
圣子三摩罗(Sanatkumāra)开示关于忧愁的实修解脱法(mokṣa-dharma)心理:迷者被日常喜悲所攫,智者则不为所动。忧愁根源在执著——反复追念往昔之物,在所执之处挑剔过失,并对失去与死亡一再哀叹。对治之道是有意不再反刍,分辨心之忧(以智慧除遣)与身之病(以医药疗治),并清明观照生命、青春、财富、健康与伴侣之无常。随后章中扩展为业报的现实:果报不齐,努力有其限度,众生为时流、疾病与死亡所卷;因此知足(santoṣa)被宣说为真正的财富。并教以伦理自律:摄持诸根,远离成瘾,赞毁等观,依自性而恒常精进。结尾叙事:圣子三摩罗离去;舒迦(Śuka)领悟后往见毗耶娑(Vyāsa),继而前往凯拉萨(Kailāsa);毗耶娑之悲更显教诲,而舒迦之自在独立示范解脱。
Verse 1
सनत्कुमार उवाच । अशोकं शोकनाशार्थं शास्त्रं शांतिकरं शिवम् । निशम्य लभ्यते बुद्धिर्लब्धायां सुखमेधते ॥ १ ॥
善那俱摩罗说:聆听此吉祥、赐安宁、善妙之圣典——离忧而为灭忧——便得正智;正智既得,安乐便渐次增长。
Verse 2
हर्षस्थानसहस्राणि शोकस्थानशतानि च । दिवसे दिवसे मूढमाविशंति न पंडितम् ॥ २ ॥
日复一日,喜缘千般、忧缘百种纷至——却只攫住愚迷之人,不攫住智者。
Verse 3
अनिष्टसंप्रंयोगाश्च विप्रयोगात्प्रियस्य च । मनुष्या मानसैर्दुःखैर्युज्यन्ते येऽल्पबुद्धयः ॥ ३ ॥
慧浅之人被心中忧苦所系:因遭遇不愿之境,亦因与所爱分离。
Verse 4
द्रव्येषु समतीतेषु ये गुणास्तेन्न चिंदयेत् । ताननाद्रियमाणश्च स्नेहबन्धाद्विमुच्यते ॥ ४ ॥
不应反复追念已成往昔之物的种种美质;不再珍执它们,便从爱著之缚中解脱。
Verse 5
दोषदर्शी भवेत्तत्र यत्र रागः प्रवर्त्तते । अनिष्टबुद्धितां यच्छेत्ततः क्षिप्रं विराजते ॥ ५ ॥
贪爱执著(rāga)生起之处,便易成挑剔过失之人。若能制止把万事视为不悦不祥的习气,便会迅速显现清明与安定之光。
Verse 6
नार्थो न धर्मो न यशो योऽतीतमनुशोचति । अस्याभावेन युज्येतं तञ्चास्य तु निवर्तते ॥ ६ ॥
若人不断哀叹已逝之事,便无财富、无法(dharma)、亦无美名。他与这些的缺失相系,连现有之物也将离他而去。
Verse 7
गुणैर्भूतानि युज्यंते तथैव च न युज्यते । सर्वाणि नैतदेकस्य शोकस्थानं हि विद्यते ॥ ७ ॥
众生因诸性德(guṇa)而系缚,也同样能由诸性德而解脱;然而这一切不及于那唯一者。于祂之中,并无悲苦的立足之地。
Verse 8
मृतं वा यदि वा नष्टं योऽतीतमनुशोचति । दुःखेन लभते दुःखं महानर्थे प्रपद्यते ॥ ८ ॥
无论是人已亡故,或物已失落,若仍执著哀悼过去,只会以苦增苦,终至陷入大不幸。
Verse 9
दुःखोपघाते शारीरे मानसे चाप्युपस्थिते । यस्मिन्न शक्यते कर्तुं यत्नस्तन्नानुर्चितयेत् ॥ ९ ॥
当苦受现前——或在身,或在心——若于彼境确无可施之对治之力,便不应反复思量、徒增烦恼。
Verse 10
भैषज्यमेतद्दःखस्य यदेतन्नानुचिंतयेत् । चिंत्यमानं हि न व्येति भूयश्चाभिप्रवर्द्धते ॥ १० ॥
这是治愁苦的良药:不要反复沉思它。因为一旦执著于思量,它不但不离去,反而愈加增长。
Verse 11
प्रज्ञया मानसं दुःखं हन्याच्छारीरमौषधैः । एतद्विज्ञाय सामर्थ्यं न वान्यैः समतामियात् ॥ ११ ॥
以明辨之慧当灭除心中的忧苦;以药物当祛除身上的病患。了知各自于其领域的真实功用,切莫混淆而强求等同。
Verse 12
अनित्यं जीवितं रूपं यौवनं द्रव्यसञ्चयः । आरोग्यं प्रियसंवासं न मृध्येत्पंडितः क्वचित् ॥ १२ ॥
生命无常;容貌、青春、积聚的财物、健康,以及与所爱之人的相伴,也皆无常。明了此理,智者不应为其中任何一项所迷惑。
Verse 13
नाज्ञानप्रभवं दुःखमेकं शोचितुमर्हति । अशोचन्प्रतिकुर्वीत यदि पश्येदुपक्रमम् ॥ १३ ॥
对于由无明所生的任何一分苦,也不应哀叹。若能见到着手对治之道,当即行动以对抗之——不以悲泣自缚。
Verse 14
सुखात्प्रियतरं दुःखं जीविते नात्र संशयः । जरामरणदुःखेभ्यः प्रियमात्मानमुद्धरेत् ॥ १४ ॥
在有身之世,痛苦竟比快乐更为亲近、更具牵引——对此无疑。是故当从衰老与死亡之苦中,提拔并救度自己所珍爱的真我。
Verse 15
भजंति हि शारीराणि रोगाः शरीरमानसाः । सायका इव तीक्ष्णाग्राः प्रयुक्ता दृढधन्विभिः ॥ १५ ॥
确实,身与心的诸般疾病会袭击有身之众生,如同坚稳强弓手所射出的锐利箭矢。
Verse 16
व्याधितस्य चिकित्साभिस्त्रस्यतो जीवितैषिणः । आमयस्य विनाशाय शरीरमनुकृष्यते ॥ १६ ॥
对于被病所困、心怀恐惧而求生者,为了灭除病患,身体被牵引去接受诸般疗治,被约束并加以调伏。
Verse 17
स्रंसंति न निवर्तंते स्रोतांसि सरितामिव । आयुरादाय मर्त्यानां रात्र्यहानि पुनःपुनः ॥ १७ ॥
如同江河之流奔涌不返,黑夜与白昼反复流逝,夺走世人的寿命。
Verse 18
अपयंत्ययमत्यंतं पक्षयोः शुक्लकृष्णयोः । जातं मर्त्यं जरयति निमिषं नावतिष्टते ॥ १८ ॥
时光在明半月与暗半月之间无尽流逝;它使出生的凡人渐老,连一刹那也不曾停驻。
Verse 19
सुखदुःखाभिभूतानामजरो जरयत्यसून् । आदित्यो ह्यस्तमभ्येति पुनः पुनरुदेति च ॥ १९ ॥
即便那本无衰老者,也令沉溺于乐与苦的人们之生命气息渐渐枯萎;而太阳确实一次又一次落下,又一次又一次升起。
Verse 20
अदृष्टपूर्वानादाय भावानपरिशंकितान् । इष्टानिष्टा मनुष्याणां मतं गच्छन्ति रात्रयः ॥ २० ॥
夜晚流逝,携带前所未见的经历与未曾预料的心境;仿佛把人们所认作可喜与不可喜的果报一并带来。
Verse 21
यो यदिच्छेद्यथाकामं कामानां तत्तदाप्नुयात् । यदि स्यान्न पराधीनं पुरुषस्य क्रियाफलम् ॥ २१ ॥
若人的行为之果不依赖于任何他缘,那么随心所欲想要什么,就必定在所欲之境中如愿得之。
Verse 22
संयताश्चैव तक्षाश्च मतिमंतश्च मानवाः । दृश्यंते निष्फलाः संतः प्रहीनाश्च स्वकर्मभिः ॥ २२ ॥
即便是自持之人、巧匠与智者,也可见其人生无果;因为他们已背离自身应行之业与本分。
Verse 23
अपरे निष्फलाः सन्तो निर्गुणाः पुरुषाधमाः । आशाभिरण्यसंयुक्ता दृश्यन्ते सर्वकामिनः ॥ २३ ॥
另有一些人亦被见为人生无果:德行匮乏,堕为人中下劣;纠缠于希冀与财货,被种种欲望所驱使。
Verse 24
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः । वंचनायां च लोकेषु ससुखेष्वेव जीयते ॥ २४ ॥
又有人恒常起意伤害众生,并在世间欺诳于人;然而他也可能显得安住于享乐之中。
Verse 25
अचेष्टमानमासीनं श्रीः कंचिदुपतिष्टति । कश्चित्कर्माणि कुरुते न प्राप्यमधिगच्छति ॥ २५ ॥
即使有人安坐不动、毫不努力,有时也会被圣吉祥天女室利·拉克什米(福德)所亲近;而另有人虽作诸多业行,却仍不得其所当得。
Verse 26
अपराधान्समाच्ष्टुं पुरुषस्य स्वभावतः । शुक्रमन्यत्र संभूतं पुनरन्यत्र गच्छति ॥ २६ ॥
人依其本性,往往易犯过失;而生成之种在一处形成,又复往他处(入胎)——于是生死轮回不断延续。
Verse 27
तस्य योनौ प्रसक्तस्य गर्भो भवति मानवः । आम्रपुष्पोपमा यस्य निवृत्तिरुपलभ्यते ॥ २७ ॥
凡执著于彼“胎门”(yoni)者,便生为人胎之身;而能得离著退转者,其止息之境,譬如芒果树之花开,清净而可喜。
Verse 28
केषांचित्पुत्रकामानामनुसन्तानमिच्छताम् । सिद्धौ प्रयतमानानां नैवांडमुपजायते ॥ २८ ॥
有些人渴求得子、愿家系绵延不绝;纵然依所规定之法勤勉求成,却仍全然不见受胎。
Verse 29
गर्भादुद्विजमानानां क्रुद्धादशीविषादिव । आयुष्मान् जायते पुत्रः कथं प्रेतः पितेव सः ॥ २९ ॥
即便有人对入胎亦惊惧退缩,如畏怒毒之蛇;却仍能生出吉祥长寿之子。既如此,父亲又怎会成为饿鬼般不安的“普雷塔”(preta)呢?
Verse 30
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रहेतुभिः । दशमासान्परिधृता जायते कुलपांसनाः ॥ ३० ॥
即使礼敬诸天、修行苦行——若吝啬之人只为求得儿子而为之——怀胎十月之后,所生之子反成“宗族之尘垢与玷污”。
Verse 31
अपरे धनधान्यानि भोगांश्च पितृसंचितान् । विमलानभिजायन्ते लब्ध्वा तैरेव मङ्गलैः ॥ ३१ ॥
另有人得享祖先所积之财宝、谷粮与诸般受用;因获得这些吉祥之得,他们便出生为清净无瑕之人。
Verse 32
अन्योन्य समभिप्रेत्य मैथुनस्य समागमे । उपद्रवइवादृष्टो योनौ गर्भः प्रपद्यते ॥ ३२ ॥
当二人彼此同意而合于交合之时,有一种不可见之力——如扰动般的推动——使胚胎进入子宫并在其中安住。
Verse 33
स्निग्धत्वादिंद्रियार्थेषु मोहान्मरणमप्रियम् । परित्यजति यो दुःखं सुखमप्युभयं नरः ॥ ३३ ॥
由于贪著诸根境界并为迷妄所覆,人便觉得死亡可厌;而能舍离苦与乐二者者,便超越二者。
Verse 34
अत्येति ब्रह्म सोऽत्यन्तं सुखमप्यश्नुते परम् । दुःखमर्था हि त्यज्यंते पालने च न ते सुखाः ॥ ३४ ॥
他超越乃至于梵(Brahman),得享无尽至上的大乐。因为世间之利(artha)实应舍弃:它带来苦恼;即便费力守持,也无真实之乐。
Verse 35
श्रुत्वैव नाधिगमनं नाशमेषां न चिंतयेत् । अन्यामन्यां धनावस्थां प्राप्य वैशेषिका नराः ॥ ३५ ॥
仅仅听闻教诲,不应自以为已得真实证悟;也不必为这些世间境况的失去而忧思。众生随各自的见解与追逐,反复经历财富境遇的无常变迁。
Verse 36
अतृप्ता यांति विध्वंसं सन्तोषं यांति पंडिताः । सर्वे क्षयांता निचयाः पतनांताः समुच्छ्रयाः ॥ ३६ ॥
不知足者走向毁灭,智者归于知足安然。凡积聚者终归耗尽,凡高举者终归坠落。
Verse 37
संयोगा विप्रयोगांता मरणांतं हि जीवितम् । अन्तो नास्ति पिपासायास्तुष्टिस्तु परमं सुखम् ॥ ३७ ॥
一切相会终归别离,生命确实终归死亡。贪渴无有尽头;唯有知足,才是至上的安乐。
Verse 38
तस्मात्संतोषमेवेह धनं शंसन्ति पंडिताः । निमेषमात्रमपि हि योऽधिगच्छन्न तिष्टति ॥ ३८ ॥
因此,智者在此宣说:唯有知足才是真正的财富;因为所得之物,连一瞬如眨眼也不能久住。
Verse 39
सशरीरेष्वनित्येषु नित्यं किमनुचिंतयेत् । भूतेषु भावं संचिंत्य ये बुद्ध्या तमसः परम् ॥ ३९ ॥
在一切具身众生之中——其身皆无常——还有什么“常住”之物值得恒常系念?智者洞察万类内在的真实,以慧智证知那超越黑暗(tamas)者。
Verse 40
न शोचंति गताध्वानः पश्यंति परमां गतिम् । संचिन्वन्नेकमेवैनं कामानावितृप्तकम् ॥ ४० ॥
行程已毕者不复哀伤;他们得见至上的归趣。唯有不断积聚此一物——欲望——的人,终究常不知足。
Verse 41
व्याघ्र पशुमिवासाद्य मृत्युरादाय गच्छति । अथाप्युपायं संपश्येद्दुःखस्यास्य विमोक्षणे ॥ ४१ ॥
如虎攫兽而衔去,死神亦擒人而携去。是故当切实寻求解脱此苦之道。
Verse 42
अशोचन्नारभेन्नैव युक्तश्चाव्यसनी भवेत् । शब्दे स्पर्शे रसे रूपे गंधे च परमं तथा ॥ ४२ ॥
不以忧悲而起事;当自持调御,远离诸瘾。于声、触、味、色、香五境,当守至上的克制。
Verse 43
नोपभोगात्परं किंचिद्धनिनो वाऽधनस्य वा । वाक्संप्रयोगाद्भृतानां नास्ति दुःखमनामयम् ॥ ४३ ॥
无论富者贫者,似乎都以享乐为至上。然而对依人而生者,恶言厉语会生起难以疗愈的痛苦。
Verse 44
विप्रयोगश्च सर्वस्य न वाचा न च विद्यया । प्रणयं परिसंहृत्य संस्तुतेष्वितरेषु च ॥ ४४ ॥
离一切执著,非但凭言辞,亦非仅靠学识可成。收摄亲昵与爱恋,于受赞者与其余众人之前,心当平等。
Verse 45
विचरेदसमुन्नद्धः स सुखी स च पंडितः । अध्यात्मगतमालीनो निरपेक्षो निरामिषः ॥ ४५ ॥
当无傲慢而行;如是之人真得安乐,亦真为智者——沉入自我(我性、阿特曼)之中,内心坚住,不依不待,离于诸根境之贪求。
Verse 46
आत्मनैव सहायेन चश्चरेत्स सुखी भवेत् । सुखदुःखविपर्यासो यदा समुपपद्यते ॥ ४६ ॥
若以自我(阿特曼)唯为助伴而行于世,则得安乐——尤其当乐与苦的更替翻转不可避免地现前之时。
Verse 47
नैनं प्रज्ञा सुनियतं त्रायते नापि पौरुषम् । स्वभावाद्यत्नमातिष्ठेद्यत्नवान्नावसीदति ॥ ४७ ॥
仅凭聪慧,乃至严谨自制,也不能救人;单靠勇力亦然。故当从自身本性起,恒常精进;勤行者不至沉沦败亡。
Verse 48
उपद्रव इवानिष्टो योनिं गर्भः प्रपद्यते । तानि पूर्वशरीराणि नित्यमेकं शरीरिणम् ॥ ४८ ॥
如同不受欢迎的灾厄,胎儿入于母胎;然而具身之我(阿特曼)恒为同一,那些诸身不过是先前之身,已被舍离。
Verse 49
प्राणिनां प्राणसंरोधे मांसश्लेष्मविचेष्टितम् । निर्दग्धं परदेहेन परदेंहं बलाबलम् ॥ ४९ ॥
当众生之命息(普拉那)被阻断时,此身仅凭血肉与痰液而挣动;继而因他身(外力与他众具身者)而被焚毁——显明其强与弱同样依赖于他身。
Verse 50
विनश्यति विनाशांते नावि नावमिवाचलाम् । संगत्या जठरे न्यस्तं रेतोबिंदुमचेतनम् ॥ ५० ॥
在劫坏之时,终将灭失——如海中之舟,虽似安稳。亦复如是,仅因交合,无知之精滴被置入母胎。
Verse 51
केन यत्नेन जीवंतं गर्भं त्वमिह पश्यसि । अन्नपानानि जीर्यंते यत्र भक्ष्याश्च भक्षिताः ॥ ५१ ॥
你凭何等作为,竟能在此见到有生命的胎儿——在那食与饮被消化之处,连可食之物也终被吞噬殆尽?
Verse 52
तस्मिन्नेवोदरे गर्भः किं नान्नमिव जीर्यति । गर्भे मूत्रपुरीषाणां स्वभावनियता गतिः ॥ ५२ ॥
就在同一腹中,胎儿难道不也会如食物般被消化吗?而在胎内,尿与粪的流动依其自性而行,受先天之律所制。
Verse 53
धारणे वा विसर्गे च न कर्तुं विद्यतेऽवशः । प्रभवंत्युदरे गर्भा जायमानास्तथापरे ॥ ५३ ॥
无论是留住还是排出,那无助之身都无力另作他为。胎在腹中生起,亦有众生相继出生——皆随此不可抗之驱迫。
Verse 54
आगमेन महान्येषां विनाश उपपद्यते । एतस्माद्योनिसंबंधाद्यो जीवन्परिमुच्यते ॥ ५४ ॥
凭依具权威之阿伽摩(Āgama)圣教,伟大之人得以成就束缚的彻底毁灭。凡于生时即全然解脱于与生门相系(yoni-saṃbandha)者,彼即得自由。
Verse 55
पूजां न लभते कांचित्पुनर्द्धंद्वेषु मज्जति । गर्भस्य सह जातस्य सप्तमीमीदृशीं दशाम् ॥ ५५ ॥
他全然得不到任何礼敬与供奉,又再度沉没于对待之二相(乐与苦、得与失)。这便是具身之众生在第七阶段的境况:自与胎生之身同生之刹那起便如此。
Verse 56
प्राप्नुवंति ततः पंच न भवंति शतायुषः । नाभ्युत्थाने मनुष्याणां योगाः स्युर्नात्र संशयः ॥ ५६ ॥
由此缺乏修持之故,只得五年之寿,不能成就百岁长年。若人不以恳切之心奋起、以戒律精进用功,则瑜伽之成就不生——对此毫无疑问。
Verse 57
व्याधिभिश्च विवध्यंते व्याघ्रैः क्षुद्रमृगा इव । व्याधिभिर्भक्ष्यमाणानां त्यजतां विपुलंधनम् ॥ ५७ ॥
他们为诸病所逼,如小兽遭虎所噬。疾病吞啮之时,他们也只得舍弃那丰厚的财宝。
Verse 58
वेदना नापकर्षंति यतमानास्चिकित्सकाः ॥ ५८ ॥
纵使医者竭力施治,也不能除去那痛苦。
Verse 59
ते चापि विविधा वैद्याः कुशला संमतौषधाः । व्याधिभिः परिकृष्यंते मृगा ज्याघ्रैरिवार्दिताः ॥ ५९ ॥
即便那些众多医师——技艺娴熟、药方亦为人所认可——也同样被疾病拖拽摧折,如鹿被虎所逼。
Verse 60
ते पिबंति कषायांश्च सर्पीषि विविधानि च । दृश्यंते जरया भग्ना नागैर्नागा इवोत्तमाः ॥ ६० ॥
他们饮服诸般药汤与种种酥油(ghee);然而仍见其为老迈所摧折——如最上之象,亦被他象所击倒。
Verse 61
कैर्वा भुवि चिकित्स्येंत रोगार्त्ता मृगपक्षिणः । श्वापदाश्च दरिद्राश्च प्रायो नार्ता भवंति ते ॥ ६१ ॥
世间又有谁会医治患病的鹿与飞鸟?至于野兽与贫困之人——多半确实无人援手,仍在苦恼中挣扎。
Verse 62
घोरानपि दुराधर्षान्नृपतीनुग्रतेजस । आक्रम्य रोग आदत्ते पशून्पशुपचो यथा ॥ ६२ ॥
即便是可怖难制、威光炽盛的君王,疾病也会猛然侵袭并夺其性命——如屠夫攫取群畜一般。
Verse 63
इति लोकमनाक्रंदं मोहशोकपरिप्लुतम् । स्रोतसा महसा क्षिप्रं ह्रियमाणं बलीयसा ॥ ६३ ॥
于是此世间——连呼号都不能,沉没于迷妄与忧悲——被那浩大而强猛的洪流迅疾卷走。
Verse 64
न धनेन न राज्येन नोग्रेण तपसा तथा । स्वभावा ह्यतिवर्तंते ये निर्मुक्ताः शरीरिषु ॥ ६४ ॥
非以财富,非以王权,亦非以严酷苦行,便能超越与生俱来的习性;唯有真正解脱于“我即此身”之执者,方能越过自身之性。
Verse 65
उपर्यपरि लोकस्य सर्वो भवितुमिच्छति । यतते च यथाशक्ति न च तद्वर्तते तथा ॥ ६५ ॥
众人都愿在世间人群之上为最胜;各自随力精勤,然诸事并不总如其所愿而成。
Verse 66
न म्रियेरन्नजीर्येरन्सर्वे स्युः सार्वकामिकाः । नाप्रियं प्रतिपद्येरन्नुत्थानस्य फलं प्रति ॥ ६६ ॥
若一切众生皆具坚固精进,则无人死亡亦无人衰老;皆能成就一切所愿,且不因如此奋起而遭遇任何不悦之果。
Verse 67
ऐश्वर्यमदमत्ताश्च मानान्मयमदेन च । अप्रमत्ताः शठाः क्रूरा विक्रांताः पर्युपासते ॥ ६७ ॥
为权势与财富所醉,又为傲慢与虚荣所迷者——不知警醒,狡诈、残忍而跋扈——常紧盯善人,伺机而伏。
Verse 68
शोकाः प्रतिनिवर्तंते केषांचिदसमीक्षताम् । स्वं स्वं च पुनरन्येषां न कंचिदतिगच्छति ॥ ६८ ॥
忧苦会反弹回到那些不以明辨而省察的人身上;诚然,各自只承担自己的份量——无人真正能越界,或夺取他人的那一份。
Verse 69
महञ्च फलवैषम्यं दृश्यते कर्मसंधिषु । वहंति शिबिकामन्ये यांत्यन्ये शिबिकारुहः ॥ ६९ ॥
在业力的运作关节处,可见果报极不均等:有人抬轿,有人乘轿而行。
Verse 70
सर्वेषामृद्धिकामानामन्ये रथपुरः सराः । मनुजाश्च गतश्रीकाः शतशो विविधाः स्त्रियाः ॥ ७० ॥
凡渴求富贵者,亦见他人拥有车乘与奢华城邑,乃至享乐之湖;又有男子福泽尽失,并有百般种类的女子成群。
Verse 71
द्वंद्वारामेषु भूतेषु गच्छन्त्येकैकशो नराः । इदमन्यत्परं पश्य नात्र मोहं करिष्यसि ॥ ७१ ॥
在喜爱对待之戏(乐与苦、得与失)的众生之中,人们各自孤身前行。观此超越之真理,迥异于一切;如此,你于此事不致陷入迷妄。
Verse 72
धर्मं चापि त्यजा धर्मं त्यज सत्यानृतां धियम् । सर्वं त्यक्त्वा स्वरूपस्थः सुखी भव निरामयः ॥ ७२ ॥
舍弃乃至世俗之法(dharma);舍弃把法当作自我与执著。弃除在真与伪之间摇摆的心识。万缘尽舍,安住自性——当得安乐,离诸病恼。
Verse 73
एतत्ते परमं गुह्यमाख्यातमृषिसत्तम । येन देवाः परित्यज्य भर्त्यलोकं दिवं गताः ॥ ७३ ॥
噫,最胜仙者,我已向你宣说此至上秘要;凭此,诸天舍离役使之世,而得升至天界。
Verse 74
सनंदन उवाच । इत्युक्त्वा व्यासतनयं समापृच्छ्य महामुनिः । सनत्कुमारः प्रययौ पूजितस्तेन सादरम् ॥ ७४ ॥
萨难陀那曰:如是言毕,大牟尼善达库玛罗向毗耶娑之子辞别;彼以恭敬供养之,善达库玛罗遂庄重而去。
Verse 75
शुकोऽपि योगिनां श्रेष्टः सम्यग्ज्ञात्वा ह्यवस्थितम् । ब्रह्मणः पदमन्वेष्टुमुत्सुकः पितरं ययौ ॥ ७५ ॥
舒迦亦然——诸瑜伽行者中最胜者——既已如实了知既定之真理,便怀着渴慕前往父亲处,为求探寻梵(Brahman)之至上住处。
Verse 76
ततः पित्रा समागम्य प्रणम्य च महामुनिः । शुकः प्रदक्षिणीकृत्य ययौ कैलासपर्वतम् ॥ ७६ ॥
随后,他与父亲相会并顶礼后,大牟尼舒迦以恭敬之心绕行一周作礼,遂启程前往凯拉萨山。
Verse 77
व्यासस्तद्विरहाद्दूनः पुत्रस्नेहसमावृतः । क्षणैकं स्थीयतां पुत्र इति च क्रोश दुर्मनाः ॥ ७७ ॥
毗耶娑因与他离别而悲恸,被对儿子的深情所笼罩,心神忧苦地呼喊道:“孩子啊,且停留一刹那吧!”
Verse 78
निरपेक्षः शुको भूत्वा निःस्नेहो मुक्तबन्धनः । मोक्षमेवानुसंचित्य गत एव परं पदम् ॥ ७८ ॥
如同舒迦一般——无所依赖、无所执著、解脱一切系缚——他唯以解脱(mokṣa)为唯一所求,确实证得至上境地。
Verse 79
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे एकषष्टितमोऽध्यायः ॥ ६१ ॥
至此,《圣大那罗陀往世书》前分之“大叙事”(Bṛhad-upākhyāna)第二品中,第六十一章圆满结束。
Because repeated rumination strengthens saṅkalpa-driven attachment and reactivates grief; the text frames sorrow as a mental formation sustained by attention, so withdrawing fixation (along with viveka and vairāgya) prevents its growth and enables clarity.
It assigns mental sorrow to be removed by discerning wisdom (jñāna/viveka) and bodily ailments to be treated by medicines, warning against confusing their domains—an early “scope-of-remedy” principle within mokṣa-dharma counsel.
Śuka embodies non-dependence and freedom from attachment, while Vyāsa’s grief dramatizes the very bondage the teaching diagnoses; the narrative seals the instruction by showing renunciation as lived practice rather than mere hearing.