರಮಾಣ ಇರುವಾಗ ಅದು ಪ್ರಕಾಶಿಸುತ್ತದೆ॥೫-೬॥
But the appearance (of the world) as unreal is what brings saṃsāra to cessation. To know ‘this is a pot’, what rule does one depend upon? Without the proper functioning of a means of knowledge, when cognition of an object occurs—this Self is ever-accomplished; it shines when a means of knowledge is present.