Adhyaya 49
Kashi KhandaPurva ArdhaAdhyaya 49

Adhyaya 49

本章以层层相承的叙述(苏多—毗耶娑—斯甘达)开篇,从神学角度解读史诗人物:般度五子被视为具鲁陀本质、用以恢复正法秩序的执行者,而那罗延则化身为奎师那,成为伦理与正义的安定之源。困厄之时,德劳帕蒂以极深的虔敬礼拜日神苏利耶(Bradhna/Savitr),获赐“阿克沙耶·斯塔利卡”(akṣaya-sthālikā)不竭之器,作为应对匮乏并履行待客之责的现实救济。随后,祝福被安置于迦尸的圣地版图之中:苏利耶宣说,凡在毗湿韦湿瓦罗(Viśveśvara)之南礼敬日神者,将得解除饥饿与诸苦,驱散忧暗,并蒙护佑免于恐惧、疾病与离散——皆系于在迦尸的奉爱(bhakti)与瞻礼(darśana)。 第二部分叙述苏利耶在著名的五河圣地Pañcanada tīrtha行极严苦行,并建立“伽婆斯提湿瓦罗”(Gabhastīśvara)林伽,且礼敬名为曼伽拉/高丽(Maṅgalā/Gaurī)的女神形相。湿婆显现,赞叹其苦行,受纳湿婆赞颂(Śiva-stotra)与曼伽拉-高丽赞词,继而授以纲领性教诲:诵持“六十四名”八颂(aṣṭaka)与曼伽拉-高丽八颂,被视为净化法门,能洗除日常罪垢,并导向难得的迦尸入境之缘。章中亦详述曼伽拉誓戒(Maṅgalā-vrata,尤以恰伊特拉月白半第三日Caitra śukla tṛtīyā为要):斋戒、夜守、供养礼拜、施食少女、火供(homa)与布施,许以世间安泰与免遭不祥。末尾解释“摩由迦阿底提耶”(Mayūkhāditya)之名义(见其光芒而不见其身),并言礼拜功德——尤其主日可离病与贫——且以果报偈(phalaśruti)申明:闻此诸事者不堕地狱。

Shlokas

Verse 1

सूत उवाच । पाराशर्यमुने व्यास कुमारः कुंभजन्मने । यदावदत्कथामेतां तदा क्व द्रुपदात्मजा

苏多说道:当帕罗娑罗之子毗耶娑向库玛罗(斯甘达)——那位壶生圣者(阿伽斯提耶)之子——讲述此事之时,德鲁帕达之女德劳帕蒂当时身在何处?

Verse 2

व्यास उवाच । पुराणसंहितां सूत ब्रूते त्रैकालिकीं कथाम् । संदेहो नात्र कर्तव्यो यतस्तद्गोचरोखिलम्

毗耶娑说道:苏多啊,诸《往世书》之汇编所宣说的,是贯通三时——过去、现在与未来——的叙事。于此不应生疑,因为这一切皆在其所摄之境。

Verse 3

स्कंद उवाच । आकर्णय मुने पूर्वं पंचवक्त्रो हरः स्वयम् । पृथिव्यां पंचधा भूत्वा प्रादुरासीज्जगद्धितः

斯坎达说道:圣者啊,请听往昔之事。五面之哈罗亲自分为五相,显现于大地,为了世间的安乐与利益。

Verse 4

उमापि च जगद्धात्री द्रुपदस्य महीभुजः । यजतो वह्निकुंडाच्च प्रादुश्चक्रेति सुंदरी

而乌玛亦然,作为护持世界之母;当德鲁帕达王行祭(yajña)时,她令那位美丽者自火坛之坑中显现。

Verse 5

पंचापि पांडुतनयाः साक्षाद्रुद्रवपुर्धराः । अवतेरुरिह स्वर्गाद्दुष्टसंहारकारकाः

般度的五子,身具鲁陀罗之真形,从天界降临于此,为诛灭恶徒而来。

Verse 6

नारायणोपि कृष्णत्वं प्राप्य तत्साहचर्यकृत् । उद्वृत्तवृत्तशमनः सद्वृत्तस्थितिकारकः

那罗延亦然,得成黑天(克里希纳)之身并作其同伴;他平息败坏之行,建立正行之安住。

Verse 7

प्रतपंतः पृथिव्यां ते पार्थाश्चेरुः पृथक्पृथक् । उदयानुदयौ तस्मिन्संपदां विपदामपि

他们英威炽盛,普利塔之子各自循其道行走于大地;其行运之中亦有兴亦有衰,有福泽亦有艰难。

Verse 8

कदाचित्ते महावीरा भ्रातृव्यप्रतिपादिताम् । विपत्तिमाप्य महतीं बभूवुः काननौकसः

有一次,那些大英雄因同族仇敌的逼迫而陷入不幸,遭逢大难,遂成林野之居者。

Verse 9

पांचाल्यपि च तत्पत्नी पतिव्यसनतापिता । धर्मज्ञा प्राप्य तन्वंगी ब्रध्नमाराधयद्भृशम्

其妻般遮梨亦然,因夫之厄运而受煎迫;她虽体态纤秀而通达正法,来到(迦尸),虔诚炽烈地礼敬布罗陀那——日神。

Verse 10

आराधितोथ सविता तया द्रुपदकन्यया । सदर्वी सपिधानां च स्थालिकामक्षयां ददौ

当德鲁帕达之女如是礼敬萨维特利(日神)后,日神赐她一只取用不竭的供食钵(sthālī),并赐以勺与相称之盖。

Verse 11

आराधयंतीं भावेन सर्वत्र शुचिमानसाम्

她以真挚之情而礼拜,于一切处境皆守心地清净。

Verse 12

स्थाल्यैतया महाभागे यावंतोऽन्नार्थिनो जनाः । तावंतस्तृप्तिमाप्स्यंति यावच्च त्वं न भोक्ष्यसे

“尊贵的夫人,凭此钵,凡来求食之人有多少,便有多少得以饱足;只要你自己尚未进食。”

Verse 13

भुक्तायां त्वयि रिक्तैषा पूर्णभक्ता भविप्यति । रसवद्व्यंजननिधिरिच्छाभक्ष्यप्रदायिनी

“但当你用食之后,这(钵)便会空;而当它再度充满时,将盛满上等米饭与芬芳美味的诸般菜肴宝藏——随心赐予所愿之食。”

Verse 14

इत्थं वरस्तया लब्धः काश्यामादित्यतो मुने । अपरश्च वरो दत्तस्तस्यै देवेन भास्वता

如是,圣者啊,她在迦尸从阿底提耶(太阳神)得此恩赐;那光辉的天神又赐予她另一道恩典。

Verse 15

रविरुवाच । विश्वेशाद्दक्षिणेभागे यो मां त्वत्पुरतः स्थितम् । आराधयिष्यति नरः क्षुद्बाधा तस्य नश्यति

太阳说道:“在毗湿维湿伐罗之南,凡有人在你面前见我如是而立并敬拜我者,他的饥饿之苦便得消灭。”

Verse 16

अन्यश्च मे वरो दत्तो विश्वेशेन पतिव्रते । तपसा परितुष्टेन तं निशामय वच्मि ते

“又有一恩赐由毗湿维湿伐罗赐与我,贞烈之妻啊;他因你的苦行而欢喜。谛听,我将告知于你。”

Verse 17

प्राग्रवे त्वां समाराध्य यो मां द्रक्ष्यति मानवः । तस्य त्वं दुःखतिमिरमपानुद निजैः करैः

“凡人在黎明先如法敬拜你,而后得见我者——愿你以自身光芒,为他驱散忧苦之暗。”

Verse 18

अतो धर्माप्रिये नित्यं प्राप्य विश्वेश्वराद्वरम् । काशीस्थितानां जंतूनां नाशयाम्यघसंचयम्

因此,噢爱法者,我既从毗湿维湿瓦罗(Viśveśvara)得此恩赐,便恒常消除居于迦尸(Kāśī)众生所积聚的罪业。

Verse 19

ये मामत्र भजिष्यंति मानवाः श्रद्धयान्विताः । त्वद्वरोद्यतपाणिं च तेषां दास्यामि चिंतितम्

凡人在此圣地以信心礼敬我,并且也向你——赐福者——合掌举手恭敬礼拜者,我必赐予他们心中所愿、所思所求。

Verse 20

भवतीं मत्समीपस्थां युधिष्ठिरपतिव्रताम् । विश्वेशाद्दक्षिणेभागे दंडपाणेः समीपतः

你——对由提湿提罗(Yudhiṣṭhira)守贞守誓的贤妇——将住在我近旁,于毗湿维湿瓦(Viśveśa)之南侧,靠近持杖者檀陀波尼(Daṇḍapāṇi)。

Verse 21

येर्चयिष्यंति भावेन पुरुषा वास्त्रियोपि वा । तेषां कदाचिन्नो भावि भयं प्रियवियोगजम्

无论男子或女子,若在此以真挚之心礼敬供奉,便永不遭受因与所爱分离而生的恐惧。

Verse 22

न व्याधिजं भयं क्वापि न क्षुत्तृड्दोषसंभवम् । द्रौपदीक्षणतः काश्यां तव धर्मप्रियेनघे

无处会生起由疾病而来的恐惧,也不会有因饥渴而起的苦恼;这一切皆因在迦尸(Kāśī)得见德劳帕蒂(Draupadī)吉祥之目光与加持,噢无垢而爱法者。

Verse 23

उवाच च प्रसन्नात्मा भास्करो द्रुपदात्मजाम्

于是,婆斯迦罗(太阳神)心境澄明,向德鲁帕达之女德劳帕蒂开口说道。

Verse 24

आदित्यस्य कथामेतां द्रौपद्याराधितस्य वै । यः श्रोष्यति नरो भक्त्या तस्यैनः क्षयमेष्यति

“凡以虔敬之心聆听此段关于德劳帕蒂所礼敬之阿底提耶的事迹者,其罪业必将消灭。”

Verse 25

स्कंद उव ।च । द्रौपदादित्यमाहात्म्यं संक्षेपात्कथितं मया । मयूखादित्यमाहात्म्यं शृण्विदानीं घटोद्भव

斯坎达说道:“我已略述德劳帕达—阿底提耶之伟大。如今,听我再说摩由迦—阿底提耶之伟大吧,噢,罐生的阿迦斯提耶。”

Verse 26

पुरा पंचनदे तीर्थे त्रिषुलोकेषु विश्रुते । सहस्ररश्मिर्भगवांस्तपस्तेपे सुदारुणम्

“往昔,在三界闻名的般遮那陀圣地,千光之圣尊(太阳神)修行了极其严峻的苦行(tapas)。”

Verse 27

प्रतिष्ठाप्य महालिंगं गभस्तीश्वर संज्ञितम् । गौरीं च मंगला नाम्नीं भक्तमंगलदां सदा

“他安立了一座名为伽婆斯提湿伐罗的大神林伽,又安立了名为曼伽罗的高丽女神,恒常赐予信众吉祥——…”

Verse 28

दिव्यवर्षसहस्रं तु शतेन गुणितं मुने । आराधयञ्शिवं सोमं सोमार्धकृतशेखरम्

噢圣者,他以一千个天界之年再乘百倍之久,虔诚礼敬湿婆——那以月为冠、以新月点缀其顶髻的主宰。

Verse 29

स्वरूपतस्तु तपनस्त्रिलोकीतापनक्षमः । ततोतितीव्र तपसा जज्वाल नितरां मुने

太阳本性便足以灼烧三界;于是凭借极其炽烈的苦行,他更为炽盛地燃耀起来,噢圣者。

Verse 30

मयूखैस्तत्र सवितुस्त्रैलोक्यदहनक्षमैः । ततं समस्तं तत्काले द्यावाभूम्योर्यदंतरम्

在那里,凭借太阳那足以焚尽三界的光芒,当时天与地之间的一切空域都被彻底充满。

Verse 31

वैमानिकैर्विष्णुपदे तत्यजे च गतागतम् । तीव्रे पतंगमहसि पतंगत्वभयादिव

就连住于毗湿奴境界的天众也舍弃往来出入;在那太阳的猛烈光辉中,仿佛他们惧怕自己化作飞蛾,投向火焰。

Verse 32

मयूखा एव दृश्यंते तिर्यगूर्ध्वमधोपि च । आदित्यस्य न चादित्यो नीपपुष्पस्थितेरिव

所见唯有光芒——横向、向上、亦向下;而太阳本体却不可见,宛如尼帕花隐没在其所依之处。

Verse 33

तस्यवै महसां राशेस्तपोराशेस्तपोर्चिषाम् । चकंपे साध्वसात्तीव्रा त्रैलोक्यं सचराचरम्

从那汇聚的光辉——层层积累的苦行与其炽烈光焰——三界连同一切动与不动之物,都在强烈的惊惧中震颤。

Verse 34

सूर्य आत्मास्य जगतो वेदेषु परिपठ्यते । स एव चेज्वालयिता को नस्त्राता भवेदिह

在《吠陀》中诵说:太阳乃此世界之自我。若他自身成为焚尽万有者,那么此间又有谁能护佑我们?

Verse 35

जगच्चक्षुरसौ सूर्यो जगदात्मैष भास्करः । जगद्योयन्मृतप्रायं प्रातःप्रातः प्रबोधयेत्

那太阳是世界之眼;此婆娑迦罗(Bhāskara)是世界之魂——他晨复一晨,唤醒那仿佛已死的世间。

Verse 36

तमोंधकूपपतितमुद्यन्नेष दिनेदिने । प्रसार्य परितः पाणीन्प्राणिजातं समुद्धरेत्

他日复一日升起,将坠入黑暗盲井的众生扶起,仿佛向四方伸出双手将其救拔。

Verse 37

उदितेऽत्रोदिमो नित्यमस्तं यात्यस्तमाप्नुमः । उदयेऽनुदये तस्मादस्माकं कारणं रविः

他升起时,我们在此亦日日兴起;他落下时,我们也随之沉落而至终点。因此,在其升与不升之间,罗毗(Ravi)实为我们之因。

Verse 38

इति व्याकुलितं विश्वं पश्यन्विश्वेश्वरः स्वयम् । विश्वत्राता वरं दातुं संजग्मे तिग्मरश्मये

见宇宙如此忧患,毗湿维湿伐罗亲自——世间的救护者——前往那光芒锐利的太阳处,为他赐予恩愿。

Verse 39

मयूखमालिनं शंभुरालोक्याति सुनिश्चलम् । समाधि विस्मृतात्मानं विसिस्माय तपः प्रति

太阳见到被光辉环绕、纹丝不动的商布;他在三摩地中忘我沉入,便对那般苦行之力深感惊叹。

Verse 40

उवाच च प्रसन्नात्मा श्रीकंठः प्रणतार्तिहृत् । अलं तप्त्वा वरं ब्रूहि द्युमणे महसां निधे

于是心境澄明的室利迦ṇṭha——除去礼拜者苦恼者——开口道:“苦行已足;光耀者啊,众辉之藏,请说出你的所愿之恩。”

Verse 41

निरुद्धेंद्रियवृत्तित्वाद्ब्रध्नो ध्यानसमाधिना । न जग्राह वचः शंभोर्द्वित्रिरुक्तोप्यकर्णवत्

由于布拉德那(太阳)以禅观三摩地制伏诸根之动,他未能领会商布之言;纵使说了两三遍,也宛如无耳。

Verse 42

काष्ठीभूतं तु तं ज्ञात्वा शिवः पस्पर्श पाणिना । महातपः समुद्भूत संतापामृतवर्षिणा

知他已如木段般不动不觉,湿婆以手触之;那手如甘露之雨,洒向由大苦行所生的炽热。

Verse 43

तत उन्मीलयांचक्रे लोचने विश्वलोचनः । तस्योदयमिव प्राप्य प्रगे पंकजिनीवनी

于是,遍观者毗湿瓦罗遮那(全见之主)令其睁开双眼——如同拂晓时的莲池,迎得太阳升起一般。

Verse 44

परिव्यपेतसंतापस्तपनः स्पर्शनाद्विभोः । अवग्रहितसस्यश्रीरुल्ललास यथांबुदात्

太阳因主的触碰而消散灼热之苦,遂复放光辉——如同雨云倾注之后,庄稼的丰美欣然滋长。

Verse 45

मित्रो नेत्रातिथीकृत्य त्र्यक्षं प्रत्यक्षमग्रतः । दंडवत्प्रणनामोच्चैस्तुष्टाव च पिनाकिनम्

密多罗(太阳)使双眼如“宾客”般尽开,亲见三目之主就在面前;他如杖般俯伏顶礼,高声赞颂持弓者毗那迦(湿婆)。

Verse 46

रविरुवाच । देवदेव जगतांपते विभो भर्ग भीम भव चंद्रभूषण । भूतनाथ भवभीतिहारक त्वां नतोस्मि नतवांछितप्रद

罗毗(太阳)说道:“诸神之神,众世界之主,遍在的大自在者;噢婆伽(Bharga),噢可畏者,噢以月为饰的婆婆(Bhava);众生之主,除却轮回怖畏者——我今顶礼于你,赐予礼拜者所愿之主。”

Verse 47

चंद्रचूडमृड धूर्जटे हर त्र्यक्ष दक्ष शततंतुशातन । शांतशाश्वत शिवापते शिव त्वां नतोस्मि नतवांछितप्रद

“月冠者啊,牟利陀(Mṛḍa)啊,结发的杜尔阇提(Dhūrjaṭi)啊;哈罗(Hara)、三目之主啊;善巧者、摧断百缕系缚者啊;寂静而常住者、湿婆妃之主啊——噢湿婆,我今顶礼于你,赐予礼拜者所愿之主。”

Verse 48

नीललोहित समीहितार्थ दहे द्व्येकलोचन विरूपलोचन । व्योमकेशपशुपाशनाशन त्वां नतोस्मि नतवांछितप्रद

噢尼罗罗希多,成就所愿之主;噢达诃那,炽燃者;噢具二目与独目之尊,奇妙圣目者;噢虚空发髻者,摧毁束缚众生之“帕舒之索”者——我向你顶礼,赐予礼拜者所求愿望。

Verse 49

वामदेवशितिकंठशूलभृच्चंद्रशेखर फणींद्रभूषण । कामकृत्पशुपते महेश्वर त्वां नतोस्मि नतवांछितप्रद

噢伐摩提婆;噢青颈持三叉戟者;噢月冠者,佩戴蛇王为饰者;噢降伏迦摩者;噢帕舒帕提,大自在天——我向你顶礼。愿你赐予礼拜者所求福佑。

Verse 50

त्र्यंबक त्रिपुरसूदनेश्वर त्राणकृत्त्रिनयनत्रयीमय । कालकूट दलनांतकांतक त्वां नतोस्मि नतवांछितप्रद

噢特里安婆迦,三目之主;噢摧毁三城(特里普拉)之自在者;噢护佑者,你的三眼即三重本体;噢粉碎迦罗库塔毒者;噢诛灭“死神之杀者”的圣者——我向你顶礼。愿你赐予礼拜者所求福愿。

Verse 51

शर्वरीरहितशर्वसर्वगस्वर्गमार्गसुखदापवर्गद । अंधकासुररिपो कपर्दभृत्त्वां नतोस्मि नतवांछितप्रद

噢舍尔瓦,不为黑暗所染者;遍一切处者;赐予通往天界之道的喜乐,并赐解脱者;噢安陀迦阿修罗之敌;噢披垂结发者——我向你顶礼。愿你赐予礼拜者所求福佑。

Verse 52

शंकरोग्रगिरिजापते पते विश्वनाथविधिविष्णु संस्तुत । वेदवेद्यविदिताऽखिलेंगि तत्वां नतोस्मि नतवांछितप्रद

噢商羯罗;噢威猛之主,吉丽迦(雪山女神)之夫;噢主宰——毗湿瓦那他——为梵天与毗湿奴所赞颂;噢为吠陀所能真实证知者,内在于万有之精髓——我向你顶礼。愿你赐予礼拜者所求福愿。

Verse 53

विश्वरूपपररूप वर्जितब्रह्मजिह्मरहितामृतप्रद । वाङमनोविषयदूरदूरगत्वां नतोस्मि नतवांछितप्रद

噢,赐予甘露般不死者;远离受限“梵”之观念的曲折;超越宇宙之相与超越之相;言语与心念所不能及、遥不可及——我向你顶礼。愿你赐予礼拜者所求之福。

Verse 54

इत्थं परीत्य मार्तंडो मृडं देवं मृडानिकाम् । अथ तुष्टाव प्रीतात्मा शिववामार्धहारिणीम्

如此,玛尔坦达(太阳)绕行礼敬了神祇摩利陀(湿婆)与温柔的女神之后,便怀着欢悦之心,赞颂那与湿婆共享左半身的圣配。

Verse 55

रविरुवाच । देवि त्वदीयचरणांबुजरेणुगौरीं भालस्थलीं वहति यः प्रणतिप्रवीणः । जन्मांतरेपि रजनीकरचारुलेखा तां गौरयत्यतितरां किल तस्य पुंसः

太阳神罗毗说道:女神啊,那善于恭敬顶礼之人,额上承载着由你莲足尘所生的皎白。即便在来世,他眉间那弯月的丽痕也必使此印记更加辉耀。

Verse 56

श्रीमंगले सकलमंगलजन्मभूमे श्रीमंगले सकलकल्मषतूलवह्ने । श्रीमंगले सकलदानवदर्पहंत्रि श्रीमंगलेऽखिलमिदं परिपाहि विश्वम्

噢,吉祥者,一切吉祥之所生之地!噢,吉祥者,焚尽如棉絮堆积之罪的圣火!噢,吉祥者,摧破一切阿修罗傲慢者!噢,吉祥者——护佑此整个宇宙。

Verse 57

विश्वेश्वरि त्वमसि विश्वजनस्य कर्त्री त्वं पालयित्र्यसि तथा प्रलयेपिहंत्री । त्वन्नामकीर्तनसमुल्लसदच्छपुण्या स्रोतस्विनी हरति पातककूलवृक्षान्

噢,宇宙之主宰女神,你是众生之创造者;你是护持者,而在劫尽之时你亦为毁灭者。由称诵你圣名而澎湃的清净光明功德之河,连根拔除那由罪业丛聚而成的树林。

Verse 58

मातर्भवानि भवती भवतीव्रदुःखसंभारहारिणि शरण्यमिहास्ति नान्या । धन्यास्त एव भुवनेषु त एव मान्या येषु स्फुरेत्तवशुभः करुणाकटाक्षः

噢,母亲婆伐尼(Bhavānī)——唯有你能除去沉重而剧烈的苦难之担;在此世间,除你之外别无归依。凡蒙你吉祥慈悲之目光照耀者,实为诸界中真正有福、真正堪受敬礼之人。

Verse 59

ये त्वा स्मरंति सततं सहजप्रकाशां काशीपुरीस्थितिमतीं नतमोक्षलक्ष्मीम् । तान्संस्मरेत्स्मरहरो धृतशुद्धबुद्धीन्निर्वाणरक्षणविचक्षणपात्रभूतान्

凡恒常忆念你者——你自光明而显,安住于迦尸(Kāśī)圣城,且为礼拜者之解脱福德——欲灭者斯摩罗诃罗(Śiva,摧毁爱神迦摩者)亦反过来忆念他们,视其为心智已净、堪为法器,并善于守护涅槃之人。

Verse 60

मातस्तवांघ्रियुगलं विमलं हृदिस्थं यस्यास्ति तस्य भुवनं सकलं करस्थम् । यो नामतेज एति मंगलगौरि नित्यं सिद्ध्यष्टकं न परिमुंचति तस्य गेहम्

母亲——凡于心中安住你无垢的双足者,于其而言,整个世界仿佛置于掌中。又,吉祥高丽(Maṅgalāgaurī)啊,凡日日亲近你圣名之光辉者,八种成就(siddhi)不离其家。

Verse 61

त्वं देवि वेदजननी प्रणवस्वरूपा गायत्र्यसि त्वमसि वै द्विजकामधेनुः । त्वं व्याहृतित्रयमिहाऽखिलकर्मसिद्ध्यै स्वाहास्वधासि सुमनः पितृतृप्तिहेतुः

女神啊,你是吠陀之母,是圣音普罗那瓦(Oṃ)的本体;你是伽耶特丽(Gāyatrī),实为二次生者的如意神牛(kāmadhenu)。你是三句宣称(vyāhṛti:bhūḥ、bhuvaḥ、svaḥ),令一切仪轨得以成就;你亦是“svāhā”与“svadhā”,使诸天与祖灵得满足的因由,慈惠者啊。

Verse 62

गौरि त्वमेव शशिमौलिनि वेधसि त्वं सावित्र्यसि त्वमसि चक्रिणि चारुलक्ष्मीः । काश्यां त्वमस्यमलरूपिणि मोक्षलक्ष्मीस्त्वं मे शरण्यमिह मंगलगौरि मातः

高丽(Gaurī)啊——唯有你与月冠之主(Śiva)同在;你亦与造物主韦陀诃斯(Brahmā)同在;你是娑维特丽(Sāvitrī);在持轮之主(Viṣṇu)身旁,你是光耀的吉祥天女(Lakṣmī)。在迦尸(Kāśī),无垢之相者,你即是解脱之吉祥(mokṣa-lakṣmī)。曼伽拉高丽母亲啊,你是我在此的归依。

Verse 63

स्तुत्वेति तां स्मरहरार्धशरीरशोभां श्रीमंगलाष्टक महास्तवनेन भानुः । देवीं च देवमसकृत्परितः प्रणम्य तूष्णीं बभूव सविता शिवयोः पुरस्तात्

以名为吉祥《曼伽罗八颂》(Maṅgalāṣṭaka)的大赞歌赞颂了她——那作为灭爱神者(湿婆)半身而光耀的女神——之后,婆奴(太阳)屡次环绕向女神与天神顶礼,继而在湿婆与湿婆妃之前肃然默立。

Verse 64

देवदेव उवाच । उत्तिष्ठोत्तिष्ठ भद्रं ते प्रसन्नोस्मि महामते । मित्रमन्नेत्रगो नित्यं प्रपश्ये तच्चराचरम्

天中之天(湿婆)说道:“起身,起身,愿吉祥临于你,伟大心志者。我已欢喜。作为你的朋友,常住于你之眼中,我恒常观照那一切动与不动的世界。”

Verse 65

मम मूर्तिर्भवान्सूर्य सर्वज्ञो भव सर्वगः । सर्वेषां महसां राशिः सर्वेषां सर्वकर्मवित्

“苏利耶啊,你即是我的形体。愿你全知,遍一切处;愿你成为众生共有的光明宝藏,并知晓一切众生之所作。”

Verse 66

सर्वेषां सर्वदुःखानि भक्तानां त्वं निराकुरु । त्वया नाम्नां चतुःषष्ट्या यदष्टकमुदीरितम्

“愿你除去一切信众的一切苦恼。又因你以六十四圣名宣说了这八颂之赞歌……”

Verse 67

अनेन मां परिष्टुत्य नरो मद्भक्तिमाप्स्यति । अष्टकं मंगलागौर्या मंगलाष्टकसंज्ञकम्

“以此赞颂我者,将得对我的虔敬。此乃礼赞曼伽罗高丽(Maṅgalāgaurī)的八颂,名为《曼伽罗八颂》(Maṅgalāṣṭaka)。”

Verse 68

अनेन मंगलागौरीं स्तुत्वा मंगलमाप्स्यति । चतुःषष्ट्यष्टकं स्तोत्रं मंगलाष्टकमेव च

以此赞颂吉祥女神曼伽罗·高丽(Maṅgalāgaurī),便能获得吉祥。此颂为“六十四名八颂”(catuḥṣaṣṭy-aṣṭaka),确然即是《吉祥八颂》(Maṅgalāṣṭaka)。

Verse 69

एतत्स्तोत्रवरं पुण्यं सर्वपातकनाशनम् । दूरदेशांतरस्थोपि जपन्नित्यं नरोत्तमः

此最胜妙、清净有福的赞颂,能灭除一切罪业。纵使贤善之人身在远方异地,若日日持诵,亦得其净化之力。

Verse 70

त्रिसंध्यं परिशुद्धात्मा काशीं प्राप्स्यति दुर्लभाम् । अनेन स्तोत्रयुग्मेन जप्तेन प्रत्यहं नृभिः

人若每日诵持此双颂,并于三次“沙恩迪亚”(晨、午、暮)修行,心地清净者便能得那难得之迦尸(Kāśī)。

Verse 71

ध्रुवदैनंदिनं पापं क्षालितं नात्र संशयः । न तस्य देहिनो देहे जातु चित्किल्बिषस्थितिः

那恒常的、日日所积之罪,必被洗净,毫无疑虑。如此之人之身中,永不存留丝毫罪垢。

Verse 72

त्रिकालं योजयेन्नित्यमेतत्स्तोत्रद्वयंशुभम् । किंजप्तैर्बहुभिः स्तोत्रैश्चंचलश्रीप्रदैर्नृणाम्

应当恒常于一日三时修持这吉祥的双颂。至于那些只赐人飘忽不定之富贵的众多别颂,反复诵念又有何益?

Verse 73

एतत्स्तोत्रद्वयं दद्यात्काश्यां नैःश्रेयसीं श्रियम् । तस्मात्सर्वप्रयत्नेन मानवैर्मोक्षकांक्षिभिः

此一对赞颂之偈,在迦尸(Kāśī)能赐予导向解脱的至上吉祥与福泽。因此,渴求解脱(mokṣa)之人,当以一切努力奉持此颂。

Verse 74

एतत्स्तोत्रद्वयं जप्यं त्यक्त्वा स्तोत्राण्यनेकशः । प्रपंच आवयोरेव सर्व एष चराचरः

当诵持此一对赞颂之偈,暂置无数他颂。因为这一切动与不动的宇宙,确是那“二者”之显现,亦即此颂所礼赞者。

Verse 75

तदावयोःस्तवादस्मान्निष्प्रपंचो जनो भवेत् । समृद्धिमाप्य महतीं पुत्रपौत्रवतीमिह

凭此赞颂二者之偈,人得离于世间纷繁之缠缚。并且在此世获得广大兴盛——子孙绵延、福泽具足——(终亦超越其上)。

Verse 76

अंते निर्वाणमाप्नोति जपन्स्तोत्रमिदं नरः । अन्यच्च शृणु सप्ताश्व ग्रहराज दिवाकर

最终,诵此赞颂之人得证涅槃(nirvāṇa)。此外——请听啊,七马之御者,诸星之王,日天(Divākara)!

Verse 77

त्वया प्रतिष्ठितं लिंगं गभस्तीश्वरसंज्ञितम् । सेवितं भक्तिभावेन सर्वसिद्धिसमर्पकम्

由你所安立之林伽(liṅga),名为伽婆斯提湿伐罗(Gabhastīśvara),以虔敬之心奉事,能赐予一切成就(siddhi)与圆满。

Verse 78

त्वया गभस्तिमालाभिश्चांपेयांबुजकांतिभिः । यदर्चित्वैश्वरं लिंगं सर्वभावेन भास्कर

噢,婆娑迦罗(Bhāskara),你以自身光线编成的花鬘供奉主之林伽,其辉耀如金色旃波迦与莲华,并以全身心投入虔敬礼拜。

Verse 79

गभस्तीश्वर इत्याख्यां ततो लिंगमवाप्स्यति । अर्चयित्वा गभस्तीशं स्नात्वा पंचनदे नरः

其后,此林伽将以“伽婆悉提湿伐罗”(Gabhastīśvara)之名闻世。凡礼拜伽婆悉提湿(Gabhastīśa)并于五河汇处(Pañcanada)沐浴者,得其所许之功德。

Verse 80

न जातु जायते मातुर्जठरे धूतकल्मषः । इमां च मंगलागौरीं नारी वा पुरुषोपि वा

罪垢既已涤除者,决不再入母胎而生。此“吉祥高丽”(Maṅgalāgaurī)之仪,女子可行,男子亦可行。

Verse 81

चैत्रशुक्लतृतीयायामुपोषणपरायणः । महोपचारैः संपूज्य दुकूलाभरणादिभिः

于恰伊特罗月(Caitra)白半第三日,专心持斋者,当以盛大供养礼拜(曼伽拉高丽):细软衣裳、饰物等诸供品。

Verse 82

रात्रौ जागरणं कृत्वा गीतनृत्यकथादिभिः । प्रातः कुमारीः संपूज्य द्वादशाच्छादनादिभिः

夜间以歌咏、舞蹈、诵说等守夜;清晨则如法礼敬童女,施以十二件衣覆等诸礼物,如是圆满此行。

Verse 83

संभोज्यपरमान्नाद्यैर्दत्त्वान्येभ्योपि दक्षिणाम् । होमं कृत्वा विधानेन जातवेदस इत्यृचा

以最上妙食供养受敬之宾,并亦向他人施与达克希纳(dakṣiṇā)后,应依仪轨行火供(homa),诵读《梨俱吠陀》中以“Jātavedasa…”开头之偈。

Verse 84

अष्टोत्तरशताभिश्च तिलाज्याहुतिभिः प्रगे । एकं गोमिथुनं दत्त्वा ब्राह्मणाय कुटुंबिने

于黎明时分,以芝麻与酥油作一百零八次火供(āhuti);并将一对母牛布施给居家之婆罗门,则此仪轨圆满成就。

Verse 85

श्रद्धया समलंकृत्य भूषणैर्द्विजदंपती । भोजयित्वा महार्हान्नैः प्रीयेतां मंगलेश्वरौ

以虔信之心为婆罗门夫妇佩戴饰物,并以珍馐供养之;由此,神圣双尊——曼伽勒湿伐罗(Maṅgaleśvara)与曼伽罗(Maṅgalā)欢喜。

Verse 86

इति मंत्रं समुच्चार्य प्रातः कृत्वाथ पारणम् । न दुर्भगत्वमाप्नोति न दारिद्र्यं कदाचन

如是诵毕此咒,而后于清晨行终食(pāraṇa),则永不遭遇厄运,贫乏亦终不临身。

Verse 87

न वै संतानविच्छित्तिं भोगोच्छित्तिं न जातुचित् । स्त्री वैधव्यं न चाप्नोति न नायोषिद्वियोगभाक्

子嗣不断绝,受用亦不于任何时候衰失。女子不致守寡,男子亦不遭与妻离别之苦。

Verse 88

पापानि विलयं यांति पुण्यराशिश्च लभ्यते । अपि वंध्या प्रसूयेत कृत्वैतन्मंगलाव्रतम्

罪业消融,福德聚集成堆。若修行此吉祥誓愿——摩伽罗誓(Maṅgalā-vrata),即使不孕之女亦可得子。

Verse 89

एतद्व्रतस्य करणात्कुरूपत्वं न जातुचित् । कुमारी विंदतेत्यंतं गुणरूपयुतं पतिम्

修此誓愿,丑陋永不生起。由此,处女得获至善之夫,具卓越德行,形貌悦目。

Verse 90

कुमारोपि व्रतं कृत्वा विंदति स्त्रियमुत्तमाम् । संति व्रतानि बहुशो धनकामप्रदानि च

即使少年修此誓愿,亦得上妙之妻。诚然,诸多誓愿能赐财富与所愿之乐。

Verse 91

नाप्नुयुर्जातुचित्तानि मंगलाव्रततुल्यताम् । कर्तव्या चाब्दिकी यात्रा मधौ तस्यां तिथौ नरैः

其余诸誓愿终不能与摩伽罗誓(Maṅgala-vrata)等同。并且在蜜月(Madhu)之月的该一月日(tithi),众人当行年度朝圣之行持。

Verse 92

सर्वविघ्नप्रशांत्यर्थं सदा काशीनिवासिभिः । अपरं द्युमणे वच्मि तव चात्र तपस्यतः

为息灭一切障碍,迦尸(Kāśī)之住民当恒常奉行此法。再者,噢,迪优摩尼(Dyumaṇi),我还要告知你一事——尤其为你在此修苦行者。

Verse 93

मयूखा एव खे दृष्टा न च दृष्टं कलेवरम् । मयूखादित्य इत्याख्या ततस्ते दितिनंदन

天空中只见光芒之辉,不见任何形体。故得名“摩瑜迦阿底提耶(Mayūkhāditya)”,噢,提提之子。

Verse 94

त्वदर्चनान्नृणां कश्चिन्न व्याधिः प्रभविष्यति । भविष्यति न दारिद्र्यं रविवारे त्वदीक्षणात्

由对你的礼拜,众人不为疾病所侵。于星期日瞻仰你,贫困亦不生起。

Verse 95

इत्थं मयूखादित्यस्य शिवो दत्त्वा बहून्वरान् । तत्रैवांतर्हितो भूतो रविस्तत्रैव तस्थिवान्

如是,湿婆赐予摩瑜迦阿底提耶诸多恩赐后,即于彼处隐没;而罗毗(太阳)亦在同一处安住确立。

Verse 96

श्रुत्वाख्यानमिदं पुण्यं मयूखादित्यसंश्रयम् । द्रौपदादित्यसहितं नरो न निरयं व्रजेत्

凡聆听此与摩瑜迦阿底提耶相关的功德传说——并连同德劳帕达阿底提耶之事——其人不堕地狱。