Adhyaya 11
Kashi KhandaPurva ArdhaAdhyaya 11

Adhyaya 11

阿伽斯提亚讲述一段以迦尸(Kāśī)为中心的神学论述,从毗湿瓦那罗与舒奇施摩蒂的居家生活说起。本章依次铺陈传统诸“成礼”(saṃskāra)——受胎礼(garbhādhāna)、求男礼(puṃsavana)、分发礼(sīmanta)、诞生庆典与正式命名礼——最终以吠陀式咒语引证,为婴儿定名“居主”(Gṛhapati)。又描绘众仙圣与诸天神祇齐集诞生盛会,彰显此子在神圣公共秩序中的吉祥与尊贵。 随后论述转向家道规范:强调子嗣对居士期(gṛhastha-āśrama)的价值,列举“诸子类型”,并以护持血脉延续为法(dharma)之要务。那罗陀到来,教诫以孝顺为伦理准则,并细致施行相貌与掌纹/印记之检验(lakṣaṇa-parīkṣā),解读诸相为王权与福运之征,同时警示命运或能颠倒资质。预言又言其约十二岁时或遭雷火之厄,父母悲恸;孩童反而安慰双亲,誓愿礼敬并祈请“胜死者”牟利提云阇耶(Mṛtyuñjaya,湿婆)以越过危难,使叙事重归于信爱、护佑与迦尸湿婆救度的光明境界。

Shlokas

Verse 1

अगस्तिरुवाच । शृणु सुश्रोणि सुभगे वैश्वानरसमुद्भवम् । पुण्यशीलसुशीलाभ्यां यथोक्तं शिवशर्मणे

阿伽斯提耶说道:听着,善腰美髋、吉祥之人啊,此事缘起于毗舍婆那罗——圣火。正如其所发生的那样,德行具足的夫妇普尼耶希罗与苏希拉,将此事告知湿婆舍尔曼。

Verse 2

अथ कालेन तद्योषिदंतर्वत्नी बभूव ह । विधिवद्विहिते तेन गर्भाधानाख्य कर्मणि

随后,时日推移,那女子便怀了身孕,因为他已依仪轨如法完成了名为“加尔婆陀那”(Garbhādhāna)的受胎仪式。

Verse 3

ततः पुंसवनं तेन स्पंदनात्प्राग्विपश्चिता । गृह्योक्तविधिना सम्यक्कृतं पुंस्त्वविवृद्धये

随后,在胎儿尚未初动之前,智者依照《家祭经》(Gṛhya)所教之法,恭敬而周备地举行了“普姆萨瓦那”(Puṃsavana)仪式,以增益男嗣之力。

Verse 4

सीमन्तोथाष्टमे मासि गर्भरूपसमृद्धिकृत् । सुखप्रसव सिद्ध्यै च तेनाकारि क्रियाविदा

继而在第八个月,通晓圣仪者举行了名为“西曼塔”(Sīmanta)的仪式,使胎相圆满增长,并成就安乐而顺遂的分娩。

Verse 5

अथातः सत्सुतारासु ताराधिप वराननः । केंद्रे गुरौ शुभे लग्ने सुग्रहेष्वयुगेषु च

其后,当吉祥的月宿当令,月亮——群星之主、容颜端美者——与木星(Guru)同居有利的角宫,又逢吉上升点,诸善星落于奇数分宫之时,时辰极为瑞妙。

Verse 6

अरिष्टं दीपयन्दीप्त्या सर्वारिष्टविनाशकृत् । तनयो नाम तस्यां तु शुचिष्मत्यां बभूव ह

他以光辉照耀,能灭尽一切不祥;在那位名为“净光”(Śuciṣmatī)的女子腹中,确实诞生了一位男儿,其自身的明耀摧破诸恶兆。

Verse 7

सद्यः समस्तसुखदो भूर्भुवःस्वर्निवासिनाम् । गंधवाहागन्धवाहादिग्वधूमुखवासनाः

顷刻之间,他成为赐予住于Bhūḥ、Bhuvaḥ与Svaḥ三界众生圆满喜乐者;四方又起芬芳之风,宛如方位天女面容所散之香,甜美气息遍满周遭。

Verse 8

इष्टगन्धप्रसूनौघैर्ववर्षुस्ते घनाघनाः । देवदुन्दुभयो नेदुः प्रसेदुः सर्वतोदिशः

那浓密的云团倾洒芬芳可爱的花雨;天界诸神的法鼓轰然回响,四方八面皆归于宁静与吉祥。

Verse 9

परितः सरितः स्वच्छा भूतानां मानसैः सह

四周的河流变得澄澈;与之相应,众生之心也清明安定。

Verse 10

सत्त्वाः सत्त्वसमायुक्ता वसुधासीच्छुभा तदा । कल्याणी सर्वतो वाणी प्राणिनः प्रीणयंत्यभूत्

众生充满善德;大地当时亦成吉祥;四方传来善美悦耳之语,使一切有情欢喜。

Verse 11

तिलोत्तमोर्वशीरंभा प्रभा विद्युत्प्रभा शुभा । सुमंगला शुभालापा सुशीलाड्या वरांगनाः

蒂洛塔玛、乌尔瓦希、兰婆、普拉婆、维迪尤特普拉婆、舒婆、苏曼伽拉、舒婆拉婆与苏希拉——诸位端严的天女,德姿具足——为庆典而现身。

Verse 12

क्वणत्कंकण पात्राणि कृत्वा करतलं मुदा । मुक्तमुक्ताफलाढ्यानि यक्षकर्दमवंति च

她们欢喜合掌,手镯与器皿叮当作响;又奉上满载珍珠与珠宝串的供品,并携来夜叉之宝“Yakṣa-kardama”。

Verse 13

वज्रवैदूर्य दीपानि हरिद्रा लेपनानि च । गारुत्मतैकरूपाणि शंखशुक्तिदधीनि च

彼处陈设金刚与猫眼宝(vaidūrya)之灯,又有姜黄涂抹之香膏;并有同具迦楼罗般一色光辉之物,亦备圣螺、牡蛎壳与凝乳,作为吉祥供品。

Verse 14

पद्मरागप्रवालाख्यरत्नकुंकुमवंति च । गोमेदपुष्परागेंद्र नीलसन्माल्यभांजि च

他们以吉祥之物庄严:有朱砂与由宝石如红宝(padmarāga)与珊瑚(pravāla)所制之粉;又佩戴戈梅达宝、黄宝(puṣparāga)、蓝宝般的青色饰物(nīla),并有华美花鬘。

Verse 15

विद्याधर्यश्च किन्नर्यस्तथाऽमर्यः सहस्रशः । चामर व्यग्रहस्ताग्र मंगलद्रव्यपाणयः

成千上万的持明女(Vidyādharī)、紧那罗女(Kinnarī)与天女前来;有的忙持牦牛尾拂(cāmara),有的手捧吉祥的仪式供具。

Verse 16

गंधर्वोरगयक्षाणां सुवासिन्यः शुभस्वराः । गायंत्यो ललितं गीतं तत्राजग्मुरनेकशः

又有许多乾闼婆、那伽与夜叉族中装饰华美的女子,声音甜润、音调吉祥,来到彼处吟唱婉丽之歌。

Verse 17

मरीचिरत्रि पुलहः पुलस्त्यः क्रतुरंगिराः । वसिष्ठः कश्यपश्चाहं विभांडो मांडवीसुतः

摩利支(Marīci)、阿底利(Atri)、普罗诃(Pulaha)、普罗私底耶(Pulastya)、克罗图(Kratu)、安吉罗(Aṅgiras),以及婆悉吒(Vasiṣṭha)与迦叶(Kaśyapa)——并我自身——同摩ṇḍ毗之子毗婆ṇḍ(Vibhāṇḍa)皆在场。

Verse 18

लोमशो लोमचरणो भरद्वाजोथ गौतमः । भृगुस्तु गालवो गर्गो जातूकर्ण्यः पराशरः

罗摩沙与罗摩恰罗那、婆罗陀婆阇与瞿多摩;又有婆利古、伽罗婆、伽尔伽、阇度迦耳尼耶与波罗舍罗——诸圣仙皆于彼处会集。

Verse 19

तत्र स्नात्वा विधानेन दृष्ट्वा विश्वेश्वरं विभुम् । त्रैलोक्यप्राणिसंत्राणकारिणं प्रणनाम ह

他依仪轨在彼处沐浴,得见遍在之主毗湿维湿伐罗——护佑三界众生者,遂恭敬顶礼。

Verse 20

जमदग्निश्च संवर्तो मतंगो भरतोंशुमान् । व्यासः कात्यायनः कुत्सः शौनकः सुश्रुतः शुकः

阇摩达格尼与三伐尔多、摩当伽与光辉的婆罗多;又有毗耶娑、迦底耶那、库特萨、绍那迦、苏输卢多与输迦——诸圣仙亦在其间。

Verse 21

ऋष्यशृंगोथ दुर्वासा रुचिर्नारदतुंबुरू । उत्तंको वामदेवश्च च्यवनोसितदेवलौ

又有利湿耶室陵伽,其后杜尔婆娑、卢支、那罗陀与通布卢;乌坦迦与婆摩提婆,以及遮婆那、阿悉多、提婆罗——皆来至彼处。

Verse 22

शालंकायनहारी तौ विश्वामित्रोथभार्गवः । मृकंडः सह पुत्रेण दाल्भ्य उद्दालकस्तथा

沙兰迦耶那与哈利、毗湿瓦密多罗与婆尔伽婆;摩利迦ṇḍa携其子同来,达尔毗耶与优陀罗迦亦然——众圣仙皆聚于彼。

Verse 23

धौम्योपमन्युवत्साद्या मुनयो मुनिकन्यकाः । तच्छांत्यर्थं समाजग्मुर्धन्यं विश्वानराश्रमम्

道弥、优波摩纽、跋蹉等诸圣仙,以及出自牟尼家系的修行少女,为求彼等安抚与吉祥而共聚,遂来到福德具足的毗舍瓦那罗圣隐苑。

Verse 24

ब्रह्मा बृहस्पतियुतो देवो गरुडवाहनः । नंदि भृंगि समायुक्तो गौर्या सह वृषध्वजः

梵天偕同布利哈斯帕提而来;乘迦楼罗之神亦至。又有牛旗之主湿婆,与高丽同临,并携难陀因与婆陵金,共赴此宏大圣会。

Verse 25

महेंद्रमुख्या गीर्वाणा नागाः पातालवासिनः । रत्नान्यादाय बहुशः ससरित्का महाब्धयः

以摩诃因陀罗(因陀罗)为首的诸天降临;居于钵多罗的那伽亦来。大海亦偕诸河而至,屡屡奉献种种宝珠为供养。

Verse 26

स्थावरा जंगमं रूपं धृत्वा याताः सहस्रशः । महामहोत्सवे तस्मिन्बभूवाकालकौमुदी

凡本为不动之类者,皆化作可行之形,成千上万而来。于那极大庆典之中,竟似有非时的月华升起。

Verse 27

जातकर्म स्वयं चक्रे तस्य देवः पितामहः । श्रुतिं विचार्य तद्रूपां नाम्ना गृहपतिस्त्वयम्

为他,天界之祖父梵天亲自施行诞生仪轨。审思与其形相相应之《闻传》(Śruti)后,宣告曰:“汝名当为‘家主’(Gṛhapati)。”

Verse 28

इति नाम ददौ तस्मै देयमेकादशेहनि । नामकर्मविधानेन तदर्थं श्रुतिमुच्चरन्

于是他将此名赐予他,定于第十一日授名。依照命名仪轨,他诵读阐明其义的《圣闻》(Śruti)。

Verse 29

अयमग्निर्गृहपतिर्गार्हपत्यः प्रजाया वसुवित्तमः । अग्ने गृहपतेभिद्युम्नमभि सह आयच्छस्व

“此火神阿耆尼乃家主(Gṛhapati)——家祭之火(Gārhapatya)——为族裔赐予财富与兴盛者。噢阿耆尼,噢家宅之主,请与我们同来,赐予我们光辉的荣耀。”

Verse 30

अग्ने गृहपते स्थित्या परामपि निदर्शयन् । चतुर्निगममंत्रोक्तैराशीर्भिरभिनंद्य च

噢阿耆尼,噢家主(Gṛhapati)——凭你坚定的法度,连至高之境亦得显现。于是他以四部吠陀所宣说的真言祝福而致敬。

Verse 31

कृत्वा बालोचितां रक्षां हरेण हरिणा सह । निर्ययौ हंसमारुह्य सर्वेषां प्रपितामहः

行毕婴儿应行的护佑之礼后,众生之曾祖(Prāpitāmaha)、梵天(Brahmā)便与诃利(Hari,毗湿奴 Viṣṇu)及诃罗(Hara,湿婆 Śiva)同去,乘其天鹅而行。

Verse 32

अहोरूपमहो तेजस्त्वहो सर्वांगलक्षणम् । अहो शुचिष्मतीभाग्यमाविरासीत्स्वयं हरः

“啊,何等容光!啊,何等威辉!啊,周身皆具圆满吉相!啊,清净而灿然的福运——诃罗(Hara,湿婆 Śiva)亲自现身了!”

Verse 33

अथवा किमिदं चित्रं शर्वभक्तजनेष्वहो । आविर्भवेत्स्वयं रुद्रो यतोरुद्रास्तदर्चकाः

又有何奇哉,竟在湿婆(Śarva)的奉信者中?鲁陀罗(Rudra)亲自现身,因为礼敬他的人,凭其虔爱,宛如诸鲁陀罗。

Verse 34

इति स्तुवंतस्त्वन्योन्यं जग्मुः सर्वे यथागतम् । विश्वानरं समापृच्छ्य संप्रहृष्टतनूरुहाः

于是他们彼此称颂,众人如来时一般离去;向毗湿瓦那罗(Viśvānara)辞别后,周身毛发因欢喜而竖立。

Verse 35

अतः पुत्रं समीहंते गृहस्थाश्रमवासिनः । पुत्रेण लोकाञ्जयति श्रुतिरेषा सनातनी

因此,住于居家期(gṛhastha-āśrama)者渴望得子;因为凭借儿子可胜得诸界——此乃《闻传》(Śruti)的永恒教诲。

Verse 36

अपुत्रस्य गृहं शून्यमपुत्रस्यार्जनं वृथा । अपुत्रस्यान्वयश्छिन्नो नापवित्रं ह्यपुत्रतः

无子者,其家被说为空;无子者,其积聚皆徒然。无子者,其宗系断绝——诚然,没有比儿子更能净化者。

Verse 37

न पुत्रात्परमो लाभो न पुत्रात्परमं सुखम् । न पुत्रात्परमं मित्रं परत्रेह च कुत्रचित्

没有比儿子更高的利益,没有比儿子更大的安乐;没有比儿子更胜的朋友——无论此世或彼世,处处皆然。

Verse 38

औरसः क्षेत्रजः क्रीतो दत्तः प्राप्तः सुतासुतः । आपत्सुरक्षितश्चान्यः पुत्राः सप्तात्र कीर्तिताः

此处宣说有七种儿子:嫡生子(由己妻所生)、田生子(kṣetraja)、买得子、受与之子(收养)、得来之子、女儿之子,以及另一类——在灾厄之时受庇护而得以存续者。

Verse 39

एषामन्यतमः कार्यो गृहस्थेन विपश्चिता । पूर्वपूर्वः सुतः श्रेयान्हीनःस्यादुत्तरोत्तरः

在这些之中,明智的家主应立其中之一为子。凡先前所说者为胜,后后所说者则次第为劣。

Verse 40

गणावूचतुः । निष्क्रमोथ चतुर्थेऽस्य मासि पित्राकृतो गृहात् । अन्नप्राशनमब्दार्धे चूडाब्दे चार्थवत्कृता

众伽那说道:“随后,在他第四个月时,父亲在家中举行了抱子出门之礼。至半岁时,行初食固体之仪;而在行剃发之年,又如法施与供品,圆满完成cūḍā(剃发)之礼。”

Verse 41

कर्णवेधं ततः कृत्वा श्रवणर्क्षे सकर्मवित् । ब्रह्मतेजोभिवृद्ध्यर्थं पंचमेऽब्दे व्रतं ददौ

随后,这位通晓仪轨者在Śravaṇa(室罗伐那)宿之下行穿耳之礼;并于第五年授予誓戒,以增长梵德之光(灵性光辉)。

Verse 42

उपाकर्म ततः कृत्वा वेदानध्यापयत्सुधीः । त्र्यब्दं वेदान्सविधिनाऽध्यैष्ट सांगपदक्रमान्

其后,行毕upākarma(开学净仪),智者便开始研习吠陀。三年之中,他依规学习吠陀——并兼习诸辅支,行逐词诵读与次第诵读。

Verse 43

विद्याजातं समस्तं च साक्षिमात्राद्गुरोर्मुखात् । विनयादिगुणानाविष्कुर्वञ्जग्राह शक्तिमान्

他应当获得的一切学问,仿佛只凭见证一般,直接从上师之口领受;而他具足能力,在领受之时亦显现谦卑等诸德。

Verse 44

ततोथ नवमे वर्षे पित्रोः शुश्रूषणे रतम् । वैश्वानरं गृहपतिं दृष्ट्वा कामचरो मुनिः

随后在第九年,那位可随意游行的牟尼见到孩童家主格利哈帕提·毗湿瓦那罗全心侍奉双亲,便与他相遇。

Verse 45

विश्वानरोटजं प्राप्य देवर्षिर्नारदः सुधीः । पप्रच्छ कुशलं तत्र गृहीतार्घासनः क्रमात्

抵达毗湿瓦那罗的茅庵后,睿智的天仙圣者那罗陀,既已依礼受供阿尔吉亚并得座位,便按次第询问其安好。

Verse 46

नारद उवाच । विश्वानर महाभाग शुचिष्मति शुभव्रते । कुरुते युवयोर्वाक्यमयं गृहपतिः शिशुः

那罗陀说道:“吉祥有福的毗湿瓦那罗啊,心地清净、誓愿善妙者啊——这孩童家主格利哈帕提确实奉行你们的言语与命令。”

Verse 47

नान्यत्तीर्थं न वा देवो न गुरुर्न च सत्किया । विहाय पित्रोर्वचनं नान्यो धर्मः सुतस्य हि

对儿子而言,除恭敬奉行父母之言外,别无他处圣地(tīrtha),别无他神,别无他师,亦无他种功德行持;此实为其至上之法(dharma)。

Verse 48

न पित्रोरधिकं किंचित्त्रिलोक्यां तनयस्य हि । गर्भधारणपोषाभ्यां पितुर्माता गरीयसी

对儿子而言,三界之中没有什么胜过父母;而因怀胎承载并哺育养育,母亲比父亲更为尊贵可敬。

Verse 49

अंभोभिरभिषिच्यस्वं जननीचरणच्युतैः । प्राप्नुयात्स्वर्धुनीशुद्ध कबंधाधिकशुद्धताम्

若以从母亲足下流出的水沐浴自身,便能获得——噢,如恒河般清净者——一种超越诸般圣法所称誉之清净的纯净。

Verse 50

संन्यस्ताखिलकर्मापि पितुर्वंद्यो हिमस्करी । सर्ववंद्येन यतिना प्रसूर्वंद्या प्रयत्नतः

即便她已舍弃一切行作,母亲仍当受父亲礼敬;并且应当格外用心,使那为众人所敬的出家行者也礼敬其母,因为她正是其出生之源。

Verse 51

इदमेव तपोत्युग्रमिदमेवपरं व्रतम् । अयमेव परो धर्मो यत्पित्रोः परितोषणम्

唯此才是严峻的苦行,唯此才是至上的誓愿,唯此才是最高的法——使父母得到圆满的欢喜与满足。

Verse 52

मन्येमान्यो नाधमस्य तथान्यस्य यथा युवाम् । सुखाकारैर्विनीतस्य शिशोर्गृहपतेरहम्

我不认为有人更可敬,也不认为有人更卑下,如你们二位这般真实堪为典范;因为你们以和善之道温柔地教养了这孩子——家主格利哈帕提。

Verse 53

वैश्वानरसमभ्येहि ममोत्संगे निषीद भो । लक्षणानि परीक्षेहं पाणिं दर्शय दक्षिणम्

“噢,毗舍婆那罗(Vaiśvānara),近前来,坐在我膝上。我将察看你吉祥的相征——把你的右手给我看。”

Verse 54

इत्युक्तो मुनिना बालः पित्रोराज्ञामवाप्य सः । प्रणम्य नारदं श्रीमान्भक्त्याप्रह्व उपाविशत्

蒙仙人如此教诲,那位高贵的孩子得到了父母的允准。随后他以虔敬与谦卑礼拜那罗陀(Nārada),便坐下了。

Verse 55

ततो दृष्ट्वास्य सर्वांगं तालुजिह्वाद्विजानपि । आनीय कुंकुमारक्तं सूत्रं च त्रिगुणीकृतम्

随后,仙人察看了他全身诸肢,乃至上腭、舌与牙齿;又取来以库昆玛(kunkuma,藏红花)染成赤色的线,并将其折为三股。

Verse 56

स्मृत्वा शिवौ गणाध्यक्षमूर्ध्वीभूतमुदङ्मुखम् । मुनिः परिममौ बालमापादतलमस्तकम्

忆念湿婆——众伽那之主——仙人令男孩挺身直立、面向北方,从足底量至头顶。

Verse 57

तिर्यगूर्ध्वं समो माने योष्टोत्तरशतांगुलः । स भवेत्पृथिवीपालो बालोऽयं ते यथा द्विज

若其身量横竖匀称,并且在一百肘指(aṅgula)之上又多出一掌之长,那么,婆罗门啊,你这孩子必将成为大地的守护者——一位君王。

Verse 58

पंचसूक्ष्मः पंचदीर्घः सप्तरक्तः षडुन्नतः । त्रिपृथुर्लघुगंभीरो द्वात्रिंशल्लक्षणस्त्विति

他具五种细妙之相、五种修长之相、七种微赤之相与六种隆起之相;又有三种宽广之相,并呈轻微深邃之态——诚然具足三十二种吉祥相。

Verse 59

पंचदीर्घाणि शस्यानि यथादीर्घायुषोस्य वै । भुजौ नेत्रे हनुर्जानु नासाऽस्य तनयस्य ते

为得长寿,确实称赞他具五种修长之相:此子之臂、眼、颌、膝与鼻。

Verse 60

ग्रीवाजंघा मेहनैश्च त्रिभिर्ह्रस्वोयमीडितः । स्वरेण सत्त्वनाभिभ्यां त्रिगंभीरः शिशुः शुभः

他被称颂具三种短相:颈、胫与生殖器;又以三种深相——声音、生命之力与脐——此吉祥婴孩名为“三重深邃”。

Verse 61

त्वक्केशांगुलिदशनाः पर्वाण्यंगुलिजान्यपि । तथास्य पंचसूक्ष्माणि दिक्पालपदभाग्यथा

他的皮肤、头发、手指、牙齿,乃至指节皆细致柔妙;因此具足五种“微细之相”,与得居护世方位之位的福分相称。

Verse 62

वक्षः कुक्ष्यलकं स्कंध करं वक्त्रं षडुन्नतम् । तथाऽत्र दृश्यते बाले महदैश्वर्यभाग्यथा

他的胸、腹、鬈发、肩、手与面容为六种隆起之相;因此在此童子身上可见与大权威与昌盛之福相称的征兆。

Verse 63

पाण्योस्तले च नेत्रांते तालुजिह्वाधरौष्ठकम् । सप्तारुणं च सनखमस्मिन्राज्यसुखप्रदम्

若其双掌、眼角、上腭与舌、下唇并诸指甲,共有七处呈现微赤之光;此相于其身中,能赐王者之乐与国祚之安。

Verse 64

ललाटकटिवक्षोभिस्त्रिविस्तीर्णो यथाह्यसौ । सर्वतेजोतिरैश्वर्यं तथा प्राप्स्यति नान्यथा

若其额、腰、胸三处匀称而宽广,则必得主宰之富与遍体光辉的威德;决无他途。

Verse 65

कमठीपृष्ठकठिनावकर्मकरणौ करौ । राज्यहेतू शिशोरस्य पादौ चाध्वनि कोमलौ

若孩童之手坚实如龟背,堪任劳作,则此相成为得王位之因;若其足柔软宜行旅,则注定将踏上宏阔大道而前行。

Verse 66

अच्छिन्ना तर्जनीं व्याप्य तथा रेखास्य दृश्यते । कनिष्ठा पृष्ठनिर्याता दीर्घायुष्यं यथार्पयेत्

若见一条不断之纹贯穿食指,又见小指之纹延向手背,则说此相能赐其长寿。

Verse 67

पादौ सुमांसलौ रक्तौ समौ सूक्ष्मौ सुशौभनौ । समगुल्फौ स्वेदहीनौ स्निग्धावैश्वर्यसूचकौ

足若丰润、微赤、匀称、肌理细致而端美;踝骨平衡,不多汗,且自然润滑——此皆为富饶与主宰之福的征兆。

Verse 68

स्वल्पाभिः कररेखाभिरारक्ताभिः सदासुखी । लिंगेन कृशह्रस्वेन राजराजो भविष्यति

若其掌纹稀少而微带红色,常得安乐;若其生殖器瘦而短,则将成为诸王之王。

Verse 69

उत्कंटासनगुल्फास्फिग्नाभिरस्यापि वर्तुला । दक्षिणावर्तमरुणं महदैश्वर्यसूचिका

其臀、股、踝与脐皆圆满;又有一处微红、右旋的吉祥纹相,昭示大权在握与丰盛福祉。

Verse 70

धारैका मूत्रयत्यस्मिन्दक्षिणावर्तिनी यदि । गंधश्च मीनमधुनोर्यदि वीर्ये तदा नृपः

若其小便出为一股恒定之流且呈右旋吉相,又若其精液带有鱼与蜜之香,则其人当为王者。

Verse 71

विस्तीर्णौ मांसलौ स्निग्धौ स्फिचावस्य सुखोचितौ । वामावर्तौ सुप्रलंबौ दोषौ दिग्रक्षणोचितौ

若其臀部宽广、丰肉而润泽,宜于安乐;又若其睾丸左旋而下垂得当,则堪任守护四方,具王者护持与统御之资。

Verse 72

श्रीवत्सवज्रचक्राब्ज मत्स्यकोदंडदंडभृत् । तथास्य करगा रेखा यथा स्यात्त्रिदिवस्पतिः

若其掌纹呈现如圣吉祥纹(Śrīvatsa)、金刚杵、法轮、莲华、鱼、弓与杖等相,则其人将如三界之主一般。

Verse 73

द्वात्रिंशद्दशनश्चायं करकंबु शिरोधरः । कौंचदुंदुभिहंसाभ्र स्वरः सर्वेश्वराधिकः

他具三十二齿,双手如海螺;头颈端正;其声如鹭、如敦都毗鼓、如天鹅、如云霭,清越超胜,堪为统御一切之主。

Verse 74

मधुपिंगलनेत्रोऽसौ नैनं श्रीस्त्यजति क्वचित् । पंचरेखललाटस्तु तथा सिंहोदरः शुभः

其目如蜜金之色;吉祥与富饶之女神拉克什弥从不离弃于他。其额有五道分明之纹,腹如狮之雄健,悉皆吉瑞。

Verse 75

ऊर्ध्वरेखांकितपदो निःश्वसन्पद्मगंधवान् । अच्छिद्रपाणिः सुनखो महालक्षणवानयम्

其足有上扬之纹;连其呼吸亦带莲华之香。其手无瑕疵,指甲秀美,具足广大吉相。

Verse 76

किंतु सर्वगुणोपेतं सर्वलक्षणलक्षितम् । संपूर्णनिर्मलकलं पातयेद्विधुवद्विधिः

然而,即便具足一切德行、具备一切吉相,诸分圆满而清净无瑕者,也可能为逆缘之命运所击倒,正如明月亦随其既定轨道而沉落。

Verse 77

तस्मात्सर्वप्रयत्नेन रक्षणीयस्त्वसौ शिशुः । गुणोपि दोषतां याति वक्रीभूते विधातरि

是故当竭尽一切努力护持那婴孩;因为当造化之主(命运)转为乖逆时,连德行也会变作过失。

Verse 78

शंकेऽस्य द्वादशेवर्षे प्रत्यूहो विद्युदग्नितः । इत्युक्त्वा नारदो धीमान्स जगाम यथागतम्

“我怀疑他在十二岁之年,将遭逢由雷电与火焰所起的阻碍。”说罢,智者那罗陀如来时一般离去。

Verse 79

विश्वानरः सपत्नीकस्तच्छ्रुत्वा नारदेरितम् । तदैव मन्यमानोभूद्वज्रपातं सुदारुणम्

毗湿瓦那罗与其妻听闻那罗陀之言,立刻想象到一场极其可怖的霹雳雷击。

Verse 80

हाहतोस्मीति वचसा हृदयं समताडयत् । मूर्च्छामवाप महतीं पुत्रशोकसमाकुलः

他呼喊“哀哉,我已毁灭!”,以言语击打自己的心;因丧子之痛而心神纷乱,遂陷入深深昏厥。

Verse 81

शुचिष्मत्यपि दुःखार्ता रुरोदातीव दुःसहम् । आर्तस्वरेण हारावैरत्यंत व्याकुलेद्रिया

就连受苦的舒奇什玛蒂也被悲痛折磨,哭得难以承受;她以哀切之声,六根尽乱,反复呼号。

Verse 82

हाशिशो हागुणनिधे हा पितुर्वाक्यकारक । हा कुतो मंदभाग्याया जठरे मे समागतः

“哀哉,我的孩子!哀哉,德行之宝藏!哀哉,奉行父命者!哀哉——你怎会来到我这薄命之人的胎中?”

Verse 83

त्वदेकपुत्रां हापुत्रकोऽत्र मां त्रायते पुरा । त्वदृते त्वद्गुणोर्म्याढ्ये पतितां शोकसागरे

“唉,我的孩子——在此谁来护佑我?你是我唯一的儿子。离开你,噢德行如波涛丰盈者,我已坠入忧愁之海。”

Verse 84

हा बाल हा विमल हा कमलायताक्ष हा लोकलोचनचकोर कुरंगलक्ष्मन् । हा तात तात नयनाब्ज मयूखमालिन्हा मातुरुत्सवसहस्रसुखैकहेतो

“唉,孩子;唉,清净者;唉,莲华般的长眼!噢,世间目光的欢喜,噢,优雅的小鹿!唉,爱子,爱子——你莲眼缀以光辉之鬘——噢,唯你能成就母亲千般节庆之乐!”

Verse 85

हा पूर्णचंद्रमुख हा सुनखांगुलीक हा चाटुकारवचनामृतवीचिपूर । दुःखैः कियद्भिरहहां गमयात्वमाप्तः किं किं कृतं गृहपते न मया त्वदाप्त्यै

“唉,满月之面!唉,纤美的指与甲!唉,你那柔甜的言辞如甘露之波!你是被多少苦痛——唉——夺去的?噢,我家之主,我为求得你并留住你,还有什么未曾做过?”

Verse 86

नोप्तो बलिर्न बत कासु च देवता सुतीर्थानि कानि न मयाध्युषितानि वत्स । के के मया न नियमौषधमंत्रयंत्राः संसाधितास्तव कृते सुकृतैकलभ्य

“确实,没有一份供献被我遗漏;又有哪位神祇我未曾祈求?哪些圣地渡口我未曾居住,我的孩子?为你之故,我又有何种誓戒、药法、真言与仪轨器具未曾修行——噢,唯凭积累功德方可得者!”

Verse 87

संसारसागरतरे हर दुःखभारं सारं मुखेंदुमभिदर्शय सौख्यसिंधो । पुन्नामतीव्रनरकार्णव वाडवाग्नेस्संजीवयस्व पितरं निजवाक्सुधोक्षैः

“噢,渡越轮回大海者,请卸除忧苦之重!噢,安乐之海,请再显你面容之月——生命之精髓。噢,在名为‘Punnāma’的猛烈地狱海中燃烧的海底之火,请以你自身甘露般言语的雨露,苏醒你的父亲!”

Verse 88

किंदेवता अहह जन्ममहोत्सवेऽस्य ज्ञात्वेति भाविमिलिता युगपत्समस्ताः । एकस्थ सर्वगुण शील कलाकलाप सौंदर्यलक्षणपरीक्षणपूर्णहर्षाः

“这究竟是哪位神明?”——众生如此思量,便在他盛大的诞生庆典上同时聚集;他们满怀欢喜,检视这一个孩童身上圆满具足的一切德行、品性、诸艺、容光与吉祥相。

Verse 89

शंभो महेश करुणाकर शूलपाणे मृत्युंजयस्त्वमिति वेदविदो वदंति । त्वद्दत्त बालतनये यदि कालकालः स्यादेवमत्र वद कस्य भवेन्न पातः

噢,商婆(Śambhu)、大自在天(Maheśa)、悲悯之海、执三叉戟者——通晓吠陀者称你为“胜死者”。若你所赐的幼子竟使“死神”本身成了他的死因,那么请告诉我:世间还有谁不会因此而倾覆?

Verse 90

हा हंतहंतभवता भव तापहारी कस्माद्विधेऽत्र विदधे बहुभिः प्रयत्नैः । बालो विशालगुणसिंधुमगाधमध्यं सद्रत्नसारमखिलं सविधं विधाय

哀哉!哀哉!噢,造物主——你本是除却世间热恼者——为何在此费尽诸般努力塑成他:一个孩童,乃广大德海,深不可测,尽含一切宝珠精髓,诸相圆满?

Verse 91

हा कालबालकवती किमुतेन राज्ञी त्वत्कालतां न हृतवान्नसुताननेंदुः । बालेति कोमलमृणाल लतांगलीलं दंभोलिनिष्ठुरकठोरकुठारदंष्ट्रः

哀哉——被时劫夺去子嗣!那这位王后又如何?她儿子面容之月,岂不夺走了她的性命?“还是个孩子!”——然而那如柔嫩莲茎与蔓藤般的身姿嬉戏,却被时劫击中;时劫之牙,如残酷霹雳、坚硬斧刃、无情利刀。

Verse 92

इत्थं विलप्य बहुशो नयनांबुधारासंपातजात तटिनी शतमुत्तरंगम् । सा तोकशोकजनितानल तापतप्ता प्रोच्छ्वस्यदीर्घविपुलोष्णमहो शुशोष

她如此一遍又一遍哀号,泪流成河,仿佛百川奔涌、波涛翻涨。因丧子之悲所生之火灼烧其身,她长长地、沉沉地吐出炽热的叹息——唉,终于枯槁而逝。

Verse 93

आकर्ण्य तत्करुणवत्परिदेवितानि तानि द्रुमा व्रततयः कुसुमाश्रुपातैः । प्रायो रुदंति पततां विरुतार्तरावैरालोल्यमौलिमसकृत्पवनच्छलेन

听到那充满悲悯的哀诉,群树仿佛如守戒的苦行者一般,以花雨作泪而泣。它们多半随坠落之鸟的凄厉鸣叫而哀号,树冠一次又一次摇曳,似乎借风为由。

Verse 94

रुण्णं तया किल तथा बहुमुक्तकंठमार्तस्वरैः प्रतिरवच्छलतो यथोच्चैः । तद्दुःखतोनुरुरुदुर्गिरिकंदरास्याः सर्वा दिशः स्थगितपत्रिमृगागमा हि

她哭得极其悲切,喉间屡屡哽塞,以痛苦之声高呼,响亮到回声一再反弹。那悲伤的冲击之下,连山洞之口也仿佛呜咽,四方尽被充满而似被压住,鸟兽皆寂然无声。

Verse 95

श्रुत्वार्तनादमिति विश्वनरोपि मोहं हित्वोत्थितः किमिति किंत्विति किंकिमेतत् । उच्चैर्वदन्गृहपतिः क्व समे बहिस्थः प्राणोंतरात्मनिलयः सकलेंद्रियेशः

听到那凄厉的哀号,毗湿瓦那罗也抛却迷惘,霍然起身,高声道:“这是怎么了?为何如此?究竟发生了什么?”家主大声说道:“他在哪里——在外面、在平地吗?——那位即是生命本身,住于内在之我,统御一切诸根者。”

Verse 96

अगस्त्य उवाच । ततो दृष्ट्वा स पितरौ बहुशोकसमावृतौ । स्मित्वोवाच ततो मातस्त्रासस्त्वीदृक्कुतो हि वाम्

阿伽斯提耶说:随后,他见父母为大悲所覆,便含笑说道:“母亲,你们二人为何如此惊惧?”

Verse 97

न मांकृत वपुस्त्राणं भवच्चरणरेणुभिः । कालः कलयितुं शक्तो वराकी चंचलाल्पिका

不要用你们足下的尘土把我的身体当作“需护持之物”。时间不能衡量我——那可怜、无常而微弱的时间之力。

Verse 98

प्रतिज्ञां शृणुतं तातौ यदि वां तनयो ह्यहम् । करिष्येहं तथा तेन विद्युन्मत्तस्त्रसिष्यति

敬爱的父母,请听我所立的誓愿。若我确是你们的儿子,我必如此行事,使那如闪电般狂怒者也要战栗。

Verse 99

मृत्युंजयं समाराध्य सर्वज्ञं सर्वदं सताम् । कालकालं महाकालं कालकूटविषादिनम्

以如法敬奉胜死者牟利提云阇耶(Mṛtyuñjaya)——全知者、赐诸善人一切恩赐者——即“时之死”迦罗迦罗、伟大之时摩诃迦罗,吞噬迦罗俱陀毒者。

Verse 100

इति श्रुत्वा वचस्तस्य जरितौ द्विजदंपती । अकालामृतवर्षौघ शांततापौ तदोचतुः

听了他的话,那对年迈的婆罗门夫妇——其苦热仿佛被一场不合时令的甘露洪雨所平息——于是开口说道。

Verse 110

अंधकं यस्त्रिशूलाग्रप्रोतं वर्षायुतं पुरा । त्रैलोक्यैश्वर्यसंमूढं शोषयामास भानुना

他曾将安陀迦(Andhaka)刺穿于三叉戟尖端,历经万年;又以自身光辉之热,令那迷醉于三界主宰之权者枯竭——

Verse 120

आलोक्यालोक्य तल्लिंगं तुतोष हृदये बहु । परमानंदकंदाख्यं स्फुटमेतन्न संशयः

他一次又一次凝望那尊林伽(Liṅga),心中充满大欢喜。分明无疑:这正是名为“Paramānanda-kanda”者——至上安乐之根球。

Verse 130

विश्वेषां विश्वबीजानां कर्माख्यानां लयो यतः । अस्मिन्निर्वाणदे लिंगे विश्वलिंगमिदं ततः

因为在此赐予解脱的林伽中,一切宇宙之种与一切业缘之记皆归于消融;故名“毗湿婆林伽”,即宇宙之林伽。

Verse 140

उवाच मधुरं धीरः कीरवन्मधुराक्षरम् । मघवन्वृत्रशत्रो त्वां जाने कुलिशपाणिनम्

那坚定者柔和开口,字字如鹦鹉鸣唱般清婉:“噢,摩伽梵,诛灭弗利陀者——我认得你:你是因陀罗,执金刚雷霆者。”

Verse 150

परिज्ञाय महादेवं गुरुवाक्यत आगमात् । हर्ष बाष्पाकुलः सन्न कठो रोमांचकंचुकः

凭师长之言与圣典阿伽摩之权威而认出大天摩诃提婆后,他喜泪盈眶;身躯因狂喜而僵直,仿佛披上遍体战栗的毛衣。

Verse 160

ततः काशीं पुनः प्राप्य कल्पांते मोक्षमाप्नुयात् । वीरेश्वरस्य पूर्वेण गंगायाः पश्चिमे तटे

其后再返迦尸,于劫尽之时得解脱——在毗勒湿伐罗之东、恒河西岸之处。

Verse 163

गणावूचतुः । इत्थमग्निस्वरूपं ते शिवशर्मन्प्रवर्णितम् । किमन्यच्छ्रोतुकामोसि कथयावस्तदीरय

众伽那说道:“你的火焰本性已如是宣说,噢,湿婆沙尔曼。你还想听什么?请告诉我们——明白陈述。”