
本章开端,斯甘达向迈特拉瓦鲁那讲述一段旧事:在名为“毗罗阇”的圣座与宝石建成的三目神(Trilocana)殿宇之中,有一对鸽侣栖居,日日行绕行礼(pradakṣiṇā),并在乐器之声、阿罗提灯火与赞颂声不断的虔敬氛围里生活。一只鹰暗中观察,摸清它们的出入路径,最终封堵出口,使危机骤起。 雌鸽屡次劝迁,并陈述务实的治世之理(nīti):唯有保全性命,方能再得家眷、财富与居所;若执著于一处,反会毁坏智者。然而她又称迦尸(Kāśī)、唵迦罗林伽(Oṃkāra-liṅga)与三目神为至上圣地,使“守护圣境”与“求生自保”之间的张力更为尖锐。雄鸽起初不从,争执之后,鹰将二者一并攫走。 此时妻子献上机策:趁鹰仍在空中飞翔时咬住其足。计策奏效,她得以脱身,并使丈夫也随之坠落而获救,显示持续的努力(udyama)若与福分/时运(bhāgya)相应,即便在逆境中亦能出现意外的解脱。随后叙事转入业报与再生:鸽侣在他处转生为更高等的存在;并引出典范信徒——毗陀耶陀罗 Parimālālaya 立严誓,决意在迦尸礼拜三目神后方进食;那伽公主 Ratnāvalī 与同伴以花、乐与舞供奉三目神,终至神圣显现。章末以功德偈(phalaśruti)作结:聆听三目神之事迹,能净化罪垢深重者,并引向更高境界。
Verse 1
स्कंद उवाच । शृणुष्व मैत्रावरुणे पुराकल्पे रथंतरे । इतिहास इहासीद्यः पीठे विरजसंज्ञिते
斯坎达说道:请听,噢迈特罗婆楼那。在久远之世、名为罗檀多罗(Rathaṃtara)之劫中,此地在名为毗罗阇(Viraja)的圣座上,曾有一段古老传说。
Verse 2
त्रिलोचनस्य प्रासादे मणिमाणिक्यनिर्मिते । नानाभंगि गवाक्षाढ्ये रत्नसानाविवायते
在三目主(Trilocana)的宫殿中,以宝石与红宝所铸,遍饰多姿雅致的窗牖,宛如珠宝铺就的山坡,熠熠生辉。
Verse 3
कदाचिदपि कल्पांते द्यो लोके भ्रंशति क्षये । प्रोत्तंभनं स्तंभ इव दत्तो विश्वकृता स्वयम्
有时在一劫将尽、天界于坏灭中崩坠之际,它仍被托举支撑,宛如擎天之柱——乃世界的造作者亲自所赐。
Verse 4
मरुत्तरंगिताग्राभिः पताकाभिरितस्ततः । सन्निवारयतीवेत्थमघौघान्विशतो मुने
四面旌旗,旗端随风翻扬;噢牟尼啊,它仿佛以此阻遏欲入的罪业洪流。
Verse 5
देदीप्यमान सौवर्ण कलशेन विराजिते । पार्वणेन शशांकेन खेदादिव समाश्रिते
它光辉灿然,顶端以炽耀的金色宝瓶(kalaśa)庄严;仿佛依止于圆满的满月之中,如同劳顿之后的安慰。
Verse 6
तत्र पारावतद्वंद्वं वसेत्स्वैरं कृतालयम् । प्रातःसायं च मध्याह्ने कुर्वन्नित्यं प्रदक्षिणम्
在那里,一对鸽子自在栖居,以此为家;清晨、傍晚与正午,它们恒常行作绕行礼敬(pradakṣiṇā)。
Verse 7
उड्डीयमानं परितः पक्षवातेरितस्ततः । रजःप्रासादसंलग्नं दूरीकुर्वद्दिनेदिने
它们四面飞旋,被翼风吹拂而来回飘动;日复一日,拂去黏附在殿宇上的尘埃。
Verse 8
त्रिलोचनेति सततं नाम भक्तैरुदाहृतम् । त्रिविष्टपेति च तथा तयोः कर्णातिथी भवेत्
信众不断称诵“Trilocana”,亦复称诵“Triviṣṭapa”;那两只鸟便以这些声音为耳中之宾,恒常聆听。
Verse 9
चतुर्विधानि वाद्यानि शंभुप्रीतिकराण्यलम् । तयोः कर्णगुहां प्राप्य प्रतिशब्दं प्रतन्वते
四类乐器之声——足以令商婆(Śambhu)欢喜——传入它们的耳窍,在其中回响往复,层层应声。
Verse 10
मंगलारार्तिकज्योतिस्त्रिसंध्यं पक्षिणोस्तयोः । नेत्रांत निर्विशन्नित्यं भक्तचेष्टां प्रदर्शयेत्
在每日三次交会之时,吉祥的阿罗提(ārati)灯光不断映入那两只鸟的眼角,仿佛向它们展示信众的礼拜行持。
Verse 11
प्राणयात्रां विहायापि कदाचित्स्थिरमानसौ । नोड्डीयवांछितं यातः पश्यंतौ कौतुकं खगौ
有时那两只鸟心神安定,甚至暂且放下觅食之行;不再飞往所欲之处,只是驻留观望那奇妙的景象。
Verse 12
तत्र भक्तजनाकीर्णं प्रासादं परितो मुने । तंडुलादि चरंतौ तौ कुर्वाते च प्रदक्षिणम्
在那里,圣者啊,殿宇四周尽是信众;那两只鸟一边啄食米粒等物,一边也行普拉达克希那(pradakṣiṇā)之绕行礼敬。
Verse 13
देवदक्षिणदिग्भागे चतुःस्रोतस्विनी जलम् । तृषार्तौ धयतो विप्र स्नातौ जातु चिदंडजौ
在神祠南侧,有名为“四流”(Catuḥsrotasvinī)的水。受渴所逼,婆罗门啊,那两只鸟饮其水,有时也在彼处沐浴。
Verse 14
तयोरित्थं विचरतोस्त्रिलोचनसमीपतः । अगाद्बहुतिथः कालो द्विजयोः साधुचेष्टयोः
就这样,那两只“二次生”的鸟在三眼者特里洛恰那(Trilocana)近旁往来行止,久长岁月悄然流逝;它们恒常从事如是善行。
Verse 15
अथ देवालयस्कंधे गवाक्षांतर्गतौ च तौ । श्येनेन केनचिद्दृष्टौ क्रूरदृष्ट्या सुखस्थितौ
当那对鸽子安然栖坐在寺殿结构的窗龛之内时,一只鹰隼忽然看见了它们,以凶狠的目光冷冷注视。
Verse 16
तच्च पारावतद्वंद्वं श्येनः परिजिघृक्षुकः । अवतीर्यांबरादाशु प्रविष्टोन्यशिवालये
那鹰隼贪欲要攫取那对鸽子,便从空中迅疾俯冲而下;然而它们已先一步进入另一座湿婆神庙。
Verse 17
ततो विलोकयामास तदागमविनिर्गमौ । केन मार्गेण विशतो दुर्गमेतौ पतत्त्रिणौ
随后它窥伺它们的出入,心中思量:“这两只飞鸟究竟循何路径,竟能进入这难以抵达的坚固之所?”
Verse 18
केनाध्वना च निर्यातः क्व काले कुरुतश्च किम् । कथं युगपदे तौ मे ग्राह्यौ स्वैरं भविष्यतः
“它们又从哪条路出来?在何时、做何事?我当如何在它们自在游走之前,一举擒获两者?”
Verse 19
मध्ये दुर्गप्रविष्टौ च ममवश्याविमौ न यत् । एकदृष्टिः क्षणं तस्थौ श्येन इत्थं विचिंतयन्
“如今它们已入堡垒之中,这两只已不在我掌控。”如此思忖,鹰隼片刻伫立,目光凝成一线。
Verse 20
अहो दुर्गबलं प्राज्ञाः शंसंत्येवेति हेतुतः । दुर्बलोप्याकलयितुं सहसारिर्न शक्यते
“啊!正因如此,智者称颂堡垒之力:纵然薄弱,也难被敌人猝然猛攻所攻破。”
Verse 21
करिणां तु सहस्रेण वराश्वानां न लक्षतः । तत्कर्मसिद्धिर्नृपतेर्दुर्गेणैकेन यद्भवेत्
“对国王而言,纵使千头战象、十万良马亦难成就之事,凭一座堡垒便可圆满。”
Verse 22
दुर्गस्थो नाभिभूयेत विपक्षः केनचित्क्वचित् । स्वतंत्रं यदि दुर्गं स्यादमर्मज्ञप्रकाशितम्
“身处堡垒者,敌人无论何时何地都难以压倒——只要此堡垒自立无依,其要害不被不知机密之人泄露。”
Verse 23
इति दुर्गबलं शंसञ्श्येनो रोषारुणेक्षणः । असाध्वसौ कलरवौ वीक्ष्य यातो नभोंगणम्
于是,那鹰称颂堡垒之力,怒目赤红,狠狠瞪视那两只迦罗罗婆鸟,继而振翅飞向辽阔长空。
Verse 24
अथ पारावतीदक्षा विपक्षं प्रेक्ष्य पक्षिणम् । महाबलं दुर्गबला प्राह पारावतं पतिम्
随后,那能干的雌鸽,因依托如堡垒般的庇护而坚强;见那敌对之鸟,便对其鸽夫谈起那强大的仇敌。
Verse 25
कलरव्युवाच । प्रिय पारावत प्राज्ञ सर्वकामि सुखारव । तव दृग्विषयं प्राप्तः श्येनोय प्रबलो रिपुः
迦罗罗婆说道:“亲爱的鸽子——贤慧者,声甜如乐,能满诸愿——这只鹰,强大的仇敌,已进入你的眼前。”
Verse 26
सावज्ञं वाक्यमाकर्ण्य पारावत्याः स तत्पतिः । पारावतीमुवाचेदं का चिंतेति तव प्रिये
听到雌鸽带着一丝责意的话语,她的丈夫便对帕罗婆蒂说道:“爱妻,你心中为何忧惧不安?”
Verse 27
पारावत उवाच । कति नाम न संतीह सुभगे व्योमचारिणः । कति देवालयेष्वेषु खगा नोपविशंति हि
雄鸽说道:“有福的你啊,此处有多少翱翔天际的生灵!又有多少飞鸟,连这些神庙都不曾停栖。”
Verse 28
कति चैव न पश्यंति नौ सुखस्थाविह प्रिये । तेभ्यो यदीह भेतव्यं कुतो नौ तत्सुखं प्रिये
“亲爱的,有多少人甚至不曾注意到我们安然坐在此处!若在这里也要惧怕他们,我们的安乐又从何谈起,爱人?”
Verse 29
रमस्व त्वं मया सार्धं त्यज चिंतामिमां शुभे । अस्य श्येनवराकस्य गणनापि न मे हृदि
“吉祥的你啊,与我同欢吧,放下这份忧虑。至于那可怜的鹰,我心中甚至不把它算作一桩牵挂。”
Verse 30
इत्थं पारावतवचः श्रुत्वा पारावती ततः । मौनमालंब्य संतस्थे पत्युः पादार्पितेक्षणा
听到雄鸽如此言说,鸽妻帕罗瓦蒂便默然无语,安然静立,目光低垂,落在夫君足下。
Verse 31
हितवर्त्मोपदिश्यापि प्रिय प्रियचिकीर्षया । साध्व्या जोषं समास्थेयं कार्यं पत्युर्वचः सदा
即便已指示了有益之道,贤淑之妻——为所爱者求其所喜——亦当安然自持;夫君之言,恒当奉行。
Verse 32
अन्येद्युरप्यथायातः श्येनो पश्यत्स दंपती । अपरिच्छिन्नया दृष्ट्या यथा मृत्युर्गतायुषम्
次日,鹰又来窥伺那对夫妇;他目光不瞬,紧盯着他们,宛如死神注视寿命已尽之人。
Verse 33
अथ मंडलगत्या स प्रासादं परितो भ्रमन् । निरीक्ष्य तद्गतायातौ यातो गगनमार्गतः
随后他绕着宫殿盘旋成环,细察他们往来动静,复又循天路飞去。
Verse 34
गतेऽथ नभसि श्येने पुनः पारावतांगना । प्रोवाच प्रेयसी नाथ दृष्टो दुष्टस्त्वयाऽहितः
待那鹰已遁入长空,鸽妻又开口道:“亲爱的主君,你已看见那凶恶有害之徒了。”
Verse 35
तस्या वाक्यं समाकर्ण्य पुनः कलरवोब्रवीत् । किं करिष्यत्यसौ मुग्धे मम व्योमविहारिणः
听了她的话,那声音甜美者又说道:“天真的你啊,我在长空翱翔,他又能把我怎样?”
Verse 36
दुर्गं च स्वर्गतुल्यं मे यत्र नास्त्यरितो भयम् । अयं न ता गतीर्वेत्ति या वेदाहं नभोंगणे
“我的堡垒如同天界(Svarga)一般;在那里不惧任何仇敌。此人不知我所知的长空行迹与路径。”
Verse 37
प्रडीनोड्डीन संडीन कांडव्याडकपाटिकाः । स्रंसनी मंडलवती गतयोष्टावुदाहृताः
“Praḍīna、Uḍḍīna、Saṃḍīna、Kāṃḍa、Vyāḍaka、Pāṭikā、Sraṃsanī、Maṇḍalavatī——此八种行飞之法,已被宣说。”
Verse 38
यथैतास्विह कौशल्यं मयि पारावति प्रिये । गतिषु क्वापि कस्यापि पक्षिणो न तथांबरे
“亲爱的Pārāvatī啊,在这些飞行法门上,我这般娴熟之技,长空之中任何鸟类皆不可得。”
Verse 39
सुखेन तिष्ठ का चिंता मयि जीवति ते प्रिये । इति तद्वचनं श्रुत्वा सास्थिता मूकवत्सती
“安然住下吧;我尚在世,你有何忧虑,吾爱?”听了这话,她静立不动,宛如失语之人。
Verse 40
अपरेद्युरपि श्येनस्तत्र भारशिलातले । कियदंतरमासाद्योपविष्टोऽतिप्रहृष्टवत्
次日,那只鹞鹰也来到那里;抵达不远之处,便栖坐在一块沉重巨石的石面上,仿佛欣喜若狂。
Verse 41
आयामं तत्र संस्थित्वा तत्कुलायं विलोक्य च । पुनर्विनिर्गतः श्येनः सापि भीताब्रवीत्पुनः
他在那儿停立片刻,望向那巢穴;随后鹞鹰又飞离而去,而她也因恐惧再次开口。
Verse 42
प्रियस्थानमिदं त्याज्यं दुष्टदृष्टिविदूषितम् । असौ क्रूरोति निकटमुपविष्टोऽतिहृष्टवत्
这可爱的地方应当舍离——已被恶意的目光所玷污。那残酷者竟坐得极近,仿佛得意欢喜。
Verse 43
सावज्ञं स पुनः प्राह किं करिष्यत्यसौ प्रिये । मृगाक्षीणां स्वभावोयं प्रायशो भीरुवृत्तयः
他又轻蔑地说道:“亲爱的,那家伙能做什么?鹿眼女子的本性大抵如此——多半趋于怯懦。”
Verse 44
इतरेद्युरपि प्राप्तः स च श्येनो महाबलः । तयोरभिमुखं तत्र स्थितो याम द्वयावधि
又到次日,那力大无比的鹞鹰也来了;他在那儿正对着二者,停留了两“夜分”(yāma)的时长。
Verse 45
पुनर्विलोक्य तद्वर्त्म शीघ्रं यातो यथागतम् । गतेथ शकुनौ तस्मिन्सा बभाषे विहंगमी
他又回望那条道路,便如来时一般迅速离去。那只鸟飞走之后,雌鸟开口说道。
Verse 46
नाथ स्थानांतरं यावो मृत्युर्नौ निकटोत्र यत् । पुनर्दुष्टे प्रणष्टेस्मिन्नावां स्यावः सुखं प्रिय
亲爱的夫君,我们去别处吧,因为死亡在此逼近我们。待这凶险恶难消散灭尽之后,亲爱的人啊,我们便可再度安乐而居。
Verse 47
प्रिय यस्य सपक्षस्य गतिः सर्वत्र सिद्धिदा । स किं स्वदेशरागेण नाशं प्राप्नोति बुद्धिमान्
亲爱的,有翼者行于四方,处处皆能成就。智者岂会因恋着故土而招致毁灭吗?
Verse 48
सोपसर्गं निजं देशं त्यक्त्वा योन्यत्र न व्रजेत् । स पंगुर्नाशमाप्नोति कूलस्थित इव द्रुमः
若有人舍弃遭受灾厄的故土,却又不往他处而行,便如跛者般走向毁灭——好似立在被河水侵蚀崩塌的岸边之树。
Verse 49
प्रियोदितं निशम्येति स भवित्री दशार्दितः । सरीढं पुनरप्याह प्रिये मा भैः खगात्ततः
听见爱侣之言,雄鸽为危难所震,便起身前行;却又满怀柔情再说道:“亲爱的,莫惧那只鸟。”
Verse 50
अथापरस्मिन्नहनि स श्येनः प्रातरेव हि । तद्द्वारदेशमासाद्य सायं यावत्स्थितो बलः
次日清晨,那只鹰早早来到;抵达巢穴入口之处,强势守在那里,直至傍晚。
Verse 51
अस्ताचलस्य शिखरं याते भानौ गते खगे । कुलायाद्बाह्यमागत्योवाच पारावती पतिम्
当太阳抵达西山之巅、那只鸟(鹰)已飞去时,雌鸽从巢中出来,对丈夫开口说道。
Verse 52
नाथ निर्गमनस्यायं कालः कालोऽतिदूरतः । यावत्तावद्विनिर्याहि त्यक्त्वा मामपि सन्मते
主啊,如今正是离去之时;命运的时刻已近在咫尺。贤善之人啊,速速出去吧,纵然要把我留下。
Verse 53
त्वयि जीवति दुष्प्राप्यं न किंचिज्जगतीतले । पुनर्दाराः पुनर्मित्रं पुनर्वसु पुनर्गृहम्
只要你还活着,世间便无真正不可得之物:可再得配偶,再得友人,再得财富,甚至再得家园。
Verse 54
यद्यात्मा रक्षितः पुंसा दारैरपि धनैरपि । तदा सर्वं हरिश्चंद्रभूपेनेवेह लभ्यते
若人能护持自身性命,纵以妻室与财物为代价,那么在此世一切仍可再得,正如哈利施旃陀罗王一般。
Verse 55
अयमात्मा प्रियो बंधुरयमात्मा महद्धनम् । धमार्थकाममोक्षाणामयमात्मार्जकः परः
此自我即是至爱的亲族;此自我亦是广大之珍宝。唯有自我为至上之资粮,使人得成法(dharma)、利(artha)、欲(kāma)与解脱(mokṣa)。
Verse 56
त्रिलोक्या अपि सर्वस्याः श्रेष्ठा वाराणसी पुरी । ततोपि लिंगमोंकारं ततोप्यत्र त्रिलोचनम्
三界一切圣地之中,瓦拉纳西(Vārāṇasī)之城最为尊胜。其上更有唵迦罗灵伽(Oṃkāra-liṅga);而在此迦尸(Kāśī)之地,更高者乃三目主(Trilocana)——湿婆(Śiva)。
Verse 57
यशोहीनं तु यत्क्षेमं तत्क्षेमान्निधनं वरम् । तद्यशः प्राप्यते पुंभिर्नीतिमार्गप्रवर्तने
若福祉失却名誉,便非真福;较此“安泰”,宁死亦胜。因为人唯有发起于正行之道,方能获得那份名誉。
Verse 58
अतो नीतिपथं श्रुत्वा नाथ स्थानादितो व्रज । न गमिष्यसि चेत्प्रातस्ततो मे संस्मरिष्यसि
是故,吾主——既闻正道——当自此处启行。若你不于黎明出发,日后必将追忆我言而生悔。
Verse 59
इत्युक्तोपि स वै पत्न्या पारावत्या सुमेधया । न निर्ययौ प्रतिस्थानाद्भवित्र्या प्रतिवारितः
虽为贤慧的妻子帕拉瓦蒂(Pārāvatī)如此劝告,那位智者仍未离开居所——为命运自身所阻。
Verse 60
अथोषसि समागत्य श्येनेन बलिना तदा । तन्निर्गमाध्वा संरुद्धः किंचिद्भक्ष्यवता मुने
黎明时分,一只强健的鹰隼飞来。圣者啊,它以自身之力封住了他的出路;那鹰隼尚有些许食物,因此占了上风。
Verse 61
दिनानि कतिचित्तत्र स्थित्वा श्येनो महामतिः । पारावतमुवाचेदं धिक्त्वां पौरुषवर्जितम्
在那里停留了几日后,那胸怀宏大的鹰隼对鸽子说道:“可耻啊,你竟毫无丈夫之勇!”
Verse 62
किंवा युध्यस्व दुर्बुद्धे किंवा निर्याहि मे गिरा । क्षुधाक्षीणो मृतः पश्चान्निरयं यास्यसि ध्रुवम्
“要么战斗,愚昧之徒;要么听我之命出来。若你日后因饥饿而枯竭死去,必定堕入地狱。”
Verse 63
द्वौ भवंतावहं चैकश्चलौ जयपराजयौ । स्थानार्थं युध्यतः सत्त्वात्स्वर्गो वा दुर्गमेव वा
“你们二者,而我独自一方;胜败无常,飘忽不定。若为此处以真勇相斗,或得升天,或坠入难以逾越的可怖结局。”
Verse 64
पुरुपार्थं समालंब्य ये यतंते महाधियः । विधिरेव हि साहाय्यं कुर्यात्तत्सत्त्वचोदितः
凡大智之人,依凭人之努力而精进者;天命亦将为其助力,正是被那份勇毅所感发。
Verse 65
इत्थं स श्येनसंप्रोक्तः पत्न्याप्युत्साहितः खगः । अयुध्यत्तेन श्येनेन स्वदुर्गद्वारमाश्रितः
就这样,那鸟被鹰如此告诫,又得妻子鼓励,便退守在自己巢堡的门口,与那鹰奋力相斗。
Verse 66
क्षुधितस्तृषितः सोथ श्येनेन बलिना धृतः । चरणेन दृढेनाशु चंच्वा सापि धृता खगी
随后,那鸟饥渴交迫,被强壮的鹰擒住;而那雌鸟也立刻被制住——被坚实的爪按住,又被喙紧紧夹住。
Verse 67
तावादायोड्डयांचक्रे श्येनो व्योमनि सत्वरम् । चिंतयद्भक्षणस्थानमन्यपक्षिविवर्जितम्
鹰将他们二者夺走,便迅疾飞入长空,心中寻思一处可啖食之地,远离群鸟。
Verse 68
अथ पत्न्या कलरवः प्रोक्तस्तत्र सुमेधया । वचोवमानितं नाथ त्वया मे स्त्रीति बुद्धितः
于是,那聪慧的妻子在那里哀声呼喊:“夫君啊,你轻慢了我的话,只因心想:‘她不过是个女子。’”
Verse 70
तदा हितं ते वक्ष्यामि कुरु चैवाविचारितम् । ममैकवाक्यकरणात्स्त्रीजितो न भविप्यसि
“如今我将告诉你对你有益之事——切莫迟疑,立刻去做。只要遵从我这一句话,你便不会落得‘为女子所胜’之名。”
Verse 71
यावदास्यगतास्म्यस्य यावत्खस्थो न भूमिगः । तावदात्मविमुक्त्यैवमरेः पादं दृढं दश
“只要我仍在他的口中,只要他还悬在空中、尚未落地,为了你自身的解脱,就要紧紧咬住敌人的脚。”
Verse 72
इति पत्नीवचः श्रुत्वा तथा स कृतवान्खगः । सपीडितो दृढं पादे श्येनश्चीत्कृतवान्बहु
那鸟听了妻子的言语,便照做无误。鹰的脚被紧紧咬住,痛楚难当,连连发出尖叫。
Verse 73
तेन चीत्करणेनाथ मुक्ता सा मुखसंपुटात् । पादांगुलि श्लथत्वेन सोपि पारावतोऽपतत्
因那一声尖叫,她从喙的囚笼中得以脱出;而当脚趾松开时,那只鸽子也随之坠落。
Verse 74
विपद्यपि च न प्राज्ञैः संत्या ज्यः क्वचिदुद्यमः । क्व चंचुपुटस्तस्य क्व च तत्पादपीडनम्
即便遭逢灾厄,智者也从不舍弃精进。区区一口之食算得了什么?而紧压那(鹰)的脚,又是何等有力之举!
Verse 75
क्व च द्वयोस्तथाभूता दरेर्मोक्षणमद्भुतम् । दुर्बलेप्युद्यमवति फलं भाग्यं यतोऽर्पयेत्
而那二者在如此境地中得以脱困,何其奇妙!纵然羸弱之人,只要具足努力,命运亦会赐下其果报。
Verse 76
तस्माद्भाग्यानुसारेण फलत्येव सदोद्यमः । प्रशंसंत्युद्यमं चातो विपद्यपि मनीषिणः
因此,随各自福分而定,恒常的精进必定结成果报;故智者称赞精进,即使身处逆境亦然。
Verse 77
अथ तौ कालयोगेन विपन्नौ सरयूतटे । मुक्तिपुर्यामयोध्यायामेको विद्याधरोऽभवत्
时运推移之下,二人于萨罗瑜河岸遭逢厄难;其中一人转生为毗陀耶陀罗(Vidyādhara),生于阿踰陀(Ayodhyā)这座著名的解脱之城。
Verse 78
मृतानां यत्र जंतूनां काशीप्राप्तिर्भवेद्ध्रुवम् । मंदारदामतनयो नाम्ना परिमलालयः
在那境界中,凡已逝众生必定得至迦尸(Kāśī);其间有曼达罗达摩(Mandāradāma)之子,名为帕里玛拉阿拉耶(Parimalālaya)。
Verse 79
अनेकविद्यानिलयः कलाकौशलभाजनम् । कौमारं वय आसाद्य शिवभक्तिपरोभवत्
他汇聚诸学,为艺能之器;及至少壮之年,便全然归向湿婆的奉爱(Śiva-bhakti)。
Verse 80
नियमं चातिजग्राह विजितेंद्रियमानसः । एकपत्नीव्रतं नित्यं चरिष्यामीति निश्चितम्
他降伏诸根与心意,受持诸戒行;并坚定立誓:“我将恒常奉行一夫一妻、专一不二之誓。”
Verse 81
परयोषित्समासक्तिरायुः कीर्ति बलं सुखम् । हरेत्स्वर्ग गतिं चापि तस्मात्तां वर्जयेत्सुधीः
贪恋他人之妻,会夺去寿命、名誉、力量与安乐,甚至毁坏通往天界之路;故智者当远离此事。
Verse 82
अपरं चापि नियमं स शुचिष्मान्समाददे । गतजन्मांतराभ्यासात्त्रिलोचनसमाश्रयात्
那位心地清净者又受持另一种戒行:因往昔生中所修之习气,亦因他归依三眼者特罗洛遮那(湿婆)。
Verse 83
समस्तपुण्यनिलयं समस्तार्थप्रकाशकम् । समस्तकामजनकं परानंदैककारणम्
他(湿婆/三眼者)是诸福德之所依,照明一切正义之旨,赐予一切正当之愿,且为至上安乐的唯一因。
Verse 84
यावच्छरीरमरुजं यावन्नेंद्रियविप्लवः । तावत्त्रिलोचनं काश्यामनर्च्याश्नामि नाण्वपि
只要我身无疾病、诸根不乱,我便不先在迦尸礼拜三眼者特罗洛遮那,连一口食也不入口。
Verse 85
इत्थं मांदारदामिः स नित्यं परिमलालयः । काश्यां त्रिविष्टपं द्रष्टुं समागच्छेत्प्रयत्नवान्
如是,曼达拉达摩之子帕利玛拉阿拉雅恒常精进,来到迦尸,欲在此凭其圣德而得见“特里维什塔帕”(天界)。
Verse 86
पारावत्यपि सा जाता रत्नदीपस्य मंदिरे । नागराजस्य पाताले नाम्ना रत्नावलीति च
她也在那里出生为帕拉瓦蒂(Pārāvatī),在那伽王罗特那迪帕(Ratnadīpa)的地下界帕塔拉宫中,名为宝鬘(Ratnāvalī)。
Verse 87
समस्तनागकन्यानां रूपशीलकलागुणैः । एकैव रत्नभूतासीद्रत्नदीपोरगात्मजा
在一切那伽少女之中,就容貌、品行、技艺与德行而言,唯有一人如宝珠般光耀——宝鬘(Ratnāvalī),蛇王罗特那迪帕(Ratnadīpa)之女。
Verse 88
तस्या सखीद्वयं चासीदेका नाम्ना प्रभावती । कलावती तथान्या च नित्यं तदनुगे उभे
她有两位侍伴:一名普拉婆伐蒂(Prabhāvatī),另一名迦罗伐蒂(Kalāvatī);二人恒常随侍左右。
Verse 89
स्वदेहादनपायिन्यौ छायाकांती यथा तया । ते द्वे सख्यावभूतांहि रत्नावल्या घटोद्भव
她们从不离开她的身,如同影与光辉一般;那两位遂成宝鬘(Ratnāvalī)的至亲侍友,噫,壶生者(阿伽斯提耶,Agastya)。
Verse 90
सा तु बाल्ये व्यतिक्रांते किंचिदुद्रिन्नयौवना । शिवभक्तं स्वपितरं दृष्ट्वा नियममग्रहीत्
当她童年已过、青春微绽之时,见父亲虔奉湿婆(Śiva),便受持清净的戒律誓愿。
Verse 91
पितस्त्रिलोचनं काश्यामर्चयित्वा दिनेदिने । आभ्यां सखीभ्यां सहिता मौनं त्यक्ष्यामि नान्यथा
“父亲,我将在迦尸日日礼拜三目主特里洛迦那,与这两位女伴同往,并守持默誓(mauna),绝不更改。”
Verse 92
एवं नागकुमारी सा सखीद्वयसमन्विता । त्रिलोचनं समभ्यर्च्य गृहानहरहोव्रजेत्
于是那位那伽公主偕同两位女伴,恭敬礼拜三目主特里洛迦那,随后日日归家。
Verse 93
दिनेदिने सा प्रत्यग्रैः कुसुमैरिष्टगंधिभिः । सुविचित्राणि माल्यानि परिगुंफ्यार्चयेद्विभुम्
她日日以芬芳悦意的新鲜花朵,编织绚丽多姿的花鬘,供养礼拜那位至尊之主。
Verse 94
तिस्रोपि गीतं गायंति लसद्गांधारसुंदरम् । रासमंडलभेदेन लास्यं तिस्रोपि कुर्वते
三人同唱妙歌,音色辉映甘达罗之调;又依罗娑圆舞之阵变换队形,三人同作柔美舞姿。
Verse 95
वीणावेणुमृदंगांश्च लयतालविचक्षणाः । वादयंति मुदा युक्तास्तिस्रोपीश्वरसन्निधौ
三人精通节奏与拍子,心怀欢喜,在主前奏响维那琴、笛与姆利檀伽鼓。
Verse 96
यावदात्मनि वै क्षेमं तावत्क्षेमं जगत्त्रये । सोपि क्षेमः सुमतिना यशसा सह वांछ्यते
自身之中有多少安泰,三界之中亦有多少安泰;而此安泰与善慧相应,人亦与清净的美名一同求取。
Verse 97
एकदा माधवे मासि तृतीयायामुपोषिताः । रात्रौ जागरणं कृत्वा नृत्यगीतकथादिभिः
有一次在摩陀婆月(毗舍佉月),他们于第三日(tithi)持斋;夜间又守夜不眠,以舞、歌与圣传讲述充满时辰。
Verse 98
प्रातश्चतुर्थीं स्नात्वाथ तीर्थं पैलिपिले शुभे । त्रिलोचनं समर्च्याथ प्रसुप्ता रंगमंडपे
随后在第四日黎明,他们于吉祥的派利毗罗圣渡(Pailipila Tīrtha)沐浴;如法礼敬三目主(Trilocana)之后,便在演艺亭台上沉沉睡去。
Verse 99
सुप्तासु तासु बालासु त्रिनेत्रः शशिभूषणः । शुद्धकर्पूरगौरांगो जटामुकुटमंडलः
当那些少女沉睡之时,三眼之主、以月为饰者显现;其身洁白辉耀如纯净樟脑,纠结发髻环绕如冠轮。
Verse 100
तमालनीलसुग्रीवः स्फुरत्फणिविभूषणः । वामार्धविलसच्छक्तिर्नागयज्ञोपवीतवान्
其颈如多摩罗树般深蓝;身佩闪耀之蛇为饰;左半身有圣力(Śakti)嬉游辉映,并以蛇为圣线(yajñopavīta)。
Verse 110
जय श्मशाननिलय जय वाराणसीप्रिय । जयानंदवनाध्यासि प्राणिनिर्वाणदायक
胜利归于你,居于火葬场者!胜利归于你,瓦拉纳西之所爱!胜利归于你,安难陀林(Ānandavana)之住者——赐予众生解脱者!
Verse 120
जन्मांतरेपि मे सेवा भवतीभिश्च तेन च । विहिता तेन वो जन्म निर्मलं भक्तिभावितम्
即使在另一世,你们也曾事奉于我;因此,你们今生被安排为清净之生,充满虔敬之心。
Verse 130
उपरिष्टादधस्ताच्च कृता बह्व्यः प्रदक्षिणाः । व्योम्ना संचरमाणाभ्यां संचरद्भ्यां ममाजिरे
从上方与下方,行了许多次右绕礼(pradakṣiṇā);他们穿行于虚空之中,在我的庭院里不断环绕。
Verse 140
अप्राप्तयौवनः सोथ समिदाहरणाय वै । गतो विधिवशाद्दष्टो दंदशूकेन कानने
随后,他尚未及青春,便去采集柴薪;然而因业命之力,他在林中被蛇咬伤。
Verse 150
जातिस्वभावचापल्यात्क्रीडंत्यौ च प्रदक्षिणम् । चक्रतुर्बहुकृत्वश्च लिंगं ददृशतुर्बहु
由于其族类天性中的嬉戏轻躁,那二者一边玩耍一边反复行右绕礼(pradakṣiṇā),并屡屡瞻仰那神圣的林伽(Liṅga)。
Verse 160
एकदा माधवे मासि महायात्रा समागता । विद्याधरास्तथा नागा मिलिताः सपरिच्छदाः
有一次,在摩陀婆月(即毗舍佉月),盛大的朝圣庆典到来;持明众与那伽众也都携带随从与仪仗,齐聚一处。
Verse 169
त्रिलोचनकथामेतां श्रुत्वा पापान्वितोप्यहो । विपाप्मा जायते मर्त्यो लभते च परां गतिम्
即便是罪业缠身的凡人——听闻这段关于三目主(Trilocana)的神圣事迹——也能顿离罪垢,得至无上归趣。