अथ योगिनं परमहंसं कोऽयं मार्गस्तेषां का स्थितिरिति नारदो भगवन्तमुपगत्योवाच । तं भगवानाह । योऽयं परमहंसमार्गो लोके दुर्लभतरो न तु बाहुल्यो; यद्येको भवति स एव नित्यपूतस्थः, स एव वेदपुरुष इति विदुषो मन्यन्ते । महापुरुषो यच्चित्तं तत्सर्वदा मय्येवावतिष्ठते; तस्मादहं च तस्मिन्नेवावस्थीयते । असौ स्वपुत्रमित्रकलत्रबन्ध्वादीन् शिखायज्ञोपवीते स्वाध्यायं च सर्वकर्माणि संन्यस्य, अयं ब्रह्माण्डं च हित्वा, कौपीनं दण्डमाच्छादनं च स्वशरीरोपभोगार्थाय च लोकस्योपकारार्थाय च परिगृह्णीयात्; तच्च न मुख्योऽस्ति । कोऽयं मुख्य इति चेदयं मुख्यः ॥ १॥
अथ । योगिनम् । परमहंसम् । कः । अयम् । मार्गः । तेषाम् । का । स्थितिः । इति । नारदः । भगवन्तम् । उपगत्य । उवाच । तम् । भगवान् । आह । यः । अयम् । परमहंस-मार्गः । लोके । दुर्लभतरः । न । तु । बाहुल्यः । यदि । एकः । भवति । सः । एव । नित्य-पूत-स्थः । सः । एव । वेद-पुरुषः । इति । विदुषः । मन्यन्ते । महा-पुरुषः । यत् । चित्तम् । तत् । सर्वदा । मयि । एव । अवतिष्ठते । तस्मात् । अहम् । च । तस्मिन् । एव । अवस्थीयते । असौ । स्व-पुत्र-मित्र-कलत्र-बन्धु-आदीन् । शिखा-यज्ञोपवीते । स्वाध्यायम् । च । सर्व-कर्माणि । संन्यस्य । अयम् । ब्रह्माण्डम् । च । हित्वा । कौपीनम् । दण्डम् । आच्छादनम् । च । स्व-शरीर-उपभोग-अर्थाय । च । लोकस्य । उपकार-अर्थाय । च । परिगृह्णीयात् । तत् । च । न । मुख्यः । अस्ति । कः । अयम् । मुख्यः । इति । चेत् । अयम् । मुख्यः ॥ १॥
atha yoginaṃ paramahaṃsaṃ ko'yaṃ mārgaḥ teṣāṃ kā sthitir iti nārado bhagavantam upagatya uvāca | taṃ bhagavān āha | yo'yaṃ paramahaṃsa-mārgo loke durlabhataraḥ na tu bāhulyaḥ; yady eko bhavati sa eva nitya-pūta-sthaḥ, sa eva veda-puruṣa iti viduṣo manyante | mahāpuruṣo yac cittaṃ tat sarvadā mayy evāvatiṣṭhate; tasmād ahaṃ ca tasminn evāvasthīyate | asau sva-putra-mitra-kalatra-bandhv-ādīn śikhā-yajñopavīte svādhyāyaṃ ca sarva-karmāṇi saṃnyasya, ayaṃ brahmāṇḍaṃ ca hitvā, kaupīnaṃ daṇḍam ācchādanaṃ ca sva-śarīropabhogārthāya ca lokasyopakārārthāya ca parigṛhṇīyāt; tac ca na mukhyo'sti | ko'yaṃ mukhya iti ced ayaṃ mukhyaḥ || 1 ||
அப்போது நாரதர் பகவானை அணுகி கேட்டார்— “பரமஹம்சன் எனப்படும் யோகி யார்? அவனுடைய மார்க்கம் என்ன? அவனுடைய நிலைமை யாது?” பகவான் கூறினார்— “பரமஹம்ச மார்க்கம் உலகில் மிக அரிது; பரவலாக இல்லை. அத்தகையவன் ஒருவன் கூட இருந்தால், அவனே நித்திய-பவித்ரன்; ஞானிகள் அவனை ‘வேதபுருஷன்’—வேத அனுபவத்தின் உருவம்—என்று கருதுவர். அந்த மகாபுருஷனின் சித்தம் எப்போதும் என்னிலேயே நிலைத்திருப்பதால், நானும் அவனிலேயே நிலைத்திருப்பேன். அவன் மகன், நண்பர், மனைவி, உறவினர் முதலியவற்றையும்; சிகை, யஜ்ஞோபவீதத்தையும்; ஸ்வாத்யாயம் மற்றும் எல்லாக் கர்மங்களையும் துறந்து, இந்தப் பிரம்மாண்டரூபமான சம்சாரத்தையும் விட்டு விடுகிறான். உடல்-தாங்குதலுக்கும் உலக-நலனுக்கும் மட்டும் கௌபீனம், தண்டு, ஆச்சாதனம் ஆகியவற்றை ஏற்கலாம்; ஆனால் அவை முதன்மை இலக்கணம் அல்ல. ‘முதன்மை என்ன?’ எனில்— இதுவே முதன்மை।”},{
Now Nārada approached the Blessed One and said: “Who is the yogin called a Paramahaṃsa? What is his path, and what is his state?” The Blessed One replied: “This path of the Paramahaṃsa is exceedingly rare in the world and not widespread. If there is even one such person, he alone abides as ever-purified; the knowers consider him to be the ‘Person of the Veda’ (the embodiment of Vedic realization). The great person—whose mind ever rests in Me—therefore I too abide in him alone. Having renounced son, friends, wife, relatives and the like; the topknot and sacred thread; Vedic recitation and all rites; and having abandoned this ‘cosmic egg’ (worldly sphere), he may take up a loincloth, a staff, and a covering—only for the maintenance of the body and for the welfare of the world; yet these are not the essential (mark). If it is asked, ‘What is the essential?’—this is the essential.”
A free Google sign-in keeps your chat saved across web and the app.
Read Upanishads in the Vedapath app
Scan the QR code to open this directly in the app, with audio, word-by-word meanings, and more.