Niralamba
किं ब्रह्म । क ईश्वरः । को जीवः । का प्रकृतिः । कः परमात्मा । को ब्रह्मा । को विष्णुः । को रुद्रः । क इन्द्रः । कः शमनः । कः सूर्यः । कश्चन्द्रः । के सुराः । के असुराः । के पिशाचाः । के मनुष्याः । काः स्त्रियः । के पश्वादयः । किं स्थावरम् । के ब्राह्मणादयः । का जातिः । किं कर्म । किमकर्म । किं ज्ञानम् । किमज्ञानम् । किं सुखम् । किं दुःखम् । कः स्वर्गः । को नरकः । को बन्धः । को मोक्षः । क उपास्यः । कः शिष्यः । को विद्वान् । को मूढः । किमासुरम् । किं तपः । किं परमं पदम् । किं ग्राह्यम् । किमग्राह्यम् । कः संन्यासी—इत्याह शङ्क्यः । आह—ब्रह्मेति ॥३॥
किम् । ब्रह्म । कः । ईश्वरः । कः । जीवः । का । प्रकृतिः । कः । परमात्मा । कः । ब्रह्मा । कः । विष्णुः । कः । रुद्रः । कः । इन्द्रः । कः । शमनः । कः । सूर्यः । कः । चन्द्रः । के । सुराः । के । असुराः । के । पिशाचाः । के । मनुष्याः । काः । स्त्रियः । के । पशु-आदयः । किम् । स्थावरम् । के । ब्राह्मण-आदयः । का । जातिः । किम् । कर्म । किम् । अकर्म । किम् । ज्ञानम् । किम् । अज्ञानम् । किम् । सुखम् । किम् । दुःखम् । कः । स्वर्गः । कः । नरकः । कः । बन्धः । कः । मोक्षः । कः । उपास्यः । कः । शिष्यः । कः । विद्वान् । कः । मूढः । किम् । आसुरम् । किम् । तपः । किम् । परमम् । पदम् । किम् । ग्राह्यम् । किम् । अग्राह्यम् । कः । संन्यासी । इति । आह । शङ्क्यः । आह । ब्रह्म । इति ।
kiṃ brahma | ka īśvaraḥ | ko jīvaḥ | kā prakṛtiḥ | kaḥ paramātmā | ko brahmā | ko viṣṇuḥ | ko rudraḥ | ka indraḥ | kaḥ śamanaḥ | kaḥ sūryaḥ | kaścandraḥ | ke surāḥ | ke asurāḥ | ke piśācāḥ | ke manuṣyāḥ | kāḥ striyaḥ | ke paśvādayaḥ | kiṃ sthāvaram | ke brāhmaṇādayaḥ | kā jātiḥ | kiṃ karma | kimakarma | kiṃ jñānam | kimajñānam | kiṃ sukham | kiṃ duḥkham | kaḥ svargaḥ | ko narakaḥ | ko bandhaḥ | ko mokṣaḥ | ka upāsyaḥ | kaḥ śiṣyaḥ | ko vidvān | ko mūḍhaḥ | kimāsuram | kiṃ tapaḥ | kiṃ paramaṃ padam | kiṃ grāhyam | kimagrāhyam | kaḥ saṃnyāsī—ity āha śaṅkyaḥ | āha—brahmeti ||3||
శాంక్యుడు అడిగాడు—బ్రహ్మం ఏమిటి? ఈశ్వరుడు ఎవరు? జీవుడు ఎవరు? ప్రకృతి ఏమిటి? పరమాత్మ ఎవరు? బ్రహ్మా, విష్ణు, రుద్ర, ఇంద్ర, యమ, సూర్య, చంద్రులు ఎవరు? దేవులు, అసురులు, పిశాచులు ఎవరు? మనుష్యులు, స్త్రీలు, పశువులు మొదలైనవి ఏమి? స్థావరం ఏమిటి? బ్రాహ్మణులు మొదలైనవారు ఎవరు? జాతి ఏమిటి? కర్మ ఏమిటి, అకర్మ ఏమిటి? జ్ఞానం ఏమిటి, అజ్ఞానం ఏమిటి? సుఖం ఏమిటి, దుఃఖం ఏమిటి? స్వర్గం ఏమిటి, నరకం ఏమిటి? బంధం ఏమిటి, మోక్షం ఏమిటి? ఉపాస్యుడు ఎవరు? శిష్యుడు ఎవరు? విద్వాన్ ఎవరు, మూఢుడు ఎవరు? ఆసురం ఏమిటి? తపస్సు ఏమిటి? పరమపదం ఏమిటి? గ్రాహ్యం ఏమిటి, అగ్రాహ్యం ఏమిటి? సన్న్యాసి ఎవరు?—అని అడిగి, అతడు సమాధానమిచ్చాడు: ‘బ్రహ్మం’॥౩॥
‘What is Brahman? Who is Īśvara? Who is the jīva? What is prakṛti? Who is the Paramātman? Who is Brahmā? Who is Viṣṇu? Who is Rudra? Who is Indra? Who is Yama? Who is the Sun? Who is the Moon? Who are the gods? Who are the asuras? Who are the piśācas? Who are human beings? Who are women? Who are animals and the rest? What is the immovable? Who are brāhmaṇas and the rest? What is caste? What is action? What is non-action? What is knowledge? What is ignorance? What is happiness? What is sorrow? What is heaven? What is hell? What is bondage? What is liberation? Who is to be worshipped? Who is a disciple? Who is learned? Who is deluded? What is demonic? What is austerity? What is the supreme state? What is to be accepted? What is not to be accepted? Who is a renunciant?’—thus asked Śaṅkya. He replied: ‘Brahman.’