
本章描绘迦尸(Kāśī)的一处太阳圣地(tīrtha):北方有一座殊胜池塘名为阿尔迦昆达(Arkakuṇḍa),由光辉的神祇“北阿尔迦”(Uttarārka)主宰,被称为护持迦尸、消除诸苦与灾患的守护者。 随后,斯甘达讲述其缘起传说:阿特雷耶(Ātreya)族裔的婆罗门普利耶弗拉塔(Priyavrata),品行端正、善待宾客,却因忧心为贤淑能干的女儿寻得合宜夫婿而焦虑不已。忧虑化作难治的“辛塔-吉瓦拉”(cintā-jvara,忧思之热),终致其身亡。其妻依“贞顺随夫”(pativratā)之理想随夫而逝,女儿遂成孤女。 孤女坚守梵行(brahmacarya),在北阿尔迦近旁行严峻苦行(tapas)。一只母山羊(ajā-śāvī)每日出现,默然见证其修持。湿婆(Śiva)与帕尔瓦蒂(Pārvatī)观其定力;在女神启请下,湿婆许赐恩愿。少女不先为己求福,而先为山羊祈恩,彰显利他(paropakāra)之心。诸神赞叹其伦理智慧:世间积聚终不久长,唯利益众生之行方能长存。帕尔瓦蒂赐她成为自己钟爱的侍伴,具足神圣德相;并指出她亦将作为迦尸王族之女,享受世间福乐,终得无上解脱。 本章又规定:每年普什耶月(Puṣya)逢星期日,于阿尔迦昆达/北阿尔迦处清晨沐浴,心境宁静清凉。并立名号传统:阿尔迦昆达亦称巴尔迦丽昆达(Barkarīkuṇḍa),当于彼处礼拜少女之像。末尾功德偈(phalaśruti)言:聆听此事(含洛罗阿尔迦与北阿尔迦之传)可离疾病与贫困。
Verse 1
स्कंद उवाच । अथोत्तरस्यामाशायां कुंडमर्काख्यमुत्तमम् । तत्र नाम्नोत्तरार्केण रश्मिमाली व्यवस्थितः
斯坎达说道:如今在北方,有一处殊胜之池,名为阿尔迦(Arka)。彼处,日神——以光线为鬘者——以“乌塔拉尔迦(Uttarārka)”之名安住。
Verse 2
तापयन्दुःखसंघातं साधूनाप्याययन्रविः । उत्तरार्को महातेजाः काशीं रक्षति सर्वदा
焚尽成堆的忧苦,滋养诸善士;日神以“乌塔拉尔迦(Uttarārka)”之大威光,恒常守护迦尸(Kāśī)。
Verse 3
तत्रेतिहासो यो वृत्तस्तं निशामय सुव्रत । विप्रः प्रियव्रतो नाम कश्चिदात्रेय वंशजः
善誓者啊,请听那里的往事:有一位名为普利耶弗拉塔(Priyavrata)的婆罗门,出自阿特雷耶(Ātreya)一族。
Verse 4
आसीत्काश्यां शुभाचारः सदातिथिजनप्रियः । भार्या शुभव्रता तस्य बभूवातिमनोहरा
在迦尸城,他品行端正吉祥,常为宾客与众人所敬爱。他的妻子守持善愿,仪容殊胜,极其动人。
Verse 5
भर्तृशुश्रूषणरता गृहकर्मसुपेशला । तस्यां स जनयामास कन्यामेकां सुलक्षणाम्
她专心侍奉夫君,家务诸事极为娴熟;由她诞生一位独女,具足吉祥相。
Verse 6
मूलर्क्षप्रथमेपादे तथा केंद्रे बृहस्पतौ । ववृधे सा गृहे पित्रोः शुक्ले पक्षे यथा शशी
其生辰为牟罗宿第一分,且布里哈斯帕提(木星)居于吉祥的中宫之位;她在父母家中成长,如白半月中渐盈之月。
Verse 7
सुरूपा विनयाचारा पित्रोश्च प्रियकारिणी । अतीव निपुणा जाता गृहोपस्करमार्जने
她容貌端丽,举止谦和,常令双亲欢喜;又极其善于整治与拂拭家中器具。
Verse 8
यथायथा समैधिष्ट सा कन्या पितृमंदिरे । तथातथा पितुस्तस्याश्चिंता संववृधेतराम्
那少女在父家愈加兴盛绽放,她父亲的忧思也随之愈发增长。
Verse 9
कस्मै देया वरा कन्या सुरम्येयं सुलक्षणा । अस्या अनुगुणो लभ्यः क्व मया वर उत्तमः
“这位少女如此可爱、吉相具足,我当把她许配给谁?我到哪里才能寻得真正配得上、与她相称的良婿?”
Verse 10
कुलेन वयसा चापि शीलेनापि श्रुतेन च । रूपेणार्थेनसंयुक्तः कस्मै दत्ता सुखं लभेत्
“她具足门第与适龄之年,品行端正且有学识,又兼具容貌与资财;若将她许配给谁,她才能得安乐幸福?”
Verse 11
इति चिंतयतस्तस्य ज्वरोभूदतिदारुणः । यश्चिंताख्यो ज्वरः पुंसामौषधैर्नापि शाम्यति
他如此思量之时,身上生起极其可怖的热病——人间所谓“忧虑之热”,纵有药石也难以平息。
Verse 12
तन्मूलर्क्षविपाकेन चिंताख्येन ज्वरेण च । स विप्रः पंचतां प्राप्तस्त्यक्त्वा सर्वं गृहादिकम्
由于与牟罗宿(Mūla-nakṣatra)相系的宿命果报,又因那名为焦虑的热病,那位婆罗门走到生命尽头,舍下家宅与一切财物。
Verse 13
पितर्युपरते तस्याः कन्यायाः सा जनन्यपि । शुभव्रता परित्यज्य तां कन्यां पतिमन्वगात्
当那少女的父亲去世后,她的母亲也因守持善誓,竟将女儿留在身后,追随亡夫而去。
Verse 14
धर्मोयं सहचारिण्या जीवताजीवतापि वा । पत्या सहैव स्थातव्यं पतिव्रतयुजा सदा
此乃宣说之法:贞敬相随之妻,无论生时或死后,皆当恒常与夫同住;此即“守夫誓者”(pativratā)之道。
Verse 15
नापत्यं पाति नो माता न पिता नैव बांधवाः । पत्युश्चरणशुश्रूषा पायाद्वै केवलं स्त्रियम्
子女不能护佑,母亲不能,父亲亦不能,亲族也不能;对女子而言,唯有在夫君足下恭敬侍奉,方是真正的护持。
Verse 16
सुलक्षणापि दुःखार्ता पित्रोः पंचत्वमाप्तयोः । और्ध्वदैहिकमापाद्य दशाहं विनिवर्त्य च
虽具吉相,她仍在双亲终逝时为悲苦所压。既行诸般后丧之礼,又圆满十日之守制,遂复归而去。
Verse 17
चिंतामवाप महतीमनाथा दैन्यमागता । कथमेकाकिनी पित्रा मात्राहीना भवांबुधेः
她无依无靠,陷于困厄,巨大的忧惧攫住了她:“我孤身一人,既无父亦无母,如何渡越这轮回世有之海?”
Verse 18
दुस्तरं पारमाप्स्यामि स्त्रीत्वं सर्वाभिभावि यत् । न कस्मैचिद्वरायाहं पितृभ्यां प्रतिपादिता
“此道难渡,我将如何抵达彼岸?况且女身为众所制。我父母并未将我许配给任何新郎。”
Verse 19
तददत्ता कथं स्वैरमहमन्यं वरं वृणे । वृतोपि न कुलीनश्चेद्गुणवान्न च शीलवान्
“既然我尚未被许配(成婚),我怎能随心自择他人为夫?纵使选了,又有何益:若非出自高贵门第,既无德行,亦无端正品行。”
Verse 20
स्वाधीनोपि न तत्तेन वृतेनापि हि किं भवेत् । इति संचिंतयंती सा रूपौदार्यगुणान्विता
“纵然他顺从听命,择此等人又能得何所获?”她如此思量——那位具足美貌、慷慨与诸德的女子。
Verse 21
युवभिर्बहुभिर्नित्यं प्रार्थितापि मुहुर्मुहुः । न कस्यापि ददौ बाला प्रवेशं निज मानसे
纵有众多青年一再求娶,她这少女也不曾让任何人进入她的心中。
Verse 22
पित्रोरुपरतिं दृष्ट्वा वात्सल्यं च तथाविधम् । निनिंद बहुधात्मानं संसारं च निनिंद ह
见到父母离世,又忆及那般慈爱,她多方自责,并且也痛斥这轮回(saṃsāra)本身。
Verse 23
याभ्यामुत्पादिता चाहं याभ्यां च परिपालिता । पितरौ कुत्र तौ यातौ देहिनो धिगनित्यताम्
“生我者、养我者——那双亲如今去了何处?嗟乎,有身之众生竟如此无常!”
Verse 24
अहो देहोप्यहोंगत्वं यथा पित्रोः पुरो मम । इति निश्चित्य सा बाला विजितेंद्रिय मानसा
“唉,连此身亦如是!唉,此无身之境,正如先前临到我父母一般!”她如此断定,那少女降伏诸根与心意,坚定不移地立于誓愿之中。
Verse 25
ब्रह्मचर्यं दृढं कृत्वा तप उग्रं चचार ह । उत्तरार्कस्य देवस्य समीपे स्थिरमानसा
她坚固受持梵行(清净与自制),修行严峻苦行;心志不动,安住于名为“北日”(Uttarārka)之神前。
Verse 26
तस्यां तपस्यमानायामेकाच्छागी लघीयसी । तत्र प्रत्यहमागत्य तिष्ठेत्तत्पुरतोऽचला
当她如此修苦行时,有一只小母鹿每日来到那里,静静立在她面前,纹丝不动。
Verse 27
तृणपर्णादिकं किंचित्सायमभ्यवहृत्य सा । तत्कुंडपीतपानीया स्वस्वामिसदनं व्रजेत्
傍晚时它啃食少许青草与树叶;随后饮了那池中的水,便回到自己主人的住处。
Verse 28
तत इत्थं व्यतीतासु पंचषा सुसमासु च । लीलया विचरन्देवस्तत्र देव्या सहागतः
随后,如此过了五六个吉祥的月份,主宰嬉游而行,与女神一同来到那里。
Verse 29
सन्निधावुत्तरार्कस्य तपस्यतीं सुलक्षणाम् । स्थाणुवन्निश्चलां स्थाणुरद्राक्षीत्तपसा कृशाम्
在乌多罗阿尔迦(Uttarārka)附近,主宰斯他努(Sthāṇu)看见那位相貌吉祥的女子在修苦行;她如柱般不动,因其苦修(tapas)而日渐消瘦。
Verse 30
ततो गिरिजया शंभुर्विज्ञप्तः करुणात्मना । वरेणानुगृहाणेमां बंधुहीनां सुमध्यमाम्
于是,吉丽迦(Girijā)向悲悯的商布(Śambhu)禀告道:“请以恩赐垂怜此女——无亲无依、腰肢纤细——赐她一项愿(恩典)。”
Verse 31
शर्वाणीगिरमाकर्ण्य ततः शर्वः कृपानिधिः । समाधिमीलिताक्षीं तामुवाच वरदो हरः
听闻舍尔瓦妮(Śarvāṇī)之言后,舍尔瓦(Śarva)——慈悲之藏——对那位端坐、闭目入三摩地(samādhi)者开口;赐愿者哈拉(Hara)向她说道。
Verse 32
सुलक्षणे प्रसन्नोस्मि वरं वरय सुव्रते । चिरं खिन्नासि तपसा कस्तेऽस्तीह मनोरथः
“吉祥之女啊,我已欢喜。持善誓者啊,选择一愿吧。你以苦修(tapas)久受劳苦——此处你心中所愿为何?”
Verse 33
सापि शंभोर्गिरं श्रुत्वा मुखपीयूषवर्षिणीम् । महासंतापशमनीं लोचने उदमीलयत्
听到商布(Śambhu)的话语——如从其口中降下甘露,平息巨大苦恼——她便睁开了双眼。
Verse 34
त्र्यक्षं प्रत्यक्षमावीक्ष्य वरदानोन्मुखं पुरः । देवीं च वामभागस्थां प्रणनाम कृतांजलिः
她亲见三眼圣主显现在前,面向赐福;又见女神安坐于其左侧,便合掌顶礼而拜。
Verse 35
किं वृणे यावदित्थं सा चिंतयेच्चारुमध्यमा । तावत्तयानिरैक्षिष्ट वराकी बर्करी पुरः
那位腰肢纤美的女子尚在思量:“我当求何等恩赐?”与此同时,可怜的母山羊巴尔卡丽被带到她眼前,正立于面前。
Verse 36
आत्मार्थं जीवलोकेस्मिन्को न जीवति मानवः । परं परोपकारार्थं यो जीवति स जीवति
在这众生世间,哪一个人不为自身而活?唯有为利他而活者,才是真正的活着。
Verse 37
अनया मत्तपोवृत्ति साक्षिण्या बह्वनेहसम् । असेव्यहं तदेतस्यै वरयामि जगत्पतिम्
以此人为证——她见证我苦行与行持之轨迹,且富于无私精勤——因此我将为她选择“世界之主”作为所赐之恩。
Verse 38
परामृश्य मनस्येतत्प्राह त्र्यक्षं सुलक्षणा । कृपानिधे महादेव यदि देयो वरो मम
她在心中细细思量后,善相女(苏拉克沙娜)对三眼圣主说道:“大天啊,悲悯之藏,若要赐我一愿……”
Verse 39
अजशावी वराक्येषा तर्हि प्रागनुगृह्यताम् । वक्तुं पशुत्वान्नोवेत्ति किंचिन्मद्भक्तिपेशला
“这可怜的生灵如同山羊与绵羊;先当赐她慈恩。因其兽身不能言语,然而她心中仍怀对我的柔和虔敬。”
Verse 40
इति वाचं निशम्येशः परोपकृतिशालिनीम् । सुलक्षणाया नितरां तुतोष प्रणतार्तिहा
主听到这些充满利他之心的话语——那位除去归依者苦恼的主——对苏拉克沙那极为欢喜。
Verse 41
देवदवस्ततः प्राह देवि पश्य गिरींद्रजे । साधूनामीदृशी बुद्धिः परोपकरणोर्जिता
随后主对女神说道:“看吧,山王之女啊——贤善之人的智慧正是如此,因利益众生之力而愈加崇高。”
Verse 42
ते धन्याः सर्वलोकेषु सर्वधर्माश्रयाश्च ते । यतंते सर्वभावेन परोपकरणाय ये
他们在一切世界皆为有福;他们是诸法之所依——凡以全心全意为众生福祉而精进者。
Verse 43
संचयाः सर्ववस्तूनां चिरं तिष्ठति नो क्वचित् । सुचिरं तिष्ठते चैकं परोपकरणं प्रिये
一切财物的积聚无处能久存;唯有一事能长久不坏,亲爱的啊——为他人福祉而行的善行与服务。
Verse 44
धन्या सुलक्षणा चैषा योग्याऽनुग्रहकर्मणि । ब्रूहि देवि वरो देयः कोऽस्यैच्छाग्यै च कः प्रिये
此苏拉克沙那实为有福,堪受垂恩之行。请说吧,女神:当赐她何等恩赐?她又所愿为何,亲爱的?
Verse 45
श्रीदेव्युवाच । सर्वसृष्टिकृतां कर्तः सर्वज्ञप्रणतार्तिहन् । सुलक्षणा शुभाचारा सखी मेस्तु शुभोद्यमा
圣母天女说道:噢,一切造化之主,噢,全知的主,能除去礼拜者忧苦者——愿赐我一位相伴的善友,仪相端正,品行清净,常勤于吉祥之业。
Verse 46
यथा जया च विजया यथा चैव जयंतिका । शुभानंदा सुनंदा च कौमुदी च यथोर्मिला
如同阇耶与毗阇耶,如同阇耶提迦;如同善喜与善悦;如同月华的考牟底与乌尔弥罗——愿她亦如是,具足此等吉祥。
Verse 47
यथा चंपकमाला च यथा मलयवासिनी । कर्पूरलतिका यद्वद्गंधधारा यथा शुभा
愿她如金波迦花鬘般妍丽;如居马来亚香山者般芬芳;如樟脑之蔓般清净;又如吉祥的香流般馥郁——愿她如是。
Verse 48
अशोका च विशोका च यथा मलयगंधिनी । यथा चंदननिःश्वासा यथा मृगमदोत्तमा
愿她为阿输迦——无忧无悲——亦为毗输迦——能遣除愁苦;芬芳如马来亚檀香之气;如檀香之息;又卓绝如上等麝香。
Verse 49
यथा च कोकिलालापा यथा मधुरभाषिणी । गद्यपद्यनिधिर्यद्वदनुक्तज्ञा यथा च सा
愿她如杜鹃之歌般婉转;言语甘美;如散文与诗偈之宝藏;并能领会未言之意——愿她如是。
Verse 50
दृगंचलेंगितज्ञा च यथा कृतमनोरथा । गानचित्तहरा यद्वत्तथास्त्वेषा सुलक्षणा
愿她能识眼神与斜睨之微意;愿其所愿皆得圆满;愿其歌声摄取人心——愿此具吉相的少女如是。
Verse 51
अतिप्रिया भवित्री मे यद्बाल ब्रह्मचारिणी । अनेनैव शरीरेण दिव्यावयवभूषणा
愿这位少女——持梵行之女(brahmacāriṇī)——于我极为可亲;并在此身之中,以天妙肢体与庄严饰物而自庄严。
Verse 52
दिव्यांबरा दिव्यगंधा दिव्यज्ञानसमन्विता । समया मां सदैवास्तां चंचच्चामरधारिणी
身披天衣,散发天香,具足天妙之智——愿她常于约定之时伴我左右,执持迅疾摇拂的牦牛尾拂(cāmara),以表恭敬侍奉。
Verse 53
एषापि काशिराजस्य कुमार्यस्त्विह बर्करी । अत्रैव भोगान्संप्राप्य मुक्तिं प्राप्स्यत्यनुत्तमाम्
此少女亦然——迦尸王之女巴尔卡丽(Barkarī)——于此处得享应得之乐后,将证得无上解脱。
Verse 54
अनया त्वर्ककुंडेस्मिन्पुष्ये मासि रवेर्दिने । स्नातं त्वनुदिते सूर्ये शीतादक्षुब्धचित्तया
在此阿尔卡昆达(Arkakuṇḍa),于普什亚月(Puṣya)之主日,她在日出之前沐浴,心神安定,纵使寒冷亦不为所动。
Verse 55
राजपुत्री ततः पुण्यादस्त्वेषा शुभलोचना । वरदानप्रभावेण तव विश्वेश्वर प्रभो
“凭此功德,愿这位吉祥明眸的少女成为王女;凭你所赐恩愿之力,噢主宰毗湿维湿瓦罗(Viśveśvara)。”
Verse 57
उत्तरार्कस्य देवस्य पुष्ये मासि रवेर्दिने । कार्या सा वत्सरीयात्रा न तैः काशीफलेप्सुभिः
“为北阿尔卡神(Uttarārka),当在普什亚月之主日举行那一年一度的朝圣;唯有求得迦尸(Kāśī)圆满果报者,当如是行。”
Verse 58
मृडान्याभिहि तं सर्वं कृत्वैतद्विश्वगो विभुः । विश्वनाथो विवेशाथ प्रासादं स्वमतर्कितः
依照弥陀罗尼(Mṛḍānī,帕尔瓦蒂)所言尽皆办妥后,那遍一切处的大主——毗湿瓦那他(Viśvanātha)——遂入其宫殿,所愿已遂。
Verse 59
स्कंद उवाच । लोलार्कस्य च माहात्म्यमुत्तरार्कस्य च द्विज । कथितं ते महाभाग सांबादित्यं निशामय
斯坎达说道:“噢二次生者,噢有福的圣者,我已为你宣说洛罗尔卡(Lolārka)与北阿尔卡(Uttarārka)的伟大。如今请聆听三摩阿底提耶(Sāmbāditya)的缘起。”
Verse 60
श्रुत्वैतत्पुण्यमाख्यानं शुभं लोलोत्तरार्कयोः । व्याधिभिर्नाभिभूयेत न दारिद्र्येण बाध्यते
聆听这关于罗罗阿尔迦与乌塔罗阿尔迦的吉祥功德之事者,不为诸病所胜,亦不为贫乏所苦。
Verse 96
बर्करीकुंडमित्याख्या त्वर्ककुंडस्य जायताम् । एतस्याः प्रतिमा पूज्या भविष्यत्यत्र मानवैः
愿阿尔迦池(Arka-kuṇḍa)得名为“巴尔卡丽池”(Barkarī-kuṇḍa);未来世人将在此礼拜她的圣像(pratimā)。