Adhyaya 1
Anushanga PadaAdhyaya 1125 Verses

Adhyaya 1

Vaivasvata-Manu Sarga and the Re-Manifestation of the Saptarṣis (वैवस्वतसर्गः—सप्तर्षिप्रादुर्भावः)

अध्यायोऽयं पूर्वमन्वन्तरवर्णनसमाप्तिं सूचयित्वा मध्यभागारम्भं प्रतिपादयति। शांषपायनः तृतीयपादस्य (उपोद्घातस्य) विस्तरं पृच्छति; सूतः वैवस्वतमन्वन्तरे वर्तमानं कृत्वा ‘निसर्ग-सर्गादीनां’ कथानां विस्तरेणानुपूर्व्या वर्णनं प्रतिजानाति। युग-मन्वन्तरगणनया कालचक्रं स्थाप्य पितृ-गन्धर्व-यक्ष-राक्षस-भूत-नाग-मनुष्य-पशु-पक्षि-स्थावरादीनां सर्वभूतसमूहं निरूपयति। मुख्यतत्त्वं सप्तर्षिप्रादुर्भावः—ऋषयः पृच्छन्ति कथं ते ‘मानसाः’ सन्तोऽपि स्वयम्भुवा पुत्रत्वेन नियुक्ताः; सूतः मन्वन्तरपरिवर्तने (स्वायम्भुवात् वैवस्वतपर्यन्तम्) तथा भव-महेश्वरशापहेतोः पुनराविर्भावं व्याचष्टे, मानुषलोके तेषां पुनः प्रादुर्भावं सृष्टेः क्रमप्रवृत्तिं च दर्शयन्।

Shlokas

Verse 1

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये ऽनुषङ्गपादे मन्वन्तरवर्णनं नामाष्टात्रिंशत्तमो ऽध्यायः समाप्तो ऽयं ब्रह्माण्डमहापुराणपूर्वभागः श्रीगणेशाय नमः अथ ब्रह्माण्डमहापुराणमध्यभागप्रारम्भः / शांशपायन उवाच पादः शेक्तो द्वितीयस्तु अनुषङ्गेन नस्त्वया / तृतीयं विस्तरात्पादं सोपोद्धातं प्रवर्त्तय

इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे मन्वन्तरवर्णनं नामाष्टात्रिंशत्तमोऽध्यायः समाप्तः । अयं ब्रह्माण्डमहापुराणपूर्वभागः । श्रीगणेशाय नमः । अथ ब्रह्माण्डमहापुराणमध्यभागप्रारम्भः । शांशपायन उवाच— पादः शेक्तो द्वितीयस्त्वनुषङ्गेन नस्त्वया । तृतीयं विस्तरात्पादं सोपोद्धातं प्रवर्त्तय ॥

Verse 2

सूत उवाच कीर्त्तयिष्ये तृतीयं वः सोपोद्धातं सविस्तरम् / पादं समुच्चयाद्विप्रा गदतो मे निबोधत

सूत उवाच— कीर्त्तयिष्ये तृतीयं वः सोपोद्धातं सविस्तरम् । पादं समुच्चयाद्विप्रा गदतो मे निबोधत ॥

Verse 3

मनोर्वैवस्वतस्येमं सांप्रतं तु महात्मनः / विस्तरेणानुपूर्व्या च निसर्गं शृणुत द्विजाः

मनोर्वैवस्वतस्य महात्मनः सांप्रतमिमं निसर्गं विस्तरेणानुपूर्व्या च शृणुत, हे द्विजाः।

Verse 4

चतुर्युगैकस प्तत्या संख्यातं पूर्वमेव तु / मह देवगणैश्चैव ऋषिभिर्दानवैस्सह

चतुर्युगैकसप्तत्या पूर्वमेव संख्यातं तु; महादेवगणैः ऋषिभिः दानवैः सह च।

Verse 5

पितृगन्धर्वयक्षैश्च रक्षोभूतमहोरगैः / मानुषैः पशुभिश्चैव पक्षिभिः स्थावरैः सह

पितृगन्धर्वयक्षैश्च रक्षोभूतमहोरगैः। मानुषैः पशुभिश्चैव पक्षिभिः स्थावरैः सह॥

Verse 6

मन्वादिकं भविष्यान्तमाख्यानैर्बहुभिर्युतम् / वक्ष्ये वैवस्वतं सर्गं नमस्कृत्य विवस्वते

मन्वादिकं भविष्यान्तम् आख्यानैर्बहुभिर्युतम्। विवस्वते नमस्कृत्य वैवस्वतं सर्गं वक्ष्ये॥

Verse 7

आद्ये मन्वन्तरे ऽतीताः सर्गप्रावर्त्तकास्तु ये / स्वायंभुवेंऽतरे पूर्वं सप्तासन्ये महर्षयः

आद्ये मन्वन्तरेऽतीताः सर्गप्रावर्तकास्तु ये। स्वायम्भुवेऽन्तरे पूर्वं सप्तासन् अन्ये महर्षयः॥

Verse 8

चाक्षुषस्यान्तरे ऽतीते प्राप्ते वैवस्वते पुनः / दक्षस्य च ऋषीणां च भृग्वादीनां महौजसाम्

चाक्षुषमन्वन्तरस्यातीतस्य पश्चात् पुनः वैवस्वतमन्वन्तरे प्राप्ते, दक्षस्य च ऋषीणां च भृग्वादीनां महौजसां च (प्रादुर्भावः अभवत्)।

Verse 9

शापान्महेश्वरस्यासीत्प्रादुर्भावो महात्मनाम् / भूयः सप्तर्षयस्त्वेवमुत्पन्नाः सप्त मानसाः

महेश्वरस्य शापात् महात्मनां प्रादुर्भावः आसीत्; एवं भूयः सप्त मानसाः सप्तर्षयः उत्पन्नाः।

Verse 10

पुत्रत्वे कल्पिताश्चैव स्वयमेव स्वयंभुवा / प्रजासंतानकृद्भिस्तैरुत्पदद्भिर्महात्मभिः

स्वयंभुवा स्वयमेव ते पुत्रत्वे कल्पिताः; तैः महात्मभिः प्रजासन्तानकृद्भिः उत्पदद्भिः (सृष्टिः प्रववृते)।

Verse 11

पुनः प्रवर्त्तितः सर्गो यथापूर्वं यथाक्रमम् / तेषां प्रसूतिं वक्ष्यामि विशुद्धज्ञानकर्मणाम्

पुनः सर्गः यथापूर्वं यथाक्रमं प्रवर्तितः; तेषां विशुद्धज्ञानकर्मणां प्रसूतिं वक्ष्यामि।

Verse 12

समासव्यासयोगाभ्यां यथावदनुपूर्वशः / येषामन्वयसंभूतैलर् एको ऽयं सचराचरः / पुनरापूरितः सर्वो ग्रहनक्षत्रमण्डितः

समासव्यासयोगाभ्यां यथावत् अनुपूर्वशः (वक्ष्यामि); येषामन्वयसम्भूतैः इदं एकं जगत् सचराचरं पुनरापूरितं, ग्रहनक्षत्रमण्डितं सर्वं च।

Verse 13

ऋषय ऊचुः कथं सप्तर्षयः पूर्वमुत्पन्नाः सप्त मनसाः / पुत्रत्वे कल्पिताश्चैव तन्नो निगद सत्तम

ऋषय ऊचुः—पूर्वं सप्तर्षयः कथं समुत्पन्नाः? कथं च सप्त मनसः पुत्रत्वेन कल्पिताः? हे सत्तम, तदस्मान् निगद।

Verse 14

सूत उवाच पूर्वं सप्तर्षयः प्रोक्ता ये वै स्वायंभुवेंऽतरे / मनोरन्तरमासाद्य पुनर्वैवस्वतं किल

सूत उवाच—पूर्वं सप्तर्षयः प्रोक्ता ये वै स्वायम्भुवेऽन्तरे; मन्वन्तरं समासाद्य पुनर्वैवस्वते किल।

Verse 15

भवाभिशाप संविद्धा अप्राप्तास्ते तदा तपः / उपपन्ना जने लोके सकृदागमनास्तु त

भवाभिशापसंविद्धा अप्राप्तास्ते तदा तपः; उपपन्ना जने लोके सकृदागमनास्तु ते।

Verse 16

ऊचुः सर्वे सदान्योन्यं जनलोके महार्षयः / एत एव महाभागा वरुणे वितते ऽध्वरे

ऊचुः सर्वे सदान्योन्यं जनलोके महार्षयः; एत एव महाभागा वरुणे विततेऽध्वरे।

Verse 17

सर्वे वयं प्रसूयामश्चाक्षुषस्यान्तरे मनोः / पितामहात्मजाः सर्वे तन्नः श्रेयो भविष्यति

सर्वे वयं प्रसूयामश्चाक्षुषस्यान्तरे मनोः; पितामहात्मजाः सर्वे तन्नः श्रेयो भविष्यति।

Verse 18

एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः / स्वायंभुवेन्तरे प्राप्ताः सृष्ट्यर्थं ते भवेन तु

एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः । स्वायम्भुवेऽन्तरे प्राप्ताः सृष्ट्यर्थं ते भवेन तु ॥

Verse 19

जज्ञिरे ह पुनस्ते वै जनलोकादिहागताः / देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम्

जज्ञिरे ह पुनस्ते वै जनलोकादिहागताः । देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥

Verse 20

ब्रह्मणो जुह्वतः शुक्रमग्रौ पूर्वं प्रजेप्सया / ऋषयो जज्ञिरे दीर्घे द्वितीयमिति नः श्रुतम्

ब्रह्मणो जुह्वतः शुक्रमग्रौ पूर्वं प्रजेप्सया । ऋषयो जज्ञिरे दीर्घे द्वितीयमिति नः श्रुतम् ॥

Verse 21

भृग्वङ्गिरा मरीचिश्च पुलस्त्यः पुलहः क्रतुः / अत्रिश्चैव वसिष्ठश्च ह्यष्टौ ते ब्रह्मणः सुताः

भृग्वङ्गिरा मरीचिश्च पुलस्त्यः पुलहः क्रतुः । अत्रिश्चैव वसिष्ठश्च ह्यष्टौ ते ब्रह्मणः सुताः ॥

Verse 22

तथास्य वितते यज्ञे देवाः सर्वे समागताः / यज्ञाङ्गानि च सर्वाणि वषठ्कारश्च मूर्त्तिमान्

तथास्य वितते यज्ञे देवाः सर्वे समागताः । यज्ञाङ्गानि च सर्वाणि वषट्कारश्च मूर्त्तिमान् ॥

Verse 23

मूर्त्तिमन्ति च सामानि यजूंषि च सहस्रशः / ऋग्वेदश्चाभवत्तत्र यश्च क्रमविभूषितः

तत्र सहस्रशः मूर्तिमन्ति सामानि यजूंषि च, तथा क्रमविभूषितः ऋग्वेदोऽपि प्रादुर्भूतः।

Verse 24

यजुर्वेदश्च वृत्ताढ्य ओङ्कारवदनोज्ज्वलः / स्थितो यज्ञार्थसंपृक्तः सूक्तब्राह्मणमन्त्रवान्

यजुर्वेदः वृत्ताढ्यः ओङ्कारवदनोज्ज्वलः, यज्ञार्थसंपृक्तः स्थितः, सूक्त-ब्राह्मण-मन्त्रवान्।

Verse 25

सामवेदश्च वृत्ताढ्यः सर्वगेयपुरः सरः / विश्वावस्वादिभिः सार्द्धं गन्धर्वैः संभृतो ऽभवत्

सामवेदः वृत्ताढ्यः सर्वगेयपुरः सरः, विश्वावस्वादिभिः सार्द्धं गन्धर्वैः संभृतोऽभवत्।

Verse 26

ब्रह्मवेदस्तथा घोरैः कृत्वा विधिभिरन्वितः / प्रत्यङ्गिरसयोगैश्च द्विशरीरशिरो ऽभवत्

ब्रह्मवेदः तथा घोरैः विधिभिरन्वितः कृत्वा, प्रत्यङ्गिरसयोगैश्च द्विशरीरशिरोऽभवत्।

Verse 27

लक्षणा विस्तराः स्तोभा निरुक्तस्वर भक्तयः / आश्रयस्तु वषट्कारो निग्रहप्रग्रहावपि

लक्षणाः विस्तराः स्तोभाः निरुक्त-स्वर-भक्तयः; आश्रयस्तु वषट्कारः, निग्रह-प्रग्रहावपि।

Verse 28

दीप्तिमूर्त्तिरिलादेवी दिशश्चसदिगीश्वराः / देवकन्याश्च पत्न्यश्च तथा मातर एव च

दीप्तिमूर्तिरिला देवी दिशश्च सदिगीश्वराः । देवकन्याश्च पत्न्यश्च तथा मातर एव च ॥

Verse 29

आययुः सर्व एवैते देवस्य यजतो मखे / मूर्तिमन्तः सुरूपाख्या वरुणस्य वपुर्भृतः

आययुः सर्व एवैते देवस्य यजतो मखे । मूर्तिमन्तः सुरूपाख्या वरुणस्य वपुर्भृतः ॥

Verse 30

स्वयंभु वस्तु ता दृष्ट्वा रेतः समपतद्भुवि / ब्रह्मर्षिभाविनोर्ऽथस्य विधानाच्च न संशयः

स्वयंभु वस्तु ता दृष्ट्वा रेतः समपतद्भुवि । ब्रह्मर्षिभाविनोरर्थस्य विधानाच्च न संशयः ॥

Verse 31

धृत्वा जुहाव हस्ताभ्यां स्रुवेण परिगृह्य च / आस्रवज्जुहुयां चक्रे मन्त्रवच्च पितामहः

धृत्वा जुहाव हस्ताभ्यां स्रुवेण परिगृह्य च । आस्रवज्जुहुयां चक्रे मन्त्रवच्च पितामहः ॥

Verse 32

ततः स जनयामास भूतग्रामं प्रजापतिः / तस्यार्वाक्तेजसश्चैव जज्ञे लोकेषु तैजसम्

ततः स जनयामास भूतग्रामं प्रजापतिः । तस्यार्वाक्तेजसश्चैव जज्ञे लोकेषु तैजसम् ॥

Verse 33

तमसा भावि याप्यत्वं यथा सत्त्वं तथा रजः / आज्यस्थाल्यामुपादाय स्वशुक्रं हुतवांश्च ह

तमसा भावि याप्यत्वं यथा सत्त्वं तथा रजः। आज्यस्थाल्यामुपादाय स्वशुक्रं हुतवांश्च ह॥

Verse 34

शुक्रे हु ते ऽथ तस्मिंस्तु प्रादुर्भूता महर्षयः / ज्वलन्तो वपुषा युक्ताः सप्रभावैः स्वकैर्गुणैः

शुक्रे हुतेऽथ तस्मिंस्तु प्रादुर्भूता महर्षयः। ज्वलन्तो वपुषा युक्ताः सप्रभावैः स्वकैर्गुणैः॥

Verse 35

हुते चाग्नौ सकृच्छुक्रे ज्वालाया निसृतः कविः / हिरण्यगर्भस्तं दृष्ट्वा ज्वालां भित्त्वा विनिर्गतम्

हुते चाग्नौ सकृच्छुक्रे ज्वालाया निसृतः कविः। हिरण्यगर्भस्तं दृष्ट्वा ज्वालां भित्त्वा विनिर्गतम्॥

Verse 36

भृगुस्त्वमिति चोवाच यस्मात्तस्मात्स वै भृगुः / महादेवस्तथोद्भूतो दृष्ट्वा ब्रह्माणमब्रवीत्

भृगुस्त्वमिति चोवाच यस्मात्तस्मात्स वै भृगुः। महादेवस्तथोद्भूतो दृष्ट्वा ब्रह्माणमब्रवीत्॥

Verse 37

ममैष पुत्रकामस्य दीक्षितस्य त्वया प्रभो / विजज्ञे प्रथमं देव मम पुत्रो भवत्वयम्

ममैष पुत्रकामस्य दीक्षितस्य त्वया प्रभो। विजज्ञे प्रथमं देव मम पुत्रो भवत्वयम्॥

Verse 38

तथेति समनुज्ञातो महादेवः स्वयंभुवा / पुत्रत्वे कल्पयामास महादेव स्तदा भृगुम्

तथेति समनुज्ञातः स्वयंभुवा महादेवः। तदा स महादेवो भृगुं पुत्रत्वे कल्पयामास॥

Verse 39

वारुणा भृगवस्तस्मात्तदपत्यं च स प्रभुः / द्वितीयं च ततः शुक्रमङ्गारेष्वजुहोत्प्रभुः

तस्माद् वारुणा भृगवो जाताः, तदपत्यं स प्रभुः। ततः द्वितीयं शुक्रं प्रभुरङ्गारेष्वजुहोत्॥

Verse 40

अङ्गारेष्वङ्गिरो ऽङ्गानि संहतानि ततोङ्गिराः / संभूतिं तस्य तां दृष्ट्वा वह्निर्ब्रह्माणमब्रवीत्

अङ्गारेष्वङ्गिरोऽङ्गानि संहतानि ततोऽङ्गिराः। तस्य तां संभूतिं दृष्ट्वा वह्निर्ब्रह्माणमब्रवीत्॥

Verse 41

रेतोधास्तुभ्यमेवाहं द्वितीयो ऽयं ममास्त्विति / एवमस्त्विति सो ऽप्युक्तो ब्रह्मणा सदसस्पतिः

रेतोधास्तुभ्यमेवाहं, द्वितीयोऽयं ममास्त्विति। एवमस्त्विति सोऽप्युक्तो ब्रह्मणा सदसस्पतिः॥

Verse 42

जग्रा हाग्निस्त्वङ्गिरस आग्नेया इति नः श्रुतम् / षट् कृत्वा तु पुनः शुक्रे ब्रह्मणा लोककारिणा

जग्राहाग्निस्त्वङ्गिरसं, आग्नेया इति नः श्रुतम्। षट्कृत्वा तु पुनः शुक्रे ब्रह्मणा लोककारिणा॥

Verse 43

हुते समभवंस्तस्मिन्यद् ब्रह्माण इति श्रुतिः / मरीचिः प्रथमं तत्र मरीचिभ्यः समुत्थितः

हुतकर्मणि तस्मिन्समभवद् यद् ‘ब्रह्माणः’ इति श्रुतिः। तत्र प्रथमं मरीचिः प्रादुरभूत्, मरीचिभ्यः समुत्थितः॥

Verse 44

क्रतौ तस्मिन्क्रतुर्जज्ञे यतस्तस्मात्स वै क्रतुः / अहं तृतीय इत्यत्रिस्तस्मादत्रिः स कीर्त्यते

तस्मिन्क्रतौ क्रतुरेव जज्ञे, यस्मात् स एव ‘क्रतुः’ इति। ‘अहं तृतीयः’ इत्यत्रिः तस्माद् अत्रिः स कीर्त्यते॥

Verse 45

केशैस्तु निचितैर्भूतः पुलस्त्यस्तेन स स्मृतः / केशैर्लंबैः समुद्भूतस्तस्मात्स पुलहः स्मृतः

निचितैः केशैर्भूतः पुलस्त्यः, तेन स स्मृतः। लम्बैः केशैः समुद्भूतः, तस्मात् स पुलहः स्मृतः॥

Verse 46

वसुमध्यात्समुत्पन्नो वशी च वसुमान् स्वयम् / वसिष्ठ इति तत्त्वज्ञैः प्रोच्यते ब्रह्मवादिभिः

वसुमध्ये समुत्पन्नो वशी वसुमान् स्वयम्। तत्त्वज्ञैर्ब्रह्मवादिभिः स ‘वसिष्ठः’ इति प्रोच्यते॥

Verse 47

इत्येते ब्रह्मणः पुत्रा मानसाः षण्महर्षयः / लोकस्य सन्तानकरा यैरिमा वर्द्धिताः प्रजाः

इत्येते ब्रह्मणः पुत्रा मानसाः षण्महर्षयः। लोकस्य सन्तानकरा यैरिमा वर्धिताः प्रजाः॥

Verse 48

प्रजापतय इत्येवं पठ्यन्ते ब्रह्मणःसुताः / अपरे पितरो नाम एतैरेव महर्षिभिः

प्रजापतय इत्येवं ब्रह्मणः सुताः पठ्यन्ते; एतैरेव महर्षिभिरपरे ‘पितरः’ इति नाम्ना कीर्त्यन्ते।

Verse 49

उत्पादिता देवगणाः सप्त लोकेषु विश्रुताः / अजेयाश्च गणाः सप्त सप्तलोकेषु विश्रुताः

उत्पादिता देवगणाः सप्त लोकेषु विश्रुताः; अजेयाश्च गणाः सप्त सप्तलोकेषु विश्रुताः।

Verse 50

मारीया भार्गवाश्चैव तथैवाङ्गिरसो ऽपरे / पौलस्त्याः पौलहाश्चैव वासिष्ठाश्चैव विश्रुताः

मारीयाः भार्गवाश्चैव तथैवाङ्गिरसः अपरे; पौलस्त्याः पौलहाश्चैव वासिष्ठाश्चैव विश्रुताः।

Verse 51

आत्रेयाश्च गणाः प्रोक्ता पितॄणां लोकवर्द्धनाः / एते समासतः ख्याताः पुनरन्ये गणास्त्रयः

आत्रेयाश्च गणाः प्रोक्ता पितॄणां लोकवर्द्धनाः; एते समासतः ख्याताः पुनरन्ये गणास्त्रयः।

Verse 52

अमर्त्ताश्चाप्रकाशाश्च ज्योतिष्मन्तश्च विश्रुताः / तेषां राजायमो देवो यमैर्विहतकल्मषः

अमर्त्ताश्चाप्रकाशाश्च ज्योतिष्मन्तश्च विश्रुताः; तेषां राजा यमो देवो यमैर्विहतकल्मषः।

Verse 53

अपरं प्रजानां यतयस्ताञ्छृमुध्वमतन्द्रिताः / कश्यपः कर्दमः शेषो विक्रान्तः सुश्रवास्तथा

अपरं प्रजानां यतयः—तान् शृणुध्वम् अतन्द्रिताः। कश्यपः कर्दमः शेषो विक्रान्तः सुश्रवास्तथा॥

Verse 54

बहुपुत्रः कुमारश्च विवस्वान्स शुचिव्रतः / प्रचेतसोरिष्टनेमिर्बहुलश्च प्रजापतिः

बहुपुत्रः कुमारश्च विवस्वान् स शुचिव्रतः। प्रचेतसोऽरिष्टनेमिर्बहुलश्च प्रजापतिः॥

Verse 55

इत्येवमादयो ऽन्ये ऽपि बहवो वै प्रजेश्वराः / कुशोच्चया वालखिल्याः सभूताः परमर्षयः

इत्येवमादयोऽन्येऽपि बहवो वै प्रजेश्वराः। कुशोच्चया वालखिल्याः सभूताः परमर्षयः॥

Verse 56

मनोजवाः सर्वगताः सर्वभोगाश्च ते ऽभवन् / जाताश्च भस्मनो ह्यन्ये ब्रह्मर्षिगणसंमताः

मनोजवाः सर्वगताः सर्वभोगाश्च तेऽभवन्। जाताश्च भस्मनो ह्यन्ये ब्रह्मर्षिगणसंमताः॥

Verse 57

वैखानसा मुनिगणास्तपः श्रुतपरायणाः / नस्तो द्वावस्य चोत्पन्नावश्विनौ रूपसंमतौ

वैखानसा मुनिगणास्तपःश्रुतपरायणाः। नस्तो द्वावस्य चोत्पन्नावश्विनौ रूपसंमतौ॥

Verse 58

विदुर्जन्मर्क्षरजसो तथा तन्नेत्रसंचरात् / अन्ये प्रजानां पतयः श्रोतोभ्यस्तस्य जज्ञिरे

विदुः जन्म ऋक्षरजसः तथा तन्नेत्रसञ्चरात्; अन्ये प्रजानां पतयः श्रोतोभ्यस्तस्य जज्ञिरे।

Verse 59

ऋषयो रोमकूपेभ्यस्तथा स्वेदमलोद्भवाः / अयने ऋतवो मासर्द्धमासाः पक्षसंधयः

ऋषयो रोमकूपेभ्यस्तथा स्वेदमलोद्भवाः; अयने ऋतवो मासार्धमासाः पक्षसन्धयः।

Verse 60

वत्सरा ये त्वहोरात्राः पित्तं ज्योतिश्च दारुणम् / रौद्रं लोहितमित्याहुर्लोहितं कनकं स्मृतम्

वत्सराः ये त्वहोरात्राः पित्तं ज्योतिश्च दारुणम्; रौद्रं लोहितमित्याहुर्लोहितं कनकं स्मृतम्।

Verse 61

तत्तैजसमिति प्रोक्तं धूमाश्च पशवः स्मृताः / ये ऽर्चिषस्तस्य ते रुद्रास्तथादित्याः समृद्गताः

तत्तैजसमिति प्रोक्तं धूमाश्च पशवः स्मृताः; येऽर्चिषस्तस्य ते रुद्रास्तथादित्याः समृद्धगताः।

Verse 62

अङ्गारेभ्यः समुत्पन्ना अर्चिषो दिव्यमानुषाः / आदिभूतो ऽस्य लोकस्य ब्रह्मा त्वं ब्रह्मसंभवः

अङ्गारेभ्यः समुत्पन्ना अर्चिषो दिव्यमानुषाः; आदिभूतोऽस्य लोकस्य ब्रह्मा त्वं ब्रह्मसंभवः।

Verse 63

सर्वकामदमित्याहुस्तथा वाक्यमुदाहरन् / ब्रह्मा सुरगुरुस्तत्र त्रिदशैः संप्रसादितः

सर्वकामदं इति ते प्राहुः, तथा वाक्यमुदाहरन्। तत्र त्रिदशैः संप्रसादितो ब्रह्मा सुरगुरुरभवत्॥

Verse 64

इमेवै जनयिष्यन्ति प्रजाः सर्वाः प्रचेश्वराः / सर्वे प्रजानां पतयः सर्वे चापि तपस्विनः

इमे एव प्रचेश्वराः सर्वाः प्रजाः जनयिष्यन्ति। सर्वे प्रजानां पतयः, सर्वे च तपस्विनोऽपि॥

Verse 65

त्वत्प्रसादादिमांल्लोकान्धारयेयुरिमाः क्रियाः / त्वद्वंशवर्द्धनाः शश्वत्तव तेजोविवर्द्धनाः

त्वत्प्रसादादिमान् लोकान् धारयेयुरिमाः क्रियाः। त्वद्वंशवर्द्धनाः शश्वत्, तव तेजोविवर्द्धनाः॥

Verse 66

भवेयुर्वेदविद्वांसः सर्वे वाक्पतयस्तथा / वेदमन्त्रधराः सर्वे प्रजापतिसमुद्भवाः

भवेयुर्वेदविद्वांसः सर्वे वाक्पतयस्तथा। वेदमन्त्रधराः सर्वे, प्रजापतिसमुद्भवाः॥

Verse 67

श्रयन्तु ब्रह्मसत्यं तु तपश्च परमं भुवि / सर्वे हि वयमेते च तवैव प्रसवः प्रभो

श्रयन्तु ब्रह्मसत्यं तु तपश्च परमं भुवि। सर्वे हि वयमेते च तवैव प्रसवः प्रभो॥

Verse 68

ब्रह्म च ब्रह्माणाश्चैव लोकश्चैव चराचराः / मरीचिमादितः कृत्वा देवाश्च ऋषिभिः सह

ब्रह्म च ब्रह्माणाश्चैव लोकश्चैव चराचराः। मरीचिमादितः कृत्वा देवाश्च ऋषिभिः सह॥

Verse 69

अपत्यानीति संचिन्त्य ते ऽपत्ये कामयामहे / तस्मिन् यज्ञे महाभागा देवाश्च ऋषयश्च ये

अपत्यानीति संचिन्त्य तेऽपत्ये कामयामहे। तस्मिन् यज्ञे महाभागा देवाश्च ऋषयश्च ये॥

Verse 70

एते त्वद्वंशसंभूताः स्थानकालाभिमानिनः / तव तेनैव रूपेण स्थापयेयुरिमाः प्रजाः

एते त्वद्वंशसंभूताः स्थानकालाभिमानिनः। तव तेनैव रूपेण स्थापयेयुरिमाः प्रजाः॥

Verse 71

युगादिनिधनाश्चापि स्थापयन्तु इति द्विजाः / ततो ऽब्रवील्लोकगुरुः परमित्यभिधार यन्

युगादिनिधनाश्चापि स्थापयन्तु इति द्विजाः। ततोऽब्रवील्लोकगुरुः परमित्यभिधार यन्॥

Verse 72

एतदेव विनिश्चित्य मया सृष्टा न संशयः / भवतां वंशसंभूताः पुनरेते महर्षयः

एतदेव विनिश्चित्य मया सृष्टा न संशयः। भवतां वंशसंभूताः पुनरेते महर्षयः॥

Verse 73

तेषां भृगोः कीर्त्तयिष्ये वंशं पूर्वं महात्मनः / विस्तरेणानुपूर्व्या च प्रथमस्य प्रजापतेः

तेषां भृगोर्महात्मनः पूर्वं वंशं कीर्त्तयिष्ये, प्रथमस्य प्रजापतेर्विस्तरेणानुपूर्व्याश्च।

Verse 74

भार्ये भृगोरप्रतिमे उत्तमाभिजने शुभे / हिरण्यकशिपो कन्या दिव्या नाम परिश्रुता

भृगोर्भार्या अप्रतिमा शुभा उत्तमाभिजना; हिरण्यकशिपोः कन्या ‘दिव्या’ नाम परिश्रुता।

Verse 75

पुलोम्नश्चव पौलोमी दुहिता वरवर्णिनी / भृगोस्त्वजनयद्दिव्या पुत्रं ब्रह्मविदां वरम्

पुलोम्नश्च पौलोमी दुहिता वरवर्णिनी; भृगोस्तु दिव्या जनयामास पुत्रं ब्रह्मविदां वरम्।

Verse 76

देवासुराणामाचार्यं शुक्रं कविवरं ग्रहम् / शुक्र एवोशना नित्यमतः काव्यो ऽपि नामतः

देवासुराणामाचार्यं शुक्रं कविवरं ग्रहम्; शुक्र एवोशना नित्यं, अतः काव्योऽपि नामतः।

Verse 77

पितॄणां मानसी कन्या सोमपानां यशस्विनी / शुक्रस्य भार्या गौर्नाम विजज्ञे चतुरः सुतान्

पितॄणां मानसी कन्या सोमपानां यशस्विनी; शुक्रस्य भार्या गौर्नाम विजज्ञे चतुरः सुतान्।

Verse 78

त्वष्टा चैव वरत्री च शण्डामकारै च तावुभौ / तेजसादित्यसंकाशा ब्रह्मकल्पाः प्रभावतः

त्वष्टा च वरत्री च तथा शण्डामकारौ च तावुभौ । तेजसा आदित्यसंकाशौ प्रभावतो ब्रह्मकल्पौ ॥

Verse 79

रजतः पृथुरश्मिश्च विद्वान्यश्च बृहङ्गिराः / वरत्रिणः सुता ह्येते ब्रह्मिष्ठा दैत्ययाजकाः

रजतः पृथुरश्मिश्च विद्वान्यश्च बृहङ्गिराः । वरत्रिणः सुता ह्येते ब्रह्मिष्ठा दैत्ययाजकाः ॥

Verse 80

इज्याधर्मविनाशार्थं मनुमेत्याभ्ययाजयन् / निरस्यमानं वै धर्मं दृष्ट्वेन्द्रो मनुमाब्रवीत्

इज्याधर्मविनाशार्थं मनुमेत्याभ्ययाजयन् । निरस्यमानं वै धर्मं दृष्ट्वेन्द्रो मनुमब्रवीत् ॥

Verse 81

एतैरेव तु कामं त्वां प्रापयिष्यामि याजनम् / श्रुत्वेन्द्रस्य तु तद्वाक्यं तस्माद्देशादपाक्रमन्

एतैरेव तु कामं त्वां प्रापयिष्यामि याजनम् । श्रुत्वेन्द्रस्य तु तद्वाक्यं तस्माद्देशादपाक्रमन् ॥

Verse 82

तिरोभूतेषु तेष्विन्द्रो मनुपत्नीमचेतनाम् / ग्रहेण मोचयित्वा च ततश्चानुससार ताम्

तिरोभूतेषु तेष्विन्द्रो मनुपत्नीमचेतनाम् । ग्रहेण मोचयित्वा च ततश्चानुससार ताम् ॥

Verse 83

तत इन्द्रविनाशाय यतमानान्मुनींस्तु तान् / तानागतान्पुनर्दृष्ट्वा दुष्टानिन्द्रो विहस्य तु

ततः इन्द्रविनाशाय यतमानान् मुनीन् तान् पुनरागतान् दृष्ट्वा दुष्ट इन्द्रो विहस्य तु।

Verse 84

ततस्ता नदहत्क्रुद्धो वेद्यर्द्धे दक्षिणे ततः / तेषां तु धृष्यमाणानां तत्र शालावृकैः सह

ततः क्रुद्धोऽग्निर्वेद्यर्धे दक्षिणे तान् अदहत्; तत्र शालावृकैः सह तेषां धृष्यमाणानाम्।

Verse 85

शीर्षाणि न्यपतंस्तानि खर्जूरा ह्यभवंस्ततः / एवं वरत्रिणः पुत्रा इन्द्रेण निहताः पुरा

तानि शीर्षाणि न्यपतन्; ततः खर्जूरा अभवन्। एवं वरत्रिणः पुत्रा इन्द्रेण पुरा निहताः।

Verse 86

जयन्त्यां देवयानी तु शुक्रस्य दुहिताभवत् / त्रिशिरा विश्वरूपस्तु त्वष्टुः पुत्रो ऽभवन्महान्

जयन्त्यां देवयानी शुक्रस्य दुहिता अभवत्; त्रिशिरा विश्वरूपस्तु त्वष्टुः पुत्रो महान् अभवत्।

Verse 87

यशोधरायामुत्पन्नो वैरोचन्यां महायशाः / विश्वरूपानुजश्चैव विश्वकर्मा च यः स्मृतः

यशोधरायामुत्पन्नो वैरोचन्यां महायशाः; विश्वरूपानुजश्चैव विश्वकर्मा च यः स्मृतः।

Verse 88

भृगोस्तु भृगवो देवा जज्ञिरे द्वादशात्मजाः / दिव्यानुसुषुवे कन्या काव्यस्यैवानुजा प्रभोः

भृगोः सन्तानात् भृगवो नाम देवा द्वादशात्मजाः समजायन्त। प्रभोः काव्यस्यैव अनुजा दिव्या कन्या अपि प्रसूता।

Verse 89

भुवनोभावनश्चैव अन्त्यश्चान्त्यायनस्तथा / क्रतुः शुचिः स्वमूर्द्धा च व्याजश्च वसुदश्च यः

भुवनोभावनः चैव अन्त्यः च अन्त्यायनस्तथा। क्रतुः शुचिः स्वमूर्द्धा च व्याजः वसुदश्च इति।

Verse 90

प्रभवश्चाव्ययश्चैव द्वादशो ऽधिपतिः स्मृतः / इत्येते भृगवो देवाः स्मृता द्वादश यज्ञियाः

प्रभवः च अव्ययः चैव द्वादशोऽधिपतिः स्मृतः। इत्येते भृगवो देवाः स्मृता द्वादश यज्ञियाः।

Verse 91

पौलोम्यजनयत्पुत्रं ब्रह्मिष्ठं वशिनं द्विजम् / व्यादितः सो ऽष्टमे मासिगर्भः क्रूरेण रक्षसा

पौलोमी ब्रह्मिष्ठं वशिनं द्विजं पुत्रं अजनयत्। सः गर्भः अष्टमे मासि क्रूरेण रक्षसा व्यादितः।

Verse 92

च्यवनाच्च्यवनः सो ऽथ चेतनात्तु प्रचेतनः / प्रचेताः श्च्यवनः क्रोधाद्दग्धवान्पुरुषादकान्

च्यवनात् सः च्यवनः इति, चेतनात् तु प्रचेतनः। प्रचेताः च्यवनः क्रोधात् पुरुषादकान् दग्धवान्।

Verse 93

जनयामास पुत्रौ द्वौ सुकन्यायां सभार्गवः / आप्रवानं दधीचं च तावुभौ साधुसंमतौ

स भार्गवः सुकन्यायां पुत्रौ द्वौ जनयामास—आप्रवानं दधीचं च; तावुभौ साधुभिः संमतौ।

Verse 94

सारस्वतः सरस्वत्यां दधीचस्योदपद्यत / ऋची पत्नी महाभागा अप्रवानस्य नाहुषी

दधीचस्य सरस्वत्यां सारस्वतः पुत्र उदपद्यत; अप्रवानस्य तु महाभागा पत्नी ऋची नाहुषी।

Verse 95

तस्यामौर्व ऋषिर्जज्ञे ऊरुं भित्तवा महायशाः / और्वस्यासीदृचीकस्तु दीप्तो ऽग्निसमतेजसा

तस्यां महायशा और्व ऋषिर्जज्ञे ऊरुं भित्त्वा; और्वस्य तु ऋचीकः पुत्रोऽभूदग्निसमतेजसा दीप्तः।

Verse 96

जमदग्निरृचीकस्य सत्यवत्यामजायत / भृगोश्चरुविपर्यासे रौद्रवैष्णवयौः पुरा

ऋचीकस्य सत्यवत्यां जमदग्निरजायत; भृगोश्चरुविपर्यासे पुरा रौद्रवैष्णवयोः।

Verse 97

जमनाद्वैष्मवस्याग्नेर्जमदग्निरजायत / रेणुकाजमदग्नेश्च शक्रतुल्यपराक्रमम्

जमनाद्वैष्णवस्याग्नेर्जमदग्निरजायत; रेणुकाजमदग्नेस्तु शक्रतुल्यपराक्रमः (पुत्रोऽजायत)।

Verse 98

ब्रह्मक्षत्रमयं रामं सुषुवे ऽमिततेजसम् / ओर्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम्

ओर्वस्याः सुषुवे रामं ब्रह्मक्षत्रमयं महातेजसममिततेजसम्। तस्याश्च पुत्रशतं जातं जमदग्निपुरोगमम्॥

Verse 99

तेषां पुत्र सहस्राणि भार्गवाणां परस्परात् / ऋष्यतरेषु वै बाह्या बहवो भार्गवाः स्मृताः

तेषां भार्गवाणां परस्परात् पुत्रसहस्राणि बभूवुः। ऋष्यतरेषु वै बाह्या बहवो भार्गवाः स्मृताः॥

Verse 100

वत्सा विदा आर्ष्टिषेणा यस्का वैन्याश्च शौनकाः / मित्रेयुः सप्तमा ह्येते पक्षा ज्ञेयास्तु भार्गवाः

वत्सा विदा आर্ষ्टिषेणाः यस्का वैन्याश्च शौनकाः। मित्रेयुः सप्तमा ह्येते पक्षाः ज्ञेयास्तु भार्गवाः॥

Verse 101

शृणुताङ्गिरसो वंशमग्नेः पुत्रस्य धीमतः / यस्यान्ववाये संभूता भारद्वाजाः सगौतमाः

शृणुताङ्गिरसो वंशमग्नेः पुत्रस्य धीमतः। यस्यान्ववाये संभूताः भारद्वाजाः सगौतमाः॥

Verse 102

देवाश्चाङ्गिरसो मुख्यास्त्त्विषिमन्तो महौजसः / सुरूपा चैव मारीची कार्दमी च तथा स्वराट्

देवाश्चाङ्गिरसो मुख्यास्त्विषिमन्तो महौजसः। सुरूपा चैव मारीची कार्दमी च तथा स्वराट्॥

Verse 103

पथ्या च मानवी कन्या तिस्रो भार्या ह्यथर्वणः / अथर्वणस्तु दायादास्तासु जाताः कुलोद्वहाः

पथ्या च मानवी कन्या अथर्वणो हि तिस्रो भार्याः। तासु जाताः अथर्वणो दायादाः कुलोद्वहाः॥

Verse 104

उत्पन्ना महता चैव तपसा भावितात्मनः / बृहस्पतिं सुरूपायां गौतमं सुषुवे स्वराट्

महता तपसा भावितात्मनः स्वराटः उत्पन्ना। सुरूपायां बृहस्पतिं, गौतमं च सुषुवे॥

Verse 105

अयास्यं वामदेवं च उतथ्यमुशितिं तथा / धृष्णिः पुत्रस्तु पथ्यायाः संवर्त्तश्चैव मानसः

अयास्यं वामदेवं च उतथ्यं उशितिं तथा। धृष्णिः पथ्यायाः पुत्रः, मानसः संवर्त्तश्च॥

Verse 106

कितवश्चाप्ययास्यस्य शरद्वांश्चप्युतथ्यजः / अथोशिजो दीर्घतमा बृहदुक्थो वामदेवजः

कितवश्च अयास्यस्य, शरद्वांश्च उतथ्यजः। अथोशिजो दीर्घतमा, बृहदुक्थो वामदेवजः॥

Verse 107

धृष्णेः पुत्रः सुधन्वा तु ऋषभश्च सुधन्वनः / रथकाराः स्मृता देवा ऋभवो ये परिश्रुताः

धृष्णेः पुत्रः सुधन्वा तु, ऋषभश्च सुधन्वनः। ऋभवो ये परिश्रुताः, देवाः रथकाराः स्मृताः॥

Verse 108

बृहस्पतेर्भरद्वाजो विश्रुतः सुमहायशाः / बृहस्पतिं सुरूपायां गौतमं सुषुवे स्वराट्

बृहस्पतेः भरद्वाजो नाम विश्रुतः सुमहायशाः। सुरूपायां गौतमं च बृहस्पतिं च स्वराट् सुषुवे॥

Verse 109

औरसांगिरसः पुत्राः सुरूपायां विजज्ञिरे / आधार्यायुर्द्दनुर्दक्षो दमः प्राणस्त थैव च

औरसाः आङ्गिरसाः पुत्राः सुरूपायां विजज्ञिरे। आधार्यायुः दनुः दक्षो दमः प्राणस्तथैव च॥

Verse 110

हविष्यांश्च हविष्णुश्च ऋतः सत्यश्च ते दश / अयास्याश्चप्युतथ्याश्च वामदेवास्तथौशिजाः

हविष्यांश्च हविष्णुश्च ऋतः सत्यश्च ते दश। अयास्याश्चाप्युतथ्याश्च वामदेवास्तथौशिजाः॥

Verse 111

भारद्वाजाः सांकृतयो गर्गाः कण्वरथीतराः / मुद्गला विष्णुवृद्धाश्च हरिताः कपयस्तथा

भारद्वाजाः सांकृतयो गर्गाः कण्वरथीतराः। मुद्गला विष्णुवृद्धाश्च हरिताः कपयस्तथा॥

Verse 112

तथा रूक्षभरद्वाजा आर्षभाः कितवस्तथा / एते चाङ्गिरसां पक्षा विज्ञेया दश पञ्च च

तथा रूक्षभरद्वाजा आर्षभाः कितवस्तथा। एते चाङ्गिरसां पक्षा विज्ञेया दश पञ्च च॥

Verse 113

ऋष्यन्तरेषु वै बाह्या बहवोङ्गिरसः स्मृताः / मरीचेरपि वक्ष्यामि भेद मुत्तमपूरुषम्

ऋष्यन्तरेषु वै बाह्या बहवोऽङ्गिरसः स्मृताः। मरीचेः अपि वक्ष्यामि भेदं उत्तमपूरुषम्॥

Verse 114

यस्यान्ववाये संभूतं जगत्स्थावरजङ्गमम् / मरीचिरापश्चकमे नाभिध्यायन्प्रजेप्सया

यस्यान्ववाये सम्भूतं जगत् स्थावरजङ्गमम्। मरीचिरापश्चकमे नाभिध्यायन् प्रजेप्सया॥

Verse 115

पुत्रः सर्वगुणोपेतः प्रजावान्प्रभवेदिति / संयुज्यात्मानमेवन्तु तपसा भावितः प्रभुः

पुत्रः सर्वगुणोपेतः प्रजावान् प्रभवेदिति। संयुज्यात्मानमेवान्तु तपसा भावितः प्रभुः॥

Verse 116

आहताश्च ततः सर्वा आपः समभवंस्तदा / तासु प्रणिहितात्मानमेकं सो ऽजनयत्प्रभुः

आहताश्च ततः सर्वा आपः समभवन् तदा। तासु प्रणिहितात्मानम् एकं सोऽजनयत् प्रभुः॥

Verse 117

पुत्रमप्रतिमं नाम्नारिष्टनेमिं प्रजापतिम् / पुत्रं मरीचिस्तपसि निरतः सो ऽप्स्वतीतपत्

पुत्रमप्रतिमं नाम्ना अरिष्टनेमिं प्रजापतिम्। पुत्रं मरीचिस्तपसि निरतः सोऽप्स्वतीतपत्॥

Verse 118

प्रध्याय हि सतीं वाचं पुत्रार्थी सरिरे स्थितः / सप्तवर्षसहस्राणि ततः सो ऽप्रतिमो ऽभवत्

स पुत्रार्थी शरीरे स्थितः सतीं वाचं प्रध्यायन् सप्तवर्षसहस्राणि तपसा स्थित्वा ततः अप्रतिमोऽभवत्।

Verse 119

कश्यपः सवितुर्विद्वांस्तेजसा ब्रह्मणा समः / मन्वन्तरेषु सर्वेषु ब्रह्मणोंऽशेन जायते

कश्यपः सवितुः विद्वान् तेजसा ब्रह्मणा समः; सर्वेषु मन्वन्तरेषु ब्रह्मणोऽंशेन जायते।

Verse 120

कन्यानिमित्तमत्युक्तो दक्षेण कुपितः प्रभुः / अपिबत्स तदा कश्यं कश्यं मद्यमिहोच्यते

कन्यानिमित्तम् अत्युक्तो दक्षेण कुपितः प्रभुः; तदा कश्यं अपिबत्—कश्यं नामेह मद्यमुच्यते।

Verse 121

हास्ये कशिर्हि विज्ञेयो वाङ्मनः कश्यमुच्यते / कश्यं मद्यं स्मृतं विप्रैः कश्यपानां तु कश्यपः

हास्ये ‘कशिः’ इति विज्ञेयः, वाङ्मनः ‘कश्यम्’ उच्यते; ‘कश्यं’ मद्यं स्मृतं विप्रैः, कश्यपानां तु कश्यपः।

Verse 122

कशेति नाम यद्वाचो वाचा क्रूरमुदात्दृतम् / दक्षाभिशप्तः कुपितः कश्यपस्तेन सो ऽभवत्

‘कशे’ति नाम यद्वाचो वाचा क्रूरम् उदात्तधृतम्; दक्षाभिशप्तः कुपितः कश्यपस्तेन सोऽभवत्।

Verse 123

तस्माच्च कश्यपायोक्तो ब्रह्मणा परमेष्ठिना / तस्मै प्राचेतसो दक्षः कन्यास्ताः प्रत्यपादयत्

तस्माच्च परमेष्ठिना ब्रह्मणा कश्यपायोक्ते, प्राचेतसो दक्षः तस्मै ताः कन्याः सम्यक् प्रत्यपादयत्।

Verse 124

सर्वाश्च ब्रह्मवादिन्यः सर्वा वै लोकमातरः / इत्येतमृषिसर्गं तु पुण्यं यो वेद वारुणम्

सर्वाश्च ब्रह्मवादिन्यः सर्वा एव लोकमातरः; एतं वारुणं पुण्यमृषिसर्गं यो वेद स धन्यः।

Verse 125

आयुष्मान्पुण्यवाञ्छुद्धः सुखमाप्नोति शाश्वतम् / धारणाच्छ्रवणाद्वापि सर्वपापैः प्रमुच्यते

आयुष्मान् पुण्यवान् शुद्धः शाश्वतं सुखमाप्नोति; धारणात् श्रवणाद्वापि स सर्वपापैः प्रमुच्यते।

Frequently Asked Questions

The Vaivasvata manvantara is foregrounded; it functions as the ‘present’ cosmic administration in many Purāṇic accounts, allowing the text to anchor re-creation, sage reappearance, and lineage continuity in a familiar temporal frame.

It treats ‘mind-born’ (mānasāḥ) as the mode of origination while ‘sonship’ is an appointed genealogical status (putratve kalpitāḥ) granted by Svayambhū to authorize them as progenitors and transmitters of creation-order across manvantaras.

It supplies (1) temporal indexing (yuga/manvantara context), (2) entity registers (classes of beings and named progenitors like Dakṣa, Bhṛgu), and (3) causal motifs (curse → reappearance) that link cyclic cosmology to genealogical recurrence.