ॐ अथ नित्यो नारायणः। ब्रह्मा नारायणः। शिवश्च नारायणः। शक्रश्च नारायणः। द्यावापृथिव्यौ च नारायणः। कालश्च नारायणः। दिशश्च नारायणः। ऊर्ध्वश्च नारायणः। अधश्च नारायणः। अन्तर्बहिश्च नारायणः। नारायण एवेदं सर्वं यद्भूतं यच्च भव्यम्। निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणः। न द्वितीयोऽस्ति कश्चित्। य एवं वेद। स विष्णुरेव भवति स विष्णुरेव भवति॥ (एतद् यजुर्वेदशिरोऽधीते)॥२॥
ॐ । अथ । नित्यः । नारायणः । ब्रह्मा । नारायणः । शिवः । च । नारायणः । शक्रः । च । नारायणः । द्यावापृथिव्यौ । च । नारायणः । कालः । च । नारायणः । दिशः । च । नारायणः । ऊर्ध्वः । च । नारायणः । अधः । च । नारायणः । अन्तर्-बहिः । च । नारायणः । नारायणः । एव । इदम् । सर्वम् । यत् । भूतम् । यत् । च । भव्यम् । निष्कलः । निरञ्जनः । निर्विकल्पः । निराख्यातः । शुद्धः । देवः । एकः । नारायणः । न । द्वितीयः । अस्ति । कश्चित् । यः । एवम् । वेद । सः । विष्णुः । एव । भवति । सः । विष्णुः । एव । भवति ॥
oṃ atha nityo nārāyaṇaḥ | brahmā nārāyaṇaḥ | śivaś ca nārāyaṇaḥ | śakraś ca nārāyaṇaḥ | dyāvāpṛthivī ca nārāyaṇaḥ | kālaś ca nārāyaṇaḥ | diśaś ca nārāyaṇaḥ | ūrdhvaś ca nārāyaṇaḥ | adhaś ca nārāyaṇaḥ | antar-bahiś ca nārāyaṇaḥ | nārāyaṇa evedaṃ sarvaṃ yad bhūtaṃ yac ca bhavyam | niṣkalo nirañjano nirvikalpo nirākhyātaḥ śuddho deva eko nārāyaṇaḥ | na dvitīyo 'sti kaścit | ya evaṃ veda | sa viṣṇur eva bhavati sa viṣṇur eva bhavati || (etad yajurvedaśiro 'dhīte) ||2||
Om. Teraz, Narajana jest wieczny. Brahma jest Narajana; Siwa też jest Narajana; Śakra też jest Narajana. Niebo i ziemia są Narajana; czas też jest Narajana; kierunki też są Narajana; to, co jest powyżej, jest Narajana; to, co jest poniżej, jest Narajana; to, co jest wewnątrz i na zewnątrz, jest Narajana. Sama Narajana jest tym wszystkim - cokolwiek było i cokolwiek ma być. Bezczęściowa, nieskazitelna, wolna od konceptualnych alternatyw, nieopisywalna, czysta - jedyna boska Narajana. Nie ma żadnej drugiej bynajmniej. Kto tak poznaje - ten staje się samym Wisznu; ten staje się samym Wisznu. (To jest recytowane jako "głowa" Jadżurwedy.)
Om. Now, Nārāyaṇa is eternal. Brahmā is Nārāyaṇa; Śiva too is Nārāyaṇa; Śakra (Indra) too is Nārāyaṇa. Heaven-and-earth are Nārāyaṇa; time too is Nārāyaṇa; the directions too are Nārāyaṇa; what is above is Nārāyaṇa; what is below is Nārāyaṇa; what is within and without is Nārāyaṇa. Nārāyaṇa alone is all this—whatever has been and whatever is to be. Partless, stainless, free from conceptual alternatives, indescribable, pure—the one divine Nārāyaṇa. There is no second whatsoever. Whoever thus knows—he becomes Viṣṇu alone; he becomes Viṣṇu alone. (This is recited as the ‘head’ of the Yajurveda.)
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free sign-in with Google or Apple keeps your chat saved across web and the app.