Adhyaya 13
Kashi KhandaPurva ArdhaAdhyaya 13

Adhyaya 13

第13章以多层次的方式,将迦尸(Kāśī)的圣地地理指引、教义赞颂与劝善的信徒故事交织呈现。众伽那描绘一处芬芳清净的圣城区域,并指出与风神伐由(Vāyu,名为Prabhañjana)相关的林伽,称伐由因礼敬圣大自在天(Śrī Mahādeva)而获得护方神(dikpāla)的地位。 经文叙述普塔特玛(Pūtatmā)在瓦拉纳西(Vārāṇasī)长期苦行,并建立净化之林伽“Pavaneśvara/Pavamāneśvara”,强调仅凭瞻礼(darśana)即可脱落罪垢,完成伦理与仪式层面的转化。随后长篇赞歌宣说湿婆的超越与遍在,阐明湿婆—能量(Śiva–Śakti)的区分及知、欲、行三种神力(jñāna、icchā、kriyā),并以“宇宙之身”的对应图式,将社会秩序与宇宙元素纳入神学的宇宙图。 本章亦给出具体方位:林伽在伐由池(Vāyu-kuṇḍa)附近、耶什塔伊沙(Jyeṣṭheśa)之西,并规定以香水沐浴、奉献芳香供品。叙事继而转入另一传说线索,描写如阿拉迦(Alakā)般的辉煌与一位信徒的兴起(并含后续王权意象),最后以果报偈(phalaśruti)保证:聆听此事迹能消除诸罪。

Shlokas

Verse 1

गणावूचतुः । इमां गंधवतीं पुण्यां पुरीं वायोर्विलोकय । वारुण्या उत्तरे भागे महाभाग्यनिधे द्विज

众伽那说道:“婆罗门啊,福德宝藏者,请观此芬芳清净之城,乃风神伐由之城;在瓦鲁尼之北方,可得瞻礼。”

Verse 2

अस्यां प्रभंजनो नाम जगत्प्राणोदिगीश्वरः । आराध्य श्रीमहादेवं दिक्पालत्वमवाप्तवान्

在此处,普拉班贾那——即伐由,世间之命息、诸方之主——礼敬吉祥大自在天(Mahādeva)后,得成一方护世之位。

Verse 3

पुरा कश्यपदायादः पूतात्मेति च विश्रुतः । धूर्जटे राजधान्यां स चचार विपुलं तपः

往昔,有迦叶波之后裔,号称“普塔特曼”(净心者),在杜尔贾提(湿婆)之王都中修行广大苦行。

Verse 4

वाराणस्यां महाभागो वर्षाणामयुतं शतम् । स्थापयित्वा महालिंगं पावनं पवनेश्वरम्

在婆罗那西,那位大福者历经一万年又百年,建立了大林伽——名为“帕瓦内湿伐罗”的净化者。

Verse 5

यस्य दर्शनमात्रेण पूतात्मा जायते नरः । पापकंचुकमुत्सृज्य स वसेत्पावने पुरे

但凡一见其圣容,人即成净心之士;脱去罪垢之衣,当住于净化者之城——帕瓦那。

Verse 6

पलायमानो निहतः क्षणात्पंचत्वमागतः । अभक्षयच्च नैवेद्यं भाविपुण्यबलान्न सः

他逃奔之时被击倒,刹那之间便至于死。然而凭借将来为他生起的福德之力,他并未食用所供的供食(naivedya)。

Verse 7

उवाच च प्रसन्नात्मा करुणामृतसागरः । उत्तिष्ठोत्तिष्ठ पूतात्मन्वरं वरय सुव्रत

于是主宰心怀澄明,乃慈悲与甘露之海,开口说道:“起身,起身吧,净灵者(Pūtātmā)!善誓者啊,选择你的恩赐。”

Verse 8

अनेन तपसोग्रेण लिंगस्याराधनेन च । तवादेयं न पूतात्मंस्त्रैलोक्ये सचराचरे

“凭此炽烈苦行,又以你对林伽(Liṅga)的礼敬,在三界之中——动与不动——没有一样不可赐予你,净灵者(Pūtātmā)。”

Verse 9

पूतात्मोवाच । देवदेवमहादेव देवानामभयप्रद । ब्रह्मनारायणेंद्रादि सर्वदेवपदप्रद

Pūtātmā说道:“诸神之神啊,大自在天(Mahādeva)!赐诸天无畏者;赐予一切神位者——梵天(Brahmā)、那罗延那(Nārāyaṇa)、因陀罗(Indra)等诸神之位。”

Verse 10

वेदास्त्वां न च विंदंति किमात्मक इति प्रभो । प्राप्ताः शतपथत्वं च नेतिनेतीतिवादिनः

“诸吠陀亦不能尽测于你——主啊,你的本体究竟为何。它们宣说‘非此、非此’,遂取百般途径以求趋近。”

Verse 11

ब्रह्मविष्ण्वोपि गिरां गोचरो न च वाक्पतेः । प्रमथेशं कथं स्तोतुं मादृशः प्रभवेत्प्रभो

即使梵天与毗湿奴也非言语所能及,连言语之主(布里哈斯帕提)亦然。我这般之人,怎能赞颂您,噢普罗摩塔众之主?

Verse 12

प्रसह्य प्रमिमीतेश भक्तिर्मांस्तुतिकर्मणि । करोमि किं जगन्नाथ न वश्यानींद्रियाणि मे

噢主啊,虔爱强力驱使我投入赞颂之业;然而我能如何,噢世间之主(Jagannātha)?我的诸根并不受我掌控。

Verse 13

विश्वं त्वं नास्ति वै भेदस्त्वमेकः सर्वगो यतः । स्तुत्यं स्तोता स्तुतिस्त्वं च सगुणो निर्गुणो भवान्

您即是宇宙;诚然无有差别,因为您是一而遍一切。您是所赞者、赞者与赞辞本身;您既具德相,亦超越一切德相。

Verse 14

सर्गात्पुरा भवानेको रूपनाम विवर्जितः । योगिनोपि न ते तत्त्वं विंदंति परमार्थतः

在创造之前,唯有您独存,离于形相与名号。即便瑜伽行者,也不能在最高义中真正了知您的实相。

Verse 15

यदैकलो न शक्नोषि रंतुं स्वैरचर प्रभो । तदिच्छा तवयोत्पन्ना सेव्या शक्तिरभूत्तव

当您这位自在游行的主,不能独自欢悦之时,由您的意愿生起了您的神力——堪受礼敬的——您的Śakti(圣力)。

Verse 16

त्वमेको द्वित्वमापन्नः शिवशक्तिप्रभेदतः । त्वं ज्ञानरूपो भगवान्स्वेच्छा शक्तिस्वरूपिणी

你本为一,却因湿婆与圣力(Śiva-Śakti)的分别而显为二。噢吉祥的主,你以觉知与智慧为体;而你的神力则是你自身自在意志之形。

Verse 17

उभाभ्यां शिवशक्तिभ्या युवाभ्यां निजलीलया । उत्पादिता क्रियाशक्तिस्ततः सर्वमिदं जगत्

由你们二者——湿婆与圣力——凭你们自身的神圣戏游,生起了行动之力(kriyā-śakti);由此,这整个宇宙得以显现。

Verse 18

ज्ञानशक्तिर्भवानीश इच्छाशक्तिरुमा स्मृता । क्रियाशक्तिरिदं विश्वमस्य त्वं कारणं ततः

噢婆伐尼之主,婆伐尼被忆念为知识之力,乌玛被称为意志之力;而此宇宙即行动之力——因此你是它的究竟因。

Verse 19

दक्षिणांगं तव विधिर्वामांगं तव चाच्युतः । चंद्रसूर्याग्निनेत्रस्त्वं त्वन्निःश्वासः श्रुतित्रयम्

梵天在你右侧,阿周多(毗湿奴)在你左侧。你的眼是月、日与火;三部吠陀正是你的呼吸。

Verse 20

त्वत्स्वेदादंबुनिधयस्तव श्रोत्रं समीरणः । बाहवस्ते दशदिशो मुखं ते ब्राह्मणाः स्मृताः

由你的汗水生出诸海。风为你的耳;十方为你的臂;婆罗门被忆念为你的口。

Verse 21

राजन्यवर्यास्ते बाहु वैश्या ऊरुसमुद्भवाः । पद्भ्यां शूद्रस्तवेशान केशास्ते जलदाः प्रभो

噢,伊舍那(Īśāna),尊贵的刹帝利是你的双臂;吠舍由你的大腿而生;首陀罗出自你的双足;而你的发丝,主啊,便是层层云海。

Verse 22

त्वं पुं प्रकृतिरूपेण ब्रह्मांडमसृजः पुरा । मध्ये ब्रह्मांडमखिलं विश्वमेतच्चराचरम्

你以普鲁沙(Puruṣa)与原质(Prakṛti)之相,于太初创造了宇宙之卵;而在那梵卵(brahmāṇḍa)之中,含摄此一切动与不动的宇宙。

Verse 23

अतस्त्वत्तो न मन्येऽहं किंचिद्भिन्नं जगन्मय । त्वयि सर्वाणि भूतानि सर्वभूतमयो भवान्

因此,遍满世界者啊,我不认为有任何事物能与你分离。万有众生皆在你之中,而你自身亦由一切众生所成。

Verse 24

नमस्तुभ्यं नमस्तुभ्यं नमस्तुऽभ्यं नमोनमः । अयमेव वरो नाथ त्वयि मेऽस्तु स्थिरा मतिः

向你顶礼,向你顶礼,向你顶礼,复又复。主啊,唯此为愿:愿我的觉知恒常安住于你。

Verse 25

इत्युक्तवति देवेश स्तस्मिन्पूतात्मनि प्रभुः । स्वमूर्तित्वं समारोप्य दिक्पालपदमादधे

当那清净之心如此对诸天之主陈说时,主便摄受他入自身之形,并赐予他“护方神”(Dikpāla)之位,守护诸方。

Verse 26

सर्वगो मम रूपेण सर्वतत्त्वावबोधकः । सर्वेषामायुषोरूपं भवानेव भविष्यति

以我的形相,你将遍满一切,唤醒众生对一切真理(tattva)的觉悟;唯有你将成为一切众生寿命之形体与本质。

Verse 27

तव लिंगमिदं दिव्यं ये द्रक्ष्यंतीह मानवाः । सर्वभोगसमृद्धास्ते त्वल्लोकसुखभागिनः

凡在此得见你这神圣的林伽(Liṅga)之人,皆得具足诸乐与丰盛,并得分受你自界之安乐。

Verse 28

पवमानेश्वरं लिंगं मध्ये जन्मसकृन्नरः । यथोक्तविधिना पूज्य सुगंधस्नपनादिभिः

人于一生之中,纵使仅一次,也应依所说仪轨礼拜帕瓦玛内湿伐罗(Pavamāneśvara)之林伽,以芳香沐浴等诸供养奉事。

Verse 29

सुगंधचंदनैः पुष्पैर्मम लोके महीयते । ज्येष्ठेशात्पश्चिमेभागे वायुकुंडोत्तरेण तु

以芬芳檀香与花鬘供奉,则于我之界中蒙受尊崇。(此帕瓦玛内湿伐罗)位于阇耶什提湿伐罗(Jyeṣṭheśa)之西侧,并在风池(Vāyu-kuṇḍa)之北。

Verse 30

पावमानं समाराध्य पूतो भवति तत्क्षणात् । इति दत्त्वा वरान्देवस्तस्मिंल्लिंगे लयं ययौ

如法奉事帕瓦玛那(Pāvamāna,即Pavamāneśvara)者,刹那之间即得清净。如此赐下诸愿之后,那位天神便融入、归寂于彼林伽之中。

Verse 31

गणावूचतुः । इति गंधवती पुर्याः स्वरूपं ते निरूपितम् । तस्याः प्राच्यां कुबेरस्य श्रीमत्येषालकापुरी

众伽那说道:“如此,芬芳之城的真实形相已为你宣说。其东方有财宝主俱毗罗的辉煌城都——阿拉迦(Alakā)。”

Verse 32

शंभोः सखित्वमापेदे नाथोस्या भक्तियोगतः । निधीनां पद्ममुख्यानां दाता भोक्ता हरार्चनात्

凭借虔敬之力,她的主宰得与商婆(Śambhu)结为友伴;又因礼敬哈罗(Hara),他既能施与亦能受用诸宝藏,其中以莲华宝藏“帕德摩”(Padma,大尼地)为首。

Verse 33

शिवशर्मोवाच । कोसौ कस्य पुनः कीदृग्भक्तिरस्य सदाशिवे । यया सखित्वमापन्नो देवदेवस्यधूर्जटेः

湿婆舍曼说道:“他是谁?又是谁的主宰?他对常住湿婆(Sadāśiva)怀有何等虔敬,竟能因此与杜尔阇提(Dhūrjaṭi)——诸神之神——结为友伴?”

Verse 34

इति श्रोतुं मम मनः श्रुतिगोचरतां गतम् । युवयोर्वाक्सुधास्वाद मेदुरोदरमंथरम्

因此,我的心神已全然趋向聆听此事。你们言语的甘露之味,竟使那迟缓沉重的心念也被搅动而行。

Verse 35

गणावूचतुः । शिवशर्मन्महाप्राज्ञ परिशुद्धेंद्रियेश्वर । सुतीर्थक्षालिताशेषजन्मजातमहामल

众伽那说道:“噢,湿婆舍曼,大智者、清净诸根之主;你由无量生死所生的广大垢染,已被殊胜圣地(tīrtha)洗涤殆尽。”

Verse 36

सुहृदि प्रेमसंपन्ने त्वय्यनुद्यं न किंचन । साधुभिः सह संवादः सर्वश्रेयोऽभिवृद्धये

在你这位充满慈爱与善意的挚友身上,毫无可责之处。与贤善之人相与谈论,能增长一切至上福德。

Verse 37

आसीत्कांपिल्यनगरे सोमयाजिकुलोद्भवः । दीक्षितो यज्ञदत्ताख्यो यज्ञविद्याविशारदः

在迦ṃ毗利耶城中,住着一位受过灌顶誓戒的婆罗门,出自奉行苏摩祭(Soma-yajña)的家族,名为耶阇那达多(Yajñadatta),精通祭祀之学。

Verse 38

वेदवेदांगवेदार्थान्वेदोक्ताचारचंचुरः । राजमान्यो बहुधनो वदान्यः कीर्तिभाजनम्

他通晓吠陀、吠陀支分(Vedāṅga)及吠陀教义之旨;勤行吠陀所示之正行,为诸王所敬,富足而慷慨,亦为清名所归。

Verse 39

अग्निशुश्रूषणरतो वेदाध्ययनतत्परः । तस्य पुत्रो गुणनिधिश्चंद्रबिंबसमाकृतिः

他专心侍奉圣火,又勤于诵习吠陀。他的儿子名为功德藏(Guṇanidhi),面容如满月之轮。

Verse 40

कृतोपनयनः सोथ विद्यां जग्राह भूरिशः । अथ पित्रानभिज्ञातो द्यूतकर्मरतोऽभवत्

他既行受线礼(upanayana),便广学诸艺;然而后来——瞒着父亲——却沉迷于赌博之业。

Verse 41

आदायादाय बहुशो धनं मातुः सकाशतः । ददाति द्यूतकारेभ्यो मैत्री तैश्च चकार सः

他一次又一次从母亲那里取钱,送给赌徒,并与他们结交为友。

Verse 42

संत्यक्त ब्राह्मणाचारः संध्यास्नानपराङ्मुखः । निंदको वेदशास्त्राणां देवब्राह्मणनिंदकः

他舍弃了婆罗门应守的行仪,背离暮昏礼(sandhyā)与沐浴仪轨,遂成诋毁吠陀与论典(śāstra)之人,亦毁谤诸神与婆罗门。

Verse 43

स्मृत्याचारविहीनस्तु गीतवाद्यविनोदभाक् । नटपाखंडिभंडैश्च बद्धप्रेमपरंपरः

他失却《忆念》(Smṛti)所教之行持,却沉溺于歌唱与乐器之娱,并被对伶人、伪善者与丑角的执著之链所系缚。

Verse 44

प्रेरितोपि जनन्या स न याति पितुरंतिकम् । गृहकार्यांतरव्यग्रो दीक्षितो दीक्षितायिनीम्

纵使母亲催促,他也不去父亲身边。因忙于别的家务,他仍不断扰害家中受灌顶的女主人(dīkṣitā)。

Verse 45

यदा यदैव तां पृच्छेदयेगुणनिधिः सुतः । न दृश्यते मया गेहे क्व याति विदधाति किम्

每当她的儿子具德藏(Guṇanidhi)问道:“我在家中不见他;他往哪里去,又做些什么?”

Verse 46

तदा तदेति सा ब्रूयादिदानीं स बहिर्गतः । स्नात्वा समर्च्य वै देवानेतावंतमनेहसम्

于是她每次都答道:“他刚刚出去了——沐浴之后又依礼敬奉诸神;仅此而已,并无别事。”

Verse 47

अधीत्याध्ययनार्थं स द्वित्रैर्मित्रैः समं ययौ । एकपुत्रेति तन्माता प्रतारयति दीक्षितम्

他完成先前的学业后,便与两三位同伴一同外出继续求学。然而他的母亲心想“他是我唯一的儿子”,便不断哄劝并蒙蔽迪克希塔,纵容他、替他遮掩。

Verse 48

न तत्कर्म च तद्वृत्तं किंचिद्वेत्ति स दीक्षितः । स च केशांतकर्मास्य कृत्वा वर्षेऽथ षोडशे

迪克希塔对那件事与那种不端行径一无所知。随后,在他十六岁之年,为他举行了“结发礼”(keśānta)之后……

Verse 49

गृह्योक्तेन विधानेन पाणिग्राहमकारयत् । प्रत्यहं तस्य जननी सुतं गुणनिधिं मृदु

依照《家祭经》(Gṛhya-sūtra)所说的仪轨,她为他举行了婚礼——执手成婚。日复一日,他的母亲温柔地对儿子说道:“噢,德行之宝藏……”

Verse 50

शास्ति स्नेहार्द्रहृदया क्रोधनस्ते पितेत्यलम् । यदि ज्ञास्यति ते वृत्तं त्वां च मां ताडयिष्यति

她怀着被慈爱浸润的心告诫他:“够了——你父亲性急易怒。若他知道你的行径,必会连你带我一同责打。”

Verse 51

आच्छादयामि ते नित्यं पितुरग्रे कुचेष्टितम् । लोकमान्योस्ति ते तातः सदाचारैर्न वै धनैः

我常在你父亲面前遮掩你的过失。孩子,你的父亲为世人所敬,并非因财富,而是因其善行与正道。

Verse 52

ब्राह्मणानां धनं पुत्र सद्विद्या साधुसंगमः । सच्छ्रोत्रियास्त्वनूचाना दीक्षिताः सोमयाजिनः

孩子,婆罗门的真财富,是正知与善人相伴——与具德的śrotriya、通晓诵读者、受灌顶的dikṣita,以及行索摩祭(Soma-yajña)者相交。

Verse 53

इति रूढिमिह प्राप्तास्तव पूर्वपितामहाः । त्यक्त्वा दुर्वृत्तसंसर्गं साधुसंगरतो भव

你的先祖在此便是如此承继并确立了传统。舍弃恶行之人的结交,专心乐于亲近贤善之众。

Verse 54

सद्विद्या सुमनो धेहि ब्राह्मणाचारमाचर । तवानुरूपारूपेण वयसाकुलशीलतः

当安立正学与善意之心,奉行婆罗门之行。因为或合或不合于你本分之所宜,皆由青春躁动之性而起……

Verse 55

ऊनविंशतिकोऽसि त्वमेषा षोडशवार्षिकी । तव पत्नी गुणनिधे साध्वी मधुरभाषिणी

你尚未满二十,她才十六岁。你的妻子,德行之宝,是位贞洁的sādhvī,言语柔和甘美。

Verse 56

एतां संवृणु सद्वृत्तां पितृभक्तियुता भव । श्वशुरोपि हि ते मान्यः सर्वत्र गुणशीलतः

当接纳并珍爱这位品行端正的妻子,并以孝敬之心奉事你的父亲。因为你的岳父亦当处处受人敬重,皆因其德行与端正品格。

Verse 57

ततोऽपत्रपसे किं न त्यज दुर्वृत्ततां शिशो । मातुलास्तेऽतुलाः पुत्र विद्याशीलकुलादिभिः

孩子啊,你为何不知羞耻,仍不舍弃恶行?你的舅父们堪为楷模,儿啊——以学识、善行与高贵家世而闻名。

Verse 58

तेभ्योपि न बिभेषि त्वं शुद्धोस्युभय वंशतः । पश्यैतान्प्रतिवेश्मस्थान्ब्राह्मणानां कुमारकान्

你两边血统皆清净,难道连他们也不畏惧吗?看这些住在邻舍的婆罗门之子。

Verse 59

गृहेपि शिष्यान्पश्यैतान्पितुस्ते विनयोचितान् । राजापि श्रोष्यति यदा तव दुश्चेष्टितं सुत

即便在家中,也当看看你父亲的弟子们——受教于应有的礼法与纪律。因为国王一旦听闻你的恶行,儿啊,后果必将随之而来。

Verse 60

श्रद्धां विहाय ते ताते वृत्तिलोपं करिष्यति । बालचेष्टितमेवैतद्वदंत्यद्यापि ते जनाः

你的父亲若对你失却信心,便会断绝你的供养。即便如今,人们也说:“这不过是孩童般的行径。”

Verse 61

अनंतरं हसिष्यंति युक्तं दीक्षिततास्त्विति । सर्वेप्याक्षारयिष्यंति तव विप्रं च मां च वै

随后他们将讥笑道:“这就是所谓‘合乎法度的灌顶(dīkṣā)’吗?”并且因你之故,众人都将责难你的婆罗门导师,也连同责难我。

Verse 62

मातुश्चरित्रं तनयो धत्ते दुर्भाषणैरिति । पिता पितेन पापीयाञ्च्छ्रुतिस्मृतिपथीनकिम्

人们会说:“儿子以恶言辱语,显露了母亲的品性。”又说:“父亲因其先父而更为不善——他们难道不是行于《闻》(Śruti)与《忆》(Smṛti)之道吗?”

Verse 63

तदंघ्रिलीनमनसो मम साक्षी महेश्वरः । न चर्तुस्नातयापीह मुखं दुष्टस्य वीक्षितम्

于我而言,心已依止于祂足下,摩诃伊湿伐罗(Maheśvara)为我作证。在此地,纵使行“四浴”而自净者,也未曾正视恶人之面。

Verse 64

अहो बलीयान्सविधिर्येन जाता भवानिति । प्रतिक्षणं जनन्येति शिक्ष्यमाणोतिदुर्मदः

“啊,真是强大的宿命,使你如此出生!”——他们如此说道。然而即便受教之时,他也每一刻都奔向母亲,傲慢至极。

Verse 65

न तत्याज च तद्धर्मं दुर्बोधो व्यसनी यतः । मृगया मद्य पैशुन्य वेश्याचौर्यदुरोदरैः

他并未舍弃那等行径,因为愚钝而沉溺成癖:狩猎、饮酒、诽谤、狎妓、偷盗,以及败家毁身的赌博。

Verse 66

सपारदारैर्व्यसनैरेभिः कोत्र न खंडितः । यद्यन्मध्ये गृहे पश्येत्तत्तन्नीत्वा सुदुर्मतिः

带着这些恶习——并兼有通奸——世间有谁不被摧毁?凡他在家中所见之物,便一一夺取携走,只因其心极其邪恶。

Verse 67

अर्पयेद्द्यूतकाराणां सकुप्यं वसनादिकम् । नवरत्नमयीं मातुः करतः पितुरूर्मिकाम

他把家中器物、衣服等都交给赌徒;甚至连母亲那镶九宝的戒指,以及父亲的指环,也都送了出去。

Verse 68

स्वपंत्यास्त्वेकदाऽदाय दुरोदरिकरेऽर्पयत् । एकदा गच्छता राजभवनान्निजमुद्रिका

有一次,他趁她熟睡取走那物,放入赌徒手中;又有一次,他前往王宫时,随身带着自己的印戒。

Verse 69

दीक्षितेन परिज्ञाता दैवाद्द्यूतकृतः करे । उवाच दीक्षितस्तं च कुतो लब्धा त्वयोर्मिका । पृष्टस्तेनाथ निर्बंधादसकृत्प्रत्युवाच किम्

机缘之下,那受灌顶的婆罗门见赌徒手上戴着此物。那位迪克希塔问他:“你从何处得来这枚戒指?”被一再逼问之下,他究竟如何作答?

Verse 70

ममाक्षिपसि विप्रोच्चैः किं मया चौर्य कर्मणा । लब्धा मुद्रा त्वदीयेन पुत्रेणैषा ममार्पिता

“婆罗门啊,你为何高声指责我?我与盗窃何干?这枚印戒是从你自己的儿子那里得来的——是他亲手交给我的。”

Verse 71

मम मातुर्हि पूर्वे द्युर्जित्वानीतो हि शाटकः । न केवलं ममाप्येतदंगुलीयं समर्पितम्

“先前他在赌戏中得胜,竟夺走我母亲的衣裳;不止如此,他还把我的这枚戒指也交了出去。”

Verse 72

अन्येषां द्यूतकर्तृणां भूरि तेनार्पितं वसु । रत्नकुप्यदुकूलानि भृंगारुप्रभृतीनि च

“他也向其他赌徒施与大量财物——珠宝、家中贵重器物、上等衣料与华服,以及臂钏等诸般饰物。”

Verse 73

भाजनानि विचित्राणि कांस्य ताम्रमयानि च । नग्नीकृत्यप्रति दिनं बद्ध्यंते द्यूतकारिभिः

“就连各式器皿——铜铃合金与红铜所制——也被剥夺掠去;日复一日,他们被赌徒捆缚,拖入苦境。”

Verse 74

न तेन सदृशः कश्चिदाक्षिको भूमिमंडले । अद्य यावत्त्वया विप्र दुरोदरशिरोमणिः

“在大地之上,没有任何掷骰之人能与他相比。直到今日,婆罗门啊,他仍是赌徒之中的冠冕明珠。”

Verse 75

कथं नाज्ञायि तनयो ऽविनयानयकोविदः । इति श्रुत्वा त्रपाभार विनम्रतरकंधरः

“那儿子如此善于引人失德,怎会不被认出?”听到这话,他羞惭沉重,便把颈项垂得更低。

Verse 76

प्रावृत्य वाससा मौलिं प्राविशन्निजमंदिरम् । महापतिव्रतामास्य पत्नीं प्रोवाच तामथ

他以衣布覆顶,走入自家宅邸。随后对其妻——贞节与德行的伟大典范——开口说道。

Verse 77

दीक्षितायिनि कुत्रासि क्व ते गुणनिधिः सुतः । अथ तिष्ठतु किं तेन क्व सा मम शुभोर्मिका

“噢,Dīkṣitāyinī,你在哪里?你那德行之宝的儿子在哪里?且由他去——他又算什么?但我的吉祥指环在哪里?”

Verse 78

अंगोद्वर्तन काले या त्वया मेंऽगुलितो हृता । नवरत्नमयीं शीघ्रं तामानीय प्रयच्छ मे

“你在为我涂抹香膏、摩拭身体之时,从我指上取走的那枚——速速取来;那镶九宝之戒,快交还于我。”

Verse 79

इति श्रुत्वाथ तद्वाक्यं भीता सा दीक्षितायिनी । प्रोवाच सा तु माध्याह्नीं क्रियां निष्पादयत्वथ

听到这番话,Dīkṣitāyinī心生惧意。她便答道:“且先完成正午之仪。”

Verse 80

व्यग्रास्मि देवपूजार्थमुपहारादि कर्मणि । समयोयमतिक्रामेदतिथीनां प्रियातिथे

“我正忙于诸神礼拜,以及供奉等诸般事务。此乃定时,不可逾越;噢,爱宾之人、我所亲爱的。”

Verse 81

इदानीमेव पक्वान्नकरणव्यग्रया मया । स्थापिता भाजने क्वापि विस्मृतेति न वेद्म्यहम्

方才我正忙于烹制熟食,便把它放入一只器皿中置于某处;因一时遗忘,我也不知究竟放在何方。

Verse 82

दीक्षित उवाच । हंहो सत्पुत्रजननि नित्यं सत्यप्रभाषिणि । यदायदा त्वां संपृच्छे तनयः क्व गतस्त्विति

迪克希塔说道:“唉!善子之母啊,你常说真实之语——每当我问你:‘孩子到哪里去了?’”

Verse 83

तदातदेति त्वं ब्रूया नाथेदानीं स निर्गतः । अधीत्याध्ययनार्थं च द्वित्रैर्मित्रैः सयुग्बहिः

“你总说‘那时那时’。可如今,夫人,他已出门——与两三位友伴同去——在读诵之后,为求更深的学业而往外。”

Verse 84

कुतस्त्वच्छाटकः पत्नि मांजिष्ठो यो मयाऽर्पितः । लंबते वस्त्रधान्यांयस्तथ्यं ब्रूहि भयं त्यज

“妻啊,我交给你的那件微红的衣裳在哪里?它本应挂在衣物之处;如实道来,莫要畏惧。”

Verse 85

सांप्रतं नेक्ष्यते सोपि भृंगारुर्मणिमंडितः । पट्टसूत्रमयीसापि त्रिपटी क्व नृपार्पिता

“如今连那镶嵌宝石的器皿也不见踪影;而那由国王赐予的三重丝带,又在何处?”

Verse 86

क्व दाक्षिणात्यं तत्कांस्यं गौडी ताम्रघटी क्व सा । नागदंतमयी सा क्व सुखकौतुकमंचिका

那南方的青铜器皿在哪里?那迦乌达的铜壶在哪里?那以象牙制成、为安乐与欢喜而设的小榻又在哪里?

Verse 87

क्व सा पर्वतदेशीया चंद्रकांतशिलोद्भवा । दीपिका व्यग्रहस्ताग्रा सालंकृच्छालभंजिका

那来自山国、由月光宝石(chandrakānta)所生的灯在哪里?其焰在躁动之手的指端摇曳;华饰灿然,仿佛胜过华宅的光辉。

Verse 88

किं बहूक्तेन कुलजे तुभ्यं कुप्याम्यहं वृथा । तदाभ्यवहरिष्येहमुपयंस्याम्यहं यदा

多言何益,尊贵出身者啊?我对你发怒也是徒然。待时机到来,我自会亲自采取行动,也将亲自备办所需。

Verse 89

अनपत्योस्मि तेनाहं दुष्टेन कुलदूषिणा । उत्तिष्ठानय दर्भांबु तस्मै दद्यां तिलांजलिम्

我无有贤子,皆因那恶人玷污家族。起来吧——取来库沙草与清水;我要为他献上芝麻水的奠祭,如同对亡者一般。

Verse 90

अपुत्रत्वं वरं नृणां कुपुत्रात्कुलपांसनात् । त्यजेदेकं कुलस्यार्थे नीतिरेषा सनातनी

对人而言,无子胜于有恶子——那是家族的污秽。为护持宗族之利,可舍弃一人;此乃永恒的正法之则。

Verse 91

स्नात्वा नित्यविधिं कृत्वा तस्मिन्नेवाह्निकस्यचित् । श्रोत्रियस्य सुतां प्राप्य पाणिं जग्राह दीक्षितः

沐浴毕并完成每日仪轨,就在那一天,迪克希塔得到了通晓吠陀的婆罗门之女,并执其手而成婚。

Verse 92

श्रुत्वा तथा स वृत्तांतं प्राक्तनं स्वं विनिंद्य च । कांचिद्दिशं समालोच्य निर्ययौ दीक्षितांगजः

听闻此事经过,并自责往昔所行,迪克希塔之子思量一方方向,遂即启程离去。

Verse 93

चिंतामवाप महतीं क्व यामि करवाणि किम् । नाहमभ्यस्तविद्योस्मि न चैवास्ति धनोस्म्यहम्

他陷入深深忧惧:“我将往何处去?我当作何事?我未曾熟习学问,也全无财物。”

Verse 94

देशांतरे ह्यस्ति धनः सद्विद्यः सुखमेधते । भयमस्ति धने चौरात्सविद्यः सर्वतोऽभयः

财富或可在异乡获得,而真知却安乐而昌盛。财富招致盗贼之惧;有学之人处处无畏。

Verse 95

यायजूके कुले जन्म क्वक्व मे व्यसनं तथा । अहो बलीयान्स विधिर्भाविकर्मानुसंधयेत्

我生于司祭行祭之族,然而这般灾厄竟在何处、以何方式临到我身!唉,命运更为强盛;它追随那将要结果之业的脉络。

Verse 96

भिक्षितुं नाधिगच्छामि न मे परिचितः क्वचित् । न च पार्श्वे धनं किंचित्किमत्र शरणं भवेत्

我连乞求的门路都找不到,处处无人相识;身边也毫无钱财——在此我还能依止何处为归依?

Verse 97

सदाभ्युदिते भानौ प्रसूर्मे मृष्टभोजनम् । दद्यादद्यात्र कं याचे याचेह जननी न मे

他心中思量:“当太阳日日升起时,母亲今日本会赐我佳肴;可在此时此地,我又能向谁乞求?在这里,我没有母亲可呼求。”

Verse 98

इति चिंतयतस्तस्य भानुरस्ताचलं गतः । एतस्मिन्नेव समये कश्चिन्माहेश्वरो नरः

他正如此思惟之时,太阳沉入西山。就在那一刻,一位奉事大自在天(摩诃湿伐罗、湿婆)的男子出现了。

Verse 99

महोपहारानादाय नगराद्बहिरभ्यगात् । समभ्यर्चितुमीशानं शिवरात्रावुपोषितः

他携带丰盛的供品,走出城外;为礼敬伊舍那(湿婆),他在湿婆夜(Śivarātri)之夜守斋禁食。

Verse 100

पक्वान्नगंधमाघ्राय क्षुधितः स तमन्वगात् । इदमन्नं मया ग्राह्यं शिवायोपस्कृतं निशि

他嗅到熟食的香气,饥饿难耐,便跟随其后,心想:“这食物我应当取来——纵然它是在夜间为供奉湿婆而备。”

Verse 110

कुलाचारप्रतीपोयं पित्रोर्वाक्यपराङ्मुखः । सत्यशौचपरिभ्रष्टःसंध्यास्नानविवर्जितः

此人违逆宗族之礼,背弃父母之言,失落真实与清净,并舍弃黄昏时的沙暮祈祷(sandhyā)与沐浴之圣仪。

Verse 120

कलिंगराजोभविताऽधुनाविधुतकल्मषः । एष द्विजवरो दूता यूयं यात यथागताः

如今他将成为迦陵伽(Kaliṅga)之王,罪垢已被洗净。此上等婆罗门为我使者;诸位使臣,且去,仍如来时而返。

Verse 130

स्वार्थदीपदशोद्योत लिंगमौलि तमोहरः । कलिंगविषये राज्यं प्राप्तो धर्मरतिः सदा

以灵伽(liṅga)为冠,能除幽暗;以自身志愿之十灯辉耀——他在迦陵伽之地得王权,恒常乐住于法(dharma)。

Verse 140

तावत्तताप स तपस्त्वगस्थिपरिशेषितम् । यावद्बभूव तद्वर्ष्म वर्षाणामयुतं शतम्

他修行苦行(tapas)至仅余皮骨;并持续不辍,使其身如是忍受,历经百个万数之年。

Verse 150

क्रूरदृग्वीक्षते यावत्पुनःपुनरिदं वदन् । तावत्पुस्फोट तन्नेत्रं वामं वामा विलोकनात

他以凶厉之目不断凝视,又反复说着这些话;于是他的左眼爆裂——皆因女神向左的一瞥。

Verse 160

देवेन दत्ता ये तुभ्यं वराः संतु तथैव ते । कुबेरो भव नाम्ना त्वं मम रूपेर्ष्यया सुत

“愿天神赐予你的诸般恩赐如其本然,恒常不改。你将以名号称为俱毗罗(Kubera),噢孩子——由我对美色的嫉妒而生。”

Verse 166

पुर्यां यक्षेश्वराणां ते स्वरूपमिति वर्णितम् । यच्छ्रुत्वा सर्वपापेभ्यो नरो मुच्येदसंशयम्

至此,已为你宣说此圣城中诸夜叉主(Yakṣeśvara)的真实本性。闻此者,必脱离一切罪垢——毫无疑虑。