Opening the text
यस्याः स्वरूपं ब्रह्मादयो न जानन्ति तस्मादुच्यतेऽज्ञेया । यस्या अन्तो न विद्यते तस्मादुच्यतेऽनन्ता । यस्या ग्रहणं नोपलभ्यते तस्मादुच्यतेऽलक्ष्या । यस्या जननं नोपलभ्यते तस्मादुच्यतेऽजा । एकैव सर्वत्र वर्तते तस्मादुच्यत एका । एकैव विश्वरूपिणी तस्मादुच्यते नैका । अत एवोच्यतेऽज्ञेयानन्तालक्ष्याजैका नैकेति ॥२६॥
यस्याः । स्वरूपम् । ब्रह्म-आदयः । न । जानन्ति । तस्मात् । उच्यते । अज्ञेया ।
यस्याः । अन्तः । न । विद्यते । तस्मात् । उच्यते । अनन्ता ।
यस्याः । ग्रहणम् । न । उपलभ्यते । तस्मात् । उच्यते । अलक्ष्या ।
यस्याः । जननम् । न । उपलभ्यते । तस्मात् । उच्यते । अजा ।
एका । एव । सर्वत्र । वर्तते । तस्मात् । उच्यते । एका ।
एका । एव । विश्व-रूपिणी । तस्मात् । उच्यते । न-एका ।
अतः । एव । उच्यते । अज्ञेया-अनन्ता-अलक्ष्या-अजा-एका-न-एका । इति ।
yasyāḥ svarūpaṃ brahmādayo na jānanti tasmāducyate'jñeyā | yasyā antaḥ na vidyate tasmāducyate'nantā | yasyā grahaṇaṃ nopalabhyate tasmāducyate'lakṣyā | yasyā jananaṃ nopalabhyate tasmāducyate'ajā | ekaiva sarvatra vartate tasmāducyata ekā | ekaiva viśvarūpiṇī tasmāducyate naikā | ata evocyate'jñeyānantālakṣyājāikā naiketi ||26||
அவளுடைய இயல்பை பிரம்மா முதலியவர்களும் அறியார்; ஆகவே அவள் ‘அஜ்ஞேயா’ எனப்படுகிறாள். அவளுக்கு முடிவு இல்லை; ஆகவே ‘அனந்தா’. அவளைப் பற்றிக் கொள்ளவும் அறிதலும் இயலாது; ஆகவே ‘அலக்ஷ்யா’. அவளுடைய பிறப்பு எங்கும் காணப்படாது; ஆகவே ‘அஜா’. அவள் ஒருத்தியே எங்கும் நிறைந்திருக்கிறாள்; ஆகவே ‘ஏகா’. அவள் ஒருத்தியே உலகமெங்கும் ரூபமாய் விளங்குகிறாள்; ஆகவே ‘நைகா’ (ஒருத்தியே ஆயினும் பலரூபம்). எனவே அவள் ‘அஜ்ஞேயா, அனந்தா, அலக்ஷ்யா, அஜா, ஏகா, நைகா’ எனப் போற்றப்படுகிறாள்॥
Because even Brahmā and the others do not know her essential nature, she is therefore called ‘unknowable’. Because her end is not found, she is therefore called ‘endless’. Because her apprehension is not obtained, she is therefore called ‘unperceivable’. Because her birth is not obtained, she is therefore called ‘unborn’. Because she alone exists everywhere, she is therefore called ‘one’. Because she alone is of the form of the universe, she is therefore called ‘not-one’. Therefore she is spoken of as: unknowable, endless, unperceivable, unborn, one, and not-one.
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free sign-in with Google or Apple keeps your chat saved across web and the app.
Read Upanishads in the Vedapath app
Scan the QR code to open this directly in the app, with word-by-word meanings, Sanskrit recitation where available, and more.