यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यतेऽज्ञेया । यस्या अन्तो न विद्यते तस्मादुच्यतेऽनन्ता । यस्या ग्रहणं नोपलभ्यते तस्मादुच्यतेऽलक्ष्या । यस्या जननं नोपलभ्यते तस्मादुच्यतेऽजा । एकैव सर्वत्र वर्तते तस्मादुच्यत एका । एकैव विश्वरूपिणी तस्मादुच्यते नैका । अत एवोच्यतेऽज्ञेयानन्तालक्ष्याजैका नैकेति ॥२६॥
यस्याः । स्वरूपम् । ब्रह्म-आदयः । न । जानन्ति । तस्मात् । उच्यते । अज्ञेया ।
यस्याः । अन्तः । न । विद्यते । तस्मात् । उच्यते । अनन्ता ।
यस्याः । ग्रहणम् । न । उपलभ्यते । तस्मात् । उच्यते । अलक्ष्या ।
यस्याः । जननम् । न । उपलभ्यते । तस्मात् । उच्यते । अजा ।
एका । एव । सर्वत्र । वर्तते । तस्मात् । उच्यते । एका ।
एका । एव । विश्व-रूपिणी । तस्मात् । उच्यते । न-एका ।
अतः । एव । उच्यते । अज्ञेया-अनन्ता-अलक्ष्या-अजा-एका-न-एका । इति ।
yasyāḥ svarūpaṃ brahmādayo na jānanti tasmāducyate'jñeyā | yasyā antaḥ na vidyate tasmāducyate'nantā | yasyā grahaṇaṃ nopalabhyate tasmāducyate'lakṣyā | yasyā jananaṃ nopalabhyate tasmāducyate'ajā | ekaiva sarvatra vartate tasmāducyata ekā | ekaiva viśvarūpiṇī tasmāducyate naikā | ata evocyate'jñeyānantālakṣyājāikā naiketi ||26||
由于连梵天等诸神也不知其本性,故称她为“不可知”。由于寻不到她的终极,故称她为“无尽”。由于无法得其把捉与领会,故称她为“不可见”。由于不见其出生之相,故称她为“无生”。由于唯她遍在一切处,故称她为“一”。由于唯她显现为整个宇宙之形,故称她为“非一”。因此她被称为:不可知、无尽、不可见、无生、一与非一。
Because even Brahmā and the others do not know her essential nature, she is therefore called ‘unknowable’. Because her end is not found, she is therefore called ‘endless’. Because her apprehension is not obtained, she is therefore called ‘unperceivable’. Because her birth is not obtained, she is therefore called ‘unborn’. Because she alone exists everywhere, she is therefore called ‘one’. Because she alone is of the form of the universe, she is therefore called ‘not-one’. Therefore she is spoken of as: unknowable, endless, unperceivable, unborn, one, and not-one.
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free sign-in with Google or Apple keeps your chat saved across web and the app.