
本章はスータの語りとして、神学的な出来事が緊密に連なって説かれる。若きシャーラダーは、師の近くで厳格なニヤマを守りつつ一年の大誓願を成就し、ついでウディヤーパナとしてバラモンに供食し、相応の布施を捧げる。夜の徹夜の行において、仙人と信女はジャパ、アルチャナ、瞑想をいよいよ深めると、デーヴィー・バヴァーニー(ガウリー)が「濃密」な具現の姿で顕現し、かつて盲目であった仙人はただちに視力を回復する。 女神は願いを授け、仙人はシャーラダーへの約束の成就—夫との長い同伴と、すぐれた男子の誕生—を願う。女神は業の因縁を明かす。前生で夫婦不和を作ったため寡婦となる果報を重ねたが、前に女神を礼拝した功徳が残罪を鎮めたという。ここから倫理的に複雑な解決が示される。シャーラダーは夜ごと夢の中で夫(他所に再生している)と結ばれ、その不思議な様式によって懐妊するが、世間の非難を受ける。すると無形の声が公衆の前で彼女の貞節を証し、誹謗には即時の報いがあると警告し、長老たちは異例の受胎の先例譚を引いて事態を理解し直す。 やがて聡明な子が生まれ、立派に教育される。聖地ゴーカルナの巡礼において夫婦は互いを認め合い、子を通して「誓願の果」を移し、ついに神の住処へ至る。ファラシュルティは、これを聞き誦する者に罪障の滅除、繁栄と健康、女性の吉祥なる安寧、そして究竟の到達を約束する。
Verse 1
सूत उवाच । एवं महाव्रतं तस्याश्चरंत्या गुरुसन्निधौ । संवत्सरो व्यतीयाय नियमासक्तचेतसः
スータは語った。かくして彼女が師の御前にてその大誓願を修し行ずるうちに、戒と規律の守持に心を堅く結び、一年が過ぎ去った。
Verse 2
संवत्सरांते सा बाला तत्रैव पितृमंदिरे । चकारोद्यापनं सम्यग्विप्रभोजनपूर्वकम्
一年の終わりに、その少女は父の家にて、ブラーフマナへの供食を先として、結願の儀(ウディヤーパナ)を如法に執り行った。
Verse 3
दत्त्वा च दक्षिणां तेभ्यो ब्राह्मणेभ्यो यथार्हतः । विसृज्य तान्नमस्कृत्य पितृभ्यामभिनंदिता
彼女はそのブラーフマナたちに、功徳にふさわしいダクシナー(謝礼)を施し、恭しく礼拝して別れを告げた。すると両親は彼女を讃え、祝福した。
Verse 4
उपोषिता स्वयं तस्मिन्दिने नियममाश्रिता । जजाप परमं मंत्रमुपदिष्टं महात्मना
その当日、彼女は自ら断食し、戒律あるニヤマの行に身を寄せ、偉大なる聖者より授けられた至上のマントラを繰り返し唱えた。
Verse 5
अथ प्रदोषसमये प्राप्ते संपूज्य शंकरम् । तस्मिन्गृहांतिकमठे गुरोस्तस्य च सन्निधौ
やがてプラドーシャの時刻が来ると、彼女は正しくシャンカラを礼拝し、家の近くの庵にとどまり、師(グル)の御前に侍した。
Verse 6
जपार्चनरता साध्वी ध्यायती परमेश्वरम् । तस्मिञ्जागरणे रात्रावुपविष्टा शिवांतिके
その貞淑なる女人は、ジャパと礼拝に励みつつ至上主を観想した。さらにその徹夜の夜、彼女はシヴァの御側、御前に坐した。
Verse 7
युग्मम् । तस्यां रात्रौ तया सार्धं स मुनिर्जगदंबिकाम् । जपध्यान तपोभिश्च तोषयामास पार्वतीम्
(対句。)その夜、彼女と共にその聖仙は、ジャパと瞑想とタパスの苦行によって、世界の母ジャガダンビカーたるパールヴァティーを歓喜させた。
Verse 8
तस्याश्च भक्त्या व्रतभाविताया मुनेस्तपोयोगसमाधिना च । तुष्टा भवानी जगदेकमाता प्रादुर्बभूवा कृतसांद्रमूर्तिः
彼女の聖なる誓願によって熟した信愛と、聖仙の苦行・ヨーガの修習・深きサマーディに満足して、宇宙の唯一の母バヴァーニーは、彼らの前に、確かな実体を備えた触れ得る御姿として顕現した。
Verse 9
प्रादुर्भूता यदा गौरी तयोरग्रे जगन्मयी । अन्धोऽपि तत्क्षणादेव मुनिः प्राप दृशोर्द्वयम्
万有を遍満し宇宙そのものなるガウリーが二人の前に顕れたとき、盲目であった聖仙も、その瞬間に両眼の視力を取り戻した。
Verse 10
तां वीक्ष्य जगतां धात्रीमाविर्भूतां पुरःस्थिताम् । निपेततुस्तत्पदयोः स मुनिः सा च कन्यका
諸世界の支え手が顕れて目前に立たれるのを見て、聖仙と乙女はともにその御足もとにひれ伏した。
Verse 11
तौ भक्तिभावोच्छ्वसितामलाशयावानंदबाष्पोक्षित सर्वगात्रौ । उत्थाप्य देवी कृपया परिप्लुता प्रेम्णा बभाषे मृदुवल्गुभाषिणी
信愛により心は清らかに高まり、全身は歓喜の涙に濡れていた。女神はそれを見て慈悲に満ち、二人を起こし、愛をこめて柔らかく甘美な言葉で語りかけた。
Verse 12
देव्युवाच । प्रीतास्मि ते मुनिश्रेष्ठ वत्से प्रीतास्मि तेऽनघे । किं वा ददाम्यभिमतं देवानामपि दुर्लभम्
女神は仰せになった。「聖仙の中の最勝よ、汝に満足した。愛しき子よ、罪なき清浄なる者よ、汝にも満足した。神々にさえ得難い、望みの恩寵を何として授けようか。」
Verse 13
मुनिरुवाच । एषा तु शारदा नाम कन्या तु गतभतृका । मया प्रतिश्रुतं चास्यै तुष्टेन गतचक्षुषा
仙人は言った。「この乙女の名はシャーラダー(Śāradā)。夫を失った者である。私はその時、目は見えずとも心は満ち足り、彼女に誓いを立てた。」
Verse 14
सह भर्त्रा चिरं कालं विहृत्य सुतमुत्तमम् । लभस्वेति मया प्रोक्तं सत्यं कुरु नमोऽस्तु ते
「私は彼女に告げた。『夫とともに久しく楽しく暮らしたのち、すぐれた御子を得よ』と。おお女神よ、我が言葉を真実とならしめたまえ—汝に敬礼する。」
Verse 15
श्रीदेव्युवाच । एषा पूर्वभवे बाला द्राविडस्य द्विजन्मनः । आसीद्द्वितीया दयिता भामिनी नाम विश्रुता
吉祥なる女神は言われた。「前生においてこの少女は、ドラーヴィダに生まれた婆羅門(再生族)の第二の愛妻であり、バーミニー(Bhāminī)と名高かった。」
Verse 16
सा भर्तृप्रेयसी नित्यं रूपमाधुर्यपेशला । भर्तारं वशमानिन्ये रूपवश्यादिकैतवैः
彼女は常に夫に愛され、姿の麗しさと甘やかな魅力に恵まれていたが、美貌により惑わせるなどの欺きの術と策謀によって、夫を己が支配下に置いた。
Verse 17
अस्यां चासक्तहृदयः स विप्रो मोहयंत्रितः । कदाचिदपि नैवागाज्ज्येष्ठपत्नीं पतिव्रताम्
心を彼女に奪われたその婆羅門は、迷妄に縛られて、貞節を守る年長の妻(パティヴラター)のもとへは一度たりとも赴かなかった。
Verse 18
अनभ्यागमनाद्भर्तुः सा नारी पुत्रवर्जिता । सदा शोकेन संतप्ता कालेन निधनं गता
夫が帰らなかったため、その女は子を得ず、常に悲嘆に焼かれて、やがて時至りて命を終えた。
Verse 19
अस्या गृहसमीपस्थो यः कश्चिद्ब्राह्मणो युवा । इमां वीक्ष्याथ चार्वंगीं कामार्तः करमग्रहीत्
彼女の家の近くに、ある若いバラモンが住んでいた。美しい肢体の彼女を見て、欲に悩まされ、その手を取った。
Verse 20
अनया रोषताम्राक्ष्या स विप्रस्तु निवारितः । इमां स्मरन्दिवानक्तं निधनं प्रत्यपद्यत
怒りに目を赤くした彼女に制され、そのバラモンは退けられた。だが昼夜彼女を思い続け、ついに死に至った。
Verse 21
एषा संमोह्य भर्तारं ज्येष्ठपत्न्यां पराङ्मुखम् । चकार तेन पापेन भवेस्मिन्विधवाऽभवत्
彼女は夫を惑わせ、年長の妻から背けさせた。その罪のゆえに、この世で彼女は寡婦となった。
Verse 22
याः कुर्वंति स्त्रियो लोके जायापत्योश्च विप्रियम् । तासां कौमारवैधव्यमेकविंशतिजन्मसु
世において妻と夫の間に怨みと不和を起こす女たちには、二十一の生にわたり、処女のまま寡婦となる報いがある。
Verse 23
यदेतया पूर्वभवे मत्पूजा महती कृता । तेन पुण्येन तत्पापं नष्टं सर्वं तदैव हि
しかし彼女は前生において、わたしに対して大いなる礼拝を捧げた。その功徳(プンニャ)によって、その罪はその時その場でことごとく滅び去った。
Verse 24
यो विप्रो विरहार्तः सन्मृतः कामविमोहितः । सोऽस्याः पाणिग्रहं कृत्वा भवेस्मिन्निधनं गतः
そのバラモンは、別離の苦しみに悩まされ、欲望に惑わされて死んだ。そしてこの生では、彼女の手を取り婚姻を結んだのち、再び死に至った。
Verse 25
प्राग्जन्मपतिरेतस्याः पांड्यराष्ट्रेषु सोऽधुना । जातो विप्रवरः श्रीमान्सदारः सपरिच्छदः
彼女の前生の夫は今、パーンディヤ国に生まれ、卓越して富み栄えるバラモンとなった。妻を持ち、家財も整っている。
Verse 26
तेन भर्त्रा प्रतिनिशं सैषा प्रेम्णाभिसंगता । स्वप्ने रतिसुखं यातु श्रेष्ठं जागरणादपि
その夫と彼女は、愛によって毎夜結ばれる。夢の中で交わりの歓喜を得るが、それは目覚めている時よりもなお勝れている。
Verse 27
षष्ट्युत्तरत्रिशतयोजनदूरसंस्थो देशादितो द्विजवरः स च कर्मगत्या । एनां वधूं प्रतिनिशं मनसोभिरामां स्वप्नेषु पश्यति चिरं रतिमादधानः
その優れたバラモンは、ここから三百六十ヨージャナ以上も離れた地に住んでいるが、業(カルマ)の巡りによって、彼は毎夜夢の中でこの心愛しい花嫁を見、久しく交わりの歓びを深めている。
Verse 28
सैषा वै स्वप्नसंगत्या पत्युः प्रतिनिशं सती । कालेन लप्स्यते पुत्रं वेदवेदांगपारगम्
この貞淑なる女は、夜ごと夢において夫と契り、時満ちて、ヴェーダとヴェーダーンガの彼岸に到った子を授かるであろう。
Verse 29
एतस्यां तनयं जातमात्मनश्चिरसंगमात् । सोऽपि विप्रोऽनिशं स्वप्ने द्रक्ष्यति प्रेमभावितम्
彼女より、久しく定められた結びつきによって一子が生まれる。さらにその子もまたバラモンとなり、愛に満たされた心のまま、絶えず夢に(愛しき者を)見るであろう。
Verse 30
अनयाराधिता पूर्वे भवे साहं महामुने । अस्यैव वरदानाय प्रादुर्भूतास्मि सांप्रतम्
大いなる牟尼よ、前生において彼女は我を礼拝した。ゆえに、まさにこの恩寵を授けるため、今ここに顕現したのである。
Verse 31
सूत उवाच । अथोवाच महादेवी तां बालां प्रति सादरम् । अयि वत्से महाभागे शृणु मे परमं वचः
スータは言った。すると大女神は、その少女に慈しみをもって語りかけた。「いとし子よ、幸いに満ちた者よ、我が至上の言葉を聞きなさい。」
Verse 32
यदा कदापि भर्त्तारं क्वापि देशे पुरातनम् । द्रक्ष्यसि स्वप्नदृष्टं प्राक्ज्ञास्यसे त्वं विचक्षणा
いついかなる時も、古き名所のいずこにて、かつて夢に見たその夫を目にするなら、そなたは—慧眼の者として—ただちに彼と知るであろう。
Verse 33
त्वां द्रक्ष्यति स विप्रोपि सुनयां स्वप्नलक्षणाम् । तदा परस्परालापो युवयोः संभविष्यति
そのバラモンもまた汝を見よう――夢の徴を帯びたス・ナヤよ。そのとき、汝ら二人の語らいが起こるであろう。
Verse 34
तदा स्वतनयं भद्रे तस्मै देहि बहुश्रुतम् । फलमस्य व्रतस्याग्र्यं तस्य हस्ते समर्पय
そのとき、吉祥なる者よ、聖なる学に通じた汝の実子を彼に与えよ。さらに、この誓願の最上の果報を彼の手に捧げよ。
Verse 35
ततः प्रभृति तस्यैव वशे तिष्ठ सुमध्यमे । युवयोदैहिकः संगो माभूत्स्वप्नरतादृते
それより後、細腰の者よ、彼の導きのもとにとどまれ。汝ら二人に肉身の交わりがあってはならぬ――ただ夢の歓びとしてのみ。
Verse 36
कालात्पंचत्वमापन्ने तस्मिन्ब्राह्मणसत्तमे । अग्निं प्रविश्य तेनैव सह यास्यसि मत्पदम्
時が満ちて、その最勝のバラモンが終焉に至り、火中に入るとき、汝は彼とともに我が住処へ赴くであろう。
Verse 37
पुत्रस्ते भविता सुभ्रु सर्वलोकमनोरमः । संपदश्च भविष्यंति प्राप्स्यते परमं पदम्
麗しき眉の者よ、汝には万界を喜ばせる子が生まれよう。福徳は満ち、そして至上の境地が成就される。
Verse 38
सूत उवाच । इत्युक्त्वा त्रिजगन्माता दत्त्वा तस्यै मनोरथम् । तयोः संपश्यतोरेव क्षणेनादर्शनं गता
スータは語った。「かく告げて三界の母は、彼女の望みの恩寵を授けた。二人がなお見守るうちに、彼女は刹那にして姿を消した。」
Verse 39
सापि बाला वरं लब्ध्वा पार्वत्याः करुणानिधेः । अवाप परमानंदं पूजयामास तं गुरुम्
その少女もまた、慈悲の大海パールヴァティーより恩恵を得て、無上の歓喜に満たされ、かのグル(聖仙)を礼拝した。
Verse 40
तस्यां रात्र्यां व्यतीतायां स मुनिर्लब्धलोचनः । तस्याः पित्रोश्च तत्सर्वं रहस्याचष्ट धर्मवित्
その夜が明けると、聖仙は視力を取り戻した。ダルマを知る者として、彼は彼女の両親にすべての秘事を内々に語り明かした。
Verse 41
अथ सर्वानुपामंत्र्य शारदां च यशस्विनीम् । विधायानुग्रहं तेषां ययौ स्वैरगतिर्मुनिः
それから彼は皆に別れを告げ、とりわけ名高きシャーラダーに敬意を表し、彼らに加護の祝福を授けて、聖仙は意のままに歩み去った。
Verse 42
एवं दिनेषु गच्छत्सु सा बाला च प्रतिक्षणम् । भर्तुः समागमं लेभे स्वप्ने सुख विवर्धनम्
かくして日々が過ぎゆく中、若き女は一瞬ごとに、夢のうちに夫との邂逅と合一を得て、その安楽はいよいよ増し広がった。
Verse 43
गौर्या वरप्रदानेन शारदा विशदव्रता । दधार गर्भं स्वप्नेपि भर्तुः संगानुभावतः
ガウリーの授けた恩寵により、清浄の誓いに堅きシャーラダーは、夢のうちにさえ、そこで体験された夫との結合の力によって懐妊した。
Verse 44
तां श्रुत्वा भर्तृरहितां शारदां गर्भिणी सतीम् । सर्वे धिगिति प्रोचुस्तां जारिणीति जगुर्जनाः
夫なきままにシャーラダーが身ごもったと聞くや、皆は「恥だ!」と叫び、里人は彼女を姦通の女とまで罵った。
Verse 45
संपरेतस्य तद्भर्तुर्ये जातिकुलवबांधवाः । तां वार्तां दुःसहां श्रुत्वा ययुस्तत्पितृमंदिरम्
亡き夫の親族—生まれと家系の絆に結ばれた者たちは—その耐え難い噂を聞き、彼女の父の家へと赴いた。
Verse 46
अथ सर्वे समायाता ग्रामवृद्धाश्च पंडिताः । समाजं चक्रिरे तत्र कुलवृद्धैः समन्वितम्
やがて村の長老と学識ある者たちが皆そこに集い、家の年長者をも交えて評議の座を設けた。
Verse 47
अन्तर्वत्नीं समाहूय शारदां विनताननाम् । अतर्जयन्सुसंक्रुद्धाः केचिदासन्पराङ्मुखाः
身ごもり、うなだれたシャーラダーを呼び出すと、ある者は激怒して脅し罵り、またある者は非難して顔を背けた。
Verse 48
अयि जारिणि दुर्बुद्धे किमेतत्ते विचेष्टितम् । अस्मत्कुले सुदुष्कीर्त्तिं कृतवत्यसि बालिशे
姦通の女よ、邪悪な心を持つ者よ。お前のその行いは何事か。愚かな娘よ、お前は我らの一族に甚だしい不名誉をもたらした。
Verse 49
इति संतर्जयंतस्ते ग्रामवृद्धा मनीषिणः । सर्वे संमंत्रयामासुः किं कुर्म इति भाषिणः
このように彼女を脅し、叱責した後、村の賢明な長老たちは皆で協議を始め、「我々はどうすべきか」と言った。
Verse 50
तत्रोचुः के च वृद्धास्तां बालां प्रति विनिर्दयाः । एषा पापमतिर्बाला कुलद्वयविनाशिनी
そこで、その若い女に対して無慈悲な長老たちが言った。「この娘は罪深い心を持っており、両家を破滅させる者だ。」
Verse 51
कृत्वास्याः केशवपनं छित्त्वा कर्णौ च नासिकाम् । निर्वास्यतां बहिर्ग्रामात्परित्यज्य स्वगोत्रतः
彼女の頭を剃り、耳と鼻を削ぎ落とし、村の外へ追放し、一族から勘当せよ。
Verse 52
इति सर्वे समालोच्य तां तथा कर्तुमुद्यताः । अथांतरिक्षे संभूता शुश्रुवे वागगोचरा
このように協議し、彼らは実行に移そうとした。その時、空から常人の知覚を超えた声が聞こえてきた。
Verse 53
अनया न कृतं पापं न चैव कुलदूषणम् । व्रतभंगो न चैतस्यास्सुचरित्रेयमंगना
彼女によって罪はなされず、また家門を汚すこともない。誓願も破られていない。この女人は善き行いの持ち主である。
Verse 54
इतः परमियं नारी जारिणीति वदंति ये । तेषां दोषविमूढानां सद्यो जिह्वा विदीर्यते
これより後、この女人を「姦婦」と呼ぶ者があれば、過失に迷うその者らの舌はただちに裂けるであろう。
Verse 55
इत्यंतरिक्षे जनितां वाणीं श्रुत्वाऽशरीरिणीम् । सर्वे प्रजहृषुस्तस्या जननीजनकादयः
天より起こった無身の声を聞くや、彼女の人々—母や父をはじめ皆—は大いに歓喜した。
Verse 56
ततः ससंभ्रमाः सर्वे ग्रामवृद्धाः सभाजनाः । मुहूर्त्तं मौनमालंब्य भीतास्तस्थुरधोमुखाः
すると村の長老たちと会衆は皆、驚きおののき、しばし沈黙を守って、恐れつつうつむいて立ち尽くした。
Verse 57
तत्र केचिदविश्वस्ता मिथ्यावाणीत्यवादिषुः । तेषां जिह्वा द्विधा भिन्ना ववमुस्ते कृमीन्क्षणात्
その場で信じぬ者たちが「偽りの声だ」と言うと、たちまち舌が二つに裂け、即座に虫を吐き出した。
Verse 58
ततः संपूजयामासुस्तां बालां ज्ञातिबांधवाः । बांधवाश्च स्त्रियो वृद्धाः शशंसुः साधुसाध्विति
その後、親族と縁者はその少女を丁重に礼拝し、家の年長の女たちは幾度もほめたたえて言った。「善きかな、善きかな!」
Verse 59
मुमुचुः केचिदानंदबाष्पबिंदून्कुलोत्तमाः । कुलस्त्रियः प्रमुदितास्तामुद्दिश्य समाश्वसन्
一族の高貴な者の中には、歓喜の涙をしずくのようにこぼす者もいた。家の女たちは喜びに満ち、彼女を思って慰めの言葉をかけた。
Verse 60
अथ तत्रापरे प्रोचुर्देवो वदति नानृतम् । कथमेषां दधौ गर्भं शीलान्न चलिता ध्रुवम्
すると別の者たちは言った。「神は虚言を語らぬ。だが、いかにして彼女は身ごもったのか。きっと貞節と善行からは外れていない。」
Verse 61
इति सर्वान्सभ्यजना न्संशयाविष्टचेतसः । विलोक्य वृद्धस्तत्रैको सर्वज्ञो लोकतत्त्ववित्
こうして居並ぶ人々が疑いに心を覆われているのを見て、そこにいた一人の長老—全知にして世の理に通じた者—が彼らを見渡した。
Verse 62
मायामयमिदं विश्वं दृश्यते श्रूयते च यत् । किं भाव्यं किमभाव्यं वा संसारेऽस्मिन्क्षणात्मके
この宇宙は、見られるものも聞かれるものも、すべてマーヤー(幻力)より成る。この刹那の世において、何が真に「可能」で、何が「不可能」であろうか。
Verse 64
यूपकेतोश्च राजर्षेः शुक्रं निपतितं जले । सशुक्रं तज्जलं पीत्वा वेश्या गर्भं दधौ किल
王仙ユーパケートゥの精が水に落ち、そしてその混じった水を一人のヴェーシャーが飲み、それによって身ごもったと伝えられる。
Verse 65
मुनेर्विभांडकस्यापि शुक्रं पीत्वा सहांभसा । हरिणी गर्भिणी भूत्वा ऋष्यशृंगमसूयत
同じく、雌鹿が水とともに牟尼ヴィバーンダカの精を飲み、身ごもって、リシャシュリンガを産んだ。
Verse 66
सुराष्ट्रस्य तथा राज्ञः करं स्पृष्ट्वा मृगांगना । तत्क्षणाद्गर्भिणी भूत्वा मुनिं प्रासूत तापसम्
また、スラーシュトラの王の手に触れただけで、雌鹿はその瞬間に身ごもり、苦行の聖仙(ムニ)を産んだ。
Verse 67
तथा सत्यवती नारी शफरीगर्भसंभवा । तथैव महिषीगर्भो जातश्च महिषासुरः
同様に、女サティヤヴァティーはシャファリーという魚の胎より生まれ、また同じく、マヒシャースラは雌水牛の胎より生まれた。
Verse 68
तथा संति पुरा नार्यः कारुण्याद्गर्भसंभवाः । तथा हि वसुदेवेन रोहिण्या स्तनयोऽभवत्
また古の世には、慈悲ゆえの不思議な因縁によって身ごもる女たちがいた。まことに同様にして、ローヒニーもヴァスデーヴァによって子を得た。
Verse 69
देवतानां महर्षीणां शापेन च वरेण च । अयुक्तमपि यत्कर्म युज्यते नात्र संशयः
神々と大聖仙たちの呪い、また恩寵(加護)によっては、不相応に見える行いでさえ相応しいものとなる――ここに疑いはない。
Verse 70
सांबस्य जठराज्जातं मुसलं मुनिशापतः । युवनाश्वस्य गर्भोऽभून्मुनीनां मंत्रगौरवात्
ムニたちの呪いにより、サーンバの腹からは棍棒が生じた。さらにムニたちのマントラの重き威力によって、ユヴァナーシュヴァは身ごもった。
Verse 71
नूनमेषापि कल्याणी महर्षेः पादसेवनात् । महाव्रतानुभावाच्च धत्ते गर्भमनिं दिता
まことに、この吉祥にして汚れなき女性が胎を宿すのは、大聖仙の御足に仕えた功徳と、大誓願の霊験の力によるのである。
Verse 72
अस्मिन्नर्थे रहस्येनां सत्यं पृच्छंतु योषितः । ततो निवृत्तसंदेहो भविष्यति महाजनः
この件については、女たちが密かに彼女に真実を問いなさい。そうすれば人々の疑念は晴れるであろう。
Verse 73
ततस्तद्वचनादेव तामपृच्छन्स्त्रियो मिथः । ताभ्यः शशंस तत्सर्वं सा स्ववृत्तं महाद्भुतम्
そこでその言葉どおり、女たちは内々に彼女へ問いただした。彼女は自らの驚くべき出来事のすべてを彼女たちに語り明かした。
Verse 74
विजानंतस्ततः सर्वे मानयित्वा च तां सतीम् । मोदमानाः प्रशंसंतः प्रययुः स्वं स्वमालयम्
それを悟った彼らは皆、その貞淑なる婦人を敬い奉った。喜びつつ讃嘆し、それぞれの住まいへと帰って行った。
Verse 75
अथ काले शुभे प्राप्ते शारदा विमलाशया । असूत तनयं बाला बालार्कसमतेजसम्
やがて吉祥の時が到来すると、清らかな志のシャーラダーは男児を産んだ。幼子は昇る太陽のごとく輝いていた。
Verse 76
स कुमारो महोदारलक्षणः कमलेक्षणः । अवाप्य महतीं विद्यां बाल्य एव महामतिः
その少年は高貴な相を備え、蓮華の眼を持っていた。幼きうちに大いなる学知を得て、まことに広大な叡智の人であった。
Verse 77
अथोपनीतो गुरुणा काले लोकमनोरमः । स शारदेय एवेति लोके ख्याति मवाप ह
やがて師は定めの時に彼に聖紐を授けた。世に愛されるその者は、人々の間で「シャーラデーヤ」として名声を得た。
Verse 78
ऋग्वेदमष्टमे वर्षे नवमे यजुषां गणम् । दशमे सामवेदं च लीलयाध्यगमत्सुधीः
八歳でリグ・ヴェーダを究め、九歳でヤジュル・ヴェーダの諸集を学び、十歳でサーマ・ヴェーダをも会得した。あの賢者は戯れのごとく易々と修めたのである。
Verse 79
अथ त्रिलोकमहिते संप्राप्ते शिवपर्वणि । गोकर्णं प्रययुः सर्वे जनाः सर्वनिवासिनः
三界にて讃え敬われるシヴァの祭が到来すると、あらゆる地に住む人々は皆、ゴーカルナへと旅立った。
Verse 80
शारदापि स्वपुत्रेण गोकर्णं प्रययौ सती
また徳高きシャーラダーも、自らの子と共にゴーカルナへ赴いた。
Verse 81
तत्रापश्यत्समायातं सदा स्वप्नेषु लक्षितम् । पूर्वजन्मनि भर्त्तारं द्विजबंधुजनावृतम्
そこで彼女は、夢の中で常に見覚えていたその人の到来を見た。前生の夫であり、二度生まれ(ドヴィジャ)の親族や伴侶に囲まれていた。
Verse 82
तं दृष्ट्वा प्रेमनिर्विण्णा पुलकांकितविग्रहा । निरुद्धबाष्पप्रसरा तस्थौ तन्न्यस्तलोचना
彼を見たとき、彼女は愛に圧倒されて立ち尽くし、身は総毛立った。涙の奔流をこらえ、眼差しを彼に据えた。
Verse 83
स च विप्रोऽपि तां दृष्ट्वा रूपलक्षणलक्षिताम् । स्वप्ने सदा भुज्यमानामात्मनो रतिदायिनीम्
そのバラモンもまた、彼女を見て—美と吉祥の相に際立つその姿を—夢の中で常に契り、心に歓喜を与えてきた同じ女性だと悟った。
Verse 84
तं कुमारमपि स्वप्ने दृष्ट्वा चात्म शरीरजम् । विलोक्य विस्मयाविष्टस्तदंतिकमुपाययौ
また彼は、その少年をも見た――夢にも見た、自らの身より生まれし子を――驚嘆して見つめ、彼らの近くへと歩み寄った。
Verse 85
भद्रे त्वां प्रष्टुमिच्छामि यत्किंचिन्मनसि स्थितम् । इति प्रथममाभाष्य रहः स्थानं निनाय ताम्
「やさしき御方よ、あなたの心にあることをお尋ねしたい。」まずこう告げ、彼は彼女に語りかけて、人目のない場所へと導いた。
Verse 86
का त्वं कथय वामोरु कस्य भार्यासि सुव्रते । को देशः कस्य वा पुत्री किन्नामेत्यब्रवीच्च ताम्
彼は彼女に言った。「そなたは誰か。告げよ、美しき腿の者よ――誰の妻であるのか、善き誓いを守る女よ。どの国の者で、誰の娘、名は何というのか。」
Verse 87
इति तेन समापृष्टा सा नारी बाष्पलोचना । व्याजहारात्मनोवृत्तं बाल्ये वैधव्यकारणम्
こうして問われると、その女は涙に濡れた眼で、自らの身の上を語り、幼くして寡婦となった因縁までも述べた。
Verse 88
पुनः पप्रच्छ तां बालां पुत्रः कस्यायमुत्तमः । कथं धृतो वा जठरे बालोऽयं चंद्रसन्निभः
彼は再びその若き女に尋ねた。「このすぐれた子は誰の子なのか。月のごとく輝くこの幼子は、いかにして宿り、胎内に保たれたのか。」
Verse 90
इति तस्या वचः श्रुत्वा विहस्य ब्राह्मणोत्तमः । प्रोवाच कष्टात्कष्टं हि चरितं तव भामिनि
彼女の言葉を聞くと、最上のバラモンは微笑み、こう言った。「おお情熱の女よ、汝の身の上はまことに苦難に次ぐ苦難である。」
Verse 91
पाणिग्रहणमात्रं ते कृत्वा भर्त्ता मृतः किल । कथं चायं सुतो जातस्तस्य कारणमुच्यताम्
「汝とただ手取りの婚礼儀礼を行ったのみで、夫は死んだという。では、この子はどうして生まれたのか。その理由を語れ。」
Verse 92
इति तेनोदितां वाणीमाकर्ण्यातीव लज्जिता । क्षणं चाश्रुमुखी भूत्वा धैर्यादित्थमभाषत
彼の言葉を聞くや、彼女はひどく恥じ入り、しばし涙が顔に満ちた。やがて心を奮い立たせ、次のように語った。
Verse 93
शारदोवाच । तदलं परिहासोक्त्या त्वं मां वेत्सि महामते । त्वामहं वेद्मि चार्थेऽस्मिन्प्रमाणं मन आवयोः
シャーラダーは言った。「戯れ言はもうよい。大いなる心の人よ、あなたは私を知り、私もあなたを知っている。この事における証は、ただ我らの心の内の了解のみ。」
Verse 94
इत्युक्त्वा सर्वमावेद्य देव्या दत्तं वरादिकम् । व्रतस्यार्धं कुमारं तं ददौ तस्मै धृतव्रतम्
そう言って彼女は、女神(デーヴィー)から授かった恩寵や諸々の賜物をすべて打ち明け、誓願の果の「半ば」ともいうべきその少年を、戒行に堅固なそのバラモンに託した。
Verse 95
सोऽपि प्रमुदितो विप्रः कुमारं प्रतिगृह्य तम् । पित्रोरनुमतेनैव तां निनाय निजालयम्
そのブラーフマナもまた歓喜し、その子を受け入れた。両親の許しを得て、彼は彼女を自らの家へ連れて行った。
Verse 96
सापि स्थित्वा बहून्मासांस्तस्य विप्रस्य मंदिरे । तस्मिन्कालवशं प्राप्ते प्रविश्याग्निं तमन्वगात्
彼女もまた、そのブラーフマナの家に幾月も住んだ。やがて彼が時の力に屈して(すなわち亡くなって)しまうと、彼女は火中に入り、彼に従った。
Verse 97
ततस्तौ दंपती भूत्वा विमानं दिव्यमास्थितौ । दिव्यभोगसमायुक्तौ जग्मतुः शिवमंदिरम्
それから二人は夫婦となり、神なるヴィマーナに乗った。天上の歓楽に満たされ、シヴァの御住まいへと赴いた。
Verse 98
इत्येततत्पुण्यमाख्यानं मया समनुवर्णितम् । पठतां शृण्वतां सम्यग्भुक्तिमुक्तिफलप्रदम्
かくして、わたしはこの功徳ある物語を余すところなく語り尽くした。正しく読誦し、あるいは聴聞する者には、現世の享楽と解脱の果が授けられる。
Verse 99
आयुरारोग्यसंपत्तिधनधत्यविवर्द्धनम् । स्त्रीणां मंगलसौभाग्यसंतानसुखसाधनम्
それは寿命と健康、繁栄と財、そして穀物の豊かさを増し、また女性には吉祥と幸運、子宝と安楽をもたらす。
Verse 100
एतन्महाख्यानमघौघनाशनं गौरीमहेशव्रतपुण्यकीर्तनम् । भक्त्या सकृद्यः शृणुयाच्च कीर्त्तयेद्भुक्त्वा स भोगान्पदमेति शाश्वतम्
この大いなる聖なる物語は罪の奔流を滅し、ガウリーとマヘーシャの誓願の功徳を讃える。信をもってたとえ一度でもこれを聞き、さらに唱える者は、ふさわしい福楽を享受したのち、永遠の境地に至る。