Adhyaya 35
Purva BhagaFirst QuarterAdhyaya 3574 Verses

The Exposition of Spiritual Knowledge (Jñāna-pradarśanam)

萨那迦赞叹聆听/诵念毗湿奴功德之力,能即刻灭罪,并按根器区分礼敬者:安定者降伏内在六敌,以智瑜伽趋近不坏之“无尽”;依仪轨净化者以业瑜伽亲近阿周陀;贪迷之人则忽略主宰。随后引出古老故事,许以如马祭(Aśvamedha)之功德:吠陀摩利(Vedamālī)为通晓吠陀、信奉哈利者,却因以家计为中心的贪欲而堕入不义买卖(贩售禁物、酒、誓愿,并受不净之施)。觉知希望/渴爱无有餍足后,他舍离旧业,分施财物,兴办公益与寺庙,前往那罗–那罗延那的隐修处。其间遇见光明的圣者迦难提(Jānantī),受其款待,并求解脱之智。迦难提教诫:恒常忆念毗湿奴,不毁谤,起慈悲,舍六恶习,敬奉宾客,以无求之心供花叶,供养诸天–仙圣–祖灵,事奉圣火(agni),清扫修缮寺院并燃灯,绕行礼拜与诵赞(stotra),每日研读《往世书》与《吠檀多》。对“我是谁?”之问,以心生我执、无相之真我及大句“汝即彼”(Tat tvam asi)开示,终至证悟梵与在瓦拉纳西得究竟解脱。章末以果报偈(phalaśruti)总结:听闻/诵读能断业缚。

Shlokas

Verse 1

सनक उवाच । पुनर्वक्ष्यामि माहात्म्यं देवदेवस्य चक्रिणः । पठतां शृण्वतां सद्यः पापराशिः प्रणश्यति 1. ॥ १ ॥

萨那迦说道:我将再宣说持轮之天中天(毗湿奴)的伟大。诵读者与聆听者,其罪业之聚当即消灭。

Verse 2

शान्ता जितारिषड्वर्गा योगेनाप्यनहङ्कृताः । यजन्ति ज्ञानयोगेन ज्ञानरूपिणमव्ययम् ॥ २ ॥

他们安宁寂静,已降伏六种内敌;虽住于瑜伽而无我慢。以智瑜伽之修持,礼敬那不坏者——其本性即是智慧。

Verse 3

तीर्थस्नानैर्विशुद्धा ये व्रतदानतपोमखैः । यजन्ति कर्मयोगेन सर्वधातारमच्युतम् ॥ ३ ॥

凡以在圣地渡口(tīrtha)沐浴而得清净,又以誓戒、布施、苦行与祭祀而自净者,皆以业瑜伽之修持礼敬阿周多(Acyuta)——不坏之主、托持一切众生者。

Verse 4

लुब्धा व्यसनिनोऽज्ञाश्च न यजन्ति जगत्पतिम् । अजरामरवन्मूढास्तिष्ठन्ति नरकीटकाः ॥ ४ ॥

贪婪者、沉溺恶习者与无明者不礼敬世间之主;愚迷自以为不老不死,便如地狱之虫般苟存。

Verse 5

तडिल्लेखाश्रिया मत्ता वृथाहङ्कारदूषिताः । न यजन्ति जगन्नाथं सर्वश्रेयोविधायकम् ॥ ५ ॥

他们沉醉于如电光一闪般短暂的荣华,又被虚妄我慢所染,便不礼敬宇宙之主贾甘纳塔(Jagannātha)——赐予一切至善者。

Verse 6

हरिधर्मरताः शान्ता हरिपादाब्जसेवकाः । दैवात्केऽपीह जायन्ते लोकानुग्रहतत्पराः ॥ ६ ॥

安宁之人,乐住于哈利之法,侍奉哈利莲足者,凭天意而于世间此处彼处示现出生,专为饶益众生、施与恩慈。

Verse 7

कर्मणा मनसा वाचा यो यजेद्भक्तितो हरिम् । स याति परमं स्थानं सर्वलोकोत्तमोत्तमम् ॥ ७ ॥

凡以行动、心念与言语,怀奉爱(bhakti)而礼敬哈利者,必至无上住处——超越并胜过一切诸界之最胜。

Verse 8

अत्रैवोदाहरन्तीममितिहासं पुरातनम् । पठतां शृण्वतां चैव सर्वपापप्रणाशनम् ॥ ८ ॥

就在此处,我将引述这则古老的圣传;凡诵读者与聆听者,皆能由此灭除一切罪业。

Verse 9

तत्प्रवक्ष्यामि चरितं यज्ञमालिसुमालिनोः । यस्य श्रवणमात्रेण वाजिमेधफलं लभेत् ॥ ९ ॥

如今我将宣说耶阇那摩利与苏摩利的圣行故事;仅仅听闻,便可获得如同举行阿湿婆梅陀(马祭)般的功德。

Verse 10

कश्चिदासीत्पुरा विप्र ब्राह्मणो रैवतेऽन्तरे । वेदमालिरिति ख्यातो वेदवेदाङ्गपारगः ॥ १० ॥

婆罗门啊,往昔在罗伊瓦塔王治世之时,有一位婆罗门名为吠陀摩利,通达诸吠陀及其支分学(吠陀支)。

Verse 11

सर्वभूतदयायुक्तो हरिपूजापरायणः । पुत्रमित्रकलत्रार्थं धनार्जनपरोऽभवत् ॥ ११ ॥

虽具悲悯众生之心,且专一礼敬哈利,然而他却为儿子、朋友与妻室之故,深深执著于聚敛财物。

Verse 12

अपण्यविक्रयं चक्रे तथा च रसविक्रयम् । चण्डालाद्यैरपि तथा सम्भाषी तत्प्रतिग्रही ॥ १२ ॥

他从事不当之物的买卖,又贩卖醉人之酒;甚至与旃陀罗等贱民交谈,并且也接受他们的馈赠。

Verse 13

तपसां विक्रयं चक्रे व्रतानां विक्रयं तथा । परार्थं तीर्थगमनं कलत्रार्थमकारयत् ॥ १३ ॥

他开始贩卖苦行,也同样贩卖誓戒;甚至把本为更高灵性目的而行的朝圣赴诸圣地(tīrtha),也变作世俗之用,安排这一切只为求得妻室。

Verse 14

कालेन गच्छता विप्र जातौ तस्य सुतावुभौ । यज्ञमाली सुमाली च यमलावतिशोभनौ ॥ १४ ॥

时日流逝,噢婆罗门啊,他有了两个儿子诞生——耶阇那摩梨(Yajñamālī)与苏摩梨(Sumālī)——一对容貌极其俊美的双生兄弟。

Verse 15

ततः पिता कुमारौ तावतिस्नेहसमन्वितः । पोषयामास वात्सल्याद्बहुभिः साधनैस्तदा ॥ १५ ॥

随后,父亲满怀深情,抚育并养大这两个孩子;出于父母的慈爱,那时他以多种资具与财用供养他们。

Verse 16

वेदमालिर्बहूपायैर्धनं सम्पाद्य यत्नतः । स्वधनं गणयामास कियत्स्यादिति वेदितुम् ॥ १६ ॥

韦陀摩梨(Vedamālī)以多种手段勤勉聚敛财富;随后他开始清点自己的钱财,想知道究竟有多少。

Verse 17

निधिकोटिसहस्राणां कोटिकोटिगुणान्वितम् । विगणय्य स्वयं हृष्टो विस्मितश्चार्थचिन्तया ॥ १७ ॥

他清点之后,见那财富胜过千千万万的宝藏,仿佛又以亿上加亿倍增;他自己欢喜不已,而当他思量其分量与意味时,更觉惊异。

Verse 18

असत्प्रतिग्रहैश्चैव अपण्यानां च विक्रयैः । मया तपोविक्रयाद्यैरेतद्धनमुपार्जितम् ॥ १८ ॥

这份财富是我以不正当的受取与贿赂、以贩卖不该贩卖之物,甚至以买卖苦行(tapas)等事而聚敛来的。

Verse 19

नाद्यापि शान्तिमापन्ना मम तृष्णातिदुःसहा । मेरुतुल्यसुवर्णानि ह्यसङ्ख्यातानि वाञ्छति ॥ १९ ॥

即便如今,我那难以忍受的贪渴仍未得安宁;它仍渴望无数堆黄金,广大如须弥山(Meru)。

Verse 20

अहो मन्ये महाकष्टं समस्तक्लेशसाधनम् । सर्वान्कामानवाप्नोति पुनरन्यच्च कांक्षति ॥ २० ॥

唉,我以为这真是大苦难、诸苦之因:人纵然得到了所有所欲之物,仍会再度渴求别的东西。

Verse 21

जीर्यन्ति जीर्यतः केशाः दन्ताः जीर्यन्ति जीर्यतः । चक्षुःश्रोत्रे च जोर्येते तृष्णैका तरुणायते ॥ २१ ॥

人渐老,发亦老;人渐老,齿亦耗。眼与耳也随之衰退——唯有贪渴之心独自返青,常新不息。

Verse 22

ममेन्द्रि याणि सर्वाणि मन्दभावं व्रजन्ति च । बलं हृतं च जरसा तृष्णा तरुणतां गता ॥ २२ ॥

我的诸根皆趋迟钝,老迈夺去了我的气力——然而我的贪渴却仿佛重返青春。

Verse 23

कष्टाशा वर्त्तते यस्य स विद्वानथ पण्डितः । सुशान्तोऽपि प्रमन्युः स्याद्धीमानप्यतिमूढधीः ॥ २३ ॥

凡将希望系于难得之物者,仍可称为有学之士、智者;然而,即使外表极其安宁的人也可能骤起猛烈之怒,即便聪慧之人也可能以全然迷妄的见解而行事。

Verse 24

आशा भङ्गकरी पुंसामजेयारातिसन्निभा । तस्मादाशां त्यजेत्प्राज्ञो यदीच्छेच्छाश्वतं सुखम् ॥ २४ ॥

希望(世间的期待)能摧碎众人,犹如不可战胜的仇敌。因此,智者若欲求恒常之乐,当舍弃此希望。

Verse 25

बलं तेजो यशश्चैव विद्यां मानं च वृद्धताम् । तथैव सत्कुले जन्म आशा हन्त्यतिवेगतः ॥ २५ ॥

希望(贪求的期待)以猛烈之势奔袭,摧毁人的力量、光辉与名声;亦败坏学识、荣誉与成熟——甚至连生于良族的优势也被它迅速夺去。

Verse 26

नृणामाशाभिभूतानामाश्चर्यमिदमुच्यते । किञ्चिद्दातापि चाण्डालस्तस्मादधिकतां गतः ॥ २६ ॥

关于被贪望所制伏之人,此处称为奇事:即便是旃陀罗,若能施与哪怕些许,也会升至比那样的人更高的境地。

Verse 27

आशाभिभूताः ये मर्त्या महामोहा महोद्धताः । अवमानादिकं दुःखं न जानन्ति कदाप्यहो ॥ २७ ॥

那些被希望(贪求)所制伏的凡人,深陷迷妄而极其傲慢,唉,永远不觉知那由受辱与卑屈所起的痛苦。

Verse 28

मयाप्येवं बहुक्लेशैरेतद्धनमुपार्जितम् । शरीरमपि जीर्णं च जरसापहृतं बलम् ॥ २८ ॥

“我也曾历经诸多艰辛才积聚此财;然而此身已衰老,气力亦被岁月夺去。”

Verse 29

इतः परं यतिष्यामि परलोकार्थमादरात् । एवं निश्चित्य विप्रेन्द्र धर्ममार्गरतोऽभवत् ॥ २९ ॥

“从今以后,我将以恭敬之心为来世之利而精进。”如此决意后,噢婆罗门中的至上者,他便归依并专注于达摩之道。

Verse 30

तदैव तद्धनं सर्वं चतुर्द्धा व्यभजत्तथा । स्वयं तु भागद्वितयं स्वार्जितार्थादपाहरत् ॥ ३० ॥

就在那时,他将全部财物分为四份;然而为自己,他从亲手所得之财中取走两份。

Verse 31

शेषं च भागद्वितयं पुत्रयोरुभयोर्ददौ । स्वेनार्जितानां पापानां नाशं कर्तुमनास्तदा ॥ ३१ ॥

其余两份,他都给了两个儿子;当时他心怀愿望,欲令自己所积之罪业得以消除。

Verse 32

प्रपातडागारामांश्च तथा देवगृहान्बहून् । अन्नादीनां च दानानि गङ्गातीरे चकार सः ॥ ३२ ॥

他建造了许多施水歇息之所,并修筑池塘与园林,又兴建众多神祠;且在恒河岸边,安排布施饮食及诸般所需。

Verse 33

एवं धनमशेषं च विश्राण्य हरिभक्तिमान् । नरनारायणस्थानं जगाम तपसे वनम् ॥ ३३ ॥

于是,他将一切财物毫无保留地尽皆施与;这位哈利(Hari)的奉爱者前往那罗与那罗延那(Nara-Nārāyaṇa)的圣住处,入林修行苦行(tapas)。

Verse 34

तत्रापश्यन्महारम्यमाश्रमं मुनिसेवितम् । फलितैः पुष्पितैश्चैव शोभितं वृक्षसञ्चयैः ॥ ३४ ॥

在那里,他看见一处极其清雅的修行林苑(āśrama),为诸牟尼常来侍奉;又有成片树木点缀其间,果实累累、繁花盛开。

Verse 35

गृणद्भिः परमं ब्रह्म शास्त्रचिन्तापरैस्तथा । परिचर्यापरैर्वृद्धैर्मुनिभिः परिशोभितम् ॥ ३५ ॥

那座道场因年迈的牟尼而更显庄严:有的吟诵至上梵(Param Brahman),有的专注思惟经典(śāstra),还有的勤行奉事(paricaryā)之道。

Verse 36

शिष्यैः परिवृतं तत्र मुनिं जानन्तिसंज्ञकम् । गृणन्तं परमं ब्रह्म तेजोराशिं ददर्श ह ॥ ३६ ॥

在那里,他见到名为“阇难提”(Jānanti)的圣者,弟子环侍左右,诵唱至上梵;其身宛如凝聚成团的神圣光辉。

Verse 37

शमादिगुणसंयुक्तं रागादिरहितं मुनिम् । शीर्णपर्णाशनं दृष्ट्वा वेदमालिर्ननाम तम् ॥ ३७ ॥

见那位牟尼具足以寂静(śama)为首的诸德,远离贪染(rāga)等烦恼,又以枯叶为食而住,吠陀鬘离(Vedamāli)便俯首顶礼于他。

Verse 38

तस्य जानन्तिरागन्तोः कल्पयामास चार्हणम् । कन्दमूलफलाद्यैस्तु नारायणधिया मुने ॥ ३८ ॥

她知其为新至之宾,便备办相称的迎奉之礼——以块根、根茎、果实等供奉——噢圣者,她的心念恒住于那罗延(Nārāyaṇa)。

Verse 39

कृतातिथ्यक्रियस्तेन वेदमाली कृताञ्जलि । विनयावनतो भूत्वा प्रोवाच वदतां वरम् ॥ ३९ ॥

既已如法尽了待客之仪,吠陀鬘丽合掌致敬,谦恭俯首,遂向诸善说者中最胜者启言。

Verse 40

भगवन्कृतकृत्योऽस्मि विगतं कल्मषं मम । मामुद्धर महाभाग ज्ञानदानेन पण्डित ॥ ४० ॥

噢世尊,我自觉所求已成;我之罪垢已离。噢大德智者,愿以真实智慧之施,拔济我、令我超升。

Verse 41

एवमुक्तस्ततस्तेन जानन्तिर्मुनिसत्तमः । प्रोवाच प्रहसन्वाग्मी वेदमालि गुणान्वितम् ॥ ४१ ॥

他如是启请后,诸牟尼中最胜者——阇难提——含笑而语,辞辩清妙;身佩吠陀之鬘,德行具足。

Verse 42

जानन्तिरुवाच । शृणुष्व विप्रशार्दूल संसारोच्छेदकारणम् । प्रवक्ष्यामि समासेन दुर्लभं त्वकृतात्मनाम् ॥ ४२ ॥

阇难提曰:“听我说,婆罗门中之虎。我将略说断除轮回(生死流转)之因;此法为未能自制者所难得。”

Verse 43

भज विष्णुं परं नित्यं स्मर नारायणं प्रभुम् । परापवादं पैशुन्यं कदाचिदपि मा कृथाः ॥ ४३ ॥

应恒常礼敬至上的毗湿奴,常忆念主那罗延。切莫在任何时候诽谤他人,亦勿搬弄恶意之言。

Verse 44

परोपकारनिरतः सदा भव महामते । हरिपूजापरश्चैव त्यज मूर्खसमागमम् ॥ ४४ ॥

贤者啊,当恒常致力于利他之行;并应坚定礼敬哈利,舍离愚昧之人的结交。

Verse 45

कामं क्रोधं च लोभं च मोहं च मदमत्सरौ । परित्यज्यात्मवल्लोकं दृष्ट्वा शान्तिं गमिष्यसि ॥ ४५ ॥

当舍离欲、怒、贪、痴,以及傲慢与嫉妒。以真我之见观照世间,便能趋入寂静安宁。

Verse 46

असूयां परनिन्दा च कदाचिदपि मा कुरु । दम्भाचारमहङ्कारं नैष्ठुर्यं च परित्यज ॥ ४६ ॥

切莫生嫉妒之心,亦勿毁谤他人。应舍弃虚伪之行、我慢与粗暴苛刻。

Verse 47

दयां कुरुष्व भूतेषु शुश्रूषां च तथा सताम् । त्वया कृतांश्च धर्मान्वै मा प्रकाशय पृच्छताम् ॥ ४७ ॥

当以慈悲待一切众生,并恭敬勤谨地侍奉贤善之人。即便有人询问,也莫宣扬自己所行的善法功德。

Verse 48

अनाचारपरान्दृष्ट्वा नोपेक्षां कुरु शक्तितः । पूजयस्वातिथिं नित्यं स्वकुटुम्बाविरोधतः ॥ ४८ ॥

见众人倾向不正之行,莫轻弃不顾;当尽己力予以扶持。并应常常敬奉来客,但须以不致自家眷属生嫌隙为度。

Verse 49

पत्रैः पुष्पैः फलैर्वापि दूर्वाभिः पल्लवैरथ । पूजयस्व जगन्नाथं नारायणमकामतः ॥ ४९ ॥

以叶、花或果,亦以杜尔瓦草(dūrvā)与嫩芽,至诚供奉世主阇甘那陀·那罗延;当无所求,不希冀回报。

Verse 50

देवानृषीन्पितॄंश्चापि तर्पयस्व यथाविधि । अग्नेश्च विधिवद्विप्र परिचर्यापरो भव ॥ ५० ॥

当依仪轨向诸天、诸仙圣(ṛṣi)与祖灵行灌供(tarpana)。又,婆罗门啊,也当依正法勤修事火,恭奉圣火阿耆尼(Agni)。

Verse 51

देवतायतने नित्यं सम्मार्जनपरो भव । तथोपलेपनं चैव कुरुष्व सुसमाहितः ॥ ५१ ॥

在神殿之中,应恒常勤于扫拂清洁;并当心神专一,亦行涂抹修整,使圣处洁净庄严。

Verse 52

शीर्णस्फुटितसम्धानं कुरु देवगृहे सदा । मार्गशोभां च दीपं च विष्णोरायतने कुरु ॥ ५२ ॥

在主之殿中,凡朽坏裂损之处,当常加修补。于毗湿奴圣所,应整饰入道之庄严,并设灯明,使之常照。

Verse 53

कन्दमूलफलैर्वापि सदा पूजय माधवम् । प्रदक्षिणनमस्कारैः स्तोत्राणां पठनैस्तथा ॥ ५३ ॥

即使只以根、块茎与果实为供,也当恒常礼敬摩陀婆;并以绕行、顶礼叩拜,以及诵读赞颂圣歌来奉事。

Verse 54

पुराणश्रवणं चैव पुराणपठनं तथा । वेदान्तपठनं चैव प्रत्यहं कुरु शक्तितः ॥ ५४ ॥

每日当尽己所能,勤于聆听《普罗那》、诵读《普罗那》,并学习《吠檀多》。

Verse 55

एवंस्थिते तव ज्ञानं भविष्यत्युत्तमोत्तमम् । ज्ञानात्समस्तपापानां मोक्षो भवति निश्चितम् ॥ ५५ ॥

当如此安立之后,你的知见将臻于至上至妙;由此知见,必定得以解脱一切罪业。

Verse 56

एवं प्रबोधितस्तेन वेदमालिर्महामतिः । तथा ज्ञानरतो नित्यं ज्ञानलेशमवाप्तवान् ॥ ५६ ॥

他如此受其开示,毗陀摩梨——大慧之人——便恒常乐住于求知;久而久之,亦得至少一分、一点真灵觉悟之光。

Verse 57

वेदमालि कदाचित्तु ज्ञानलेशप्रचोदितः । कोऽहं मम क्रिया केति स्वयमेव व्यचिन्तयत् ॥ ५७ ॥

有一次,毗陀摩梨被一丝知见所激发,便在心中自省:“我是谁?而我真正的行持与本分是什么?”

Verse 58

मम जन्म कथं जातं रूपं कीदृग्विधं मम । एवं विचारणपरो दिवानिशमतन्द्रि तः ॥ ५८ ॥

“我的出生是如何发生的?我的形体本性又是怎样的?”——他一心求问,昼夜不倦地反复观照思惟。

Verse 59

अनिश्चितमतिर्भूत्वा वेदमालिर्द्विजोत्तमः । पुनर्जानन्तिमागम्य प्रणम्येदमुवाच ह ॥ ५९ ॥

心意犹疑之际,最胜婆罗门韦陀摩利又一次来到阇难提前;顶礼之后,说了如下之语。

Verse 60

वेदमालिरुवाच । ममचित्तमतिभ्रान्तं गुरो ब्रह्मविदां वर । कोऽहं मम क्रिया का च मम जन्म कथं वद ॥ ६० ॥

韦陀摩利说道:“噢,师尊,诸知梵者中最上者!我的心与慧已然迷乱。‘我是谁?’‘我的真实行持与本分为何?’‘我的出生如何而来?’愿师为我开示。”

Verse 61

जानन्तिरुवाच । सत्यं सत्यं महाभाग चित्तं भ्रान्तं सुनिश्चितम् । अविद्यानिलयं चित्तं कथं सद्भावमेष्यति ॥ ६१ ॥

阇难提说道:“诚然,诚然,福德之人啊,心确实迷妄。既然此心是无明之所依,它又怎能证得真实之有、正当的实相?”

Verse 62

ममेति गदितं यत्तु तदपि भ्रान्तिरिष्यते । अहङ्कारो मनोधर्म आत्मनो न हि पण्डित ॥ ६२ ॥

即便那句“这是我的”的执念,也被视为迷妄。贤者啊,我执(我慢、ahaṅkāra)只是心的作用,并不属于真我(Ātman)。

Verse 63

पुनश्च कोऽहंमित्युक्तं वेदमाले त्वया तु यत् । मम जात्यादिशून्यस्य कथं नाम करोम्यहम् ॥ ६३ ॥

又一次,噢“吠陀花鬘”(Vedamālā),你问道:“我是谁?”然而我本无种姓等诸相,又怎能为自己安立名号?

Verse 64

अनौपम्यस्वभावस्य निर्गुणस्य परात्मनः । निरूपस्याप्रमेस्य कथं नाम करोम्यहम् ॥ ६४ ॥

我怎能为至上我(Paramātman)安立名号——其性无可比拟,超越诸guṇa,无可描绘之相,且不可度量?

Verse 65

परं ज्योतिस्स्वरूपस्य परिपूर्णाव्ययात्मनः । अविच्छिन्नस्वभावस्य कथ्यते च कथं क्रिया ॥ ६५ ॥

对于至上者——其自体即最高之光,圆满、体性不坏、性相不断——又怎能谈论所谓“行动”,并且以何方式可能成立?

Verse 66

स्वप्रकाशात्मनो विप्र नित्यस्य परमात्मनः । अनन्तस्य क्रिया चैव कथं जन्म च कथ्यते ॥ ६६ ॥

婆罗门啊,对于自照、常住、无量的至上我,又怎能说有“作为”,甚至说有“出生”呢?

Verse 67

ज्ञानैकवेद्यमजरं परं ब्रह्म सनातनम् । परिपूर्णं परानन्दं तस्मान्नान्यदिह द्विज ॥ ६७ ॥

至上、永恒的梵——不老,唯以真知可证——圆满具足,性即至乐;因此,二生者啊,此处除彼之外别无他物。

Verse 68

तत्त्वमस्यादिवाक्येभ्यो ज्ञानं मोक्षस्य साधनम् । ज्ञाने त्वनाहते सिद्धे सर्वं ब्रह्ममयं भवेत् ॥ ६८ ॥

由“汝即彼”(Tat tvam asi)等大句(mahāvākya)生起解脱之智,此智乃通向解脱(mokṣa)之因。此智一旦坚固安住,不为触动、不为摇撼,便证知万有皆为梵(Brahman)所遍满。

Verse 69

एवं प्रबोधितस्तेन वेदमालिर्मुनीश्वर । मुमोद पश्यन्नात्मानमात्मन्येवाच्युतं प्रभुम् ॥ ६९ ॥

如是受其开示,噢诸牟尼之主,吠陀鬘利(Vedamāli)欢喜踊跃——见自我之真性,并于此真性之中,见不坏之主阿周多(Acyuta),至上之宰。

Verse 70

उपाधिरहितं ब्रह्म स्वप्रकाशं निरञ्जनम् । अहमेवेति निश्चित्य परां शान्तिमवाप्तवान् ॥ ७० ॥

他确信无疑地断定:“唯我即是彼梵(Brahman)”——离诸依止(upādhi)、自明自照、清净无垢——遂得至上寂静。

Verse 71

ततश्च व्यवहारार्थं वेदमालिर्मुनीश्वरम् । गुरुं प्रणम्य जानन्तिं सदा ध्यानपरोऽभवत् ॥ ७१ ॥

随后,为了在世间行持得当,吠陀鬘利礼敬那位牟尼之主——自己的上师、全知者——从此恒常专注于禅观。

Verse 72

गते बहुतिथे काले वेदमालिर्मुनीश्वर । वाराणसीपुरं प्राप्य परं मोक्षमवाप्तवान् ॥ ७२ ॥

久时既过,噢诸牟尼之主,吠陀鬘利抵达婆罗那西(Vārāṇasī)之城,证得至上解脱。

Verse 73

य इमं पठतेऽध्यायं शृणुयाद्वा समाहितः । स कर्मपाशविच्छेदं प्राप्य सौख्यमवाप्नुयात् ॥ ७३ ॥

凡以摄心专注诵读此章,或仅恭听者,皆能斩断业力之缚,由此获得安乐与福祉。

Verse 74

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे ज्ञाननिरूपणं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥

至此,《圣大那罗陀往世书》前分第一部第一品中,名为“灵性智慧之阐明”的第三十五章圆满结束。

Frequently Asked Questions

As a Purāṇic phalaśruti strategy, it elevates śravaṇa (devotional listening) as a powerful, accessible substitute for costly Vedic royal rites, while reorienting merit toward inner purification, Viṣṇu-bhakti, and mokṣa-dharma rather than ritual prestige alone.

A combined regimen of yama-like ethics (non-slander, non-envy, compassion, humility), devotional worship with simple offerings (leaves/flowers/fruits), ritual duties (libations to devas/ṛṣis/pitṛs and fire-service), temple-sevā (cleaning, plastering, repairs, lamps, pathway beautification), and daily study/listening to Purāṇas and Vedānta—done niṣkāma (without desire for reward).

The chapter presents Viṣṇu/Nārāyaṇa as the Imperishable Reality and culminates in non-dual Self-knowledge through mahāvākya, portraying jñāna as the fruition of purified karma and steadfast bhakti—an integrative Purāṇic model where devotion matures into Brahman-realization.