Adhyaya 272
Nagara KhandaTirtha MahatmyaAdhyaya 272

Adhyaya 272

本章は問答形式の伝承として構成される。賢仙たちは、先にイーシャーナ(Īśāna)とある王に関連して語られた「一日」の尺度を問い、スータ(Sūta)は、知覚し得る最小の時間単位から、昼夜・月・季節・アヤナ(ayana)・年に至るまで、時間の単位体系を段階的に説き明かす。 続いて暦の計量からユガ論へ移り、クリタ、トレーター、ドヴァーパラ、カリの四ユガを、道徳的比率(ダルマとパーパ)、社会倫理の状況、そしてそれに伴う祭式文化(供犠の盛衰と天界の果報)によって特徴づける。カリ・ユガは、貪欲と敵意、学識と行いの衰微、欠乏の徴、人生の段階の乱れなど、倫理的・社会的混乱の列挙として描かれる。 終盤では、未来にクリタ・ユガが再来するという循環の主題が示され、さらにこれらの尺度が梵天(ブラフマー)の一日・一年へと結び付けられ、シヴァ–シャクティの宇宙論的象徴によって大きく展開される。奥書は、本章が『ナーガラ・カーンダ』の「ハータケーシュヴァラ聖域讃(Hāṭakeśvara-kṣetra-māhātmya)」に属し、章名を「ユガスヴァルーパ・ヴァルナナ(Yugasvarūpavarṇana)」とすることを告げる。

Shlokas

Verse 1

ऋषय ऊचुः । यदेतद्भवता प्रोक्तमीशानस्य महीपतेः । ईश्वरेण पुरा दत्तमायुर्यावत्स्ववासरम्

仙人たちは言った。「あなたが語ったイーシャーナ—威徳ある統御者—について、すなわち昔イーシュヴァラが彼に授けた寿命が、その自らの『一日』の量に及ぶということ…どうかさらにお聞かせください。」

Verse 2

किंप्रमाणं भवेत्तस्य दिवसस्य ब्रवीहि नः । सूत उवाच । अहं वः कीर्तयिष्यामि प्रमाणं दिवसस्य तु

「その『一日』の尺度はいかほどか、我らに告げよ。」スータは言った。「汝らに一日の真の尺度を宣説しよう。」

Verse 3

माहेश्वरस्य विप्रेन्द्राः श्रूयतां गदतः स्फुटम् । निमेषस्य चतुर्भागस्त्रुटिः स्यात्तद्द्वयं लवः

おお最勝のバラモンたちよ、我が明らかに説くマヘーシュヴァラの時の尺度を聴け。truṭiはnimeṣaの四分の一、truṭi二つでlava一つとなる。

Verse 4

लवद्वयं यवः प्रोक्तः काष्ठा ते दश पंच च । त्रिंशत्काष्ठाः कलामाहुः क्षणस्त्रिंशत्कलो मतः

lava二つをyava一つといい、そのyava十五でkāṣṭhā一つとなる。kāṣṭhā三十をkalāと呼び、kṣaṇaはkalā三十と定められる。

Verse 5

क्षणैः षष्ट्या पलं प्रोक्तं षष्ट्या तेषां च नाडिका । नाडिकाद्वितयेनैव मुहूर्तं परिकीर्तितम्

kṣaṇa六十をpala一つといい、そのpala六十でnāḍikā一つとなる。nāḍikā二つによってmuhūrta一つと定義される。

Verse 6

त्रिंशन्मुहूर्त्तमुद्दिष्टमहोरात्रं मनीषिभिः । मासस्त्रिंशदहोरात्रैद्वौ द्वौ मासावृतुं विदुः

賢者たちは、昼夜(ahorātra)はmuhūrta三十から成ると説く。月はその昼夜三十と数え、二か月ごとに季節(ṛtu)と知られる。

Verse 7

ऋतुत्रयं चाप्ययनमयने द्वे तु वत्सरम् । मानुषाणां हि सर्वेषां स एव परिकीर्तितः

三つの季節がアヤナ(半年)となり、二つのアヤナが一年を成す。これこそ、すべての人間に告げられた時の数え方である。

Verse 8

स देवानामहोरात्रं पुराणज्ञाः प्रचक्षते । अयनं चोत्तरं शुक्लं यद्देवानां दिनं च तत् । यद्दक्षिणं तु सा रात्रिः शुभकर्मविगर्हिता

この年の巡りを、プラーナに通じた者たちは「神々の昼夜」と説く。光明なる北行ウッタラーヤナは神々の昼であり、南行ダクシナーヤナは神々の夜で、吉事の営みに不向きとされる。

Verse 9

यथा सुप्तो न गृह्णाति किंचिद्भोगादिकं नरः । तथा देवाश्च यज्ञांशान्न गृह्णन्ति कथं चन

眠れる人がいかなる享楽や感官の対象も真に受け取らぬように、しかるべき条件(覚知・相応)が欠けるとき、神々もまたいかなる形でも供犠の分け前を受納しない。

Verse 10

अनेनैव तु मानेन मानवेन द्विजोत्तमाः । लक्षैः सप्तदशाख्यैस्तु वत्सराणां प्रकीर्तितम्

この人間の尺度によってこそ、ああ最勝の二度生まれ(ドヴィジャ)たちよ、年数は十七ラクと宣言される。

Verse 11

अष्टाविंशत्सहस्रैस्तु वत्सराणां कृतं युगम् । तस्मिञ्छ्वेतोऽभवद्विष्णुर्भगवान्यो जगद्गुरुः

クリタ・ユガは二万八千年より成る。その時代、ヴィシュヌ—バガヴァーン、世界の師—は白く輝く御姿として現れた。

Verse 12

लोकाः पापविनिर्मुक्ताः शांता दांता जितेन्द्रियाः । दीर्घायुषस्तथा सर्वे सदैव तपसि स्थिताः

人々は罪より解き放たれ、安らかで自制し、諸根(感官)を制する者であった。皆が長寿で、常に苦行(タパス)に安住していた。

Verse 13

यो यथा जन्म चाप्नोति तथा स म्रियते नरः । न पुत्रसंभवो मृत्युर्वीक्ष्यते जनकैः क्वचित्

人は生まれたあり方のままに死ぬ。しかも父母の見聞によれば、出産によって死が起こることは決してない(産褥死はない)。

Verse 14

कामः क्रोधस्तथा लोभो दंभो मत्सर एव च । न जायते नृणां तत्र युगे तु द्विजसत्तमाः

欲望・怒り・貪り・偽り(驕慢)・嫉みは、そのユガにおいて人々のうちに生じなかった。おお、最勝の二度生まれよ。

Verse 15

ततस्त्रेतायुगं भावि द्वितीयं मुनिसत्तमाः । पादेनैकेन पापं तु रौद्रं धर्मे तदाविशत्

次いで第二の時代、トレーター・ユガが到来した。おお最勝の聖仙たちよ。その時、四分の一ほど、猛き罪がダルマのうちに入り込んだ。

Verse 16

ततो रक्तत्वमभ्येति भगवान्मधुसूदनः । पापांशेऽपि च संप्राप्ते सस्पर्द्धो जायते जनः

その後、バガヴァーン・マドゥスーダナは赤く輝く相を現す。罪の分がたとえわずかでも現れると、人々は競争と敵対の心を伴って生まれる。

Verse 17

स्वर्गमार्गकृते सर्वे चक्रुर्यज्ञांस्ततः परम् । अग्निष्टोमादिकांस्तत्र बहुहोमादिकांस्तथा

その後、天界への道を求めて、人々は皆、祭祀を修した――アグニシュトーマ(Agniṣṭoma)をはじめ諸々の儀礼をその地で行い、さらに多くの火供(ホーマ)をも執り行った。

Verse 19

देवलोकांस्ततो यांति मूलाद्यावच्चतुर्दश । ब्रह्मलोकस्य पर्यंतं स्वकीयैर्य ज्ञकर्मभिः

自らの祭祀の業によって、彼らは次第に神々の世界へと赴く――下なる根基より上へ、十四の界を巡り――ついにはブラフマローカ(梵天界)にまで到達する。

Verse 20

जनके विद्यमाने च स्व ल्पदोषाः प्रकीर्तिताः । कामक्रोधादयो ये च भवंति न भवंति च

かくのごとき「民の父」たる王が在すとき、語られるのは些細な過ちのみ。欲と怒りに始まる諸々の悪徳は、たとえ起こり得ても、真に根を下ろすことはない。

Verse 21

एकया वेलया तत्र वापितं सस्यमुत्तमम् । सप्तवारान्प्रगृह्णंति वैश्याः कृषिपरायणाः

そこでは、一季に播かれた最上の作物が七度も収穫される。農に専心するヴァイシャ(Vaiśya)たちは、それを幾度となく刈り取り集める。

Verse 22

सर्वा घटस्रवा गावो महिष्यश्च चतुर्गुणाः । प्रयच्छंति तथा क्षीरमुष्ट्र्यस्तासां चतुर्गुणम्

すべての牛は壺いっぱいの乳を与え、水牛はその四倍を与える。さらに雌ラクダは、水牛の乳のまた四倍をも湧き出させる。

Verse 23

अजाविकास्तथा पादं नार्यः सर्वास्तथैव च । वेदाध्ययनसंपन्नाः प्रतिग्रहविवर्जिताः । शापानुग्रहकृत्येषु समर्थाः संभवंति च

同様に、山羊と羊はその産物を満ち足りて与え、すべての女性もまたそのようである。ヴェーダの学修に具わり、贈り物を受け取ることを離れた人々は、呪詛と祝福の行いにもまた堪能となる。

Verse 24

क्षत्रियाः क्षात्रधर्मेण पालयंति वसुंधराम् । न तत्र दृश्यते चौरो न च जारः कथंचन । स्वधर्मनिरताः सर्वे वर्णाश्चैव व्यवस्थिताः

クシャトリヤたちは武人のダルマにより大地を守護する。そこには盗人は見えず、姦通の者もまったくいない。すべての者が自らの務めに励み、諸ヴァルナも正しく整えられている。

Verse 25

तच्च द्वादशभिर्लक्षैर्वत्सराणां प्रकीर्तितम् । षण्णवत्या सहस्रैस्तु द्वितीयं युगमुत्तमम्

その第一の時代は十二ラク(百二十万)の年に及ぶと宣言され、さらに九万六千年を加えて、第二のすぐれたユガが説き明かされる。

Verse 26

ततश्च द्वापरं भावि तृतीयं द्विजसत्तमाः । द्वौ पादौ तत्र पापस्य द्वौ च धर्मस्य संस्थितौ । भगवान्वासुदेवश्च कपिलस्तत्र जायते

その後に第三の時代、ドヴァーパラが来る。おお、二度生まれし者のうち最勝なる者よ。そこでは罪が二分を占め、ダルマもまた二分を保つ。その時代に主ヴァースデーヴァが誕生し、カピラもまた生まれる。

Verse 27

तच्चाष्टलक्षमानेन वत्सराणां प्रकीर्तितम् । चतुःषष्टिभिरन्यैस्तु सहस्राणां द्विजोत्तमाः

そのドヴァーパラ・ユガは八ラク(八十万)の年と宣言され、さらに六万四千年が加えられる。おお、二度生まれし者のうち最勝なる者よ。

Verse 28

कामः क्रोधस्तथा लोभो दंभो मत्सर एव च । षडेते तत्र जायंते ईर्ष्या चैव तु सप्तमी

欲望、怒り、貪り、偽り、そして嫉み——まことにこの六つがそこに生じ、さらに妬みが第七となる。

Verse 29

अथ संसेवितास्तैस्तु मानवाश्च परस्परम् । विरुद्धांश्च प्रकुर्वंति नाप्नुवंति यथा दिवम्

やがてそれらの悪徳に染められた人々は互いに背き合い、争いを作り出す。ゆえに、あるべきように天界に至ることができない。

Verse 30

केचित्तत्रापि जायंते शांता दांता जितेंद्रियाः । न सर्वेऽपि द्विजश्रेष्ठा यतोऽर्द्धं पातकस्य तु

その時代でさえ、心静かで自制し、諸根を制した者が生まれることもある。だが皆がそうではない——最勝の二度生まれの中にあっても——罪はなお半ば残るゆえである。

Verse 31

ततः कलियुगं प्रोक्तं चतुर्थं च सुदारुणम् । एकपादो वृषो यत्र पापं पादैस्त्रिभिः स्थितम्

その後に説かれるのが、第四の時代・きわめて苛烈なるカリ・ユガである。そこではダルマの牡牛は一脚のみに立ち、罪は三脚に据えられる。

Verse 32

कृष्णत्वं याति देवोऽपि तत्र चैव चतुर्भुजः । एक पादोऽपि धर्मस्य यावत्तावत्प्रवर्तते

そこでは、四臂の主でさえも暗き相を帯びる。そしてダルマに残るただ一つの「足」も、力の及ぶかぎりの間だけ保たれる。

Verse 33

पश्चान्नाशं समभ्येति यावत्तावच्छनैःशनैः । प्रमाणं तस्य निर्दिष्टं लक्षाश्चत्वार एव हि

その後、それは少しずつ、徐々に滅びへと向かっていく。その量は明確に、四ラクシャ(四十万)と説き示されている。

Verse 34

द्वात्रिंशच्च सहस्राणि युगस्यैवांतिमस्य च । कलिना तत्र संपृष्टा मर्त्याः सर्वे परस्परम्

さらに三万二千もまた、その最後のユガに属する。そこでは、すべての人間がカリに触れられ呑み込まれ、互いに苦しめ合う。

Verse 36

विबुधैस्ते प्रवर्तंते रागद्वेषपरायणाः । यस्ययस्य गृहे वित्तं तथा नार्यो मनोरमाः

彼らは「学識ある者」と呼ばれる者にさえ駆り立てられ、貪欲と憎悪に身を委ねる。どの家に財があれば、そこでもまた心を惑わす麗しい女が求められる。

Verse 37

लोकद्वयविनाशः स्याद्यतश्चेतो न शुध्यति । प्रावृट्कालेऽपि संप्राप्ते दुर्भिक्षेण प्रपीडिताः

心が清められぬゆえに、この世と彼岸の二つの世界に破滅が起こる。雨季が訪れても、人々は飢饉に苦しめられる。

Verse 38

भ्रमंति च कलौ लोका गगनासक्तदृष्टयः । जानाति चापि तनयः पिता चेन्निधनं व्रजेत्

カリの世では、人々は天を見上げたまま(心は散り乱れ定まらず)さまよい歩く。父が死へ赴くなら、子でさえ心中でそれを先取りして思い量る。

Verse 39

ततोहं गृहपो भूयां बांधवो ह्यपि बांधवम् । स्नुषापि वेत्ति चित्तेन यदि श्वश्रूः क्षयं व्रजेत्

そのとき人は「我こそ家の主となりたい」と思い、親族でさえ親族に対して策をめぐらす。嫁でさえ心中で知り、姑が逝くならと計らいを立てる。

Verse 40

मम स्याद्गृह ऐश्वर्यं तत्सर्वं नान्यथा व्रजेत् । काव्यैरुपहता वेदाः पुत्रा जामातृकैस्तथा

「家の繁栄は我がものとなれ、すべては他へ移らずこの身に帰せ」と願う。虚飾の詩才によってヴェーダは傷つけられ、息子たちもまた婿や世俗の縁に動かされる。

Verse 41

शालकैर्बांधवाश्चैव ह्यसतीभिः कुलस्त्रियः । शूद्रास्तपस्विनश्चैव शूद्रा धर्मस्य सूचकाः

カリの世には、名門の婦人は姻族や縁者に取り巻かれ、さらに不貞の者どもにも囲まれる。シュードラでさえ苦行者の姿を装い、シュードラが「ダルマ」と呼ばれるものを示し定める者となる。

Verse 42

ब्राह्मणानां ततः शूद्रा उपदेशं वदंति च । अल्पोदकास्तथा मेघा अल्पसस्या च मेदिनी

そののち、シュードラがブラーフマナにさえ教えを説く。雲はわずかな水しか運ばず、大地の実りも乏しくなる。

Verse 43

अल्पक्षीरास्तथा गावः क्षीरे सर्पिस्तथाऽल्पकम् । सर्वभक्षास्तथा विप्रा नृपा निष्करुणास्ततः । कृष्या लज्जंति वैश्याश्च शूद्रा ब्राह्मणप्रेषकाः

牛は乳をわずかしか出さず、乳から得られるギーもまた少ない。ブラーフマナは節度なく何でも食し、王は慈悲を失う。ヴァイシャは農を恥じ、シュードラがブラーフマナに命じて使い走らせる。

Verse 44

हेतुवादरता ये च भंडंविद्यापराश्च ये । तेते स्युर्भूमिपालस्य सदाऽभीष्टाः कलौ युगे

論争の理屈を好む者、また戯れの技芸と見せかけの学に執する者——そのような者どもは、カリ・ユガにおいて常に王たちの寵愛を受けるであろう。

Verse 45

श्वःश्वःपापीयदिवसाः पृथिवी गतयौवना । अतिक्रांत शुभाः कालाः पर्युपस्थितदारुणाः

日ごとに世はさらに罪深くなり、大地は若き力を失った。吉祥の時節は過ぎ去り、凄惨なる時節が近づいている。

Verse 46

यथायथा युगं भावि वृद्धिं यांति स्त्रियो नराः । तथातथा प्रयांति स्म लघुतां जंतुभिः सह

来たるべき時代が進むにつれ、女も男も世俗のありさまにおいて増し広がる。だがそれと同じほど、他の生きものと共に、軽薄さと卑小な心へと沈んでゆく。

Verse 47

द्वादशमे चैव कन्या स्याद्भर्तृसंयुता

十二歳にして、少女はすでに夫と結ばれているであろう。

Verse 48

ततः षोडशमे वर्षे नराः पलितयौवनाः । शौचाचारपरित्यक्ता निजकार्यपरास्तथा

さらに十六歳にして、男たちは若さのうちに老いの相を帯びる。清浄と正しい行いを捨て、自らの用事のみに心を向ける。

Verse 49

भविष्यंति युगस्यांते नराः अंगुष्ठमात्रकाः । गृहं च तेऽथ कुर्वंति बिलैराखुसमुद्भवैः

劫の終わりには、人々は親指ほどの大きさとなる。そののち鼠の穴より生じた孔を住まいとして造るであろう。

Verse 52

पश्चात्कृतयुगं भावि भूयोऽपि द्विजसत्तमाः

その後、ああ二度生まれの最勝者よ、クリタ・ユガ(Kṛta-yuga)は再び到来する。

Verse 53

एवं युगसहस्रेण संप्राप्तेन ततः परम् । ब्रह्मणो दिवसं भावि रात्रिश्चैव ततः परम्

このように、千のユガの循環が満ちると、その後に梵天(ブラフマー)の昼が来る。さらに時を経て、同じくその夜も訪れる。

Verse 54

ततश्चानेन मानेन षष्ट्या युक्तैस्त्रिभिः शतैः । ब्रह्मणो वत्सरं भावि केशवस्य च तद्दिनम्

さらにこの尺度によれば、そのような三百六十日が梵天の一年となる。そして同じ期間が、ケーシャヴァ(Keśava)にとっては一日に数えられる。

Verse 55

आत्मीये जीविते ब्रह्म यावद्वर्षशतं स्थितः । केशवोऽपि स्वमानेन वर्षाणां जीविते शतम्

自らの寿量において、梵天は百年にわたり存続する。ケーシャヴァ(Keśava)もまた、自らの尺度により、百年の寿命を有する。

Verse 56

वर्षेण वासुदेवस्य दिनं माहेश्वरं भवेत् । निजमानेन सोप्यत्र याव द्वर्षशतं स्थितः

ヴァースデーヴァの一年によって、「マーヘーシュヴァラの日」が成り立つ。彼もまた自らの尺度により、ここに百年とどまる。

Verse 57

ततः शक्तिस्वरूपः स्यात्सोऽक्षयी कीर्त्यते यतः । सदाशिवस्य निःश्वासः शैवं वर्षशतं भवेत् । उच्छ्वासस्तु पुनस्तस्य शक्तिरूपेण संस्थितः

その後、人はシャクティそのものの本性となる。ゆえに彼女は「不滅」と称えられる。サダーシヴァの一度の呼気がシヴァの百年であると言われ、またその吸気は、再びシャクティの形として確立して住する。

Verse 58

सूत उवाच । एतद्वः सर्वमाख्यातं शिवशक्तिसमुद्भवम् । यावदायुः प्रमाणं च मानुषाढ्यं च यद्भवेत्

スータは言った。「これらすべてを、シヴァとシャクティより生じたものとして、汝らに余すところなく説き明かした。すなわち寿命の量りと、人の繁栄と配分に関わる一切である。」

Verse 59

भवद्भिः शांकरं पृष्टो द्विजा अस्मि दिनं पुरा । मया पुनस्तु सर्वेषां मर्त्यादीनां तु कीर्तितम्

おお二度生まれの者たちよ、汝らはかつてシャンカラに属する「日」について私に問うた。今や私は、死すべき人間をはじめとして、あらゆる存在の計算をも説き示した。

Verse 91

एवं जाते ततो लोके ब्राह्मणो हरिपिंगलः । कल्किगोत्रसमुत्पन्नस्तान्सर्वा न्सूदयेत्ततः

このように世に事が起こるとき、カルキの系統に生まれたハリピンガラという名のバラモンが現れ、やがて彼らをことごとく討ち滅ぼす。

Verse 272

इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये युगस्वरूपवर्णनंनाम द्विसप्तत्युत्तरद्विशततमोअध्यायः

かくして、『シュリー・スカンダ・マハープラーナ』の「エーカーシーティ・サーハスリー・サンヒター」に収められた第六「ナーガラ・カンダ」中の「ハータケーシュヴァラ聖域功徳章」において、「ユガスヴァルーパ・ヴァルナナ(諸ユガの本性の叙述)」と題する章はここに終わる。