
Padmanābha-dvādaśī-vrataḥ (Dīpa-dāna-māhātmya-sahitaḥ)
Ritual-Manual and Ethical-Discourse (Bhakti-based ritual merit across social strata)
在《婆罗诃—大地》师徒式的开示框架中,杜尔婆娑传授阿湿婆瑜迦月白半第十二日的誓行:以肢体对应的供品礼敬永恒的莲脐主(Padmanābha),安置圣罐并立金像,黎明时将其施与婆罗门。为显其灵验,叙述国王婆陀罗湿婆七夜款待阿伽斯提耶。阿伽斯提耶见王后甘提摩提光辉殊胜、众妃敬伏,遂屡次称赞各类人群与典范(如般罗诃罗陀、德鲁瓦),并说明缘由:前世功德所致——哪怕在哈利神庙为他人点燃一盏灯,也能积聚大福。全章概括诸劫皆然,强调微小的奉爱亦具广大果报,作为跨阶层的伦理教诲,并维系与大地安宁相连的神圣秩序。
Verse 1
दुर्वासा उवाच । तद्वदाश्वयुजे मासि द्वादशीं शुक्लपक्षतः । संकल्प्याभ्यर्चयेद् देवं पद्मनाभं सनातनम् ॥ ४९.१ ॥
杜尔婆萨(Durvāsā)说道:“同样地,在阿湿婆瑜阇月(Āśvayuja),于白分(śukla-pakṣa)第十二日(Dvādaśī),先立誓愿(saṅkalpa),当礼拜永恒之神莲脐者帕德玛那婆(Padmanābha)。”
Verse 2
पद्मनाभाय पादौ तु कटिं वै पद्मयोनये । उदरं सर्वदेवाय पुष्कराक्षाय वै उरः । अव्ययाय तथा पाणिं प्राग्वदस्त्राणि पूजयेत् ॥ ४९.२ ॥
应行安置(nyāsa):以双足归于莲华脐者(Padmanābha),以腰归于莲生者(Padmayoni),以腹归于一切天神者(Sarvadeva),以胸归于莲眼者(Puṣkarākṣa);又以手归于不坏者(Avyaya)。如前所述,还应礼敬相应的阿斯特拉(仪式武器真言)。
Verse 3
प्रभवाय शिरः पूज्य प्राग्वदग्रे घटं न्यसेत् । तस्मिन् सौवर्णकं देवं पद्मनाभं तु विन्यसेत् ॥ ४९.३ ॥
依前法礼敬头部之后,应在前方安置一只水罐(kalaśa);并于其中安奉金色之神——莲华脐者(Padmanābha)。
Verse 4
तमेव देवं सम्पूज्य गन्धपुष्पादिभिः क्रमात् । प्रभातायां तु शर्वर्यां ब्राह्मणाय निवेदयेत् । एवं कॄते तु यत् पुण्यं तन्निबोध महामुने ॥ ४९.४ ॥
依次以香、花等供品圆满礼敬彼神之后,于夜尽黎明之时,应将供物奉献于一位婆罗门。如此行持所生之功德——大牟尼啊,请听我说。
Verse 5
आसीत्कृतयुगे राजा भद्राश्वो नाम वीर्यवान् । यस्य नाम्नाऽभवद्वर्षं भद्राश्वं नाम नामतः ॥ ४९.५ ॥
在克利多时代(Kṛta Yuga),有一位威力卓著的国王,名为跋陀罗阿湿婆(Bhadrāśva)。因其名号,一方地域(varṣa)亦以其名得称,名曰“跋陀罗阿湿婆”。
Verse 6
तस्यागस्त्यः कदाचित् तु गृहमागत्य सत्तम । उवाच सप्तारात्रं तु वसामि भवतो गृहे ॥ ४९.६ ॥
其后有一次,阿伽斯提耶(Agastya)来到他家中,说道:“噢,善者之最胜者,我将住在你家七夜。”
Verse 7
तं राजा शिरसा भूत्वा स्थीयतामित्यभाषत । तस्य कान्तिमती नाम भार्या परमशोभना ॥ ४९.७ ॥
国王俯首以示恭敬应允,说:“就如此吧;请留在此处。”他有一位名为迦恩提摩蒂(Kāntimatī)的王后,容貌极其华美。
Verse 8
तस्यास्तेजः समभवद् द्वादशादित्यसंनिभम् । शतानि पञ्च तस्यासन् सपत्नीनां यतव्रत ॥ ४९.८ ॥
她的威光随即显现,堪比十二阿底提耶(Āditya)之光辉。王又有五百位共夫之妃,皆持戒守誓、行愿坚定。
Verse 9
ताः दास्य इव कर्माणि कुर्वन्त्यहरहः शुभाः । कान्तिमत्या महाभाग भयात् त्रस्ताः विचेतसः ॥ ४९.९ ॥
噢有福者,那些女子日复一日行作吉祥之事,宛如婢仆;因惧迦恩提摩蒂(Kāntimatī),她们心神不宁,惊惶失措。
Verse 10
तामगस्त्यस्तथा दृष्ट्वा रूपतेजोऽन्वितां शुभाम् । सपत्न्यश्च भयात्तस्याः कुर्वन्त्यः कर्म शोभनम् । राजा तु तस्या मुदितं मुखमेवावलोकयन् ॥ ४९.१० ॥
阿伽斯提耶(Agastya)见她如此——吉祥而具美貌与威光——她的诸位共夫之妃因惧于她,便开始端正得体地履行本分;而国王则只凝望她那喜悦的面容。
Verse 11
एवंभूतामथो दृष्ट्वा राज्ञीं परमशोभनाम् । साधु साधु जगन्नाथेत्यगस्त्यः प्राह हर्षितः ॥ ४९.११ ॥
阿伽斯提耶见到这位极其华美的王后,心生欢喜,说道:“善哉,善哉,噢世主(Jagannātha)!”
Verse 12
द्वितीये दिवसेऽप्येवं राज्ञीं दृष्ट्वा महाप्रभाम् । अहो मुष्टमहो मुष्टं जगदेतच्चराचरम् । इत्यगस्त्यो द्वितीयेऽह्नि राज्ञीं दृष्ट्वाऽभ्युवाच ह ॥ ४९.१२ ॥
第二日亦复如是,阿伽斯提耶见王后光辉炽盛,便赞叹道:“啊,何等奇妙!何等奇妙——此一世界,动者与不动者,尽皆在其中!”于是第二日见王后后,他便向她开口。
Verse 13
तृतीयेऽहनि तां दृष्ट्वा पुनरेवमुवाच ह । अहो मूढा न जानन्ति गोविन्दं परमेश्वरम् । य एकेऽह्नि फलं चै तद् राज्ञे तुष्टः प्रदत्तवान् ॥ ४९.१३ ॥
第三日见她,他又说道:“唉,迷妄之人不识戈文达——至上自在主。此一日之中所得之果报,彼因欢喜而赐与国王。”
Verse 14
चतुर्थे दिवसे हस्तावुत्क्षिप्य पुनरब्रवीत् । साधु साधु जगन्नाथ स्त्री शूद्राः साधु साध्विति । द्विजाः साधु नृपाः साधु वैश्याः साधु पुनः पुनः ॥ ४९.१४ ॥
第四日,他举起双手又说道:“善哉,善哉,世间之主阇甘那他!‘善哉!’——妇女与首陀罗如是呼;‘善哉!’——二生者如是呼;‘善哉!’——诸王如是呼;‘善哉!’——吠舍亦复再三称颂。”
Verse 15
साधु भद्राश्व साधु त्वं भोऽगस्त्य साधु साधु ते । साधु प्रह्लाद ते साधु ध्रुव साधो महाव्रत । एवमुक्त्वा ननर्तोच्चैरगस्त्यो राजसन्निधौ ॥ ४९.१५ ॥
他说道:“善哉,跋陀罗湿婆;善哉,汝亦如是。噢,阿伽斯提耶,善哉——善哉于汝。善哉,普罗诃罗陀;善哉于汝。德鲁瓦,善哉——噢,持大誓戒者!”言毕,阿伽斯提耶便在王前高声欢舞。
Verse 16
एवम्भूतं च तं दृष्ट्वा सपत्निको नृपोत्तमः । किं हर्षकारणं ब्रह्मन् येनेत्थं नृत्यते भवान् ॥ ४९.१६ ॥
见他如此情状,贤王与王后同在,便问道:“婆罗门啊,你因何欢喜,以致如此起舞?”
Verse 17
अगस्त्य उवाच । अहो मूर्खः कुराज त्वमहो मूर्खानुगास्त्वमी । अहो पुरोहिता मूर्खा ये न जानन्ति मे मतम् ॥ ४९.१७ ॥
阿伽斯提亚说道:“唉!恶王啊,你愚昧,你的随从也同样愚昧。唉!那些祭司也愚昧,因为他们不明白我的劝诫。”
Verse 18
एवमुक्ते ततो राजा कृताञ्जलिरभाषत । न जानीमो वयं ब्रह्मन् प्रश्नमेतत् त्वयेरितम् । कथयस्व महाभाग यद्यनुग्रहकृद् भवान् ॥ ४९.१८ ॥
说完之后,国王合掌说道:“婆罗门啊,我们不明白你所提出的这个问题。请你开示吧,福德广大者,若你愿意垂恩。”
Verse 19
अगस्त्य उवाच । इयं राज्ञी त्वया याऽभूद् दासी वैश्यस्य वैदिशे । नगरे हरिदत्तस्य त्वमस्याः पतिरेव च । तस्यैव कर्मकारोऽभूच्छूद्रः सेवनतत्परः ॥ ४९.१९ ॥
阿伽斯提亚说道:“这位王后因你之故,在毗底沙城成了吠舍哈利达塔家的婢女;而你自己竟成了她的丈夫。又有一位专心服侍的首陀罗,成了那吠舍的雇工。”
Verse 20
स वैश्योऽश्वयुजे मासि द्वादश्यां नियतः स्थितः । स्वयं विष्ण्वालयं गत्वा पुष्पधूपादिभिर्हरिम् ॥ ४९.२० ॥
那位吠舍在阿湿婆瑜阇月的十二日(Dvādaśī)守持戒律,亲自前往毗湿奴神庙,以花、香等供品礼敬哈利。
Verse 21
अभ्यर्च्य स्वगृहं प्रायाद् भवन्तौ रक्षपालकौ । स्थाप्य द्वावपि दीपानां ज्वलनार्थं महामते ॥ ४९.२१ ॥
“如法礼敬之后,当回到自家,并说:‘你们二位是守卫与护佑者。’又,心量广大者啊,还应安置两盏灯,使其长明燃烧。”
Verse 22
गते वैश्ये भवन्तौथ दीपान् प्रज्वाल्य संस्थितौ । यावत् प्रभाता रजनी निशामेकां नरोत्तम ॥ ४९.२२ ॥
当那位吠舍离去后,他们二人点燃灯盏,仍留在彼处,噢,人中至善者,守夜一宵,直至长夜转为黎明。
Verse 23
ततः काले मृतौ तौ तु उभौ द्वावपि दम्पती । तेन पुण्येन ते जन्म प्रियव्रतगृहेऽभवत् ॥ ४९.२३ ॥
随后,时日既至,那对夫妇二人皆命终;凭借此功德,他们来世投生于普利耶弗拉塔(Priyavrata)之家。
Verse 24
इयं तु पत्नी ते जाता पुरा वैश्यस्य दासिका । पारक्यस्यापि दीपस्य ज्वालितस्य हरेर्गृहे ॥ ४९.२४ ॥
然而这位如今成为你妻子的女子,往昔曾是吠舍家中的婢女;她甚至在哈利(Hari)之家点燃过他人的灯盏。
Verse 25
यः पुनः स्वेन वित्तेन विष्णोरग्रे प्रदीपकम् । ज्वालयेत् तस्य यत् पुण्यं तत् सङ्ख्यातुं न शक्यते । तेन साधो हरे साधु इत्युक्तं वचनं मया ॥ ४९.२५ ॥
再者,凡以自身资财在毗湿奴面前点燃灯盏者,其所得功德不可计数。因此,噢善人,我才说出:“善哉,哈利啊,善哉!”这样的话。
Verse 26
कृते संवत्सरे भक्तिं हरेः कृत्वा विचक्षणः । संवत्सरार्धं त्रेतायां सममेतन्न संशयः ॥ ४९.२६ ॥
明慧之人若在克利多(Kṛta)时代修持对哈利的虔敬一年,其所得果报等同——毫无疑问——于在特雷塔(Tretā)时代修持半年。
Verse 27
त्रिमासे द्वापरे भक्त्या पूजयँल्लभते फलम् । नमो नारायणायेति उक्त्वा कलौ तु लभते फलम् । तेन मुष्टं जगद्विष्णोर्भक्तिमात्रं मयेरितम् ॥ ४९.२७ ॥
在兜婆罗时代,以虔敬之心修供养三个月者,得其果报;而在迦利时代,仅诵“南无那罗延那耶(namo nārāyaṇāya)”亦得其果报。因此,我已为世间简要宣说:唯有对毗湿奴的奉爱(bhakti)为要。
Verse 28
पारक्यदीपस्योत्कर्षाद् वै देवाग्रे फलमीदृशम् । प्राप्तं फलं त्वया राजन् फलमेतन् मयेरितम् । अहो मूढा न जानन्ति हरेर्दीपक्रियाफलम् ॥ ४९.२८ ॥
确实,由于以他人名义供奉灯盏具有殊胜功德,便能在神前获得如此果报。大王啊,你已得此果;这就是我所宣说的果报。唉,迷妄之人不知向哈利(Hari)行供灯之业的果报。
Verse 29
एवं विधं द्विजा ये च राजानो ये च भक्तितः । यजन्ते विविधैर्यज्ञैस्तेन ते साधवः स्मृताः ॥ ४९.२९ ॥
因此,诸位二次生者啊,那些人——以及诸王亦然——若以虔敬之心举行种种祭祀(yajña),便因其行持而被称为“萨度”(sādhu,贤善正直者)。
Verse 30
अहं तमेव मुक्त्वा अन्यं न पश्यामि महीतले । तेन साधोऽगस्त्येति मया चात्मा प्रशंसितः । हर्षेण महता राजन् व्याक्षिप्तेन मयेरितम् ॥ ४९.३० ॥
“除他之外,我在大地上不见第二人可比。因此,善者啊,我称赞他——‘阿伽斯底耶(Agastya)’——而在那句话中,我也连同称赞了自己。大王啊,这话是我在极大欢喜、情感激荡之中所说。”
Verse 31
सा स्त्री धन्या स शूद्रस्तु तथा धन्यतरो मतः । भर्तुः सुश्रूषणं कृत्वा तत्परोक्षे हरेरिति ॥ ४९.३१ ॥
那位女子被称为有福;那位首陀罗亦被称为有福——甚至更为有福——因为他(或她)恭敬勤谨地侍奉丈夫,并在丈夫不在时称念哈利(Hari)之名。
Verse 32
सा स्त्री धन्या तथा शूद्रो द्विजसुश्रूषणे रतः । तदनुज्ञया हरेर्भक्तिः स्त्री शूद्रो तेन साध्विति ॥ ४९.३२ ॥
那位女子被称为有福之人;同样,乐于侍奉二次生者(dvija)的首陀罗亦为有福。经其许可,对哈利(Hari,毗湿奴)之奉爱(bhakti)当受称赞;因此,那女子与首陀罗被称为善人(sādhu)。
Verse 33
असुरं भावमास्थाय प्रह्लादः पुरुषोत्तमम् । मुक्त्वा चान्यं न जानाति तेनासौ साधुरुच्यते ॥ ४९.३३ ॥
即便处于阿修罗的心性之中,普罗诃罗陀也唯独认知至上人格(Puruṣottama)。舍弃其余一切后,他不知他者;因此他被称为善人(sādhu)。
Verse 34
प्रजापतिकुले भूत्वा बाल एव वनं गतः । आराध्य विष्णुं प्राप्तं तत् स्थानं परमशोभनम् । तेन साधो ध्रुवेत्येवं मयोक्तं राजसत्तम ॥ ४९.३४ ॥
生于生主(Prajāpati)之族系,他尚为童子便入林修行。礼敬毗湿奴后,得至那至上而极其辉煌的住处。因此,善者啊——我已如此述说德鲁瓦(Dhruva)之事,王中最胜者啊。
Verse 35
इति राजा वचः श्रुत्वा अगस्त्यस्य महात्मनः । अल्पोपदेशराजासौ पप्रच्छ मुनिपुङ्गवम् ॥ ४९.३५ ॥
于是,国王听闻大魂阿伽斯提耶之言;因所受教诲尚简略,便向圣贤之冠(munipuṅgava)发问。
Verse 36
अगस्त्यश्च महाभागः कार्तिक्यां पुष्करं व्रजन् । गतेऽगस्त्ये प्रगच्छन् वै भद्राश्वस्य निवेशनम् ॥ ४९.३६ ॥
而有福的圣者阿伽斯提耶,于迦尔提迦月(Kārttika)启程前往普什迦罗(Puṣkara);当阿伽斯提耶离去之后,他确实前行至跋陀罗阿湿婆(Bhadrāśva)的居所。
Verse 37
पृष्टश्च राज्ञा तामेव द्वादशीं मुनिसत्तमः । दुर्वासा उवाच । इदमेव मया तुभ्यं कथितं ते तपोधन ॥ ४९.३७ ॥
国王询问那同一项“十二日斋”(Dvādaśī)之行持时,最上圣贤杜尔瓦萨说道:“正是如此,我已向你叙述了这一切,噢以苦行为财富者。”
Verse 38
कथयित्वा पुनर्वाक्यमगस्त्यो नृपसत्तमम् । उवाच पुष्करं यामि पुनरेष्यामि ते गृहम् । एवमुक्त्वा जगामाशु सद्योऽदर्शनतां मुनिः ॥ ४९.३८ ॥
又说了几句后,阿伽斯提亚对最尊贵的国王说道:“我将前往普什迦罗(Puṣkara);我还会再回到你家。”说罢,圣者迅速离去,立刻从视野中消失。
Verse 39
राजाऽपि तेन विधिना पद्मनाभस्य द्वादशीम् । उपोष्य परमं काममिह जन्मनि चाप्तवान् ॥ ४९.३९ ॥
国王也依照所规定的仪轨,守持莲华脐(Padmanābha)之十二日斋;并且就在此生获得了他所希求的至上成就。
Verse 40
सपत्नीको नृपवरॊ द्वादशीं समुपोष्य च । इह जन्मनि राजा ऽसौ पुत्रपौत्रांस्तथा ऽऽप्तवान् ॥ ४९.४० ॥
那位卓越的国王与王后一道,如法守持十二日斋;就在此生,他得到了儿子以及孙子。
The text advances an ethics of accessible devotion: small, materially modest acts (notably dīpa-jvālana before Hari/Padmanābha) are presented as producing significant moral and social outcomes, cutting across varṇa and gender categories. It also models a pedagogy where ritual practice is justified through narrative proof (itihāsa-style exemplum) rather than abstract argument.
The rite is assigned to Aśvayuja (Āśvina) month on śukla-pakṣa dvādaśī. The procedure includes night-to-dawn sequencing (śarvarī/prabhāta), with gifting to a brāhmaṇa specified at dawn. The chapter also compares efficacy across yugas: Kṛta, Tretā, Dvāpara, and Kali.
While not explicitly ecological in imagery, the chapter frames ritual light, orderly observance, and disciplined giving as practices that sustain dharma—an implied mechanism for maintaining societal stability that, in the Varāha–Pṛthivī frame, supports Pṛthivī’s equilibrium. The emphasis on minimal-resource devotion (a single lamp) can be read as a low-impact, widely adoptable stewardship ethic.
Sage Agastya is central as the interpreting authority, and King Bhadrāśva anchors the royal setting (with a regional eponym 'Bhadrāśva-varṣa' noted). Prahlāda and Dhruva are cited as paradigmatic devotees. A mercantile household in Vaidīśa (a vaiśya named Haridatta) and a śūdra artisan/servant appear as prior-life identities illustrating cross-status religious merit.
Read Varaha Purana in the Vedapath app
Scan the QR code to open this directly in the app, with audio, word-by-word meanings, and more.