Verse 1.1
केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः। केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति॥१॥
心为何者所驱而投向其对象?最初的生命气息为何者所驱而履行其功能?人们所说的言语为何者所驱使?究竟是哪位神明联结了眼与耳?
Verse 1.2
श्रोत्रस्य श्रोत्रं मनसो मनो यद्वाचो ह वाचं स उ प्राणस्य प्राणः। चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति॥२॥
它是耳之耳,心之心,言语之言语,生命气息之生命气息,眼之眼。智者超越这一切,离开此世后成为不朽。
Verse 1.3
न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनो न विद्मो न विजानीमो यथैतदनुशिष्यात्। अन्यदेव तद्विदितादथो अविदितादधि। इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे॥३॥
眼不能至彼处,言语不能至彼处,心亦不能至彼处。我们不知,我们不解,如何能教导此理。它不同于已知,且确实超越未知。我们从前人处听闻此理,他们曾为我们解说。
Verse 1.4
यद्वाचा अनभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥४॥
言语所无法表达,而借此言语得以表达者,当知此即是梵,而非世人所崇拜之对象。
Verse 1.5
यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥५॥
心意所无法思惟,而借此心意得以思惟者,当知此即是梵,而非世人所崇拜之对象。
Verse 1.6
यच्चक्षुषा न पश्यति येन चक्षूँषि पश्यति । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥६॥
眼目所无法看见,而借此眼目得以看见者,当知此即是梵,而非世人所崇拜之对象。
Verse 1.7
यत् श्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम्। तत् एव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥७॥
那非以耳所闻者,而是使此耳能闻者,当知彼即是梵,而非人们在此所崇拜者。
Verse 1.8
यत् प्राणेन न प्राणिति येन प्राणः प्रणीयते। तत् एव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते॥८॥
那非以气息所呼吸者,而是使气息得以呼吸者,当知彼即是梵,而非人们在此所崇拜者。
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free sign-in with Google or Apple keeps your chat saved across web and the app.