Adhyaya 92
Purva BhagaFourth QuarterAdhyaya 9249 Verses

The Narration of the Brāhma Purāṇa’s Account (Brāhma Purāṇānukramaṇikā)

那罗陀因鸠摩罗先前的开示而欢喜,祈求最上乘的普拉那叙事:诸普拉那的完整分类、分部、偈颂体量、依种姓住期(varṇāśrama)的行持、诸誓愿与王朝世系。善那特鸠摩罗说普拉那典藏横贯多劫,浩瀚无边,遂指引那罗陀去见善那檀那(Sanātana)。善那檀那先入定观想那罗延(Nārāyaṇa),赞叹那罗陀一心求法,并转述梵天对摩利支(Marīci)的古教:每一劫初本唯有一部巨大的普拉那,后流布而成一切圣典(śāstra);哈利(Hari)于每个二十八纪(Dvāpara)示现为毗耶娑(Vyāsa),将典藏重整为“四十万偈”的规模,并分为十八部。随后本章以“目录体”(Anukramaṇikā)为例,纲要叙述《梵摩普拉那》(Brāhma Purāṇa):两部结构,诸天、诸生主(Prajāpati)、太阳神与王族世系、罗摩与奎师那事迹;宇宙地理(诸洲dvīpa、诸域varṣa、天界svarga、地下界pātāla与诸地狱),朝圣圣地(tīrtha)仪轨,祭祖施食(śrāddha)与阎摩之界,诸劫法(yuga-dharma)、大毁灭(pralaya)、瑜伽与数论(Yoga–Sāṅkhya)、梵义之论(brahma-vāda);并以抄写供施与听闻诵读之功德作结。

Shlokas

Verse 1

सूत उवाच । एतच्छ्रुत्वा नारदस्तु कुमारस्य वचो मुदा । पुनरप्याह सुप्रीतो जिज्ञासुः श्रेय उत्तमम् ॥ १ ॥

苏多说道:那罗陀欢喜聆听童子(库玛罗)的言语,心甚欣悦,又复开口,渴求知晓至上之善(最高的灵性福祉)。

Verse 2

नारद उवाच । साधु साधु महाभाग सर्वलोकोपकारकम् । महातंत्रं त्वया प्रोक्तं सर्वतंत्रोत्तमोत्तमम् ॥ २ ॥

那罗陀说道:“善哉,善哉!大福德者啊,你所宣说的是大利益一切世界的大坦特罗——至上无比,实为诸坦特罗中最胜者。”

Verse 3

अधुना श्रोतुमिच्छामि पुराणाख्यानमुत्तमम् । यस्मिन्यस्मिन्पुराणे तु यद्यदाख्यानकं मुने । तत्सर्वं मे समाचक्ष्व सर्वज्ञस्त्वं यतो मतः ॥ ३ ॥

如今我愿聆听最殊胜的往世书圣传。噢,牟尼啊,无论哪一部往世书中有何种故事篇章,都请为我一一宣说;因为人们认为你是全知者。

Verse 4

सूत उवाच । तच्छ्रुत्वा वचनं विप्रा नारदस्य शुभावहम् । पुराणाख्यानसंप्रश्नं कुमारः प्रत्युवाच ह ॥ ४ ॥

苏多说道:诸婆罗门啊,听闻那罗陀吉祥之语——关于诸《往世书》(Purāṇa)叙述的请问——库玛罗随即作答。

Verse 5

सनत्कुमार उवाच । पाराणाख्यानकं विप्र नानाकल्पसमुद्भवम् । नानाकथासमायुक्तमद्भुतं बहुविस्तरम् ॥ ५ ॥

善那特库玛罗说道:婆罗门啊,此《往世书》之叙事出自无数劫(kalpa);汇集种种故事,奇妙非常,铺陈广大。

Verse 6

ऋषिः सनातनश्चायं यथा वेद तथाऽपरः । न वेद तस्मात्पृच्छ त्वं बहुकल्पविदां वरम् ॥ ६ ॥

这位圣者善那多那,知晓如同另一位通达吠陀的圣者一般;但既然他不知此事,你当请问那位最胜、通晓多劫之人。

Verse 7

श्रुत्वेत्थं नारदो वाक्यं कुमारस्य महात्मनः । प्रणम्य विनयोपेतः सनातनमथाब्रवीत् ॥ ७ ॥

那罗陀听罢大心库玛罗之言,便恭敬顶礼,怀着谦卑,继而对善那多那开口说道。

Verse 8

नारद उवाच । ब्रह्मन्पुराणविच्छ्रेष्ठ ज्ञानविज्ञानतत्पर । पुराणानां विभागं मे साकल्ये नानुकीर्तय ॥ ८ ॥

那罗陀说道:婆罗门啊,诸《往世书》之最胜知者,专志于智(jñāna)与证智(vijñāna)者——愿你为我详尽宣说诸《往世书》的分类与分部。

Verse 9

यस्मिञ् श्रुते श्रुतं सर्वं ज्ञातं कृते कृतम् ॥ ९ ॥

闻此法,则一切所当闻者皆如已闻;知此法,则一切所当知者皆如已知;成就此法,则诸事皆如已成就。

Verse 10

वर्णाश्रमाचारधर्मं साक्षात्कारमुपैष्यति । कियंति च पुराणानि कियत्संख्यानि मानतः ॥ १० ॥

他将亲证依四姓与四住期而行的正当法度。并且(请告知)诸《往世书》有多少部,其篇幅以偈颂数计又是多少。

Verse 11

किंकिमाख्यानयुक्तानि तद्वदस्व मम प्रभो । चातुर्वर्ण्याश्रया नानाव्रतादीनां कथास्तथा ॥ ११ ॥

主啊,请为我宣说:哪些教法配有神圣传记与圣事因缘;并请同样叙述依四姓本分而立的种种誓戒(vrata)与修持之事。

Verse 12

सृष्टिक्रमेण वंशानां कथाः सम्यक्प्रकाशय । त्वत्तोऽधिको न चान्योऽस्ति पुराणाख्यानवित्प्रभो ॥ १२ ॥

愿你依次第之创生次序,清晰开显诸王族世系的故事。主啊,在通达《往世书》诸传记方面,无人能胜于你。

Verse 13

तस्मादाख्याहि मह्यं त्वं सर्वसन्देहभंजनम् । सूत उवाच । ततः सनातनो विप्राः श्रुत्वा नारदभाषितम् ॥ १३ ॥

“因此,请为我宣说那能摧破一切疑惑的教法。”苏多说道:于是,诸婆罗门啊,圣者萨那檀那听闻了那罗陀所说之后……

Verse 14

नारायणं क्षणं ध्यात्वा प्रोवाचाथ विदां वरः । सनातन उवाच । साधु साधु मुनिश्रेष्ठ सर्वलोकोपकारिका ॥ १४ ॥

他刹那间观想那罗延(Nārāyaṇa)之后,诸学者中最卓越者便开口说道。萨那檀那言:“善哉,善哉!噢,诸牟尼之最胜者——此言利益一切世界。”

Verse 15

पुराणाख्यानविज्ञाने यज्जाता नेष्ठिकी मतिः । तुभ्यं समभिधास्यामि यत्प्रोक्तं ब्रह्मणा पुरा ॥ १५ ॥

既然你对《普拉那》叙事之学已生起坚定而专一的领悟,我如今将为你宣说那久远以前由梵天(Brahmā)所开示之言。

Verse 16

मरीच्यादिऋषिभ्यस्तु पुत्रस्नेहावृतात्मना । एकदा ब्रह्मणः पुत्रो मरीचिर्नाम विश्रुतः ॥ १६ ॥

然而在以摩利支(Marīci)等为首的诸仙之中,曾有一次,那位著名的摩利支——梵天之子——因对其子之爱而心被覆蔽,(遂在此情境中行事/发言)。

Verse 17

स्वाध्यायश्रुतसंपन्नो वेदवेदागपारगः । उपसृत्य स्वपितरं ब्रह्मणं लोकभावनम् ॥ १७ ॥

他具足自习(svādhyāya)与闻受圣教之学,通达吠陀及诸吠檀伽,遂趋近其父——梵天(Brahmā),诸世界的养育者。

Verse 18

प्रणम्य भक्त्या पप्रच्छ इदमेव मुनिश्वर । पुराणाख्यानममलं यत्त्वं पृच्छसि मानद ॥ १८ ॥

他以虔敬(bhakti)顶礼后,正是如此发问,噢,诸仙之主:“清净无垢的《普拉那》叙事——这正是你所询问的,噢,可敬者,敬重他人者。”

Verse 19

मरीचिरुवाच । भगवन्देवदेवेश लोकानां प्रभवाप्यय । सर्वज्ञ सर्वकल्याण सर्वाध्यक्ष नमोऽस्तु ते ॥ १९ ॥

摩利支说道:噢,薄伽梵,诸天之主——诸世界的生起与归灭之源;全知、至吉祥、统摄一切者——我向您顶礼。

Verse 20

पुराणबीजमाख्यहि मह्यं शुश्रूषवे पितः । लक्षणं च प्रमाणं च चं वक्तारं पृच्छकं तथा ॥ २० ॥

尊敬的父亲啊,请为我这渴望聆听者宣说《往世书》的“种子”(要义):其界定的特征、其权威的依据(验证之法),以及谁是宣说者、谁是提问者。

Verse 21

ब्रह्मोवाच । श्रृणु वत्स प्रवक्ष्यामि पुराणानां समुच्चयम् । यस्मिञ्ज्ञाते भवेज्ज्ञातं वाङ्मयं सचराचरम् ॥ २१ ॥

梵天说道:“孩子啊,听我说;我将宣示诸《往世书》的总集。知此一义,则一切可由言语表达之物——无论动者或不动者——皆如已知。”

Verse 22

पुराणमेकमेवासीत्सर्वकल्पेषु मानद । चतुर्वर्गस्य बीजं च शतकोटिप्रविस्तरम् ॥ २२ ॥

噢,尊荣的赐予者,在每一劫之初本唯有一部《往世书》;它是人生四大目标(法、利、欲、解脱)的种子,且广大无边,扩展至百俱胝之数。

Verse 23

प्रवृत्तिः सर्वशास्त्राणां पुराणादभवत्ततः । कालेनाग्रहणं दृष्ट्वा पुराणस्य महामतिः ॥ २३ ॥

一切圣典(śāstra)的流传与弘布皆由《往世书》而起。其后,那位大智大德者见到随岁月推移,《往世书》已不再被如法领受与牢记,便采取措施以护持并弘传之。

Verse 24

हरिर्व्यासस्वरूपेण जायते च युगे युगे । चतुर्लक्षप्रमाणेन द्वापरे द्वापरे सदा ॥ २४ ॥

圣者哈利(Hari)在每一时代都以毗耶娑(Vyāsa)之身降生;而在每一个德瓦帕罗瑜伽(Dvāpara-yuga)中,诸《往世书》(Purāṇa)之汇编总以四十万偈之规模反复宣说,恒常不失。

Verse 25

तदष्टादशधा कृत्वा भूर्लोके निर्द्दिशत्यपि । अद्यापि देवलोके तु शतकोटिप्रविस्तरम् ॥ २५ ॥

将其分为十八部之后,便在布胡尔洛迦(Bhūrloka,人界)中教授并指示;然而即使至今,在天界德瓦洛迦(Devaloka)中,它仍广阔无边,规模达数百俱胝(koṭi)。

Verse 26

अस्त्येव तस्य सारस्तु चतुर्लक्षेण वर्ण्यते । ब्राह्मं पाद्मं वैष्णवं च वायवीयं तथैव च ॥ २६ ॥

确实也有其精要摘要,以四十万偈加以阐述:即《梵》(Brāhma)、《莲华》(Pādma)、《毗湿奴》(Vaiṣṇava),以及同样的《风神》(Vāyavīya)。

Verse 27

भागवतं नारदीयं मार्कंडेयं च कीर्तितम् । आग्नेयं च भविष्यं च ब्रह्मवैवर्त्तलिंगके ॥ २७ ॥

《薄伽梵》(Bhāgavata)、《那罗陀》(Nārada)与《摩尔甘德耶》(Mārkaṇḍeya)已被称述;同样还有《阿耆尼耶》(Āgneya)与《未来》(Bhaviṣya),以及《梵天变现》(Brahma-vaivarta)与《林伽》(Liṅga)诸《往世书》。

Verse 28

वाराहं च तथा स्कांदं वामनं कूर्मसंज्ञकम् । मात्स्यं च गारुडं तद्वद्ब्रह्मांडाख्यमिति त्रिषट् ॥ २८ ॥

同样还有《野猪》(Vārāha)、《斯甘达》(Skānda)、《侏儒》(Vāmana)、名为《龟》(Kūrma)、《鱼》(Mātsya)、《迦楼罗》(Gāruḍa),以及同称《梵卵》(Brahmāṇḍa)者——如此在此计数中合为六十三。

Verse 29

एकं कथानकं सूत्रं वक्तुः श्रोतुः समाह्वयम् । प्रवक्ष्यामि समासेन निशामय समाहितः ॥ २९ ॥

我将略述一条叙事之线——此为召集说者与听者的启请。请以摄心专注而聆听。

Verse 30

ब्रह्मं पुराणं तत्रादौ सर्वलोकहिताय वै । व्यासेन वेदविदुषा समाख्यातं महात्मना ॥ ३० ॥

在那里,于最初之时,为利益一切世界,通晓吠陀的大圣维耶娑宣说了《梵天往世书》。

Verse 31

तद्वै सर्वपुराणाऽग्र्यं धर्मकामार्थमोक्षदम् । नानाख्यानेतिहासाढ्यं दशसाहस्रमुच्यते ॥ ३१ ॥

诚然,此往世书为诸往世书之最胜,能赐予法、欲、利与解脱。其内充满众多故事与圣史,相传共有一万颂。

Verse 32

देवानां च सुराणां च यत्रोत्पत्तिः प्रकीर्तिता । प्रजापतीनां च तथा दक्षादीनां मुनीश्वर ॥ ३२ ॥

噢,牟尼中之主,在那一部分宣说了诸天与天众的起源;同样也叙述了诸生主(Prajāpati)的起源,以达克沙等为首。

Verse 33

ततो लोकेश्वरस्यात्र सूर्यस्य परमात्मनः । वंशानुकीर्तनं पुण्यं महापातकनाशनम् ॥ ३३ ॥

其后,将在此宣说太阳神苏利耶——世间之主、至上我——的圣洁谱系;此诵述具大功德,能灭除乃至最重之罪。

Verse 34

यत्रावतारः कथितः परमानंदरूपिणः । श्रीमतो रामचंद्रस्य चतुर्व्यूहावतारिणः ॥ ३४ ॥

其中叙述了吉祥的罗摩旃陀罗(Śrī Rāmacandra)之降世(avatāra);其本性为至上大乐,并显现为四重神圣流出(catur-vyūha)之化身。

Verse 35

ततश्च सोमवंशस्यं कीर्तनं यत्र वर्णितम् । कृष्णस्य जगदीशस्य चरितं कल्मषापहम् ॥ ३५ ॥

随后叙述月族(Somavaṃśa,苏摩王朝)的颂扬;其中亦描绘宇宙之主克里希那(Kṛṣṇa)的行传,此圣传能除罪垢。

Verse 36

द्वीपानां चैव सर्वेषां वर्षाणां चाप्यशेषतः । वर्णनं यत्र पातालस्वर्गाणां च प्रदृश्यते ॥ ३६ ॥

其中可见对一切洲(dvīpa)与一切地域(varṣa)的无遗详述,并兼及帕塔拉(Pātāla,地下界)与斯瓦尔伽(Svarga,天界)的记载。

Verse 37

नरकाणां समाख्यानं सूर्यस्तुतिकथानकम् । पार्वत्याश्च तथा जन्म विवाहश्च निगद्यते ॥ ३७ ॥

此处亦叙述:诸地狱之记,赞颂苏利耶(Sūrya,日神)的颂歌故事(Sūrya-stuti),以及帕尔瓦蒂(Pārvatī)的诞生与婚配。

Verse 38

दक्षाख्यानं ततः प्रोक्तमेकाम्रक्षेत्रवर्णनम् । पूर्वभागोऽयमुदितः पुराणस्यास्य नारद ॥ ३८ ॥

继而讲述达克沙(Dakṣa)之事,随后描述神圣的埃迦摩罗圣域(Ekāmra-kṣetra)。如是,噢那罗陀(Nārada),此《往世书》之前分(pūrva-bhāga)已宣说完备。

Verse 39

अस्योत्तरे विभागे तु पुरुषोत्तमवर्णनम् । विस्तरेण समाख्यातं तीर्थयात्राविधानतः ॥ ३९ ॥

在其后分部中,详尽宣说了至上人格主普鲁绍塔玛(Puruṣottama)的事迹,并以朝礼诸圣地(tīrtha)之规定仪轨的形式加以阐明。

Verse 40

अत्रैव कृष्णचरितं विस्तरात्समुदीरितम् । वर्णनं यमलोकस्य पितृश्राद्धविधिस्तथा ॥ ४० ॥

就在此处,详尽叙述了奎师那(Kṛṣṇa)的生平与圣行;同样也描绘了阎摩之界(Yama-loka),并阐明了为祖先举行施罗陀(śrāddha)祭仪的规定法度。

Verse 41

वर्णाश्रमाणां धर्माश्च कीर्तिता यत्र विस्तरात् । विष्णुधर्मयुगाख्यानं प्रलयस्य च वर्णनम् ॥ ४१ ॥

其中详述了四姓与四住期(varṇāśrama)的诸般法度;并叙说毗湿奴之法(Viṣṇu-dharma)贯穿诸劫(Yuga)的传承,以及宇宙大毁灭(Pralaya)的描写。

Verse 42

योगानां च समाख्यानं सांख्यानां चापि वर्णनम् । ब्रह्मवादसमुद्देशः पुराणस्य प्रशंसनम् ॥ ४२ ॥

其中包含对诸种瑜伽(Yoga)的阐释,也有对数论(Sāṅkhya)教义的描述;并概述关于梵(Brahman)的教说(brahma-vāda),且赞颂此部《往世书》(Purāṇa)本身。

Verse 43

एतद्ब्रह्मपुराणं तु भागद्वयसमन्वितम् । वर्णितं सर्वपापघ्नं सर्वसौख्यप्रदायकम् ॥ ४३ ॥

此《梵天往世书》(Brahma Purāṇa)由两部分组成,被宣说为能灭尽一切罪业,并赐予种种安乐与吉祥。

Verse 44

सूतशौनकसंवादं भुक्तिमुक्तिप्रदायकम् । लिखित्वैतत्पुराणं यो वैशाख्यां हेमसंयुतम् ॥ ४४ ॥

凡于毗舍迦月(Vaiśākha)令抄写此《普拉那》——苏多与绍那迦之圣对话,能赐世间福乐与解脱——并随喜供奉黄金者,皆得所许之功德。

Verse 45

जलधेनुयुतं चापि भक्त्या दद्याद्द्विजातये । पौराणिकाय संपूज्य वस्त्रभोज्यविभूषणैः ॥ ४५ ॥

当以虔敬之心,连同“阇罗德奴”(jaladhenu,水牛之施)布施于二次生者(婆罗门);并当恭敬礼奉通晓《普拉那》之师,以衣服、饮食与饰物供养之。

Verse 46

स वसेद्ब्रह्मणो लोके यावच्चंद्रार्कतारकम् । यः पठेच्छृणुयाद्वापि ब्राह्मानुक्रमणीं द्विज ॥ ४६ ॥

二次生者啊,凡诵读此《婆罗门次第录》(Brāhmānukramaṇī)——乃至仅仅聆听者——皆得住于梵天界,直至月、日与群星尚存之时。

Verse 47

सोऽपि सर्वपुराणस्य श्रोतुर्वक्तुः फलं लभेत् । श्रृणोति यः पुराणं तु ब्रह्मं सर्वं जितेंद्रियः ॥ ४७ ॥

凡克制诸根、聆听此《普拉那》者——此经全体即梵(Brahman,至上真理)——亦得一切《普拉那》之圆满功德:兼具听闻者与宣诵者之福果。

Verse 48

हविष्याशी च नियमात्स लभेद्ब्रह्मणः पदम् । किमत्र बहुनोक्तेन यद्यदिच्छति मानवः । तत्सर्वं लभते वत्स पुराणस्यास्य कीर्तनात् ॥ ४८ ॥

依戒律而行,唯食“哈维斯”(havis,已奉献之祭食),便能得至梵天之位。又何须多言?爱子啊,世人所愿之一切,皆由诵持并宣扬此《普拉那》而圆满获得。

Verse 49

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे ब्राह्मपुराणेतिहासकथनं नाम द्विनवतितमोऽध्यायः ॥ ९२ ॥

至此,《圣大那罗陀往世书》前分之“大辅叙事”第四品中,名为《叙述梵摩往世书之事》的第九十二章圆满结束。

Frequently Asked Questions

The chapter stresses adhikāra (proper authority): Purāṇic narration is vast across many kalpas, so Nārada is guided to the foremost kalpa-knower. This preserves a disciplined transmission model where specialized encyclopedic classification is taught by the most competent teacher.

By presenting a kalpa-based origin (one primordial mega-Purāṇa), its diffusion into all śāstras, and periodic redaction by Hari as Vyāsa in each Dvāpara-yuga—establishing both divine source and cyclical preservation.

It does not merely praise Purāṇas; it models structured indexing by summarizing the Brāhma Purāṇa’s scope—cosmogony, genealogies, avatāras, cosmography, tirtha-vidhi, śrāddha, ethics, philosophy—showing how a Purāṇa can be navigated as a knowledge-map.