Adhyaya 25
Prabhasa KhandaDvaraka MahatmyaAdhyaya 25

Adhyaya 25

本章以王者问答展开:因陀罗昙那王请圣者摩尔迦ṇḍeya详说一处清净、能灭罪的圣地(tīrtha)。圣者答曰:在迦梨时代,有三座最为典范的圣城——摩图罗、德瓦拉卡与阿约提亚——皆与神圣临在相系:哈利/克里希纳与罗摩。 继而论及功德之比较:与德瓦拉卡哪怕片刻相触——住上一瞬、忆念其名、聆听其荣耀——其功德被赞为胜过在迦尸、普拉亚伽、普拉婆娑、俱卢克舍多罗等处久修苦行或长途朝圣。章中特别强调克里希纳之瞻礼(darśana)、颂扬圣名(kīrtana)与十二日(Dvādaśī)之夜守夜(jāgaraṇa)为核心行持,并以强有力的果报宣说(phalaśruti)许诺净化、解脱及利益祖先(于戈摩提河畔行piṇḍadāna、在克里希纳临在处供献)。又提及与德瓦拉卡相关的圣物——牧女檀香泥(gopīcandana)与圣罗勒(tulasī)——可随身携带,令圣地之净力延伸至家宅。末尾重申:在克里希纳守夜中行布施,其功德倍增;而十二日之夜的仪式性不眠,被置为迦梨时代极高价值的伦理与奉爱实践。

Shlokas

Verse 1

इंद्रद्युम्न उवाच । कथयस्व मुनिश्रेष्ठ किंचित्कौतूहलं मम । पुण्यं पवित्रं पापघ्नं तीर्थं तु वद विस्तरात्

因陀罗昙那说道:噢,最胜的牟尼啊,我心中生起一份好奇。请详尽宣说那功德殊胜、能净化身心、摧灭罪业的圣地渡口——提尔塔(tīrtha)。

Verse 2

मार्कण्डेय उवाच । मथुरा द्वारकाऽयोध्या कलिकाले पुरीत्रयम् । धर्मार्थकामदं भूप मोक्षदं हरिवल्लभम्

马尔甘德耶说道:摩图罗、堕罗迦与阿约提亚——在迦梨时代——乃三大圣城。大王啊,它们赐予法(dharma)、利(artha)、欲(kāma),并因深得哈利所爱而施与解脱(mokṣa)。

Verse 3

मधुरायां तु कालिंदी गोमती कृष्णसन्निधौ । अयोध्यायां तु सरयूर्मुक्तिदा सेविता सदा

在摩图罗有迦林底河(亚穆纳);在奎师那临在之处(堕罗迦)有戈摩提河。在阿约提亚有萨罗瑜河,恒受敬奉,能赐解脱。

Verse 4

द्रारवत्यामयोध्यायां कृष्णं रामं शुभप्रदम् । मथुरायां हरिं विष्णुं स्मृत्वा मुक्तिमवाप्नुयात्

在堕罗伐底(堕罗迦)与阿约提亚,若忆念赐吉祥的奎师那与罗摩;在摩图罗忆念哈利——毗湿奴——便能获得解脱。

Verse 5

धन्या सा मथुरा लोके यत्र जातो हरिः स्वयम् । द्वारका सफला लोके क्रीडितं यत्र विष्णुना

摩图罗在世间实为有福,因为哈利亲自降生于彼处。堕罗迦在世间亦圆满而多果,因为毗湿奴曾在彼处嬉游,显现神圣的利拉(līlā)。

Verse 6

धन्यानामपि सा पूज्या अयोध्या सर्वकामदा । या स्वयं रामदेवेन पालिता धर्मबुद्धिना

即使在诸福德者之中,阿约提亚亦应受礼敬——能赐一切所愿——因为此城由罗摩天尊亲自统治并护持,其心安住于达摩。

Verse 7

यद्ददाति फलं काशी सेविता कल्पसंख्यया । कला ददाति मथुरा वासरेणापि तत्फलम्

迦尸需经无数劫受敬奉方赐之果报;而摩图罗在一刹那(kalā)便赐同等果报,诚然,乃至一日之间亦能成就同样功德。

Verse 8

मन्वंतरसहस्रे तु प्रयागे यत्फलं भवेत् । निमिषार्द्धेन वसतां द्वारकायां तु तत्फलम्

在普拉亚伽纵使住满一千摩奴劫(manvantara)所生之功德,其同等果报,居于德瓦拉卡者仅以半瞬之间便可获得。

Verse 9

प्रभासे च कुरुक्षेत्रे यत्फलं वत्सरैः शतैः । वसतां निमिषार्द्धेन ह्ययोध्यायां च तद्भवेत्

在普拉婆娑与俱卢之野历经百年所得之功德,同样的功德,只需在阿约提亚住半瞬便会生起。

Verse 10

अयोध्याधिपतिं रामं मथुरायां तु केशवम् । द्वारकावासिनं कृष्णं कीर्तनं चापि दुर्ल्लभम्

罗摩为阿约提亚之主;凯沙瓦在摩图罗;而居于德瓦拉卡者为奎师那——即便是唱诵他们圣名与功德的赞歌(kīrtana),对福薄之人亦难得。

Verse 11

मथुराकीर्तनेनापि श्रवणाद्द्वारकापुरः । अयोध्यादर्शनेनापि त्रिशुद्धं च पदं व्रजेत्

赞颂摩图罗,聆听都瓦拉迦城的圣名与功德,并瞻礼阿约提亚——便能证得三重净化之境/清净住处。

Verse 12

कृष्णं स्वयंभुवं देवं द्वारका त्रिदिवोपमा । श्रुता चाप्यथवा दृष्टा कुरुते जन्मसंक्षयम्

都瓦拉迦宛如诸天之天;在那里,自显的主克里希纳受人礼敬。无论仅闻其名,或亲眼瞻见,皆能令轮回再生渐至穷尽。

Verse 13

श्रुताभिलिखिता दृष्टा ह्ययोध्या मथुरापुरी । पापं हरति कल्पोत्थं द्वारका च तृतीयका

阿约提亚与摩图罗城——无论仅闻其名、书写记载,或亲眼瞻见——皆能除去历经一劫所生之罪;而都瓦拉迦为第三圣城,与之同享盛名。

Verse 14

कृष्णं विष्णुं हरिं देवं विश्रांतं च कलौ स्मृतम् । द्वादश्यां जागरे रात्रावश्वमेधायुतं फलम्

在迦利时代,忆念克里希纳——毗湿奴、哈利、至上之主——据说在此“安息”;并于十二日斋(Dvādaśī)之夜通宵守夜,其功德等同一万次马祭(Aśvamedha)。

Verse 15

बालक्रीडनकं स्थानं ये स्मरंति दिनेदिने । स्वर्णशैलपदं नृणां जायते राजसत्तम

大王中之最胜者啊,凡日日忆念主在童年嬉戏之处者,必得成就“金山”之境/清净住处。

Verse 16

धन्यास्ते मानवा लोके कलिकाले नरोत्तम । प्लवनं सिंधुतोयेन गोमत्यां यैर्नरैः कृतम्

噢,人中至善者!在迦梨时代,世间凡以信心在戈摩提河中,借辛度(大海)之水行“浮渡/沉浴”(plavana)者,实为有福之人。

Verse 17

पश्चिमाशां नरः स्नात्वा कृत्वा वै करसंपुटम् । द्वारकां ये स्मरिष्यंति तेषां कोटिगुणं फलम्

沐浴之后,双手合拢作掬水之印(karasaṃpuṭa),若面向西方忆念圣城德瓦拉迦者,其功德得增至一俱胝倍。

Verse 18

मनसा चिन्तयेद्यो वै कलौ द्वारवतीं पुरीम् । कपिलाऽयुतपुण्यं च लभते हेलया नरः

在迦梨时代,凡于心中真诚观想德瓦拉瓦蒂城(德瓦拉迦)者,便能不费力似的获得等同于布施一万头迦毗罗母牛之功德。

Verse 19

गंगासागरजं पुण्यं गंगाद्वारभवं तथा । कलौ द्वारवतीं गत्वा प्राप्नोति मनुजाधिप

噢,人中王者!在迦梨时代,若前往德瓦拉瓦蒂(德瓦拉迦),便能获得恒河入海处(恒河—海)之功德,亦得恒河之门(哈利德瓦拉)之功德。

Verse 20

सप्तकल्पस्मरो भूप मार्कण्डेयः स्मराम्यहम् । समाना वाऽधिका वापि द्वारवत्या न कापि पूः

大王啊,我乃马尔坎德耶圣仙,能忆念七个劫(kalpa)者。我宣说:无论何处,都没有任何城邑能与德瓦拉瓦蒂(德瓦拉迦)相等,或更为殊胜。

Verse 21

दुर्वाससा समो धन्यो नास्ति नाप्यधिको नृप । भाषाबंधं येन कृत्वा द्वारकायां धृतो हरिः

大王啊,无人如杜尔瓦萨那般有福,亦无人更胜;因为他以誓言之语为缚,使哈利(毗湿奴)被系留于德瓦拉卡。

Verse 22

मा काशीं मा कुरुक्षेत्रं प्रभासं मा च पुष्करम् । द्वारकां गच्छ राजर्षे पश्य कृष्णमुखं शुभम्

不是迦尸,不是俱卢之地,不是普拉婆娑,亦非普什迦罗;王族圣者啊,往德瓦拉卡去,瞻仰克里希纳吉祥的圣颜。

Verse 23

अश्वमेधसहस्रं तु राजसूयशतं कलौ । पदेपदे च लभते द्वारकां याति यो नरः

在迦利时代,凡前往德瓦拉卡者,步步皆得功德,如同千次马祭(阿湿婆梅陀)与百次王祭(罗阇苏耶)。

Verse 24

सफलं जीवितं तेषां कलौ नृपवरोत्तम ये । षां न स्खलितं चित्तं द्वारकां प्रति गच्छताम्

至善之王啊,在迦利时代,那些人的生命才算圆满——即心念不退,启程趋向德瓦拉卡者。

Verse 25

माता च पुत्रिणी तेन पिता चैव पितामहाः । पिंडदानं कृतं येन गोमत्यां कृष्णसन्निधौ

因他之故,母亲得享有贤子之福,父亲与列祖亦蒙恩泽——即在戈摩提河畔、克里希纳圣前奉献皮恩达(祖先供食)之人。

Verse 26

गोपीचन्दनमुद्रां तु कृत्वा भ्रमति भूतले । सोऽपि देशो भवेत्पूतः कि पुनर्यत्र संस्थितम्

即使有人仅在大地上行走,身佩以戈毗旃檀泥所作的圣印,那所到之处亦得清净;何况在以虔敬安置并佩戴之地,其净化更不可思议。

Verse 27

द्वारकायां समुद्भूतां तुलसीं कृष्णसेविताम् । नित्यं बिभर्ति शिरसा स भवेत्त्रिदशाधिपः

若有人日日将生于都瓦罗迦、为黑天所侍奉的圣罗勒(图拉西)顶戴于首,此人将成为诸天之中之主。

Verse 28

दैत्यारेर्भगवत्तिथिश्च विजया नीरं च गगोद्भवं नित्यंकाशिपुरी तथैव तुलसी धात्रीफलं वल्लभम्

为那位降伏代底耶的至尊主所钟爱者:主之圣月日(提提)、毗阇耶庆典,以及源自天界恒河之水;同样蒙爱者还有常住清净的迦尸城、图拉西与余甘子(阿摩勒迦)之果,皆为主所喜。

Verse 29

शास्त्रं भागवतं तथा च दयितं रामायणं द्वारका पुण्यं मालतिसम्भवं सुदयितं गीतं कृतं जागरम्

《薄伽梵经》圣典为主所爱,《罗摩衍那》亦为所爱;都瓦罗迦乃圣地。尤为钟爱的是奉爱之歌与守夜(阇伽罗);而由茉莉花(玛拉蒂)所成的芬芳供品亦为珍贵。

Verse 30

गृहे यस्य सदा तिष्ठेद्गोपीचन्दनमृत्तिका । द्वारका तिष्ठते तत्र कृष्णेन सहिता कलौ

凡家中常存戈毗旃檀圣泥者,于迦利时代,都瓦罗迦即住于彼处——并与黑天同在。

Verse 31

कृतघ्नो वाऽथ गोघ्नोऽपि हैतुकः कृत्स्नपापकृत् । गोपीचन्दनसंपर्कात्पूतो भवति तत्क्षणात्

即使是忘恩负义之人,乃至杀牛者,甚至造作一切罪业者,也会因触及“牧女檀香泥”(gopīcandana)而在当下立刻得以清净。

Verse 32

गोपीचन्दनखंडं तु यो ददातीह वैष्णवे । कुलमेकोत्तरं तेन शतं तारितमेव वा

凡在此世将一块“牧女檀香泥”(gopīcandana)布施给毗湿奴信众(Vaiṣṇava)者,凭此功德,其家族一百零一人得以被度脱、安然渡越。

Verse 33

द्वारकासम्भवा भूप तुलसी यस्य मंदिरे । तस्य वैवस्वतो नित्यं बिभेति सह किंकरैः

大王啊,凡家中供养由堕罗迦(Dvārakā)而生的圣罗勒(Tulasī)者,阎摩——日神毗婆斯梵之子——连同其使者也恒常畏惧此人。

Verse 34

द्वारकासंभवा मृत्स्ना तुलसीकृष्णकीर्तनम् । क्रतुकोटिशतं पुण्यं कथितं व्याससूनुना

出自堕罗迦的圣土、圣罗勒(Tulasī)以及称颂歌咏黑天(Kṛṣṇa)圣名——毗耶娑之子宣说:其功德等同于数百俱胝的祭祀。

Verse 35

आलोड्य सर्वशास्त्राणि पुराणानि पुनःपुनः । मया दृष्टा महीपाल न द्वारकासमा पुरी

我反复研读、细加参究一切圣典(śāstra)与诸《往世书》(Purāṇa),大地之主啊,我已见证:世间无城可与堕罗迦(Dvārakā)比肩。

Verse 36

द्वारकागमनं येन कृतं कृष्णस्य कीर्तनम् । स्नातं तीर्थसहस्रैस्तु तेनेष्टं क्रतुकोटिभिः

前往德瓦拉卡(Dvārakā)并赞颂奎师那(Kṛṣṇa)的人,犹如沐浴于数千圣地,并完成了千万次祭祀。

Verse 37

इद्रियाणां तु दमनं किं करिष्यति देहिनाम् । सांख्यमध्ययनं चापि द्वारकां गच्छते न चेत्

如果不去德瓦拉卡,对于具身众生而言,控制感官甚至研习数论(Sāṃkhya)又有何成就呢?

Verse 38

पशवस्ते न सन्देहो गर्दभेन समा जनाः । दृष्टं कृष्णमुखं यैर्न गत्वा द्वारवतीं पुरीम्

毫无疑问,那些不去德瓦拉卡城瞻仰奎师那容颜的人是野兽,与驴子无异。

Verse 39

कृतकृत्यास्तु ते धन्या द्वादश्यां जागरे हरेः । कृत्वा जागरणं भक्त्या नृत्यमाना मुहुर्मुहुः

那些实现了生命目标的人确实是有福的——他们在神圣的第十二日(Dvādaśī)为哈里(Hari)守夜,怀着虔诚一次次欢欣起舞。

Verse 40

कृष्णालयं तु यो गत्वा गोमत्यां पिंडपातनम् । करोति शक्त्या दानं च मुक्तास्तस्य पितामहाः

凡前往奎师那居所(Kṛṣṇālaya),在戈马蒂河(Gomati)供奉祭品(piṇḍa)并量力布施者,其祖先将因此获得解脱。

Verse 41

प्रेतत्वं च पिशा चत्वं न भवेत्तस्य देहिनः । जन्मजन्मनि राजेंद्र यो गतो द्वारकां पुरीम्

噢,诸王之王!凡有身之众生,生生世世曾至圣城德瓦拉卡者,永不堕为饿鬼(preta)或恶灵(piśāca)之命。

Verse 42

अनशनेन यत्पुण्यं प्रयागे त्यजतस्तनुम् । द्वादश्यां निमिषार्द्धेन तत्फलं कृष्णसन्निधौ

凡以斋戒而于普拉雅伽在十二日(Dvādaśī)舍身所得之功德,在克里希纳圣前,仅半瞬之间便得同等果报。

Verse 43

सूर्यग्रहे गवां कोटिं दत्त्वा यत्फलमाप्नुयात् । तत्फलं कलिकाले तु द्वारवत्यां दिनेदिने

于日食之时施舍一亿头牛所得之功德,在迦利时代,于德瓦拉瓦蒂(德瓦拉卡)日日皆可得同等果报。

Verse 44

कोटिभारं सुवर्णस्य ग्रहणे चंद्रसूर्ययोः । दत्त्वा यत्फलमाप्नोति तत्फलं कृष्णदर्शने

于月食或日食之时布施一亿重量之黄金所得功德,仅以瞻仰克里希纳,即得同等功德。

Verse 45

दोलासंस्थं च ये कृष्णं पश्यंति मधुमाधवे । तेषां पुत्राश्च पौत्राश्च मातामहपितामहाः

凡得见圣主克里希纳——摩度苏达那、摩达瓦——安坐于秋千(dolā)之上者,其功德荫及全族:子与孙,乃至外祖与祖父,皆因其福而得提升。

Verse 46

श्वशुराद्याः सभृत्याश्च पशवश्च नरोत्तम । क्रीडंति विष्णुना सार्द्धं यावदाभूतसंप्लवम्

噢,人中至善者:岳父等诸亲族,连同侍从乃至诸兽,皆与毗湿奴同嬉游,常在其圣伴之中,直至众生终极大毁灭。

Verse 47

या काचिद्द्वादशी भूप जायते कृष्णसन्निधौ । पश्यामि नांतरं किञ्चित्कलिकाले विशेषतः

大王啊,凡在圣主室利·奎师那亲临之处出现的任何“十二日斋”(Dvādaśī),我都不见有别的修持可与之等同——尤其在迦梨时代。

Verse 48

कृष्णस्य सन्निधौ नित्यं वासरा द्वादशीसमाः । युगादिभिः समाः सर्वे नित्यं कृष्णस्य सन्निधौ

在奎师那恒常的亲临中,每一日都等同于十二日斋;一切圣时——如诸劫(yuga)之始——也同样在彼处显现,永恒地在奎师那近旁。

Verse 49

कलौ द्वारवती सेव्या ज्ञात्वा पुण्यं विशेषतः । षटपुर्यश्चैव सुलभा दुर्ल्लभा द्वारका कलौ

在迦梨瑜伽中,知其功德尤胜,应当虔敬奉事都瓦拉瓦蒂(德瓦拉卡)。虽六大圣城皆易得至,然迦梨世中德瓦拉卡却难以抵达。

Verse 50

स्मरणात्कीर्तनाद्यस्माद्भुक्तिमुक्ती सदा नृणाम् । दुर्वाससा तु ऋषिणा रक्षिता तिष्ठते पुरी

由于忆念与称扬此城,人们恒得世间福乐与解脱(bhukti 与 mukti),故此圣城长存——由圣仙杜尔瓦萨守护而立。

Verse 51

कलौ न शक्यते गंतुं विना कृष्णप्रसादतः । कृष्णस्य दर्शनं कर्तुं यान्ति रुद्रादयः सुराः

在迦利时代,若无克里希纳的恩典,便不能前往彼处。即使诸天——如鲁陀罗等——也前来只为瞻仰克里希纳。

Verse 52

त्रिकालं जगतीनाथ रुक्मिणीदर्शनाय च । सफला भारती तस्य कृष्णकृष्णेति या वदेत्

噢,世间之主!于一日三时,亦为得见鲁克米妮——凡口诵“克里希纳,克里希纳”者,其言语实为有果。

Verse 53

द्वारका यायिनं दृष्ट्वा गायंति दिविसंस्थिताः । नरकात्पितरो मुक्ताः प्रचलंति हसंति च

见到一位前往兜罗迦的朝圣者,居于天界者欢喜歌唱;而从地狱得解脱的祖先们,亦欢舞而笑。

Verse 54

गोप्यं यत्पातकं पुंसां गोमती तद्व्यपोहति । स्मरणात्कीर्त्तनाद्वापि किं पुनः प्लवने कृते

世人无论有何隐秘之罪,戈摩提河皆能除去。若仅忆念或称赞便得此果报,何况亲自沐浴并沉浸于其水中!

Verse 55

रुक्मिणीसहितं देवं शंखोद्धारे च शंखिनम् । पिंडारके चतुर्बाहुं दृष्ट्वाऽन्यैः किं करिष्यति

既已得见与鲁克米妮同在的主;又于商科欧达罗见持螺者;并于宾达罗迦见四臂圣者——还何须别的修持或圣地?

Verse 56

रुक्मिणी देवकीपुत्रश्चक्रतीर्थं च गोमती । गोपीनां चंदनं लोके तुलसी दुर्लभा कलौ

鲁克米妮、提婆姬之子克里希纳、轮盘圣渡(Cakra-tīrtha)与戈马蒂河——皆为世所称扬。于迦梨时代,世间难得牧女们的檀香膏与圣罗勒(tulasī)。

Verse 57

दुर्लभास्ते सुता ज्ञेया धरणीपापनाशकाः । गयां गत्वा तु ये पिंडं द्वारकां कृष्णदर्शनम् । करिष्यंति कलौ प्राप्ते वंजुलीसमुपोषणम्

此等子嗣实为稀有——当知他们能灭除大地之罪。于已至的迦梨时代,他们将赴伽耶供奉团食(piṇḍa),继而往堕罗迦得见克里希纳,并守持“梵珠利”(Vaṃjulī)斋戒。

Verse 58

समं पुण्यफलं तेषां वंजुली द्वारका समा । येन न्यूना नाधिकाऽपि कथितं विष्णुना स्वयम्

他们所得福德(puṇya)同等无别:梵珠利与堕罗迦等同。不减亦不增——此乃毗湿奴亲自宣说。

Verse 59

वंजुली चाधिकां राजञ्छृणु वक्ष्यामि कारणम् । द्वादश्यामुपवासेन द्वादश्यां पारणेन तु । प्राप्यते हेलया चैव तद्विष्णोः परमं पदम्

而梵珠利更为殊胜,噢大王——请听,我将说明其因。于十二日(Dvādaśī)守斋,并于同一十二日行破斋(pāraṇa),纵使不费多力,亦能得至毗湿奴之至上境界。

Verse 60

गृहेषु वसतां तीर्थं गृहेषु वसतां तपः । गृहेषु वसतां मोक्षो वंजुलीसमुपोषणात्

对居家之人而言,梵珠利之行持本身即成圣地(tīrtha);对居家之人而言,它即是苦行(tapas);对居家之人而言,它即是解脱(mokṣa)——由与梵珠利相应的斋戒与守持而得。

Verse 61

वंजुली द्वारका गंगा गया गोविंदकीर्त्तनम् । गोमती गोकुलं गीता दुर्ल्लभं गोपिचन्दनम्

Vaṃjulī、德瓦拉卡、恒河、伽耶、歌咏称颂Govinda圣名的kīrtana、戈马蒂河、戈库拉、《薄伽梵歌》以及稀有的gopī-candana——这一切都被宣说为至上功德。

Verse 62

एतच्छृणोति यो भक्त्या कृत्वा मनसि केशवम् । अश्वमेधसहस्रस्य फलमाप्नोति मानवः

凡以虔敬聆听此说、心中安住Keśava者,此人将获得一千次马祭(Aśvamedha)之果报。

Verse 63

श्रोष्यंति जागरे ये वै माहात्म्यं केशवस्य च । सर्वपापविनिर्मुक्ताः पदं यास्यंति वैष्णवम्

凡在守夜(jāgaraṇa)之时聆听Keśava伟大功德者,皆得脱离一切罪垢,终将趋入毗湿奴信众之境(Vaiṣṇava之所)。

Verse 64

पठिष्यंति नरा नित्यं ये वै श्रोप्यंति भक्तितः । तुलापुरुषदानस्य फलं ते प्राप्नुवंति हि

那些日日诵读此文者,以及以信心恭听者——确实都将获得“图拉普鲁沙布施”(tulāpuruṣa-dāna,称量施舍)之功德果报。

Verse 65

कृष्णजागरणे दानं यच्चाल्पमपि दीयते । सर्वं कोटिगुणं ज्ञेयमित्याहुः कवयो नृप

大王啊,凡在克里希纳守夜(Kṛṣṇa-jāgaraṇa)中所施之布施,即便微少,也当知其功德增至一亿倍(koṭi);贤圣如是宣说。

Verse 66

मानकूटं तुलाकूटं कन्याहयगवां क्रयात् । तत्सर्वं विलयं याति द्वादश्यां जागरे कृते

在量器上欺诈、在秤重上欺诈,以及因买卖少女、马或牛而造作的罪业——当于十二日(Dvādaśī)行守夜(jāgara)之行时,皆得消融净尽。