Adhyaya 33
Kashi KhandaUttara ArdhaAdhyaya 33

Adhyaya 33

第33章以层层递进的方式开示。首先,王后宣说求得子嗣的誓戒(putra-prāpti vrata),追述此法先由那罗陀(Nārada)揭示,并以那罗俱婆罗(Nalakūbara)之诞生等灵验为前例。仪轨包括安置“高丽(Gaurī)抱哺乳婴儿”之圣像,择摩伽尸罗月(Mārgaśīrṣa)白半月第三日(śukla tṛtīyā),布置水罐(kalaśa)、衣物、莲花与金饰、香料与供食(naivedya),通宵守夜,并以吠陀颂(ṛc)作小型火供。誓戒终了,以恭敬上师之布施(含新产之褐色母牛kapilā)、供养婆罗门与持咒行破斋(pāraṇa),祈求能延续家族的儿子。 继而,王后怀孕,孩子的命运显得非同寻常。因大臣忧惧其生辰星宿不祥,遂将其迁往女神维迦塔(Vikaṭā)与诸瑜伽女守护的“般遮母陀罗大圣座”(Pañcamudrā Mahāpīṭha)以求护佑;母神众(Mātṛkā-gaṇa)鉴定其具王者之相,遂护送归来。王子在阿难陀迦那那(Ānandakānana)精勤苦行;湿婆(Śiva)化现为光明灿然之林伽(liṅga)并赐恩。王子祈愿湿婆恒常安住此林伽,并使信众仅凭瞻礼、触礼与恭敬礼拜,即可成就所愿,无须繁复前行。湿婆允诺,赐名“毗罗毗罗伊湿伐罗”(Vīravīreśvara),并宣示其信众将得长久成就(siddhi)。 最后,湿婆沿迦河(Gaṅgā)在迦尸(Kāśī)展开对诸圣地(tīrtha)的次第评述,列举并比较赞叹多处胜境,如Hayagrīva、Gaja、Kokāvarāha、Dilīpeśvara/Dilīpa-tīrtha、Sagara、Saptasāgara、Mahodadhi、Cauratīrtha、Haṃsatīrtha、Tribhuvana-Keśava、Govyāghreśvara、Māndhātu、Mucukunda、Pṛthu、Paraśurāma、Balarāma/Kṛṣṇāgraja、Divodāsa、Bhāgīrathī-tīrtha、Niṣpāpeśvara-liṅga、Daśāśvamedha、Bandī-tīrtha、Kṣoṇīvarāha、Kāleśvara、Bhavānī、Garuḍa、Brahma、Nṛsiṃha、Citraratha等。章末提示:其余诸tīrtha将于后续继续叙述。

Shlokas

Verse 1

राज्ञ्युवाच । अवधेहि धरानाथ कथयामि यथातथम् । व्रतस्यास्य विधानं च फलं चाभीष्टदेवताम्

王后说道:“请听,哦大地之主;我将如实宣说——此圣誓之仪轨与其功果,能引人趋向所愿之神明。”

Verse 2

पुरा पुरः श्रीदपत्न्याः श्रीमुख्या ब्रह्मसूनुना । नारदेन सुतार्थिन्या व्रतमेतदुदीरितम्

往昔,此修持由那罗陀——梵天之子——宣说给室利,即室利(毗湿奴)最尊贵的妃后;当时她祈求得子之福。

Verse 3

चीर्णं चाथ तया देव्या पुत्रोभून्नलकूबरः । अन्याभिरपि बह्वीभिः पुत्राः प्राप्ता व्रतादितः

那位女神修行此誓后,便诞下其子那罗俱婆罗。照样,许多其他女子也因这同一誓行而得子。

Verse 4

विधिनाप्यत्र संपूज्या गौरी सर्वविधानवित् । स्तनंधयेन सहिता धयता स्तनमुन्मुखम्

在此,应依仪轨礼敬高丽——通晓一切法则者——其形象当与哺乳之婴同在:婴儿吮乳,面向上仰于乳房。

Verse 5

मार्गशीर्ष तृतीयायां शुक्लायां कलशोपरि । ताम्रपात्रं निधायैकं तंडुलैः परिपूरितम्

在摩伽施尔沙月明半月的第三日,应于宝瓶(kalaśa)之上安置一只铜器,并以稻米之粒充满其中。

Verse 6

अविच्छिन्नं नवीनं च रजनीरागरंजितम् । वासः पात्रोपरि न्यस्य सूक्ष्मात्सूक्ष्मतरं परम्

将一块崭新无缺的布覆于器皿之上,染以姜黄与朱红之色;当用最为细致、极其柔薄的上等织物。

Verse 7

तस्योपरि शुभं पद्मं रविरश्मिविकासितम् । तत्कर्णिकाया उपरि चतुःस्वर्णविनिर्मितम्

其上当安置吉祥之莲,如被日光之辉所开敷;并于莲心之上置一饰物,由四种黄金铸成。

Verse 8

विधिं संपूजयेद्भक्त्या रत्नपट्टाबंरादिभिः । पुष्पैर्नानाविधै रम्यैः फलैर्नारंगमुख्यकैः

当以虔敬依仪轨供奉(神祇/法事),以宝饰、绸衣等为供;并以多种可爱之花与诸果供养,其中以橙为主要供品之一。

Verse 9

सुगंधैश्चंदनाद्यैश्च कर्पूर मृगनाभिभिः । परमान्नादि नैवेद्यैः पक्वान्नैर्बहुभंगिभिः

亦当以檀香等诸芳香之物、以龙脑香与麝香来庄严供奉;并以至上饮食为供——甜乳饭等诸供食(naivedya)——以及多样熟食。

Verse 10

धूपैरगुरुमुख्यैश्च रम्ये कुसुममंडपे । रात्रौ जागरणं कार्यं विनिंद्रैः परमोत्सवैः

在芬芳之香中,尤以沉香(aguru)为上,于可爱花亭之内,夜间当行守夜,不令睡眠,以最胜庆典而欢庆。

Verse 11

हस्तमात्रमिते कुंडे जातवेदस इत्यृचा । घृतेन मधुनाप्लुत्य जुहुयान्मंत्रविद्द्विजः

在仅一掌宽的火坑中,通晓真言的婆罗门应诵《梨俱吠陀》中以“Jātavedasa…”开头的偈句,以酥油与蜂蜜浇润供品而行火供。

Verse 12

सहस्रकमलानां च स्मेराणां स्वयमेव हि । नवप्रसूतां कपिलां सुशीलां च पयस्विनीम्

他又应自发奉献一头kapilā黄褐色母牛:新近产犊,性情温顺,品行端雅,乳汁丰盈;并同献一千朵新鲜可喜的莲花。

Verse 13

दद्यादाचार्यवर्याय सालंकारां सलक्षणाम् । उपोष्य दंपती भक्त्या नवांबरविभूषितौ

斋戒之后,夫妻二人怀着虔敬,身着新衣,应将那母牛奉献给最上之师,使其装饰庄严,并具吉祥之相。

Verse 14

प्रातःस्नात्वा चतुर्थ्यां च संपूज्याचार्यमादृतः । वस्त्रैराभरणैर्माल्यैर्दक्षिणाभिर्मुदान्वितौ

在Caturthī之日,黎明沐浴后,他们应恭敬礼拜师长,并欢喜以衣服、饰物、花鬘与dakṣiṇā(供养金)奉敬于师。

Verse 15

सोपस्करां च तां मृर्तिमाचार्याय निवेदयेत् । समुच्चरन्निमं मंत्रं व्रतकृन्मिथुनं मुदा

守持誓戒的夫妻应欢喜将那具足所需供具的圣像(mūrti)奉献给师长,并高声诵出此真言。

Verse 16

नमो विश्वविधानज्ञे विधे विविधकारिणि । सुतं वंशकरं देहि तुष्टामुष्माद्व्रताच्छुभात्

礼敬于汝,洞知宇宙之秩序者——造化之主,施作万般事业者。愿汝因我等此吉祥誓愿而欢喜,赐我等一子,以续家族血脉。

Verse 17

सहसं भोजयित्वाथ द्विजानां भक्तिपूर्वकम् । भुक्तशेषेण चान्नेन कुर्याद्वै पारणं ततः

随后,以虔敬供养诸二生者(婆罗门等)之后,应以所供之食的余剩,举行誓愿的结食——pāraṇa。

Verse 18

इत्थमेतद्व्रतं राजंश्चिकीर्षामि त्वया सह । कुरु चैतत्प्रियं मह्यमभीष्टफललब्धये

“大王,此誓愿如是。我愿与你同修。请为我成全此事,使所愿之果得以成就。”

Verse 19

इति भूपालवर्येण श्रुत्वा संहृष्टचेतसा । मुनेव तं समाचीर्णं सांतर्वत्नी बभूव ह

闻此言,贤王心生欢喜,便依圣者所教一一奉行;果然,王后遂怀有身孕。

Verse 20

तयाथ प्रार्थिता गौरी गर्भिण्या भक्तितोषिता । पुत्रं देहि महामाये साक्षाद्विष्ण्वंशसंभवम्

其后,那怀孕的女子向高丽女神祈祷;女神因其虔诚而欢悦,遂被恳求道:“大幻力者(Mahāmāyā)啊,赐我一子,直接出自毗湿奴之族裔。”

Verse 21

जातमात्रो व्रजेत्स्वर्गं पुनगयाति चात्र वै । भक्तः सदाशिवेऽत्यर्थं प्रसिद्धः सर्वभूतले

自出生之刻起,他便往生天界,又将再回到此世。他对常住吉祥主(Sadāśiva)至诚奉爱,名声遍满大地。

Verse 22

विनैव स्तन्यपानेन षोडशाब्दाकृतिः क्षणात् । एवंभूतः सुतो गौरि यथा मे स्यात्तथाकुरु

“不必吮饮母乳,愿他刹那间便具十六岁少年的形貌。噢,雪山女神高丽(Gaurī),愿赐我如此之子——就照这样成就吧。”

Verse 23

मृडान्यापि तथेत्युक्ता राज्ञी भक्त्यातितुष्टया । अथ कालेन तनयं मूलर्क्षे साप्यजीजनत्

王后虔敬至极,令摩利陀尼(帕尔瓦蒂)欢喜无量,便答曰:“如是。”不久之后,王后在月宿“牟罗”(Mūla)之时诞下一子。

Verse 24

हितैरमात्यैरथ सा विज्ञप्तारिष्टसंस्थिता । देवि राजार्थिनी चेत्त्वं त्यज दुष्टर्क्षजं सुतम्

随后,怀善意的大臣们禀告那已被不祥预感攫住的王后:“女神(Devī)啊,若你求国王与国土之安泰,就当舍弃这在凶宿下出生的儿子。”

Verse 25

सा मंत्रिवाक्यमाकर्ण्य केवलं पतिदेवता । अत्याक्षीत्तं तथा प्राप्तं तनयं नयकोविदा

王后听罢群臣之言——以夫君为唯一神明者——便不纳其谏;她通达礼法,仍接纳并护持那如此来到她身边的儿子。

Verse 26

धात्रेयिकां समाकार्य प्राहेदं सा नृपांगना । पंचमुद्रे महापीठे विकटा नाम मातृका

王后召来乳母,说道:“在‘五印’(Pañcamudrā)之处的大圣座上,有一位名为毗迦塔(Vikaṭā)的母神。”

Verse 27

तदग्रे स्थापयित्वामुं बालं धात्रेयिके वद । गौर्यादत्तः शिशुरसौ तवाग्रे विनिवेदितः

“把这孩子安置在她面前,并说,乳母啊:‘此婴儿乃由高丽(Gaurī)所赐,今托付于你,呈献在你面前。’”

Verse 28

राज्ञ्या पत्युः प्रियेषिण्या मंत्रिविज्ञप्तिनुन्नया । सापि राज्ञ्युदितं श्रुत्वा शिशुं लास्य शशिप्रभम्

在大臣们的请愿催促下,王后为求取丈夫所爱而开口。乳母听罢王后之言,便抱起那婴儿,皎洁如月光。

Verse 29

विकटायाः पुरः स्थाप्य गृहं धात्रेयिका गता । अथ सा विकटा देवी समाहूय च योगिनीः

乳母将孩子安置在毗迦塔(Vikaṭā)之前,便回到家中。随后,毗迦塔女神召唤诸位瑜伽女神(Yoginī)。

Verse 30

उवाच नयत क्षिप्रं शिशुं मातृगणाग्रतः । तासामाज्ञां च कुरुत रक्षतामुं प्रयत्नतः

她说道:“速将此婴儿带到众母神之前;遵奉她们的命令,竭尽全力护持这孩子。”

Verse 31

योगिन्यो विकटावाक्यात्खेचर्यस्ताः क्षणेन तम् । निन्युर्गगनमार्गेण ब्राह्म्याद्या यत्र मातरः

奉毗迦塔(Vikaṭā)之命,那些行于虚空的瑜伽女(Yoginī)顷刻间循天路携他而去,至梵母(Brāhmī)等诸母神所居之处。

Verse 32

प्रणम्य योगिनीवृंदं तं शिशुं सूर्यवर्चसम् । पुरो निधाय मातॄणां प्रोवाच विकटोदितम्

他礼敬瑜伽女众后,毗迦塔将那如日辉耀的幼子置于诸母神之前,并说出合乎礼法之言。

Verse 33

ब्रह्माणी वैष्णवी रौद्री वाराही नारसिंहिका । कौमारी चापि माहेंद्री चामुंडा चैव चंडिका

梵母(Brahmāṇī)、毗湿奴母(Vaiṣṇavī)、鲁陀罗母(Raudrī)、野猪母(Vārāhī)、人狮母(Nārasiṃhikā),以及鸠摩罗母(Kaumārī)、摩诃因陀罗母(Māhendrī)、遮蒙荼(Cāmuṇḍā)与旃提迦(Caṇḍikā)——此诸即为母神众。

Verse 34

दृष्ट्वा तं बालकं रम्यं विकटाप्रेषितं ततः । पप्रच्छुर्युगपड्डिंभं कस्ते तातः प्रसूश्च कः

见那可爱幼童为毗迦塔所遣而来,诸母神同时问道:“亲爱的孩子,你的父亲是谁?你的母亲又是谁?”

Verse 35

मातृभिश्चेति पुष्टः स यदा किंचिन्न वक्ति च । तदा तद्योगिनीचक्रं प्राह मातृगणस्त्विति

纵使诸母神抚育,他仍全然不语;于是瑜伽女之轮宣告:“他属于母神之众。”

Verse 36

राज्ययोग्यो भवत्येष महालक्षणलक्षितः । पुनस्तत्रैव नेतव्यो योगिन्यस्त्वविलंबितम्

此人堪当王位,具足大吉祥之相。故诸瑜伽女神(Yoginī)当即刻将他带回彼处,不可迟延。

Verse 37

पंचमुद्रा महादेवी तिष्ठते यत्र काम्यदा । यस्याः संसेवनान्नृणां निर्वाणश्रीरदूरतः

大女神五印(Pañcamudrā)住于其处,随愿赐福;人若虔诚奉事于她,涅槃之光荣便不再遥远。

Verse 38

सर्वत्रशुभजन्मिन्यां काश्यां मुक्तिः पदेपदे । तथापि सविशेषं हि तत्पीठं सर्वसिद्धिकृत्

在迦尸(Kāśī)——吉祥处处生起之地——解脱步步可得。然彼一特定圣座尤为殊胜,能成就一切悉地。

Verse 39

तत्पीठसेवनादस्य षोडशाब्दाकृतेः शिशोः । सिद्धिर्भवित्री परमा विश्वेशानुग्रहात्परात्

由奉事彼圣座,此童子虽仅十六岁,亦将得至上成就;皆由毗湿韦沙(Viśveśa)无上的恩典。

Verse 40

एवं मातृगणाशीर्भिर्योगिनीभिः क्षणेन हि । प्रापितो मातृवाक्येन पंचमुद्रांकितं पुनः

如是,承母神众(Mātṛ-gaṇa)与诸瑜伽女神(Yoginī)之加持,确乎顷刻之间,他依母神之命,再次被送至五印(Pañcamudrā)所标记之处。

Verse 41

संप्राप्य तन्महापीठं स्वर्गलोकादिहागतः । आनंदकानने दिव्यं तताप विपुलं तपः

他抵达那伟大的圣座——自天界而来者——在神圣的阿难陀迦那那林中修行广大而天妙的苦行。

Verse 42

तपसातीव तीव्रेण निश्चलेंद्रियचेतसः । तस्य राजकुमारस्य प्रसन्नोभूदुमाधवः

以极其猛烈的苦行,令诸根与心念安住不动,那位王子使乌玛之主——湿婆——心生欢喜。

Verse 43

आविर्बभूव पुरतो लिंगरूपेण शंकरः । प्रोवाच च प्रसन्नोस्मि वरं ब्रूहि नृपांगज

商羯罗在他面前以林伽之相显现,并说道:“我已欢喜;王子啊,说出你所愿求的恩赐。”

Verse 44

स्कंद उवाच । सर्वज्योतिर्मयं लिंगं पुरतो वीक्ष्य वाङ्मयम् । सप्तपातालमुद्भिद्य स्थितं बृहदनुग्रहात

斯坎达说:他见到面前那由一切光明所成的林伽——言语所不能及——巍然显立,仿佛穿越七重帕塔拉而出,皆由广大加持之恩。

Verse 45

प्रणम्य दंडवद्भूमौ परितुष्टाव धूर्जटिम् । सूक्तैर्जन्मांतराभ्यस्तैः सुहृष्टो रुद्रदेवतैः

他如杖般五体投地,赞颂杜尔阇提(湿婆);以往生累世所习的颂词而歌咏,心怀欢悦,奉鲁陀罗为所依之本尊。

Verse 46

ततः प्रसन्नो भगवान्देवदेवो महेश्वरः । संतुष्टस्तपसा तस्य प्रोवाच वृषभध्वजः

随后,蒙福的主——众神之神摩诃湿伐罗——因其苦行而欢喜满足,便开口说道;其旗帜为公牛(Vṛṣabhadhvaja)。

Verse 47

देवदेव उवाच । वरं वरय संतप्त तपसा क्लेशितं वपुः । त्वयेदं बालवपुषा वशीकृतं मनो मम

天神之神说道:“选择一个恩赐吧,汝因苦行而灼热,身躯为 tapas 所磨损。你虽具少年之身,却已摄伏了我的心。”

Verse 48

शिवोक्तं च समाकर्ण्य वरदानं पुनःपुनः । वरं च प्रार्थयांचक्रे परिहृष्टतनूरुहः

听闻湿婆屡屡赐福之言,他便开始祈求一项恩赐;欢喜之极,周身毛发皆竖。

Verse 49

कुमार उवाच । देवदेवमहादेव यदि देयो वरो मम । तदत्र भवता स्थेयं भवतापहृता सदा

王子说道:“众神之神、大天(摩诃提婆)啊,若要赐我恩愿,愿你安住于此,永远建立,常在不离。”

Verse 50

अस्मिंल्लिंगे स्थितः शंभो कुरु भक्तसमीहितम् । विना मुद्रादिकरणं मंत्रेणापि विना विभो

“噢,商婆(Śambhu)啊,愿你安住于此灵伽之中,成就信徒所愿——即便不作手印等诸仪轨,即便无咒语,至尊之主啊。”

Verse 51

दिश सिद्धिं परामत्र दर्शनात्स्पर्शनान्नतेः । अस्य लिंगस्य ये भक्ता मनोवाक्कायकर्मभिः

仅凭瞻礼、触礼与顶礼(此灵伽),便能在此获得至上的成就。愿此灵伽的信众,以心、以语、以身行诸业而奉事者……

Verse 52

सदैवानुग्रहस्तेषु कर्तव्यो वर एष मे । इति तद्व्रतमाकर्ण्य लिंगरूपोवदत्प्रभुः

“此即我的赐福:我将恒常施予他们恩慈。”闻此誓愿,主宰以灵伽之形,遂如是宣说。

Verse 53

एवमस्तु यदुक्तं ते वीरवैष्णव सूनुना । जनेतुर्विष्णुभक्ताच्च राज्ञोऽमित्रज्जितो भवान्

“如你所闻,勇武的毗湿奴信徒之子所言,愿皆成就。你将由一位敬奉毗湿奴的国王而生,并成为克敌制胜者。”

Verse 54

विष्ण्वंश एवमुत्पन्नो मम भक्तिपरांगज । वीरवीरेश्वरं नाम लिंगमेतत्त्वदाख्यया

“如是,你以毗湿奴之一分而生,噢对我至诚的孩子。此灵伽将以你的名而名之,称为‘毗罗·毗雷湿伐罗’。”

Verse 55

काश्यां दास्यत्यभीष्टानि भक्तानां चिंतितान्यहो । अस्मिंल्लिंगे सदा वीर स्थास्याम्यद्यदिनावधि

“在迦尸,它将赐予信众所愿之福——乃至他们心中所怀的志愿。并且在此灵伽中,噢英雄,自今日起我将永恒安住。”

Verse 56

दास्यामि च परां सिद्धिमाश्रितेभ्यो न संशयः । परं न महिमानं मे कलौ कश्चिच्च वेत्स्यति

我必赐予归依于我的人以至上成就——毫无疑问。然而在末法迦梨之世,几乎无人能真正知晓我圆满的伟大。

Verse 57

यस्तु वेत्स्यति भाग्येन स परां सिद्धिमाप्स्यति । अत्र जप्तं हुतं दत्तं स्तुतमर्चितमेव वा

然而凡因福德而得知(此等伟大)者,必得至上悉地。在此处,无论诵念(japa)、火供(homa)、布施(dāna)、赞颂或礼拜,皆尤为结实殊胜之果。

Verse 58

जीर्णोद्धारादिकरणमक्षय्यफलहेतुकम् । त्वं तु राज्यं परं प्राप्य सर्वभूपालदुर्लभम्

诸如修复倾圮之处(于圣域中)的事业,成为招致不坏功德之因。而你将得至上王权——即使在诸王之中亦属罕有——而昌盛。

Verse 59

भुक्त्वा भोगांश्च विपुलानंते सिद्धिमवाप्स्यसि । पुरी वाराणसी रम्या सर्वस्मिञ्जगतीतले

享受丰盛的世间福乐之后,终将获得悉地。瓦拉纳西之城,在大地之上处处皆称可爱殊胜。

Verse 60

पुण्यस्तत्रापि संभेदः सरितोरसि गंगयोः । ततोऽपि च हयग्रीवं तीर्थं चैवाति पुण्यदम्

即便在彼处,河流广阔水域中的汇合之地——恒河之汇——亦尤为具功德。然而更胜于此者,是海格利瓦圣渡(Hayagrīva Tīrtha),赐予更为无上的福德。

Verse 61

यत्र विष्णुर्हयग्रीवो भक्तचिंतितमर्पयेत् । हयग्रीवाच्च वै तीर्थाद्गजतीर्थं विशिष्यते

在那处,毗湿奴以马首神海耶格利瓦之相,赐予信众心中所愿——彼处即为圣地。且在海耶格利瓦圣渡之外,象圣渡(Gaja Tīrtha)被宣说更为殊胜。

Verse 62

यत्र वै स्नानमात्रेण गजदानफलं लभेत् । कोकावराहतीर्थं च पुण्यदं गजतीर्थतः

在那圣渡之处,仅以沐浴,便得布施大象之功德;此即科迦瓦罗诃圣渡(Kokāvarāha Tīrtha),赐予广大福德,甚至胜过著名的象圣渡(Gaja-tīrtha)。

Verse 63

कोकावराहमभ्यर्च्य तत्र नो जन्मभाग्जनः । अपि कोकावराहाच्च दिलीपेश्वरसन्निधौ

在彼处礼拜科迦瓦罗诃(Kokāvarāha)之后,此人不再受生。继而自科迦瓦罗诃处(前行),至迪利佩湿伐罗(Dilīpeśvara)之前。

Verse 64

दिलीपतीर्थं सुश्रेष्ठं सद्यः पापहरं परम् । ततः सगरतीर्थं च सगरेश समीपतः

迪利帕圣渡(Dilīpa Tīrtha)最为殊胜——至上无比,能即刻灭除罪垢。其后为萨伽罗圣渡(Sagara Tīrtha),位于萨伽雷沙(Sagareśa)近旁。

Verse 65

यत्र मज्जन्नरो मज्जेन्न भूयो दुःखसागरे । सप्तसागरतीर्थं च शुभं सगरतीर्थतः

在那处,人若沉浸(于圣水),便不再沉没于忧苦之海;彼处亦有吉祥的七海圣渡(Sapta-sāgara Tīrtha),在萨伽罗圣渡(Sagara Tīrtha)之外。

Verse 66

सप्ताब्धिस्नानजं पुण्यं यत्र स्नात्वा नरो लभेत् । महोदधीति विख्यातं तीर्थं सप्ताब्धितीर्थतः

在此处沐浴之人,得如同沐浴七海所生之功德;此圣渡处名为“摩诃大海”(Mahodadhi),超越于“七海圣渡”(Sapta-ābdhi Tīrtha)之上。

Verse 67

सकृद्यत्राप्लुतो धीमान्दहेदघमहोदधिम् । चौरतीर्थं ततः पुण्यं कपिलेश्वर सन्निधौ

在此处,智者纵然仅沐浴一次,也能焚尽罪业之大海;其后即是功德殊胜的“乔罗圣渡”(Caura Tīrtha),在“迦毗利湿伐罗”(Kapileśvara)近旁。

Verse 68

पापं सुवर्णचौर्यादि यत्र स्नात्वा क्षयं व्रजेत् । हंसतीर्थ ततोपीड्यं केदारेश्वर सन्निधौ

在此处沐浴后,如盗金等诸罪皆趋于灭尽;随后(可至)“汉萨圣渡”(Haṃsa Tīrtha),一处受敬仰之地,位于“计达雷湿伐罗”(Kedāreśvara)近旁。

Verse 69

हंस स्वरूपी यत्राहं नयामि ब्रह्मदेहिनः

在彼处,我化作汉萨(Haṃsa)之形,引领那些住于梵、知梵之具身者继续前行。

Verse 70

ततस्त्रिभुवनाख्यस्य केशवस्याति पुण्यदम् । तीर्थं यत्राप्लुता मर्त्या मर्त्यलोकं विशंति न

其后是名为“三界”(Tribhuvana)的吉祥天(Keśava)圣渡,赐予无上功德;凡人在彼处沐浴者,不再复入凡世之轮回。

Verse 71

गोव्याघ्रे श्वर तीर्थं च ततोप्यधिकमेव हि । स्वभाववैरमुत्सृज्य यत्रोभौ सिद्धिमापतुः

其后有Govyāghreśvara圣渡(Tīrtha),实更胜于前者。在那里,他们舍弃天生的仇怨,二者同得灵性圆满。

Verse 72

ततोपि हि वरं वीर तीर्थं मांधातुसंज्ञितम् । चक्रवर्तिपदं यत्र प्राप्तं तेन महीभुजा

更胜于此者,勇士啊,是名为Māndhātu的圣渡(tīrtha)。正是在此,护持大地之王得证转轮圣王(cakravartin)之位。

Verse 73

ततोपि मुचुकुंदाख्यं तीर्थं चातीव पुण्यदम् । यत्र स्नातो नरो जातु रिपुभिर्नाभिभूयते

更在其上者,是名为Mucukunda的圣渡,极能赐予功德。凡人在彼处沐浴,终不为仇敌所胜。

Verse 74

पृथु तीर्थं ततोप्युच्चैः श्रेयसां साधनं परम् । पृथ्वीश्वरं यत्र दृष्ट्वा नरः पृथ्वीपतिर्भवेत्

更高者为Pṛthu圣渡(Tīrtha),乃成就吉祥福祉之至上法门。于彼瞻礼大地之主者,或可成为一方之王。

Verse 75

ततः परशुरामस्य तीर्थं चातीव सिद्धिदम् । यत्र क्षत्रवधात्पापाज्जामदग्न्यो विमुक्तवान्

其后是Paraśurāma之圣渡,极能赐予成就(siddhi)。在此,Jāmadagnya脱离了因诛戮刹帝利(kṣatriya)而生之罪。

Verse 76

अद्यापि क्षत्रवधजं पापं तत्र प्रणश्यति । एकेन स्नानमात्रेण ज्ञानाज्ञानकृतेन च

即使在今日,于彼处,由杀害刹帝利所生之罪亦得灭除——唯以一次沐浴而已,无论出于知或不知。

Verse 77

ततोपि श्रेयसां कर्तृ तीर्थं कृष्णाग्रजस्य हि । यत्र सूतवधात्पापाद्बलदेवो विमुक्तवान्

更为殊胜者,乃黑天之兄长之圣渡处,能成就吉祥安乐;于彼处,巴拉德瓦从杀害苏多所招之罪得以解脱。

Verse 78

दिवोदासस्य वै तीर्थं तत्र राज्ञोऽतिमेधसः । तत्र स्नातो नरो जातु न ज्ञानाच्च्यवतेंऽततः

彼处亦有至智之王提婆陀娑之圣渡处;凡于彼沐浴之人,自此决不从正知而退堕。

Verse 79

ततोपि हि महातीर्थं सर्वपापप्रणाशनम् । यत्र भागीरथी साक्षान्मूर्तिरूपेण तिष्ठति

更胜者乃大圣渡处,能灭一切罪业——于彼处,跋祇罗提(恒河)亲自以有形之身显住。

Verse 80

स्नात्वा भागीरथी तीर्थे कृत्वा श्राद्धं विधानवित् । दत्त्वा दानं च पात्रेभ्यो न भूयो गर्भभाग्भवेत्

于跋祇罗提圣渡处沐浴,依仪轨行施罗陀,并向堪受者布施供养者,便不再受制于入胎再生。

Verse 81

हरपापं च भो वीर तीर्थं भागीरथीतटे । तत्र स्नात्वा क्षयं यांति महापापकुलान्यपि

在婆伽罗提(Bhāgīrathī)河岸,有一处名为“哈罗帕帕”(Harapāpa,灭罪)的圣地,勇士啊。于彼沐浴,即使背负重罪的家族,其罪业亦得消尽。

Verse 82

यो निष्पापेश्वरं लिंगं तत्र पश्यति मानवः । निष्पापो जायते वीर स तल्लिंगेक्षणात्क्षणात्

勇士啊,凡人在彼处瞻礼“尼什帕佩湿伐罗”(Niṣpāpeśvara)之林伽者,立刻成无罪之身;仅凭一眼所见,当下即得清净。

Verse 83

दशाश्वमेधतीर्थं च ततोपि प्रवरं मतम् । दशानामश्वमेधानां यत्र स्नात्वा फलं लभेत्

而“达沙阿湿伐梅陀”(Daśāśvamedha)圣地更被视为尤为殊胜;在彼沐浴,便可获得十次马祭(Aśvamedha)之功德果报。

Verse 84

ततोपि शुभदं वीर बंदीतीर्थं प्रचक्षते । यत्र स्नातो नरो मुच्येदपि संसारबंधनात्

勇士啊,人们称“班迪”(Bandī)圣地更为吉祥;凡于彼沐浴之人,甚至能从轮回世间的系缚中解脱。

Verse 85

हिरण्याक्षेण दैत्येन बहुशो देवताः पुरा । बंदीकृता निगडिता स्तुष्टुवुर्जगदंबिकाम्

往昔,诸天多次被阿修罗希兰尼亚克沙(Hiraṇyākṣa)擒获并以锁链拘缚。身陷镣铐之中,他们赞颂“世界之母”阇伽丹毗迦(Jagadambikā)。

Verse 86

ततो विशृंखलीभूतैर्वंदिता यज्जगज्जनिः । तदा प्रभृति बंदीति गीयतेद्यापि मानवैः

于是,他们脱离锁链后礼敬世界之母;自那时起,直到今日,人们仍歌咏称她为“班迪(Bandī)”,解脱束缚的救度者。

Verse 87

बंदीतीर्थस्तु तत्रैव महानिगडखंडनम् । तत्र स्नातो विमुच्येत सर्वस्मात्कर्मपाशतः

班迪圣渡(Bandī Tīrtha)就在彼处,是伟大的断镣之地;凡在其中沐浴者,皆能从一切业之罗网中彻底解脱。

Verse 88

बंदीतीर्थं महाश्रेष्ठं काशिपुर्यां विशांपते । तत्र स्नातो नरो यायाद्विमुक्तिं देव्यनुग्रहात्

人中王啊,班迪圣渡在迦尸城中至为殊胜;人在彼处沐浴,凭女神的恩慈而得解脱。

Verse 89

ततोपि हि श्रेष्ठतरं प्रयागमिति विश्रुतम् । प्रयागमाधवो यत्र सर्वयागफलप्रदः

而比那更为殊胜者,乃闻名于世的“普拉雅伽(Prayāga)”;因为那里有普拉雅伽·摩达婆(Prayāga-Mādhava),赐予一切祭祀之果。

Verse 90

क्षोणीवराहतीर्थं च ततोपि शुभदं परम् । तत्र स्नातो नरो जातु तिर्यग्योनिं न गच्छति

而大地野猪圣渡(Kṣoṇīvarāha Tīrtha)更为至善吉祥;人在彼处沐浴,永不堕入畜生之胎,受下劣之生。

Verse 91

ततः कालेश्वरं तीर्थं वीरश्रेष्ठतरं परम् । कलिकालौ न बाधेते यत्र स्नातं नरोत्तमम्

其次是神圣的迦勒湿伐罗圣渡(Kāleśvara Tīrtha),噢诸勇士之最,至为殊胜;凡于彼处沐浴者,即使劫末之迦梨与时轮亦不能加害于那至善之人。

Verse 92

अशोकतीर्थं तत्रैव ततोप्यतितरां शुभम् । यत्र स्नातो नरो जातु नापतेच्छोकसागरे

就在彼处还有无忧圣渡(Aśoka-tīrtha),更为无比吉祥;凡于彼处沐浴之人,永不坠入忧苦之海。

Verse 93

ततोति निर्मलतरं शक्रतीर्थं नृपांगज । शुक्रद्वारा न जायेत यत्र स्नातो नरोत्तमः

继而是更为清净的释迦罗圣渡(Śakra-tīrtha),噢王子;凡于彼处沐浴的至善之人,不再经由“舒克罗之门”(Śukra-dvāra)而复生。

Verse 94

ततोऽपि पुण्यदं राजन्भवानीतीर्थमुत्तमम् । यत्र स्नात्वा भवानीशौ दृष्ट्वा नैव पुनर्भवेत्

更为赐福增德者,噢大王,是至上的婆伐尼圣渡(Bhavānī-tīrtha)。于彼处沐浴,并瞻礼婆伐尼与伊湿(Īśa),便永不再受后有。

Verse 95

प्रभासतीर्थं विख्यातं ततोपि शुभदं नृणाम् । सोमेश्वरस्य पुरतस्तत्र स्नातो न गर्भभाक्

随后是著名的普罗婆娑圣渡(Prabhāsa-tīrtha),对众生更为吉庆。于苏摩湿伐罗(Someśvara)之前在彼处沐浴者,不再成为“怀胎者”(不复再生)。

Verse 96

ततो गरुडतीर्थं च संसारविषनाशनम् । गरुडेशं समभ्यर्च्य तत्र स्नात्वा न शोचति

随后到达伽楼陀圣渡(Garuḍa-tīrtha),能摧灭轮回(saṃsāra)之毒。礼敬伽楼陀主(Garuḍeśa),并于彼处沐浴者,心中不再忧悲。

Verse 97

ब्रह्मतीर्थं ततः पुण्यं वीरब्रह्मेश्वरात्पुरः । ब्रह्मविद्यामवाप्नोति तत्र स्नानेन मानवः

其后是神圣的梵天圣渡(Brahma-tīrtha),位于勇梵天自在天(Vīra-brahmeśvara)之前。人在彼处沐浴,即得梵智(brahma-vidyā),亦即对梵(Brahman)的觉知。

Verse 98

ततो वृद्धार्कतीर्थं च विधितीर्थं ततः परम् । तत्राप्लुतो नरो याति रविलोकं सुनिर्मलम्

随后是 वृद्ध日圣渡(Vṛddhārka-tīrtha),其后又有 毗提圣渡(Vidhī-tīrtha)。人在彼处沐浴者,将往生至罗毗(Ravi,太阳神)清净无垢之界。

Verse 99

ततो नृसिंहतीर्थं च महाभयनिवारणम् । कालादपि कुतस्तत्र स्नात्वा परिबिभेति च

随后是 人狮圣渡(Nṛsiṃha-tīrtha),能消除大怖畏。既于彼处沐浴,何惧之有——连迦罗(Kāla,死神/时间)尚且不惧,更何况其他?

Verse 100

ततोपि पुण्यदं नृणां तीर्थं चित्ररथेश्वरम् । यत्र स्नात्वा च दत्त्वा च चित्रगुप्तं न पश्यति

对众人而言,更能赐福增德的是 质多罗车自在天圣渡(Citrarath-eśvara-tīrtha)。在彼处沐浴并行布施(dāna)者,将不再见到质多罗笈多(Citragupta),那记录业行之神。

Verse 110

तत्राल्पमपि यच्छेद्यत्कल्पांतेप्यक्षयं हि तत् । एतेभ्योपि हि तीर्थेभ्यो लिंगकोटित्रयादपि

在那里,即使所施甚微,也真实成为无尽之福,纵至劫末亦不耗尽。诚然,此处功德胜过诸般圣渡(tīrtha),乃至胜过三俱胝(koṭi)林伽(liṅga)。

Verse 120

अप्येकं यो महारुद्रं जपेद्वीरेश सन्निधौ । जापयेद्वा भवेत्तस्य कोटिरुद्रफलं ध्रुवम्

即便有人在毗雷舍(Vīreśa)前仅诵一次摩诃鲁陀罗(Mahārudra)真言,或令他人代诵,其所得果报亦决定等同于修行俱胝鲁陀罗(Koṭi-Rudra)。

Verse 128

इति श्रुत्वा महेशानो महीप तनयोदितम् । पुनस्तीर्थानि गंगायां वक्तुं समुपचक्रमे

摩诃舍那(Maheśāna,湿婆)听罢王子所言,便又开始讲述恒河(Gaṅgā)之上的诸圣浴处(tīrtha)。