
本章以教诲式对话展开:湿婆沙尔摩(Śivaśarmā)询问那些容貌绝伦、佩饰华美的天女。众伽那说明她们如同阿普萨拉(apsaras),精通音乐、舞蹈、雅言与诸艺,并阐释得居阿普萨罗界(Apsaroloka)的因缘:依仪轨修持与守戒之功德,亦有因命运所致而偶失梵行者,以及以欲愿为本之誓行终得天界享乐者。随后经文列举多位阿普萨拉之名,描绘其天饰庄严,并提出与太阳行度转换(saṅkramaṇa)相关的修福之法、施与受用之布施(bhogadāna),以及以真言摄持的供献。 后半部分提升对苏利耶(Sūrya,日神)与尤以伽雅特丽真言(Gayatrī mantra)的神学赞颂:宣示诸知识体系之次第,终归伽雅特丽为诸真言之最上。三时修持(tri-kāla)与按时行沙暮礼(sandhyā)被强调为不可违越,合乎“时法”(kāla-śāstra)之理。并详述仪轨:以洁净铜器盛水,配花、库沙/杜尔瓦草(kuśa/dūrvā)、不碎米(akṣata),于日出日落献阿尔伽(arghya),并以真言致敬。经文又罗列太阳众名(nāma-stuti),许诺现世安康与富足,并于命终升至苏利耶界(Sūryaloka);末以闻听功德(śravaṇa-phala)及阿伽斯提耶(Agastya)对其伦理与净化价值的印可作结。
Verse 1
शिवशर्मोवाच । का इमा रूपलावण्य सौभाग्यनिधयः स्त्रियः । दिव्यालंकारधारिण्यो दिव्यभोगसमन्विताः
湿婆舍摩说道:“这些女子是谁——容貌与丽质、魅力与福瑞之宝——佩戴天界庄严,具足诸般天上享乐?”
Verse 2
गणावूचतुः । एता वारविलासिन्यो यज्ञभाजां प्रियंकराः । गीतज्ञा नृत्यकुशला वाद्यविद्या विचक्षणाः
两位侍从(伽那)说道:“她们是城中的艺伎,令得享祭祀功德者欢悦;通晓歌唱,善于舞蹈,并精于器乐之艺。”
Verse 3
कामकेलिकलाभिज्ञा द्यूतविद्याविशारदाः । रसज्ञा भाववेदिन्यश्चतुराश्चोचितोक्तिषु
她们通达情爱嬉戏之艺,精于博弈之学,善知“味”(rasa)之妙,体察诸情,且能以得体而雅致之言应对。
Verse 4
नानादेश विशेषज्ञा नानाभाषा सुकोविदाः । संकेतोदंतनिपुणा नैकास्वैरचरा मुदा
她们通晓诸国异俗,精于多种语言,善解隐秘的符号与暗示,并且欢喜自在,以多般方式自由往来。
Verse 5
लीलानर्मसुसाभिज्ञाः सुप्रलापेषु पंडिताः । यूनां मनांसि सततं स्वैर्हावै रमयंत्यमूः
她们善于嬉戏之艺与情爱之戏谑,又精通雅致辞令;这些阿普萨罗常以自身婀娜的姿态与含情的媚态,恒常悦乐青年之心。
Verse 6
निर्मथ्यमानात्क्षीरोदात्पूर्वमप्सरसस्त्वमूः । निःसृतास्त्रिजगज्जेतुर्मोहनास्त्रमनोभुवः
当乳海初次被搅拌之时,这些阿普萨罗便从中涌现;她们乃意生神摩诃布(迦摩)迷惑众生之幻惑之器,为征服三界者之迷人武器。
Verse 7
उर्वशी मेनका रंभा चंद्रलेखा तिलोत्तमा । वपुष्मतीकांतिमती लीलावत्युत्पलावती
乌尔瓦希、梅那迦、兰婆、旃陀罗勒卡、提洛多摩;以及瓦普什玛蒂、坎提玛蒂、莉拉瓦蒂、乌钵罗瓦蒂——(皆为阿普萨罗之名)。
Verse 8
अलंबुषा गुणवती स्थूलकेशी कलावती । कलानिधिर्गुणनिधिः कर्पूरतिलकोर्वरा
阿蓝布莎、古那瓦蒂、斯图拉凯希、卡拉瓦蒂;卡拉尼地、古那尼地、迦尔普拉提拉迦、奥尔瓦罗——(这些亦皆为阿普萨罗)。
Verse 9
अनंगलतिका चापि तथा मदनमोहिनी । चकोराक्षी चंद्रकला तथा मुनिमनोहरा
还有阿难伽拉提迦(Anaṅgalatikā)与迷醉爱神者(Madanamohinī);鹿眼的查科拉克希(Cakorākṣī)、月华的旃陀罗迦罗(Candrakalā),以及悦圣者心的牟尼摩诺诃罗(Munimanoharā)——皆为天女阿普萨拉之一。
Verse 10
ग्रावद्रावा तपोद्वेष्टी चारुनासा सुकर्णिका । दारुसंजीविनी सुश्रीः क्रतुशुल्का शुभानना
格罗瓦德拉瓦(Grāvadrāvā)、厌苦修者(Tapodveṣṭī)、美鼻者(Cārunāsā)、善耳者(Sukarṇikā);木中复生者(Dārusaṃjīvinī)、吉祥丽者(Suśrī)、祭仪之酬(Kratuśulkā)与善颜者(Śubhānanā)——亦皆为阿普萨拉天女。
Verse 11
तपःशुल्का तीर्थशुल्का दानशुल्का हिमावती । पंचाश्वमेधिका चैव राजसूयार्थिनी तथा
苦修之酬(Tapaḥśulkā)、圣地之酬(Tīrthaśulkā)、布施之酬(Dānaśulkā)、雪山之女(Himāvatī);又有五马祭者(Paṃcāśvamedhikā)与求王祭者(Rājasūyārthinī)——皆为阿普萨拉天女。
Verse 12
अष्टाग्निहोमिका तद्वद्वाजपेयशतोद्भवा । इत्याद्यप्सरसां श्रेष्ठं सहस्रं षष्टिसंमितम्
八火供者(Aṣṭāgnihomikā),以及由百次婆阇佩耶祭而生者(Vājapeyaśatodbhavā)——诸如此类。诸天女阿普萨拉之最胜者,总数为一千零六十。
Verse 13
एतस्मिन्नप्सरोलोके वसंत्यन्या अपिस्त्रियः । सदा स्खलितलावण्याः सदास्खलितयौवनाः
在这阿普萨拉的境界中,还居住着许多别的天女——恒常流溢着丽色,恒常充盈着青春。
Verse 14
दिव्यांबरा दिव्यमाल्या दिव्यगंधानुलेपनाः । दिव्यभोगैः सुसंपन्नाः स्वेच्छाविधृतविग्रहाः
她们身披天衣,佩戴天界花鬘,涂抹天香妙膏;福具圆满,享受诸天妙乐,随心所欲而现种种形相。
Verse 15
कृत्वा मासोपवासानि स्खलंति ब्रह्मचर्यतः । सकृदेव द्विकृत्वो वा त्रिःकृत्वो दैवयोगतः
纵然曾行一月长斋,仍可能从梵行(清净禁欲)之誓中失足:或一次、或两次、乃至三次,皆由天命(daiva)之力所致。
Verse 16
ता इमा दिव्यभोगिन्यो रूपलावण्यसंपदः । निवसंत्यप्सरोलोके सर्वकामसमन्विताः
这些女子享受天界妙乐,具足容色与娴丽;她们居于阿普萨罗(天女)之界,圆满具备一切所愿之乐。
Verse 17
कृत्वा व्रतानि सांगानि कामिकानि विधानतः । भवंति स्वैरचारिण्यो देवभोग्या इहागताः
她们依仪轨如法修行能满欲之诸誓,并具足一切支分;于是于此成为自在行止之女,堪受诸天妙乐之享。
Verse 18
पतिव्रतधृता नार्यो बलेन बलिना धृताः । भर्तबुद्ध्यारमंतेतं कदाचित्ता इमा द्विज
这些女子坚守“夫誓”(pativratā),却被强大的力量所拘持;噢,二次生者(dvija),她们有时以夫之心认他为夫,而于他处得欢喜。
Verse 19
भर्तरि प्रोषिते याश्च ब्रह्मचर्यव्रताः सदा । विप्लवं ते सकृद्दैवात्ता एता वामलोचनाः
那些丈夫远行、恒守梵行清净誓戒的女子,因宿命之力一时失足;于是便成了这些明眸善目的妇人。
Verse 20
कुसुमानि सुगंधीनि सुवासं चंदनं तथा । सुगौरं चापि कर्पूरं सुसूक्ष्माण्यंबराणि च
芬芳之花、上妙香料与檀香;又有皎白如雪的龙脑香,并极其轻柔细密的衣裳——(皆当陈设供奉)。
Verse 21
पर्णानि ऋजुताराणि जीर्णानि कठिनानि च । साग्राणि स्वर्णवर्णानि स्थूलनीलशिराणि च
叶片——挺直而坚实,陈旧而坚硬,尖端分明,色泽如金,并具粗厚的青蓝叶脉——(如是拣择)。
Verse 22
सुवासोपस्कराढ्यानि नागवल्ल्या द्विजोत्तम । शय्याविचित्राभरणा रतिशालोचितानि च
具足华美衣服与珍贵器用,并备槟榔藤,噢,最胜二生者;又以绮丽床榻与饰物庄严,及一切适合欢悦之室的用品。
Verse 23
बहुकौतुकवस्तूनि समर्च्यद्विजदंपती । भोगदानमिदं काम्यं प्रतिसंक्रमणं रवेः
既以诸多悦意之物恭敬供养婆罗门夫妇之后,当于罗毗(太阳)之萨姆克拉玛那——日轮移宫之时——行此所愿“享乐之施”。
Verse 24
किंवा प्रतिव्यतीपातमेकसंवत्सरावधि । कोदादिति च मंत्रेण या दद्याद्वरवर्णिनी
或者,在整整一年之内,于每一次“prativyatīpāta”之时,那位端庄美丽的女子以“kodāditi”之真言行布施,便得所说之功德。
Verse 25
कामरूपधरो देवः प्रीयतामिति वादिनी । सा श्रेष्ठाऽप्सरसां मध्ये वसेत्कल्पमिहांगना
她说道:“愿那随意示现诸形之神欢喜。”于是那女子——诸阿普萨拉之中最胜者——在彼处住满一整劫。
Verse 26
कन्यारूपधराकाचिद्याभुक्ता केनचित्क्वचित् । देवरूपेण तं कालमारभ्य ब्रह्मचारिणी
有一位女子化作处女之形,曾在某处被某人享用;自那时起——因其发生于神圣之形中——她便以梵行女(brahmacāriṇī)之戒而住。
Verse 27
तदेव वृत्तं ध्यायंती निधनं याति कालतः । दिव्यरूपधरा सेह जायते दिव्य भोगभाक्
她不断观想那一往事,时至命终;其后具足天妙之形,于此再生,得享诸天之乐。
Verse 28
निदानमप्सरोलोकस्येतिशृण्वन्द्विजाग्रणीः । सौरं लोकमथ प्राप्य क्षणेन स विमानगः
闻此得至阿普萨拉之界的因由,噢,诸二生中最胜者;他乘天车(vimāna)而行,顷刻之间便抵达太阳之界。
Verse 29
यथा कदंबकुसुमं किंजल्कैः सर्वतोवृतम् । देदीप्यमानं हि तथा समंताद्भानुभानुभिः
正如迦檀婆花被四周花丝所环绕而熠熠生辉;同样地,它也在四方以一重又一重的光芒之射线炽然照耀。
Verse 30
दूराद्रविं स विज्ञाय धृततामरसद्वयम् । नवभिर्योजनानां च सहस्रैः संमितेन ह
他从远处认出了太阳,手持一对莲花;而太阳的圆轮,据说量有九千由旬。
Verse 31
विचित्रेणैकचक्रेण सप्तसप्तियुतेन च । अनूरुणाधिष्ठितेन पुरतोधृतरश्मिना
乘着奇妙的独轮战车,驾以七匹骏马;以阿奴鲁那为御者,光线向前舒展——
Verse 32
अप्सरोमुनिगंधर्व सर्पग्रामणि नैरृतैः । स्यंदनेनातिजविना प्रणनाम कृतांजलिः
在天女、牟尼圣者、乾闼婆、龙蛇之主与奈利哩多众的环绕中,他乘着极其迅疾的车,合掌顶礼。
Verse 33
तस्य प्रणामंदेवोपि भ्रूभंगेनानुमन्य च । अतिदूरं नभोवर्त्म व्यतिचक्राम सक्षणात्
连那位天神也仅以眉间微动便认可了他的礼敬;刹那之间,他便越过了遥远无垠的天路。
Verse 34
प्रक्रांते द्युमणौ दूरं शिवशर्मातिशर्मवान् । प्रोवाच भगवद्भक्तौ कथं लभ्यं रवेः पदम्
当那位光辉者已远远走在前方时,湿婆沙尔曼满怀大喜问道:“凭对主的奉爱(bhakti),如何得达太阳之位?”
Verse 35
एतदिच्छाम्यहं श्रोतुमाचक्षाथां ममाग्रतः । सतां साप्तपदी मैत्री तन्मे मैत्र्या प्रणोदितौ
“我愿听闻此事——请在我面前直说。贤善之人以‘七步’结为友契;因此,因友谊所催,请为我宣说。”
Verse 36
गणावूचतुः । शृणु द्विज महाप्राज्ञ त्वय्यकथ्यं न किंचन । सत्संगादेव साधूनां सत्कथा संप्रवर्तते
众伽那说道:“听着,睿智的婆罗门啊,对你没有不可说之事。诚然,唯由圣者相伴,圣妙之谈方得兴起并流传。”
Verse 37
नियंता सर्वभूतानां य एकःकारणं परम् । अनामा गोत्ररहितो रूपादि परिवर्जितः
“祂是一切众生的统御者,亦是唯一至上的根本因——无名、无族姓,超越形相及诸般属性。”
Verse 38
आविर्भाव तिरोभावौ यद्भूनर्तनवर्तिनौ । स एव वक्ति सततं सर्वात्मा वेदपूरुषः
“在祂之中,显现与隐没于众生之舞中运作;唯祂不断宣说,作为一切的内在自我——吠陀之普鲁沙(Veda-Puruṣa)。”
Verse 39
योसावादित्यपुरुषः सोसावहमिति स्फुटम् । अंधतमः प्रविशंति ये चैवान्यमुपासते
太阳中的那位神圣之人(普鲁沙)——祂确实就是“我”,此义分明。凡礼拜他物者,必入令人失明的黑暗。
Verse 40
निश्चितार्थां श्रुतिमिमां ब्राह्मणासो द्विजोत्तम । तमेकमुपतिष्ठंते निश्चित्येति पुनःपुनः
噢,最胜的二次生者!婆罗门既已确证此《闻》(śruti)的定旨,便一再辨明之后,只奉事那唯一者。
Verse 41
उपलभ्य च सावित्रीं नोपतिष्ठेत यः पराम् । काले त्रिकालं सप्ताहात्स पतेन्नात्र संशयः
既已得至上萨维特丽(伽雅特丽),若不于正时奉修其礼拜——一日三时——则七日之内必堕落;对此无疑。
Verse 42
तावत्प्रातर्जपंस्तिष्ठेद्यावदर्धोदयो रवेः । आसनस्थो जपेन्मौनी प्रत्यगातारकोदयात्
清晨应住于持诵,直至日轮半升。端坐于适当座位,守默而诵,直至晨星升起之时已过。
Verse 43
सादित्यां मध्यमां संध्यां जपेदादित्यसंमुखः । काललोपो न कर्तव्यस्ततः कालं प्रतीक्षयेत्
于正午的三昧耶(sandhyā)时,应面向太阳而诵。不可失却其时;故当等待正时而行之。
Verse 44
काले फलंत्योषधयः काले पुष्पंति पादपाः । वर्षंति तोयदाः काले तस्मात्कालं न लंघयेत्
药草在其时结果,树木在其时开花,云雨在其时倾注;因此不可逾越所定之时。
Verse 45
मंदेहदेहनाशार्थमुदयास्तमये रविः । समीहते द्विजोत्सृष्टं मंत्रतोयांजलित्रयम्
日出与日落之际,太阳奋力摧毁曼德哈诸魔之身;因此他渴望由二次生者以真言净化而奉献的三掬净水。
Verse 46
गायत्रीमंत्रतोयाढ्यं दत्तं येनांजलित्रयम् । काले सवित्रे किं न स्यात्तेन दत्तं जगत्त्रयम्
凡于正时以伽耶特丽真言充盈之三掬水供奉萨维特利者——他还有何不可成就?宛如已将三界尽作布施。
Verse 47
किं किं न सविता सूते काले सम्यगुपासितः । आयुरारोग्यमैश्वर्यं वसूनि सपशूनि च
若于其时如法敬拜萨维特利,他有何不赐?他赐长寿、安康、富贵、财宝,并赐牛畜等资生之物。
Verse 48
मित्रपुत्र कलत्राणि क्षेत्राणि विविधानि च । भोगानष्टविधांश्चापि स्वर्गं चाप्यपवर्गकम्
他赐朋友、儿子与配偶,赐种种田地;亦赐八种受用之乐——并赐天界之福,乃至究竟解脱(莫克沙)。
Verse 49
अष्टादश सुविद्यासु मीमांसातिगरीयसी । ततोपि तर्कशास्त्राणि पुराणं तेभ्य एव च
在十八种高贵学科中,弥曼萨(Mīmāṃsā)最为深重;更高的是诸理则论典,而高于它们的则是《往世书》(Purāṇa)。
Verse 50
ततोपि धर्मशास्त्राणि तेभ्यो गुर्वी श्रुतिर्द्विज । ततोप्युपनिषच्छ्रेष्ठा गायत्री च ततोधिका
更高于它们的是《法论》(Dharmaśāstra);比其更为庄重者,哦二次生者,是《闻传》(Śruti)。更高的是《奥义书》(Upaniṣad),而凌驾其上的则是伽雅特丽(Gāyatrī)。
Verse 51
दुर्लभा सर्वमंत्रेषु गायत्री प्रणवान्विता । न गायत्र्याधिकं किंचित्त्रयीषु परिगीयते
在一切真言之中,与圣音“唵”(Praṇava)相连的伽雅特丽(Gāyatrī)实为稀有。于三部吠陀中,绝无任何被歌颂为胜过伽雅特丽者。
Verse 52
न गायत्री समो मंत्रो न काशी सदृशी पुरी । न विश्वेश समं लिंगं सत्यंसत्यं पुनःपुनः
无有真言能与伽雅特丽(Gāyatrī)等同;无有城邑可比迦尸(Kāśī);无有林伽能与毗湿韦沙(Viśveśa)相等——此乃真实,真实,反复为真。
Verse 53
गायत्री वेदजननी गायत्री ब्राह्मणप्रसूः । गातारं त्रायते यस्माद्गायत्री तेन गीयते
伽雅特丽(Gāyatrī)是诸吠陀之母;伽雅特丽孕育婆罗门。因她护佑(trāyate)诵唱者(gātā),故名为“伽雅特丽”。
Verse 54
वाच्यवाचकसंबंधो गायत्र्याः सवितुर्द्वयोः । वाच्योसौ सविता साक्षाद्गायत्रीवाचिकापरा
在伽耶特丽(Gāyatrī)与萨维特利(Savitṛ)之间,存在“所指”与“能指”的关系。萨维特利本身即是直接的所指;伽耶特丽则是至上的能指圣言。
Verse 55
प्रभावेणैव गायत्र्याः क्षत्रियः कौशिको वशी । राजर्षित्वं परित्यज्य ब्रह्मर्षिपदमीयिवान्
凭借伽耶特丽的纯然威力,自制的考希迦(Kauśika)虽为刹帝利,却舍弃王仙(rājārṣi)之位,证得梵仙(Brahmarṣi)之阶。
Verse 56
सामर्थ्यं प्राप चात्युच्चैरन्यद्भुवनसर्जने । किं किं न दद्याद्गायत्री सम्यगेवमुपासिता
他获得了极其崇高的能力,甚至能创造别的世界。若以如法之道如此礼敬,伽耶特丽又有何不赐与呢?
Verse 57
न ब्राह्मणो वेदपाठान्न शास्त्रपठनादपि । देव्यास्त्रिकालमभ्यासाद्बाह्मणः स्याद्धि नान्यथा
人并非仅凭诵读吠陀,亦非仅凭研习论典(śāstra),便成为真正的婆罗门。唯有对女神伽耶特丽三时修持,方成婆罗门;除此别无他途。
Verse 58
गायत्र्येव परं विष्णुर्गायत्र्येव परःशिवः । गायत्र्येव परोब्रह्मा गायत्र्येव त्रयी ततः
唯有伽耶特丽是至上毗湿奴;唯有伽耶特丽是至上湿婆。唯有伽耶特丽是至上梵天;因此,伽耶特丽即是三神一体,亦即三部吠陀之本身。
Verse 59
देवत्रयं स भगवानंशुमाली दिवाकरः । सर्वेषां महसां राशिः कालकालप्रवर्तकः
那吉祥的太阳——以光线为花鬘、开显白昼者——本身即是三神之合一。他是一切光辉的宝藏,也是时间与其轮回的调御者。
Verse 60
अर्कमुद्दिश्य सततमस्मल्लोकनिवासिनः । श्रुतिं ह्युदाहरंतीमां सारासारविवेकिनः
以太阳为所缘,能辨精要与非精要的明达之人,在我们世间的人群中不断引述这一句吠陀圣言。
Verse 61
एषो ह देवः प्रदिशोनु सर्वाः पूर्वो ह जातः स उ गर्भे अंतः । स एव जातः स जनिष्यमाणः प्रत्यङ्जानास्तिष्ठति सर्वतोमुखः
此尊天神遍满一切方所;他为最初所生,亦在胎藏之内。他独自出生,也正是将要出生者;内向而立,四面皆具其面。
Verse 62
सदैवमुपतिष्ठेरन्सौरसूक्तैरतंद्रिताः । ये नमंत्यत्र ते विप्रा विप्रा भास्करसन्निभाः
愿他们恒常无怠,以《娑罗苏克塔》(Saurasūkta)奉事(太阳)。凡在此礼拜的婆罗门,皆成如婆伽罗(Bhāskara,太阳)般光耀的婆罗门。
Verse 63
पुष्यार्केप्यथ हस्तार्के मूलार्केप्यथवा द्विज । उत्तरार्केऽथ यत्कार्यं तत्फलत्येव नान्यथा
噢,二次生者:无论是“普施耶—太阳”之日,或“哈斯塔—太阳”之日,或“牟罗—太阳”之日,或“乌多罗—太阳”之日——彼时所行一切仪轨必定结果,绝无他途。
Verse 64
पौषे मास्यर्कदिवसे यः स्नात्वा भास्करोदये । दानहोमंजपंकुर्यादर्चामर्कस्य सुव्रत
善守誓戒者啊:在Pauṣa月,于太阳的圣日,黎明日神(Bhāskara)升起时沐浴;凡行布施、修火供(homa)、持诵(japa),并礼敬太阳者,皆得所许之功德。
Verse 65
श्रद्धावानेकभक्तश्च कामक्रोधविवर्जितः । सहाप्सरोभिर्द्युतिमान्स वसेदत्र भोगवान्
具信心者,专一奉敬者,远离欲与嗔者——他在此安住,光辉灿然,偕同天女(apsarā)享受天界之乐。
Verse 66
अयने विषुवे चापि षडशीतिमुखेषु वा । विष्णुपद्यां च ये दद्युर्महादानानि सुव्रताः
善持戒誓者,于二至(solstice)、二分(equinox)、八十六圣会之初,以及在毗湿奴足日(Viṣṇupadī)施行大布施者,皆被称赞为守持高贵誓愿之人。
Verse 67
तिलाञ्जुह्वति साज्यांश्च ब्राह्मणान्भोजयंति च । पितॄनुद्दिश्य च श्राद्धं ये कुर्वंति विपश्चितः
智者以酥油和芝麻投供于火,供养婆罗门,并为祖先作施食祭(śrāddha);此等行持被奉为功德充盈之正法。
Verse 68
महापूजां च ये कुर्युर्महामंत्राञ्जपंति च । तेऽत्र वैकर्तने लोके विकर्तनसमप्रभा
凡修广大供养(pūjā)、持诵大真言(mahāmantra)者,在此Vaikartana的光明世界中,光辉与Vikartana——太阳——等同。
Verse 69
न दरिद्रा न च दुःखार्ता न व्याधि परिपीडिताः । संक्रमेष्वर्कभक्ता ये न विरूपा न दुर्भगाः
在转节(saṅkrānti)之时敬奉阿尔迦(太阳神)者,不致贫乏,不为忧苦所困,不受疾病折磨;亦不丑陋,亦不遭厄运。
Verse 70
संक्रमेषु न यैर्दत्तं न स्नातं तीर्थवारिषु । विशेषहोमो न कृतः कपिलाज्याप्लुतैस्तिलैः
凡在转节(saṅkrānti)之时不行布施、不入圣地(tīrtha)之水沐浴,亦不作殊胜火供(homa),以浸于黄褐母牛酥油之芝麻为供者——
Verse 71
ते दृश्यंते प्रतिद्वारं विहीन नयनाननाः । देहिदेहीति जल्पंतो देहिनः सपटच्चराः
他们在家家门前可见,眼目与面容残缺,喃喃道:“给吧,给吧!”——披着破布碎衣、四处游走的有身众生。
Verse 72
समं कृष्णलकेनापि यो दद्यात्कांचनं कृती । सूर्यग्रहे कुरुक्षेत्रे स वसेदत्र पुण्यभाक्
纵使仅如一粒黑籽之量,能行者若在俱卢之野(Kurukṣetra)日食之时布施黄金,便得居于此处,分享广大福德。
Verse 73
सर्वं गंगासमं तोयं सर्वे ब्रह्मसमा द्विजाः । सर्वं देयं स्वर्णसमं राहुग्रस्ते दिवाकरे
当造昼者(太阳)为罗睺(Rāhu)所吞时,一切水皆等同恒河(Gaṅgā),一切婆罗门(brāhmaṇa)皆等同梵天(Brahmā),一切布施皆等同施金。
Verse 74
दत्तं जप्तं हुतं स्नातं यत्किंचित्सदनुष्ठितम् । भानूपरागे श्राद्धादि तद्धेतुर्ब्रध्न संनिधे
凡依正法所行之事——布施(dāna)、持诵(japa)、火供(homa)、沐浴,以及如 śrāddha 等祭祖仪轨——若在日食之时进行,于布拉德那(Bradhna,太阳)之前,皆成无上灵验。
Verse 75
रविवारे संक्रमश्चेदुपरागोऽथवाभवेत् । तदा यदर्जितं पुण्यं तदिहाक्षयमाप्यते
若拉维之日(星期日)恰逢 saṃkrānti(太阳移宫)或日食,则彼时所积之福德(puṇya)于此生即成不坏、无尽。
Verse 76
भानुवारो यदा षष्ठ्यां सप्तम्यामथ जायते । तदा यत्सुकृतं कर्म कृतं तदिह भुज्यते
当星期日落在第六或第七月相日(ṣaṣṭhī 或 saptamī)时,那时所作的善业即在此世结成果报,可于此生受用。
Verse 77
हंसो भानुः सहस्रांशुस्तपनस्तापनो रवि । विकर्तनो विवस्वांश्च विश्वकर्मा विभावसुः
Haṃsa、Bhānu、Sahasrāṃśu、Tapana、Tāpana、Ravi;Vikartana、Vivasvān、Viśvakarmā、Vibhāvasu——皆为苏利耶(Sūrya,日神)之名。
Verse 78
विश्वरूपो विश्वकर्ता मार्तंडो मिहिरोंऽशुमान् । आदित्यश्चोष्णगुः सूर्योऽर्यमा ब्रध्नो दिवाकरः
Viśvarūpa、Viśvakartā、Mārtaṇḍa、Mihira、Aṃśumān;Āditya、Uṣṇagu、Sūrya、Aryamā、Bradhna、Divākara——皆为太阳之圣名。
Verse 79
द्वादशात्मा सप्तहयो भास्करो हस्करः खगः । सुरः प्रभाकरः श्रीमांल्लोकचक्षुर्ग्रहेश्वरः
Dvādaśātmā、Saptahaya、Bhāskara、Haskara、Khaga;Sura、Prabhākara、Śrīmān、Lokacakṣus、Graheśvara——此皆为太阳的圣名。
Verse 80
त्रिलोकेशो लोकसाक्षीतमोरिः शाश्वतः शुचिः । गभस्तिहस्तस्तीव्रांशुस्तरणिः सुमहोरणिः
Trilokeśa、Lokasākṣin、Tamori、Śāśvata、Śuci;Gabhastihasta、Tīvrāṃśu、Taraṇi、Sumahoraṇi——此皆为太阳的圣名。
Verse 81
द्युमणिर्हरिदश्वोर्को भानुमान्भयनाशनः । छन्दोश्वो वेदवेद्यश्च भास्वान्पूषा वृषाकपिः
Dyumaṇi、Haridaśva、Arka、Bhānumān、Bhayanāśana;Chandōśva、Vedavedya、Bhāsvān、Pūṣā、Vṛṣākapi——此皆为太阳的圣名。
Verse 82
एकचक्ररथो मित्रो मंदेहारिस्तमिस्रहा । दैत्यहा पापहर्ता च धर्मोधर्म प्रकाशकः
Ekacakraratha、Mitra,诛灭Mandeha者,破除黑暗者;灭达伊提耶者,除罪者,显明正法与非法者——此皆为太阳之名。
Verse 83
हेलिकश्चित्रभानुश्च कलिघ्नस्तार्क्ष्यवाहनः । दिक्पतिः पद्मिनीनाथः कुशेशयकरो हरिः
Helika、Citrabhānu、摧灭迦梨者、以Tārkṣya为乘者;诸方之主、莲林之主、化生kuśeśaya莲者、Hari——此皆为太阳之名。
Verse 84
घर्मरश्मिर्दुर्निरीक्ष्यश्चंडांशुः कश्यपात्मजः । एभिः सप्ततिसंख्याकैः पुण्यैः सूर्यस्य नामभिः
Gharmaraśmi、Durnirīkṣya、Caṇḍāṃśu与Kaśyapātmaja——以这七十个功德圆满的太阳神苏利耶(Sūrya)圣名,人们赞颂他。
Verse 85
प्रणवादि चतुर्थ्यंतैर्नमस्कार समन्वितैः । प्रत्येकमुच्चरन्नाम दृष्ट्वादृष्ट्वा दिवाकरम्
以“唵”(Oṁ)起首,以与格(—āya)作结,并配以恭敬礼拜;当依次诵出每一圣名时,应一次又一次凝望太阳——造昼之主。
Verse 86
विगृह्य पाणियुग्मेन ताम्रपात्रं सुनिर्मलम् । जानुभ्यामवनिं गत्वा परिपूर्य जलेन च
双手捧起一只极为洁净的铜器;以双膝伏地,便将其盛满清水。
Verse 87
करवीरादि कुसुमै रक्तचंदनमिश्रितैः । दूर्वांकुरैरक्षतैश्च निक्षिप्तैः पात्रमध्यतः
以夹竹桃等花朵,和合红檀香;又以杜尔瓦草嫩芽与完整米粒,置于器皿中央——
Verse 88
दद्यादर्घ्यमनर्घ्याय सवित्रे ध्यानपूर्वकम् । उपमौलि समानीय तत्पात्रं नान्यदृङ्मनाः
当先行观想之后,应向萨维特利(Savitṛ)奉献无价的阿尔伽(arghya);将那器皿举至头顶,目光与心念不旁骛。
Verse 89
प्रतिमंत्रं नमस्कुर्यादुदयास्तमये रविम् । अनया नामसप्तत्या महामंत्ररहस्यया
每诵一咒,当于日出与日落时向日神罗毗(Ravi)顶礼;凭此七十圣名之集,即大咒之奥秘。
Verse 90
एवं कुर्वन्नरो जातु न दरिद्रो न दुःखभाक् । व्याधिभिर्मुच्यते घोरैरपिजन्मांतरार्जितैः
如是行者,终不贫乏,亦不负忧苦;并得解脱诸般可怖之病,乃至前生所积者亦然。
Verse 91
विनौषधैर्विना वैद्यैर्विनापथ्यपरिग्रहैः । कालेन निधनं प्राप्तः सूर्यलोके महीयते
不藉药物,不求医师,亦不执取饮食禁戒;及其寿尽时至,便在太阳之界受尊崇。
Verse 92
इत्येकदेशः कथितो भानुलोकस्य सत्तम । महातेजोनिधेरस्य कोविशेषमवैत्यहो
如是,善德之最胜者啊,所述不过日神界之一隅。此无量光辉之宝藏,其伟大又有谁能尽知?
Verse 93
स्वकर्णविषयीकुर्वन्नितिपुण्यकथामिमाम् । क्षणादालोकयांचक्रे महेंद्रस्य महापुरीम्
他既以耳受持此功德之说,顷刻之间,便得瞻见摩诃因陀罗(帝释天)之大城。
Verse 94
अगस्तिरुवाच । श्रुत्वा सौरीं कथमेतामप्सरोलोकसंयुताम् । न दरिद्रो भवेत्क्वापि नाधर्मेषु प्रवर्तते
阿伽斯提亚说:听闻这与天女(阿普萨拉)世界相连的娑乌丽圣传者,处处不致贫乏,亦不趋向不义之行(阿达摩)。
Verse 95
ब्राह्मणैः सततं श्राव्यमिदमाख्यानमुत्तमम् । वेदपाठेन यत्पुण्यं तत्पुण्यफलदायकम्
此最上妙的圣传,应常由婆罗门诵读并聆听;它赐予与诵持吠陀所生功德同等之果报。
Verse 96
ब्राह्मणाः क्षत्रिया वैश्याः शृण्वंतोऽध्यायमुत्तमम् । पातकानि विसृज्येह गतिं यास्यंत्यनुत्तमाम्
婆罗门、刹帝利与吠舍若聆听此最上章句,便在此世即能舍离罪垢,而得无上之灵性归趣。