
萨那特库玛罗传授以圣力(Śakti)为“语”(Vāk,神圣言语)核心的咒法体系:先说迦梨(Kālī)为言语女神之显现,继而开示以多罗(Tārā)为主的明咒(vidyā)。本章说明咒之要素(ṛṣi、chandas、devatā、bīja、śakti),规定支分安置(aṅga-nyāsa)与母字(mātṛkā)安位、护身仪轨,并观想迦梨之形相(dhyāna)。又详述坛城/咒轮(yantra)的制作(六角、交织三角、莲华、bhūpura),列举随侍圣力与母神群,并给出求成就(siddhi)的持诵与火供(japa/homa)次数及供品,如红莲、bilva、karavīra。篇幅较大处专述多罗的十六分安置法,含行星、护世者(lokapāla)、湿婆—圣力与诸轮(cakra)之安立,并配以结界(digbandha)与护甲式守护(kavaca)。同时告诫行持须守德:勿害人、勿出恶语,虽亦提及某些密续常见的火葬场意象。章末说明护符/咒轮用于护身、增学、得胜与兴盛。
Verse 1
सनत्कुमार उवाच । वाग्देवता वतारोऽन्यः कालिकेति प्रकीर्तिता । तस्या मन्त्रं प्रवक्ष्यामि भुक्तिमुक्तिप्रदं नृणाम् ॥ १ ॥
萨那特库玛罗说道:语神(言语女神)的另一种化现,被称颂为迦梨(Kālī)。我今将宣说她的真言,能赐予世人世间受用与解脱二者。
Verse 2
सृष्टिक्रियान्विता शांतिर्बिद्वाढ्या च त्रिधा पुनः । अरुणाक्ष्यादीपिका च बिंदुयुक्ता द्विधा ततः ॥ २ ॥
Śānti(息灾、安抚之相)属于“伴随创造之业”的类型;名为 Bidvāḍhyā 的形相又分为三种。同样承认 Aruṇākṣī 与 Dīpikā 两相;其后 Binduyuktā(具点相)之类则为两种。
Verse 3
मायाद्वयं ततः पश्चाद्दक्षिणे कालिके पदम् । पुनश्च सप्तबीजानि स्वाहांतोऽयं मनूत्तमः ॥ ३ ॥
随后安置两音节“māyā”;其后在右侧安置“kālikā”之词。再加上七个种子音节——此殊胜真言以“svāhā”作结。
Verse 4
भैरवोऽस्य ऋषिश्छन्द उष्णिक्काली तु देवता । बीजं मायादीर्घवर्त्म शक्तिरुक्ता मुनीश्वर ॥ ४ ॥
此真言之中,宣说以怖畏尊(Bhairava)为圣见者(ṛṣi);其韵律为Uṣṇik;主尊为迦梨(Kālī)。种子音节(bīja)为“māyā”,其能量(śakti)称为“Dīrghavartma”,噢诸牟尼之最胜者。
Verse 5
षड्दीर्धाढ्ये बीजेन विद्याया अंगमीरितम् । मातृकार्णान्दश दश हृदये भुजयोः पदोः ॥ ५ ॥
以具足六个长元音之种子音节,规定了此明咒(Vidyā)的支分安置(aṅga-nyāsa)。应将母音字母(Mātṛkā)安置——十与十——于心、于双臂、于双足。
Verse 6
विन्यस्य व्यापकं कुर्यान्मूलमंत्रेण साधकः । शिरः कृपाणमभयं वरं हस्तैश्च बिभ्रतीम् ॥ ६ ॥
行完安置(nyāsa)后,修行者当以根本真言行遍满护持之法,并观想女神手持断首、宝剑,结无畏印与施愿印于诸手。
Verse 7
मुंडस्रङ्मस्तकां मुक्तकेशां पितृवनस्तिताम् । सर्वालंकृतवर्णां च श्यामांगीं कालिकां स्मरेत् ॥ ७ ॥
当观想迦梨迦(Kālikā):其首戴骷髅花鬘,散发披垂,安住于祖灵之林(Pitṛ-forest),遍身庄严,肢体幽黑。
Verse 8
एवं ध्यात्वा जपेल्लक्षं जुहुयादयुतं ततः । प्रसूनैः करवीरोत्थैः पूजायंत्रमथोच्यते ॥ ८ ॥
如是观想之后,应诵持真言十万遍;继而于圣火中奉献一万次供献。随后以迦罗毗罗花(夹竹桃)供养,并宣说礼拜坛城(yantra)之法。
Verse 9
विलिख्य पूर्वं षट्कोणं त्रिकोणत्रितयं ततः । पद्ममष्टदलं बाह्ये भूपुरं तत्र पूजयेत् ॥ ९ ॥
先画六角形;再画三重三角。其外画八瓣莲华,更外画作方形围栏的地界(bhūpura)。于此图中应行供奉礼拜。
Verse 10
जया च विजया चापि अजिता चापराजिता । नित्या विलासिनी वापि दोग्ध्यघोरा च मंगला ॥ १० ॥
胜(Jaya)与胜利(Vijaya),不败(Ajitā)与不可战胜(Aparājitā);常恒(Nityā)与妙乐(Vilāsinī);以及 Dogdhrī、Aghorā、吉祥(Maṅgalā)——此等为所列举之神圣名相。
Verse 11
पीठस्य शक्तयो मायात्मने हृत्पीठमंत्रकः । शिवरूपशवश्थां च शिवाभिर्दिक्षु वेष्टिताम् ॥ ११ ॥
此座(pīṭha)之诸力(Śakti)归于以幻力(Māyā)为体者;心座(hṛt-pīṭha)亦有其自有真言。又当观想:形如湿婆的“尸身”之相,四方诸湿婆女(Śivā)环绕围护。
Verse 12
महाकालरतासक्तां ध्यात्वांगान्यर्चयेत्पुरा । कालीं कपालिनीं कुल्लां कुरुकुल्लां विरोधिनीम् ॥ १२ ॥
先当观想那位深情依恋大时(Mahākāla)之女神;继而礼拜其诸支分(aṅga,辅相)。当以迦梨(Kālī)、持髑髅者(Kapālinī)、Kullā、Kurukullā 与 Virodhinī之名而供奉。
Verse 13
विप्रचित्तां च षट्कोणे नवकोणे ततोऽर्चयेत् । उग्रामुष्णप्रभां दीप्तां नीलाधानां बलाकिकाम् ॥ १३ ॥
于六角之位当礼拜毗婆罗质多(Vipracittā);继而于九角之位当供奉婆罗吉迦(Balākikā)——威猛炽烈,热光灼耀,辉煌明净,并具青蓝之色。
Verse 14
मात्रां मुद्रां तथा मित्रां पूज्याः पत्रेषु मातरः । पद्मस्यास्य सुयत्नेन ब्राह्मी नारायणीत्यपि ॥ १४ ॥
于莲叶之上,当供奉诸母神——摩多罗(Mātrā)、穆陀罗(Mudrā)与密多罗(Mitrā);并当以谨慎用心,亦供奉梵母(Brāhmī)与那罗延尼(Nārāyaṇī),以成此莲之仪。
Verse 15
माहेश्वरी च चामुंडा कौमारी चापराजिता । वाराही नारसिंहा च पुनरेतास्तु भूपुरे ॥ १५ ॥
摩醯湿伐梨(Māheśvarī)、遮母恩荼(Cāmuṇḍā)、鸠摩梨(Kaumārī)、阿波罗阇多(Aparājitā)、婆罗诃梨(Vārāhī)与那罗辛诃梨(Nārasiṃhī)——这些亦当安置于“部普罗”(bhūpura),即圣图之外缘的地界外坛。
Verse 16
भैरवीं महदाद्यां तां सिंहाद्यां धूम्रपूर्विकाम् । भीमोन्मत्तादिकां चापि वशीकरणभैरवीम् ॥ १६ ॥
他亦宣说怖畏母(Bhairavī)之多种形相——摩诃达底耶(Mahadādyā)、狮首等相(Siṁhādyā)、烟色先导相(Dhūmrapūrvikā),以及毗摩(Bhīmā)、狂乱(Unmattā)等诸相;并及“摄伏怖畏母”(Vaśīkaraṇa-bhairavī),即与摄制降伏之仪相应者。
Verse 17
मोहनाद्यां समाराध्य शक्रादीन्यायुधान्यपि । एवमाराधिता काली सिद्धा भवति मंत्रिणाम् ॥ १७ ॥
既如法安抚供养“迷惑力”(Mohanā),并供奉自因陀罗(释迦,Śakra)之兵器起的一切神兵;如是礼拜之后,迦梨(Kālī)便为持咒行者成就圆满,赐予真言悉地。
Verse 18
ततः प्रयोगान्कुर्वीत महाभैरवभाषितान् । आत्मनो वा परस्यार्थं क्षिप्रसिद्धिप्रदायकान् ॥ १८ ॥
此后,应当修行大怖畏者(摩诃拜罗婆)所宣说的诸种仪轨运用(prayoga),它们能赐予迅速成就——或为自身所求,或为他人之利。
Verse 19
स्त्रीणां प्रहारं निंदां च कौटिल्यं वाप्रियं वचः । आत्मनो हितमन्विच्छन् कालीभक्तो विवर्जयेत् ॥ १९ ॥
为求自身真实之福祉,处于迦梨时代的奉爱者应当远离:殴打妇女、诋毁辱骂、行事诡诈,以及说出粗暴或令人不悦之语。
Verse 20
सुदृशो मदनावासं पश्यन्यः प्रजपेन्मनुम् । अयुतं सोऽचिरादेव वाक्पपतेः समतामियात् ॥ २० ॥
凝视一位绝美的女子——爱神迦摩之所居——当持诵此真言。诵满一万遍,便能迅速获得与“语主”瓦克帕提(言语之主)相等的成就。
Verse 21
दिगम्बरो मुक्तकेशः श्मशानस्थोऽधियामिनि । जपेद्योऽयुतमेतस्य भवेयुः सर्वसिद्धयः ॥ २१ ॥
身披虚空(裸身)、散发披肩,夜深寂静时立于火葬场;凡将此真言持诵一万遍者,皆得一切悉地与成就。
Verse 22
शवस्य हृदये स्थित्वा निर्वासाः प्रेतभूमिगः । अर्कपुष्पसहस्रेणाभ्यक्तेन स्वीयरेतसा ॥ २२ ॥
立于尸体之心处——裸身在火葬地——以一千朵阿尔迦花,涂抹自身精液而成的膏涂,行其涂抹(灌顶式涂敷)。
Verse 23
देवीं यः पूजयेद्भक्त्या जपन्नेकैकशो मनुम् । सोऽचरेणैव कालेन धरणीप्रभुतां व्रजेत् ॥ २३ ॥
凡以虔敬礼拜女神,逐音逐字诵持真言者,不久便能获得统御大地之主权。
Verse 24
रजः कीर्णं भगं नार्या ध्यायन्यो ह्ययुतं जपेत् । सकवित्वेन रम्येण जनान्मोहयति ध्रुवम् ॥ २४ ॥
若观想女子阴部涂染经血,并将(真言)诵满一万遍者,必以柔媚诗巧之辞迷惑众人。
Verse 25
त्रिपञ्चारे महापीठे शिवस्य हृदि संस्थिताम् । महाकालेन देवेन मारयुद्धं प्रकुर्वतीम् ॥ २५ ॥
在特里潘恰罗这伟大的圣座中,她安住于湿婆之心,并与大黑天神摩诃迦罗展开致命之战。
Verse 26
तां ध्यायन्स्मेरवदनां विदधत्सुरतं स्वयम् । जपेत्सहस्रमपि यः स शंकरसमो भवेत् ॥ २६ ॥
观想她那含笑柔颜,并自修亲密合一之仪,若能持诵真言哪怕一千遍,亦将与商羯罗(湿婆)等同。
Verse 27
अस्थिलोमत्वचायुक्तं मांसं मार्जारमेषयोः । उष्ट्रस्य महिषस्यापि बलिं यस्तु समर्पयेत् ॥ २७ ॥
若以猫或羊之肉——连同骨、毛与皮——作为供献之巴利,或又以骆驼、野牛之巴利而献者,皆属违背正当仪轨之行。
Verse 28
भूताष्टम्योर्मध्यरात्रे वश्याः स्युस्तस्य जन्तवः । विद्यालक्ष्मीयशःपुत्रैः स चिरं सुखमेधते ॥ २८ ॥
在“布胡塔阿湿达弥”之夜的子时,诸有情众生皆受其摄伏;而他将久享安乐,具足学识、福财、名望与子嗣。
Verse 29
यो हविष्याशनरतो दिवा देवीं स्मरन् जपेत् । नक्तं निधुवनासक्तो लक्षं स स्याद्धरापतिः ॥ २९ ॥
若有人以供献之食(havis)为食,白昼忆念女神并持诵其真言,夜间专注于爱乐之戏——此人将成大地主宰,具足“十万”之量的广大财势。
Verse 30
रक्तांभोजैर्हुनेन्मंत्री धनैर्जयति वित्तपम् । बिल्वपत्रैर्भवेद्राज्यं रक्तपुष्पैर्वशीकृतिः ॥ ३० ॥
通晓真言者当以红莲作火供;以财物供献,则能制胜财宝之主。以毕婆叶供献,则得王权;以红花供献,则成就“摄伏”(vaśīkaraṇa)。
Verse 31
असृजी महिषादीनां कालिकां यस्तु तर्पयेत् । तस्य स्युरचिरादेव करस्थाः सर्वसिद्धयः ॥ ३१ ॥
若有人以水供(tarpaṇa)并以水牛等之血来奉慰迦利迦——则一切悉地不久便如安住其掌中。
Verse 32
यो लक्षं प्रजपेन्मन्त्रं शवमारुह्य मन्त्रवित् । तस्य सिद्धो मनुः सद्यः सर्वेप्सितफलप्रदः ॥ ३२ ॥
通晓真言者若坐于尸身之上,持诵真言十万遍——其真言即刻成就,能赐予一切所愿之果。
Verse 33
तेनाश्वमेधप्रमुखैर्यागौरिष्टं सुजन्मना । दत्तं दानं तपस्तप्तं उपास्ते यस्तु कालिकाम् ॥ ३३ ॥
由那位出身高贵者,阿湿婆梅陀等诸祭祀皆依法圆满举行,布施已施,苦行已修;然而恒常礼敬圣母迦利迦者,得尽此一切功德之果。
Verse 34
ब्रह्मा विष्णुः शिवो गौरी लक्ष्मीर्गणपती रविः । पूजिताः सकला देवा यः कालीं पूजयेत्सदा ॥ ३४ ॥
梵天、毗湿奴、湿婆、乔丽、吉祥天女、象头神与日神——乃至一切诸天——皆被视为已受礼敬,只因那人恒常供奉迦利。
Verse 35
अथापरः सरस्वत्या ह्यवतारो निगद्यते । यां निषेव्य नरा लोके कृतार्थाः स्युर्न संशयः ॥ ३५ ॥
今当宣说辩才天女萨拉斯瓦蒂的另一种化现;依止而奉事于她者,世间之人皆得圆满成就——毫无疑惑。
Verse 36
आप्यायिनी चन्द्रयुक्ता माया च वदनांतरे । सकामिका क्रुधा शांतिश्चन्द्रालंकृतमस्तका ॥ ३६ ॥
阿毗耶因尼与月相合;摩耶住于口中;萨迦弥迦、克鲁达与寂静(商提)——皆被说为其首以月为饰。
Verse 37
दीपिका सासना चन्द्रयुगस्त्रं मनुरीरितः । मुनिरक्षोभ्य उद्दिष्टश्छन्दस्तु बृहती मतम् ॥ ३७ ॥
就名为“灯明”(Dīpikā)之明咒而言,其所规定的用法为“月双之武器”(Candrayugāstra);其见咒仙(ṛṣi)说为摩奴,所指之牟尼为阿克索毗耶;其韵律(chandas)当知为布里哈提(Bṛhatī)。
Verse 38
ताराख्या देवता बीजं द्वितीयञ्च चतुर्थकम् । शक्तिः षड्दीर्घयुक्तेन द्वितीयेनांगकल्पनम् ॥ ३८ ॥
主宰本法的本尊为名号“多罗”(Tārā)者。其种子音(bīja)由第二元音与第四辅音要素相合而成;其力音(śakti)由第二元音与第六长元音相连而得;诸支分(aṅga,作nyāsa之辅肢)亦当以第二为根本而安置。
Verse 39
षोढा न्यासं ततः कुर्यात्तारायाः सर्वसिद्धिम् । श्रीकण्ठादीन्न्यसेद्रुद्रान्मातृकावर्णपूर्वकान् ॥ ३९ ॥
随后应为多罗行十六分安置法(nyāsa),此能赐予圆满成就(siddhi)。当以母音字母矩阵Mātṛkā之诸字为先导,安置(召请)自“室利建陀”(Śrīkaṇṭha)起的诸鲁陀罗(Rudra)。
Verse 40
मातृकोक्तस्थले माया तृतीयक्रोधपूर्वकान् । चतुर्थीनमसायुक्तान्प्रथमो न्यास ईरितः ॥ ४० ॥
于Mātṛkā所指之处,当安置“摩耶”(māyā)之音。又以“忿怒”(krodha)起首者为第三组,配以与格(caturthī)词尾并加“南无”(namaḥ)。此即所说第一安置(nyāsa)。
Verse 41
शवपीठसमासीनां नीलकांतिं त्रिलोचनाम् । अर्द्धेन्दुशेखरां नानाभूषणाढ्यां स्मरन्न्यसेत् ॥ ४१ ॥
行安置(nyāsa)之时,当忆念彼女:端坐尸座之上,色如深蓝,具三目,顶戴半月为冠,众宝严饰具足;如是观想已,随次安置诸咒。
Verse 42
द्वितीये तु ग्रहन्यासं कुर्यात्तां समनुस्मरन् । त्रिबीजस्वरपूर्वं तु रक्तसूर्यं हृदि न्यसेत् ॥ ४२ ॥
于第二步,当作诸 ग्रह安置(nyāsa),恒常忆念彼尊。继而以前导三种种子音(trī-bīja)及其声调,观想并安置赤红之日轮于心中。
Verse 43
तथा पवर्गपूर्वं तु शुक्लं सोमं भ्रुवोर्द्वये । कवर्गपूर्वं रक्ताभं मंगलं लोचनत्रयम् ॥ ४३ ॥
同样地,以“pa-varga”起首的音节,应作安置(nyāsa),如白净之月安于双眉之间;而以“ka-varga”起首、微带赤色的音节,应如火星安于三眼之中。
Verse 44
चवर्गाद्यं बुधं श्यामं न्यसेद्वक्षस्थले बुधः । ढवर्गाद्यं पीतवर्णं कण्ठकूपे बृहस्पतिम् ॥ ४४ ॥
智者当以安置(nyāsa)将水星(Budha)——色泽幽暗,系于以“ca”起首之音群——安于胸前;又将木星(Bṛhaspati)——黄色,系于以“ḍha”起首之音群——安于喉间之凹处(胸骨上窝)。
Verse 45
तवर्गाद्यं श्वेतवर्णं घटिकायां तु भार्गवम् । नीलवर्णं पवर्गाद्यं नाभिदेशे शनैश्चरम् ॥ ४५ ॥
“ta”音群呈白色,应安置于ghaṭikā(腕关节),其主宰为婆伽婆(Bhārgava,金星);“pa”音群呈青蓝色,应安置于脐轮之处,其主宰为沙奈湿遮罗(Śanaiścara,土星)。
Verse 46
शवर्गाद्यं धूम्रवर्णं ध्यात्वा राहुं मुखे न्यसेत् । त्रिबीजपूर्वकश्चैवं ग्रहन्यासः समीरितः ॥ ४६ ॥
当观想罗睺(Rāhu)烟色之相,系于“śa”音群之字母,而后将其安置(nyāsa)于口。如此,以三种种子音(bīja)为先导的诸 ग्रह(行星)安置法,已被宣说。
Verse 47
तृतीयं लोकपालानां न्यासं कुर्यात्प्रयत्नतः । मायादिबीजत्रितयपूर्वकं सर्वसिद्धये ॥ ४७ ॥
第三,当以勤谨之心行诸方护世者(Lokapāla)之安置(nyāsa),并以前导为以“Māyā”起首的三种种子真言(bīja),使一切成就(siddhi)悉皆圆满。
Verse 48
स्वमस्तके ललाटादि दिक्ष्वष्टस्वधउर्द्ध्वतः । ह्रस्वदीर्घकादिकाष्टवर्गपूर्वान्दिशाधिपान् ॥ ४८ ॥
于自身头顶——自额起——当于八方并上方,心中安置诸方位主宰之神祇;其次第先从短长元音起,继以自“ka”始之诸辅音八类(八varga)。
Verse 49
शिवशक्त्यभिधे न्यासं चतुर्थे तु समाचरेत् । त्रिबीजपूर्वकान्न्यस्येत्षट्शिवाञ्छक्तिसंयुतान् ॥ ४९ ॥
于第四法中,当修名为“湿婆—夏克蒂”的安置(nyāsa)。先安置以三种种子音为首之真言,继而安置与夏克蒂相应的六位湿婆。
Verse 50
आधारादिषु चक्रेषु स्वचक्रवर्णपूर्वकान् । ब्रह्माणं डाकिनीयुक्तं वादिसांतार्णपूर्वकम् ॥ ५० ॥
于自阿陀罗(Ādhāra)起之诸轮(cakra)中,先依各轮次第安置其所属诸字;继而观想与荼吉尼(Ḍākinī)相应之梵天(Brahmā),并以前导之种子音序列自“va”至“sa”。
Verse 51
मूलाधारे विन्यसेच्च चतुर्द्दलसमन्वितम् । श्रीविष्णुं राकिणीयुक्तबादिलांतार्णपूर्वकम् ॥ ५१ ॥
于牟拉达拉(Mūlādhāra)中,当于四瓣莲安置圣毗湿奴(Śrī Viṣṇu)之nyāsa,与罗吉尼(Rākiṇī)相应;以前导之种子音自“ba”至“la”,并兼具内在之音(秘声)。
Verse 52
स्वाधिष्ठनाभिधे चक्रे लिंगस्थे षड्दले न्यसेत् । रुद्रं तु डाकिनीयुक्तं डादिफांतार्णपूर्वकम् ॥ ५२ ॥
于位于林伽处之娑嚩地湿他那(Svādhiṣṭhāna)六瓣莲中,当行nyāsa;于彼安置与荼吉尼(Ḍākinī)相应之鲁陀罗(Rudra),以前导之音自“ḍa”起至“pha”止。
Verse 53
चक्रे दशदले न्यस्येन्नाभिस्थे मणिपूरके । ईश्वरं कादिठान्तार्णपूर्वकं शाकिनीयुतम् ॥ ५३ ॥
应在脐间的十瓣轮——摩尼补罗迦(Maṇipūraka)——行作安置(nyāsa);并于彼处观想自在主(Īśvara),以前导“Ka至Ṭha”诸音节为先,伴以沙吉尼(Śākinī)。
Verse 54
विन्यसेद्द्वादशदलेहृदयस्थे त्वनाहते । सदाशिवं शाकिनीं च षोडशस्वरपूर्वकम् ॥ ५४ ॥
应在心间十二瓣的心莲——阿那哈塔(Anāhata)——行作安置(nyāsa);于彼处安置常住湿婆(Sadāśiva)及沙吉尼(Śākinī),以前导十六元音为先。
Verse 55
कण्ठस्थे षोडशदले विशुद्धाख्ये प्रविन्यसेत् । आज्ञाचक्रे परशिवं हाकिनीसंयुतं न्यसेत् ॥ ५५ ॥
应稳固安住于喉间十六瓣莲华,名为毗输达(Viśuddhā);又于阿阇那轮(Ājñā-cakra)中安置与哈吉尼(Hākinī)相合的至上湿婆(Paraśiva)。
Verse 56
लक्षार्णपूवं भ्रूमध्यसंस्थितेऽतिमनोहरे । तारादिपंचमं न्यासं कुर्यात्सर्वेष्टसिद्धये ॥ ५६ ॥
将以“lakṣa”音节起首之真言安置于眉间极其悦目的虚空处,并作从“多罗(Tārā)”起至第五分的安置(nyāsa);由此一切所愿成就悉皆圆满。
Verse 57
अष्टौ वर्गान्स्वरद्वंद्वपूर्वकान् बीजसंयुतान् । ताराद्या न्यासपूर्वाश्च प्रयोज्या अष्टशक्तयः ॥ ५७ ॥
应当运用八类字母:每一类以前导一对元音,并与种子音(bīja)相合。自“多罗(Tārā,即Oṃ)”起,先行安置(nyāsa),然后于修持中施用八种圣力(Śakti)。
Verse 58
ताराथोग्रा महोग्रापि वज्रा काली सरस्वती । कामेश्वरी च चामुंडा इत्यष्टौ तारिकाः स्मृताः ॥ ५८ ॥
怛罗(Tārā)、阿托格罗(Athogrā)、摩诃格罗(Mahogrā)、金刚(Vajrā)、迦梨(Kālī)、萨拉斯瓦蒂(Sarasvatī)、迦摩伊湿瓦丽(Kāmeśvarī)与遮姆温达(Cāmuṇḍā)——此八位依传统被忆念为“度母众(Tārikā)”。
Verse 59
ब्रह्मरंध्रे ललाटे च भ्रूमध्ये कण्ठदेशतः । हृदि नाभौ फले मूलाधारे चेताः क्रमान्न्यसेत् ॥ ५९ ॥
应当令心识循次安置:于梵门(brahma-randhra,顶门孔)、于额、于眉间、于喉部、于心中、于脐、于生殖处,并于牟拉达拉(mūlādhāra,根基处)。
Verse 60
अङ्गन्यासं ततः कुर्यात्पीठाख्यं सर्वसिद्धिदम् । आधारे कामरूपाख्यं बीजं ह्रस्वार्णपूर्वकम् ॥ ६० ॥
随后当行名为“毗吒(Pīṭha)”的支分安置(aṅga-nyāsa),能赐一切成就(siddhi)。于阿达拉(ādhāra,根基)处,应安置名为“迦摩卢波(Kāmarūpa)”的种子真言(bīja),其前加短元音。
Verse 61
हृदि जालंधरं बीजं दीर्घपूर्वं प्रविन्यसेत् । ललाटे पूर्णगिर्याख्यं कवर्गाद्यं न्यसेत्सुधीः ॥ ६१ ॥
于心中,当谨慎安置“阇兰达罗(Jālandhara)”种子(bīja),其前加长元音。于额上,智者当安置名为“普尔那吉里(Pūrṇagiri)”之种子,以ka类辅音起首。
Verse 62
उड्डीयानं चवर्गाद्यं केशसन्धौ प्रविन्यसेत् । कण्ठे तु मथुरापीठं दशम यादिकं न्यसेत् ॥ ६२ ॥
当谨慎作安置(nyāsa):将“邬地耶那(Uḍḍiyāna)”——以ca类辅音起首——安置于发际交界处。又于喉间安置“摩图罗(Mathurā)”之座(pīṭha),并安置第十位次、以“ya”起首者。
Verse 63
षोढा न्यासस्तु तारायाः प्रोक्तोऽभीष्टप्रदायकः । हृदि श्रीमदेकजटां तारिणीं शिरसि न्यसेत् ॥ ६३ ॥
塔罗(Tārā)的十六支分安置法(nyāsa)被宣说为能赐予所愿之果。应当在心中安置吉祥的独髻(Ekajaṭā),并在头顶安置度母(Tāriṇī)。
Verse 64
वज्रोदके शिखां पातु उग्रतारां तु वर्मणि । महोग्रा वत्सरे नेत्रे पिंगाग्रैकजटास्त्रके ॥ ६४ ॥
愿金刚水女(Vajrodakā)护持我的顶髻(śikhā);愿怖烈度母(Ugratārā)护持我的护甲(varman)。愿大怖者(Mahogrā)守护我的小腿;愿黄焰顶髻(Piṅgāgrā‑Ekajaṭā)护持我的双眼与我的阿斯特拉(astra,咒武)。
Verse 65
षड्रदीर्गयुक्तमायाया एतान्यष्टौ षडंगके । अंगुष्ठादिष्वंगुलीषु पूर्वं विन्यस्य यत्नतः ॥ ६५ ॥
在六支辅行(ṣaḍaṅga)之中,应先谨慎地把具六长元音的“摩耶”真言之八音,安置于诸指之上,从拇指开始。
Verse 66
तर्जनीमध्यमाभ्यां तु कृत्वा तालत्रयं ततः । छोटिकामुद्राया कुर्याद्दिग्बन्धं देवतां स्मरन् ॥ ६६ ॥
随后以食指与中指作三次击掌;继而结“绰提迦印”(Choṭikā‑mudrā),忆念本尊,建立方隅封护(digbandha)。
Verse 67
विद्यया तारपुटया व्यापकं सप्तधा चरेत् । उग्रतारां ततो ध्यायेत्सद्यो वादेऽतिसिद्धिदाम् ॥ ६७ ॥
依“塔罗‑普吒”(Tāra‑puṭa)之真言明咒,应作遍覆护持(nyāsa/覆盖)七重。其后当观想怖烈度母(Ugratārā),她于论辩(vāda)中即刻赐予殊胜成就。
Verse 68
लयाब्धावंबुजन्मस्थां नीलाभां दिव्यभूषणाम् । कम्बुं खङ्गं कपालं च नीलाब्जं दधतीं करैः ॥ ६८ ॥
她立于从劫灭之海中生起的莲华之上,身色幽蓝,佩戴天界妙饰;双手执螺(śaṅkha)、剑、颅钵与青莲。
Verse 69
नागश्रेष्ठालंकृतांगीं रक्तनेत्रत्रयां स्मरेत् । जपेल्लक्षचतुष्कं हि दशांशं रक्तपद्मकैः ॥ ६९ ॥
当观想女神:肢体以最胜那伽为饰,具三只赤红之眼。继而诵持真言四十万遍;并以其十分之一,奉献红莲为供。
Verse 70
हुनेत्क्षीराज्यसंमिश्रैः शंखं संस्थाप्य संजपेत् । नारीं पश्यन्स्पृशन्गच्छन्महानिशि बलिं चरेत् ॥ ७० ॥
当以乳与酥油和合而作火供;安置法螺后,行真言诵持。于大夜之仪(午夜法)中,当观女人、触女人、趋向女人之时,亦当行巴利供献。
Verse 71
श्मशाने शून्यसदने देवागारेऽथ निर्जने । पर्वते वनमध्ये वा शवमारुह्य मंत्रवित् ॥ ७१ ॥
在火葬场、空屋、神庙或寂静之处——或在山上,或在林中——通晓真言者甚至可登尸为座,而修持真言法。
Verse 72
समरे शत्रुनिहतं यद्वा षाण्यासिकं शिशुम् । विद्यां साधयतः शीघ्रं साधितैवं प्रसिद्ध्यति ॥ ७२ ॥
当修成一门毗提耶(vidyā,秘法)之时,若见战场上敌人被杀,或见出家行者之子,则此毗提耶便迅速成就——传统相传如此。
Verse 73
मेधा प्रज्ञा प्रभा विद्या धीवृत्तिस्मृतिबुद्धयः । विश्वेश्वरीति संप्रोक्ताः पीठस्य नव शक्तयः ॥ ७३ ॥
梅陀(持忆之慧)、般若(辨别之智)、普罗婆(光辉)、毗提耶(知识)、提(理解)、弗哩底(心之作用)、斯摩哩底(忆念)、与布提(理智)——此等被宣说为圣座(Pīṭha)的九种神力(śakti),合称为“毗湿维湿瓦丽”(Viśveśvarī)。
Verse 74
भृगुमन्विंदुसंयुक्तं मेघवर्त्म सरस्वती । योगपीठात्मने हार्द्दं पीठस्य मनुरीरितः ॥ ७४ ॥
圣座(Pīṭha)之真言已被宣说:与婆利古(Bhṛgu)、摩奴(Manu)及月轮相合;循云路而行;并且即是萨拉斯瓦蒂(Sarasvatī)——由心而生、奉献于瑜伽圣座之自性(我)的内在供养。
Verse 75
दत्त्वानेनासनं मूर्तिं मूलमंत्रेण कल्पयेत् । पूजयेद्विधिवद्देवीं तद्विधानमथोच्यते ॥ ७५ ॥
先为女神奉上座位,然后应以根本真言(mūla-mantra)安立(观想并建立)其圣像。继而依所规定的仪轨礼敬天女(Devī);现在将宣说其法。
Verse 76
तारो माया भगं ब्रह्मा जटे सूर्यः सदीर्घकम् । यक्षाधिपतये तंद्रीसोपनीतं बलिं ततः ॥ ७६ ॥
随后,以“多罗”(Tāra)、“摩耶”(Māyā)、“婆伽ṃ”(Bhagaṃ)、“梵摩”(Brahmā)、“苏利耶ḥ”(Sūryaḥ)等真言词长声诵出,并将发结为缠髻(jata),继而把依仪轨逐步奉上的供食(bali)献给夜叉之主。
Verse 77
गृहयुग्मं शिवा स्वाहा बलिमंत्रोऽयमीरितः । दद्यान्नित्यं बलिं तेन मध्यरात्रे चतुष्पथे ॥ ७७ ॥
“双屋;噢,湿婆(Śivā),娑嚩诃(svāhā)”——此即所宣说的供食真言(bali-mantra)。以此真言,应每日于午夜,在四岔路口奉献供食(bali)。
Verse 78
जलदानादिकं मंत्रैर्विदध्याद्दशभिस्ततः । ध्रुवो वज्रोदके वर्म फट्सप्तार्णो जलग्रहे ॥ ७८ ॥
其后,应以十种真言行施水等相关仪轨。其中包括:Dhruva 真言、Vajrodaka 真言、Varma 护身真言;而在取水之时,当诵以“phaṭ”结尾的七音节真言。
Verse 79
ताराद्या वह्निजायांता माया हि क्षालने मता । तारो मायाः भृगुः कर्णोविशुद्धं धर्मवर्मतः ॥ ७९ ॥
从 Tārā 起至 Vahnijāyā 止,此一组在净洗之用上被称为“摩耶(Māyā)”。Tārā 即名为 Māyā 的(真言/量式);Bhṛgu 称为 Karṇa;而其清净之相则名 Dharmavarma。
Verse 80
सर्वपापानि शाम्यंते छेतो नेत्रयुतं जलम् । कल्पान्तनयनस्वाहा मंत्र आचमने मतः ॥ ८० ॥
以正念摄持、并令双目端正而饮之水,能令一切罪业息灭。行 ācamana(仪式啜水)时,当诵“kalpānta-nayana-svāhā”之真言。
Verse 81
ध्रुवो मणिधरीत्यंते वज्रिण्यक्षियुता मृतिः । खरिविद्यायुग्रिजश्व सर्ववांते बकोऽब्जवान् ॥ ८१ ॥
“Dhruva”称为“Maṇidhara”;“Mṛti”被说为“Vajrīṇī,具不坏之眼”;“Kharī‑vidyā”名为“Ugrijāśva”;而在一切列举之末,则为“Baka”,莲华所生者。
Verse 82
कारिण्यंते दीर्घवर्म अस्त्रं वह्निप्रियांतिमः । त्रयोविंशतिवर्णात्मा शिखाया बंधने मनुः ॥ ८२ ॥
“Kāriṇyaṃte”与“Dīrghavarma”——此即 Astra 真言;其结句为“Vahnipriyāntimaḥ”。此咒由二十三音节组成,是用于系缚并护持 śikhā(顶髻、发结)的 Manu(圣式)。
Verse 83
प्रणवो रक्षयुगलं दीर्घवर्मास्त्रठद्वयम् । नवार्णेनामुना मंत्री कुर्याद्भूमिविशोधनम् ॥ ८३ ॥
以圣音普罗那瓦(Oṃ),并配合一对护持真言、长护甲真言,以及以“ṭha”结尾的两枚“astra”音节,行仪者应以此九音真言净化地面。
Verse 84
नारांते सर्वविघ्नानुत्सारयेति पदं ततः । हुं फट् स्वाहा गुणेंद्वर्णो मनुर्विघ्ननिवारणम् ॥ ८४ ॥
在“那罗延那(Nārāyaṇa)”之名末尾,加上“驱逐一切障碍”之句;随后由“huṃ、phaṭ、svāhā”组成、含具guṇa与indu之音的真言,用以消除诸障。
Verse 85
मायाबीजं जपापुष्पनिभं नाभौ विचिंयेत् । तदुत्थेनाग्निना देहं दहेत्साद्धस्वपाप्मना ॥ ८५ ॥
当于脐轮观想“摩耶种子音”(Māyā-bīja),其色如朱槿花;以由此生起之火,焚烧此身,并焚尽自身诸罪。
Verse 86
ताराबीजं सुवर्णाभं चिंतयेद्धृदि मंत्रवित् । पवनेन तदुत्थेन पापभस्म क्षिपेद्भुवि ॥ ८६ ॥
通晓真言者当于心中观想“多罗种子音”(Tārā-bīja),灿然如金;并以由此观想所生之息,将罪业之灰撒落于大地。
Verse 87
तुरीयं चंद्रकुंदाभं बीजं ध्यात्वाललाटतः । तदुत्थसुधयादे हं स्वयं वै देवतानिभम् ॥ ८७ ॥
自额间观想第四种子音,皎洁如月、素馨如茉莉;由其所生甘露,使此身自然而然光耀如天神。
Verse 88
अनया भूतशुद्ध्या तु देवीसादृश्यमाप्नुयात् । तारोऽनंतो भगुः कर्णो पद्मनाभयुतो बली ॥ ८८ ॥
凭此“bhūtaśuddhi”(诸元素净化)之修持,行者确能得与女神相似之境。其人化为:多罗(Tāra)、无尽(Ananta)、婆古(Bhagu)、迦尔那(Karṇa),并成具莲脐(Padmanābha)之大力者。
Verse 89
खे वज्ररेखे क्रोधाख्यं बीजं पावकल्लभा । अमुना द्वादशार्णेन रचयेन्मंडलं शुभम् ॥ ८९ ॥
噢,火神阿耆尼之爱者!于如虚空之天际处,并沿金刚形之线,当安置名为“忿怒”(Krodha)之种子音。以此十二音节之真言,应建立吉祥曼荼罗。
Verse 90
तारो यथागता निद्रा सदृक्षेकभृगुर्विषम् । सदीर्घस्मृतिरौ साक्षौ महाकालो भगान्वितः ॥ ९० ॥
所列诸名为:多罗(Tāra);如是而来(Yathāgatā,“如其所成”);睡眠(Nidrā);相似(Sadṛkṣa);一婆利古(Ekabhṛgu);毒(Viṣa);长久忆念(Sadīrghasmṛti);劳(Rau);见证者(Sākṣa);大时(Mahākāla);以及具主宰威德者(Bhagānvita)。
Verse 91
क्रोधोऽस्त्रं मनुवर्णोऽयं मनुः पुष्पादिशोधने । तारः पाशः परा स्वाहा पंचार्णस्चित्तशोधने ॥ ९१ ॥
“忿怒”(Krodha)为阿斯特拉真言(astra-mantra)。此真言由所规定之音节组成,用以净化花等诸供具。“多罗”(Tāra)、“羂索”(Pāśa)、“至上”(Parā)、“娑嚩诃”(Svāhā)以及五音节真言,用于净化其心。
Verse 92
मनवो दश संप्रोक्ता अर्ध्यस्थापनमुच्यते । सेंदुभ्यां मासतो माया भुवं संसृज्य भूगृहम् ॥ ९२ ॥
宣说有十位摩奴(Manu);此名为安立阿尔伽供(arghya)。凭借月之二相,月复一月,摩耶(Māyā)造作诸世界,生成大地之境,使之成为居处。
Verse 93
वृतं त्रिकोणसंयुक्तं कुर्यान्मंडलमंत्रतः । यजेत्तत्राधारशक्तिं वह्निमंडलमध्यगाम् । वह्निमंडलमभ्यर्च्य महाशंखं निधापयेत् ॥ ९३ ॥
以真言当绘一圆形曼荼罗,并与三角相连。于彼处礼敬安住于火曼荼罗中央之“依止神力”(Ādhāra-Śakti)。既已如法供养火曼荼罗,复当于其上安置大法螺(mahāśaṅkha)。
Verse 94
वामकर्णेन्दुयुक्तेन फडंतेन विहायसा । प्रक्षालितं भृगुर्दंडी त्रिमूर्तींतुयुतं पठेत् ॥ ९४ ॥
以与“左耳之月”相应的音节为引,并以护身呼声“phaṭ”作结,复与“虚空”之要素同诵。由此净化后,当与三相(Trimūrti)相合而诵读“婆利古杖”(Bhṛgu-daṇḍī)之法句。
Verse 95
ततोऽर्चयेन्महाशंखं जपन्मंत्रचतुष्टयम् । दीर्घत्रयान्विता माया काली सृष्टिः सदीर्घसः ॥ ९५ ॥
随后当供养大法螺,并持诵四组真言:“Māyā”(具三长音)、“Kālī”、“Sṛṣṭi”,以及带长音之“Sa(Sā)”。
Verse 96
प्रतिमासंयुतं मासं यवनं हृदयं ततः । एकाधशार्णः प्रथमो महाशंखार्चने मनुः ॥ ९६ ॥
继而当用次第:“māsa”与“pratimāsa”相连,其后为“yavana”,再后为“hṛdaya”。此即供奉大法螺(Mahāśaṅkha)所规定的第一道十一音节真言。
Verse 97
हंसो हरिभुजंगेशयुक्तो दीर्घंत्रयेंदुयुक् । तारिण्यंते कपालाय नमोंतो द्वादशाक्षरः ॥ ९७ ॥
此十二音节真言以“namo”作结;由“haṁsa”与“haribhujaṅgeśa”相合,并依法配以长音与“三月”之标记,末以“tāriṇī”与“kapālāya”圆满。
Verse 98
स्वं दीर्घत्रयमन्वाढ्यमेषो वामदगन्वितः । लोकपालाय हृदयं तृतीयोऽयं शिवाक्षरः ॥ ९८ ॥
音节“svaṃ”,具足三重长元音并与“左侧”要素相合,即为护世者(Lokapāla)的心咒;此乃第三个湿婆音节。
Verse 99
मायास्त्रीबीजमर्द्धैदुयुतं स्वं स्वर्गखादिमः । पालाय सर्वाधाराय सर्वः सर्वोद्भवस्तथा ॥ ९९ ॥
祂是摩耶(Māyā)之种子,是女性神力的生发原理;祂自身的标记与半月相合。祂吞摄诸天及一切;祂为护持者、万有之依、即一切者,亦是一切生起之源。
Verse 100
सर्वशुद्धिमयश्चेति ङेंताः सर्वासुरांतिकम् । रुधिरा रतिदीर्घा च वायुः शुभ्रानिलः सुरा ॥ १०० ॥
“这些是ṅeṃtā之词”: “具足圆满清净”;“摧灭一切阿修罗者”;“血红”;“长久之欢悦”;“风”;“皎白清亮之微风”;以及“sura”(天界/甘露之义)。
Verse 101
भाजनाय भगी सत्या विकपालाय हृन्मनुः । तुर्यो रसेषु वर्णोऽयं महाशंखप्रपूजने ॥ १०१ ॥
对于圣器容器(bhājana),所传授的音节形态为“bhagī satyā”;对于颅钵(kapāla),则为“hṛnmanuḥ”。此乃第四(turyā)种仪轨“色/音类”,当在大海螺(Mahāśaṅkha)的大供养中,配合诸液与精华(rasa)而施行。
Verse 102
नवार्कमंडलं चेष्ट्वा सलिलं मूलमंत्रतः । प्रपूरयेत्सुधाबुद्ध्या गंधपुष्पाक्षतादिभिः ॥ १०२ ॥
先备办新成的日轮坛(arka-maṇḍala),当以根本真言加持净化其水;继而以“此为甘露(amṛta)”之心完成供仪,奉以香、花、不碎米(akṣata)等物。
Verse 103
मुद्रां त्रिखंडां संदर्श्य पूजयेच्चंद्रमंडलम् । वाक्सत्यपद्मागगने रेफानुग्रहबिंदुयुक् ॥ १०३ ॥
显现三分手印(trikhaṇḍā mudrā)之后,应礼拜月轮。其供奉当以“vāk–satya–padmā–gagane”之真言为本,配以字母“ra”(repha),加上“anugraha”(加持)之增益,并具鼻音点(bindu)。
Verse 104
मूलमंत्रो विपद्ध्वंसमनुसर्गसमन्वितम् । अष्टकृत्वोऽमुना मंत्री मंत्रयेत्प्रयतो जलम् ॥ १०४ ॥
持戒专注的行者,应以根本真言(mūla-mantra)连同“vipad-dhvaṁsa”(摧灭灾厄)之附加句与规定的“anusarga”续加法,诵满八遍,以此加持净水。
Verse 105
मायया मदिशं क्षिप्त्वा खं योनिं च प्रदर्शयेत् । तत्र वृत्ताष्टषट्कोणं ध्यात्वा देवीं विचिंतयेत् ॥ १०५ ॥
凭借幻力(māyā),将种子音“ma”安置于所规定的方位,继而描画“kha”与“yoni”。于彼处观想圆形,并与八角、六角之图相合,专心思惟圣母女神(Devī)。
Verse 106
पूर्वोक्तां पूजयेत्त्वेनां मूलेनाथ प्रतर्पयेत् । तर्जनूमध्यमानामाकनिष्ठाभिर्महेश्वरीम् ॥ १०६ ॥
依前所说之法,应礼拜供养彼女神之相;继而以根本真言奉献,使其欢喜满足。并以手指——食指、中指、无名指与小指——依所定的安置法(nyāsa)礼敬摩诃伊湿伐梨(Maheśvarī)。
Verse 107
सांगुष्ठानिश्चुतुर्वारं महाशंखस्थिते जले । खंरेफमनुबिंद्वाढ्यां भृगुमन्विंदुयुक्तया ॥ १०७ ॥
以拇指四次洒净(或触水加持)置于大法螺中的清水。随后运用音节“kha”与“repha”(ra)相合,并具鼻音记号(anusvāra)与点(bindu);又用“bhṛgu”(bha)与点(bindu)相连。
Verse 108
ध्रुवाद्येन नमोंतेन तर्प्यादानंदभैरवम् । ततस्तेनार्धतोयेन प्रोक्षेत्पूजनसाधनम् ॥ १०८ ॥
以“Dhruva”起首、以“namaḥ”结尾之真言,应向Ānandabhairava行tarpana(献水奠祭)。随后以所余半分之水,洒净供具与一切礼拜器物。
Verse 109
योमिमुद्रां प्रदर्श्यापि प्रणमेद्भवतारिणीम् । विधानमर्घे संप्रोक्तं सर्वसिद्धिप्रदायकम् ॥ १०९ ॥
示现“yoni”手印之后,应向度世者婆伐塔里尼(Bhavatāriṇī)顶礼。此法门与供献阿尔伽(arghya)相连而宣说,被称为能赐一切成就。
Verse 110
पूर्वोक्ते पूजयेत्पीठे पद्मे षट्कोणकर्णिके । धरागृहावृते रम्ये देवीं रम्योपचारकैः ॥ ११० ॥
于前所述之座——六角莲台之莲心,外以bhūpura(地界坛城)庄严围护——当以悦意供品与恭敬侍奉来礼拜女神。
Verse 111
महीगृहे चतुर्दिक्षु गणेशादीन्प्रपूजयेत् । पाशांकुशौ कपालं च त्रिशूलं दधतं करैः ॥ १११ ॥
在仪式之屋(mahīgṛha)中,应于四方如法礼敬伽内沙(Gaṇeśa)及诸神——其手持绳索(pāśa)与钩杖(aṅkuśa)、颅钵(kapāla)与三叉戟(triśūla)者。
Verse 112
अलंकारचयोपेतं गणेशं प्राक्तमर्चयेत् । कपालशूले हस्ताभ्यां दधतं सर्पभूषणम् ॥ ११२ ॥
首先应礼拜伽内沙(Gaṇeśa),其身具众多庄严饰物——双手执骷髅与三叉戟,以蛇为璎珞之饰。
Verse 113
स्वयूथवेष्टितं रम्यं बटुकं दक्षिणेऽर्चयेत् । असिशूलकपालानि डमरुं दधतं करैः ॥ ११३ ॥
于南方一侧,当礼拜端严可喜的Baṭuka,周围环侍其自属眷众;其手执宝剑、三叉戟、颅杯(kapāla)与ḍamaru小鼓。
Verse 114
कृष्णं दिगंबरं क्रूरं क्षेत्रपालं च पश्चिमे । कपालं डमरुं पाशं लिंगं शंबिभ्रतीं करैः ॥ ११४ ॥
于西方,当安置/观想护域神克舍特拉帕拉(Kṣetrapāla):身色黧黑,空衣(digambara),威猛可畏——手持骷髅、ḍamaru小鼓、绳索(pāśa)与林伽(liṅga)。
Verse 115
अध्याकन्या रक्तवस्त्रा योगिनीरुत्तरे यजेत् । अक्षोभ्यं प्रयजेन्मूर्ध्नि देव्या मंत्रऋषिं शुभम् ॥ ११५ ॥
于北方,当礼拜瑜伽女神(Yoginī)——观为身着红衣的少女。并于头顶(作安置/nyāsa时),当如法奉请阿克朔毗耶(Akṣobhya),为女神真言之吉祥仙师(ṛṣi)。
Verse 116
अक्षोभ्यं वस्त्रपुष्पं च प्रतीच्छानवल्लभा । अक्षोभ्यपूजने मंत्रः षट्कोगकम् ॥ ११६ ॥
当以不动摇之心领受(并奉献)衣与花,皆为受者所喜。于礼拜阿克朔毗耶(Akṣobhya)时,其真言为六字之法。
Verse 117
वैराचनं चामिताभं पद्मनाभिभिधं तथा । शंखं पांडुरसंज्ञं च दिग्दलेषु प्रपूजयेत् ॥ ११७ ॥
于诸方位的分区中,当如法礼敬毗卢遮那(Vairācana)、阿弥陀婆(Amitābha)、莲华脐(Padmanābha),以及名为般荼罗(Pāṇḍura)的圣螺(Śaṅkha)。
Verse 118
लाभकां मानकां चैव पांडुरां तारकां तथा । विदिग्गताब्जपत्रेषु पूजयेदिष्टसिद्धये ॥ ११८ ॥
为成就所愿,应在按方位排列的莲瓣上礼敬(诸女神/能量)拉婆迦(Lābhakā)、摩那迦(Mānakā)、般度罗(Pāṇḍurā)以及多罗迦(Tārakā)。
Verse 119
बिंदुनामादिवर्णाद्याः संबुद्ध्यंतास्तथाभिधाः । व्रजपुष्पं प्रतीच्छाग्निप्रियांताः प्रणवादिकाः ॥ ११९ ॥
从名为“Bindu(点)”的音节及诸初始字母(varṇa)起,这些真言应按其名号如实领会并称呼;其中有“Vraja”“Puṣpa”“Pratīccha”“Agni”以及以“Priyā”结尾的诸式样,并以圣音 praṇava“唵(Oṃ)”等为开端。
Verse 120
वैराचनादि पूजायां मनवः परिकीर्तिताः । भूधरश्च चतुर्द्वार्षु पद्मांतकयमांतकौ ॥ १२० ॥
在以毗罗遮那(Vairācana)为始的供奉中,已宣说相应的诸摩奴(Manu);而在四门之处,安置有 Bhūdhara,并有 Padmāntaka 与 Yamāntaka 镇守。
Verse 121
विद्यांतकाभिधः पश्चान्नरांतक इमान्यजेत् । शक्रादींश्चैव वज्रादीन्प्रजपेत्तदनंतरम् ॥ १२१ ॥
其后,由名为 Vidyāntaka 者行此诸仪;继而 Narāntaka 亦如是行。随后,应依次持诵(祈请)因陀罗等诸天,以及金刚杵(Vajra)等诸神兵。
Verse 122
एवं संपूजयन्देवीं पांडित्यं धनमद्भुतम् । पुत्रान्पौत्राञ्छुभां कीर्तिं लभते जनवश्यताम् ॥ १२२ ॥
如是恭敬圆满地礼敬女神,便能获得学识、奇妙财富、子孙、吉祥名声,以及摄受人心、赢得众人好感之力。
Verse 123
तारो माया श्रीमदकजटे नीलसरस्वती । महोप्रतारे देवासः सनेत्रो गदियुग्मकम् ॥ १२३ ॥
怛罗(Tārā)、摩耶(Māyā)、吉祥之结发者、青色萨拉斯瓦蒂(Nīla-Sarasvatī)、大普拉塔拉(Pratārā)、诸天、“具眼者”(Sa-netra),以及持钺杵之双尊——这些名号与形相正在此处依次列举。
Verse 124
सर्वदेवपिशाकर्मो दीर्घोग्रिर्मरुसान्मस । अभ्रगुमम जाड्यं च छेदयद्वितयं रमा ॥ १२४ ॥
罗摩(Rāmā,吉祥天女拉克什米)斩断两重苦患——迟钝昏钝(jāḍya)与另一种障碍之过——它们源自粗猛而久燃、为鬼魅所缠的业行,以及马鲁特诸风神所致的枯燥之力。
Verse 125
मायास्त्राग्निप्रियांतोऽयं द्विपंचाशल्लिपिर्मनुः । अनेन नित्यं पूजतिऽन्वहं देव्यै बलिं हरेत् ॥ १२५ ॥
此咒以“摩耶”(māyā)起首,以“爱火者”(agnipriyā)作结,名为“五十字母真言”(dvipaṃcāśal-lipi)。应以此每日礼敬天女(Devī),并日日奉献巴利供(bali,仪式供献)。
Verse 126
एवं सिद्धे मनौ मंत्री प्रयोगान्विदधाति च । जातमात्रस्य बालस्य दिवसत्रितयादधः ॥ १२६ ॥
当此真言如法成就、具足灵验之后,行法之祭司便施行其诸般仪轨应用——自婴儿诞生后三日之内开始。
Verse 127
जिह्वायां विलिखेन्मंत्रं मध्वाज्याभ्यां शलाकया । सुवर्ण कृतया यद्वा मंत्री धवलदूर्वया ॥ १२७ ॥
应以小杖蘸蜜与酥油(ghee)将真言书写于舌上;或由持咒者以金制笔针书写,亦可用白色杜尔瓦草(dūrvā)来书写。
Verse 128
गतेऽष्टमेऽब्दे बालोऽपि जायते कविरद्बुतम् । तथापरैरजेयोऽपि भूपसंघैर्द्धनार्चितः ॥ १२८ ॥
当第八年已过,即便是孩童也能成为奇妙的诗人;同样地,本不可战胜者,若遭逢诸王之众并以财宝礼敬(或诱引),也会被他人所制伏。
Verse 129
उपरागे दतानीव नरदारुसरोजले । निर्माय कीलकं तेन तैलमध्वमृतैर्लिखेत् ॥ १२९ ॥
在日月食之时,于浸有莲花与那罗达鲁(nara-dāru)之水中,应制成一枚小楔(kīlaka);随后以油、蜂蜜与酥油(ghee)为墨,用此楔书写所规定的字符/坛城(yantra)。
Verse 130
सरोजिनीदले मंत्रं वेष्टयेन्मातृकाक्षरैः । निखाय तदलं कुंडे चतुरस्रे समेखले ॥ १३० ॥
在莲叶之上,应以“母音字母”(mātṛkā,诸字母)环绕真言;随后将此已备之叶置入具周界线的方形火坛(kunda)中,并埋设安置。
Verse 131
संस्थाप्य पावकं तत्र जुहुयान्मनुनामुना । सहस्रं रक्तपद्मानां धेनुदुग्धजलाप्लुतम् ॥ १३१ ॥
在彼处安立圣火之后,应以此所授真言行供火(homa),奉献一千朵红莲,并以牛乳与清水之和润湿之。
Verse 132
होमांते विवधै रत्नैः पलैरपि बलिं हरेत् । बलिं मंत्रेण विधिवद्बलिमंत्रः प्रकाश्यते ॥ १३२ ॥
于供火(homa)终了之时,应献上“巴利供”(bali)——可用诸宝,或至少以果品。此巴利当依仪轨并伴随真言而献;故今将宣说巴利真言。
Verse 133
तारः पद्मे युग तंद्री वियद्दीर्घं च लोहितः । अत्रिर्विषभगारूढो वदत्पद्मावतीपदम् ॥ १३३ ॥
“塔罗”(即布里哈斯帕提)安住于“莲华(Padma)”;又有“劫期(Yuga)”与“昏倦(Taṃdrī)”,并有“虚空长延(Viyad-dīrgha)”与“赤色(Lohita)”。阿特里乘牛(Uṣabha)而宣说名为“莲华女(Padmāvatī)”之位。
Verse 134
झिंटीशाढ्योनिलस्वाहा षोडशार्णो बलेर्मनुः । ततो निशीथे च बलिं पूर्वोक्तमनुना हरेत् ॥ १३४ ॥
“jhiṃṭīśāḍhya-onila-svāhā”——此为用于巴利供(bali 祭供)的十六音节真言。随后于子夜,当以先前所说真言奉献巴利供。
Verse 135
एवं कृते पंडितानां स जयी कविराड् भवेत् । निवासो भारतीलक्ष्म्योर्जनतारञ्जनक्षमः ॥ १३५ ॥
如是行持者,必于学者之中成为得胜的杰出诗圣;其身为语慧女神(Bhāratī)与吉祥财富女神(Lakṣmī)之所依止,能令众人欢悦。
Verse 136
शताभिजप्त्या यो मंत्री रोचनां मस्ताके धरेत् । यं यं पश्यति तस्यासौ दासवज्जायते क्षणात् ॥ १३६ ॥
持咒者若先诵此真言一百遍,再以罗遮那(rocanā,黄色仪轨颜料)点涂于顶——其所注视之人,顷刻便如其仆从。
Verse 137
श्मशानांगारमाश्रित्य पूर्वायां कुजवासरे । तेन मत्रेण संवेष्ट्य निबद्धं रक्ततंतुभिः ॥ १३७ ॥
于周二黎明,取火葬场(śmaśāna)之炭;以彼真言加持而缠裹之,并以红线系缚牢固。
Verse 138
शताभिजप्तं मूलेन निक्षिपेद्वैरिवेश्मनि । उच्चाटयति सप्ताहात्सकुंटुबान्विरोधिनः ॥ १३८ ॥
将咒语对着一段根部诵念一百遍后,把它置于敌人的家中;七日之内,便能驱逐那作对之人,并连同其家眷一并远离。
Verse 139
क्षीराढ्यया निशामंत्रं लिखित्वा पौरुषेऽस्थनि । रविवारे निशीथिन्यां सहस्रमभिमंत्रयेत् ॥ १३९ ॥
以乳汁浓厚之墨书写“尼沙咒”于人骨之上;于星期日的午夜,以诵念一千遍而加持使其成就。
Verse 140
तत्क्षिप्तं शत्रुसदने मंडलाद्भ्रंशकं भवेत् । क्षेत्रे क्षिप्तं सस्यहान्योजवहृत्तुरमालयेत् ॥ १४० ॥
若将此物掷入敌人宅中,便成为使其从权位与威势中坠落的因缘;若掷入田地,则致庄稼损失,并迅速夺去田土的生机与产力。
Verse 141
षट्कोणांतर्लिखेन्मूलं साध्यार्णं केशरे स्वरैः । बाह्येऽष्टवर्गयुक्पत्रं पद्मभूमिपरावृतम् ॥ १४१ ॥
于六角六芒之内书写根本真言(Mūla-mantra);在花丝(keśara)处安置所欲成就之真言音节,并配以诸元音。其外于莲瓣上书八类字群(aṣṭa-varga)之音节,并以莲座之地(padma-bhūmi)周匝围护。
Verse 142
यंत्रं भूर्जे जहुरसैर्लिखेत्पूताम्बरावृतम् । पट्टसूत्रेण सन्नद्धं शिशुकंठगतं ध्रुवम् ॥ १४२ ॥
当以桦树皮书写此护符坛城(yantra),用“呼呼供”(Juhu)供品之精华为墨;以净洁之布包裹,以丝线系缚,并牢固安置于孩童颈间,作护身之符。
Verse 143
भूतभीतिहरं वामवाहौ स्त्रीणां च पुत्रदम् । नृणां दक्षिणबाहुस्थं निर्धनानां धनप्रदम् ॥ १४३ ॥
(此法)能除诸众生之怖畏;系于左臂,则赐妇女得一子;系于右臂为男子,则赐贫者得财。
Verse 144
ज्ञानदं ज्ञानमिच्छूनां राज्ञां तु विजयप्रदम् ॥ १४४ ॥
它赐求知者以智慧;而于诸王,则赐以胜利。
Verse 145
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे यक्षिणीमन्त्रभेदनिरूपणं नाम पञ्चाशीतितमोऽध्यायः ॥ ८५ ॥
至此,《圣大那罗陀往世书》前分之“大传说”(Bṛhad-upākhyāna)第三段(第三 pāda)中,名为《夜叉女(Yakṣiṇī)真言之分类与阐释》的第八十五章圆满结束。
It explicitly assigns Bhairava as ṛṣi (seer), Uṣṇik as chandas (metre), Kālī as devatā, identifies ‘Māyā’ as the bīja, and names the śakti as ‘Dīrghavartma’, then proceeds into nyāsa and protective procedures based on these assignments.
It prescribes a layered diagram: a central hexagon, then a set of three triangles, surrounded by an eight-petalled lotus, and finally an outer square enclosure (bhūpura), within which the deity and attendant powers are worshipped in their designated compartments.
It is expanded into a sixteenfold nyāsa that includes mātṛkā-based placements, navagraha (planetary) nyāsa, lokapāla (directional) nyāsa, Śiva–Śakti nyāsa, cakra installations from Ādhāra/Mūlādhāra upward, and protective kavaca/digbandha components—presented as a complete siddhi-yielding framework.
Yes. Alongside siddhi claims (vāk-siddhi, influence, protection, victory) and cremation-ground imagery, it also instructs a Kali-yuga devotee to avoid harming or slandering women, deceit, and harsh speech—embedding conduct restraints within a technical ritual chapter.