
本章は、ヴィシュヴァーミトラが王に報告する形を枠組みとして、古い対話と由来譚を織り込んだ重層的なマーハートミヤである。インドラの昇天後、ゴータマ仙の怒りが起こり、子のシャターナンダは母アヒリヤーの境遇と儀礼的浄化の難題を訴える。ゴータマは不浄を厳格に論じ、アヒリヤーの状態は通常の贖罪(プラーヤシュチッタ)では回復不能だと宣し、シャターナンダは極限の自己犠牲を誓う。 しかしゴータマは未来の解決を示す。太陽王統に現れラーヴァナを討つラーマが、ただ触れるだけでアヒリヤーを復元するというのである。ラーマ降誕(ラーマーヴァターラ)の文脈で、ヴィシュヴァーミトラは若きラーマをヤジュニャ守護に伴い、道中、呪いで石となったアヒリヤーに触れさせる。彼女は人身を取り戻し、ゴータマに近づいて完全な贖罪を願う。ゴータマは、複数回のチャンドラーやナ、クリッチュラ、プラージャーパティヤの行、さらに諸ティールタ巡礼など、広範な苦行と巡礼の規定を授ける。 その後アヒリヤーは巡礼を続け、ハータケーシュヴァラ・クシェートラに至るが、神は容易に姿を現さない。彼女は苛烈なタパスを行い、近くにリンガを建立する。やがてシャターナンダが合流し、最後にゴータマも来て、さらに大いなるタパスによってハータケーシュヴァラを顕現させようと決意する。長い苦行の末、リンガが顕れ、シヴァが出現して、この地の力と一家のバクティを認める。ゴータマは、ここでのダルシャナ/プージャーが大いなる功徳を与え、特定の月日には信者に吉祥の来世を授けるよう願う。 結びでは、これらの霊地の効験が、徳に欠ける者さえ功徳へと引き寄せるため天界が憂い、デーヴァたちはインドラに、ヤジュニャ・ヴラタ・ダーナといった広範なダルマ実践を再活性化して均衡を回復するよう請願する。最後のファラシュルティは、信をもって聴聞する者がいくつかの罪から解放されると約束する。
Verse 1
विश्वामित्र उवाच । एवं शक्रे दिवं प्राप्ते देवेषु सकलेषु च । गौतमः स्वाश्रमं प्रापत्कोपेन महता ज्वलन्
ヴィシュヴァーミトラは言った。「かくしてシャクラ(インドラ)が天界に帰り、諸天もまた皆去ったのち、ゴータマは大いなる怒りに燃えつつ、自らのアーシュラマへ戻った。」
Verse 2
ततः स कथयामास सर्वं देवविचेष्टितम् । वरदानं च शक्राय शता नन्दस्य चाग्रतः
それから彼は、諸天の一切の振る舞いと、シャクラに授けられた恩寵とを、シャターナンダの面前で語り明かした。
Verse 3
तच्छ्रुत्वा पितरं प्राह विनयावनतः स्थितः । तातांबाया न कस्मात्त्वं प्रसादं प्रकरोषि मे
それを聞くと、彼は恭しく身をかがめて父に言った。「父上よ、母のことについて、なぜ私にご慈悲をお示しくださらないのですか。」
Verse 4
उत्थापने न ते किञ्चिदसाध्यं विद्यते विभो । तस्मात्कुरु प्रसादं मे यथा स्यान्मम चांबया
ああ大いなる御力の主よ、倒れたものを起こし戻すことにおいて、あなたに不可能はありません。ゆえにどうか御慈悲を垂れ、我が母と再び相まみえるようお導きください。
Verse 5
समागमो मुनिश्रेष्ठ दीनस्योत्कण्ठितस्य च । तस्मादुत्थाप्य तां तूर्णं प्रायश्चित्तविधिं ततः । तस्मादादिश मे क्षिप्रं येन शुद्धिः प्रजायते
おお最勝の牟尼よ、貧しく嘆き、切に慕う者にとって、再会こそ唯一の慰めです。ゆえに速やかに彼女を元に戻し、その後に贖罪の作法(プラーヤシュチッタ)をお定めください。どうか直ちに、清浄が得られる道をお教えください。
Verse 6
गौतम उवाच । मद्यावलिप्तभांडस्य यदि शुद्धिः प्रजायते । तत्स्त्रीणां जायतेशुद्धिर्योनौ शुक्राभिषेचनात्
ガウタマは言った。「酒にまみれた器でさえ清められるのなら、同様に、胎内に精が注がれたとしても、女は清浄を得るのである。」
Verse 7
ब्राह्मणस्तु सुरां पीत्वा मौंजीहोमेन शुध्यति । तिंगिनीं साधयित्वा च न तु नारी विधर्मिता
「ブラーフマナは酒を飲んでも、マウーンジー・ホーマ(Mauñjī-homa)によって清められる。だがアダルマに堕ちた女は、たとえティンギニー・サーダナ(Tiṃginī-sādhana)を修しても、それによっては清浄とならない。」
Verse 8
मद्यभांडमपि प्रायो यथावद्वह्निशोधितम् । विशुध्यति तथा नारी वह्निदग्धा विशुध्यति । यस्या रेतोऽथ संक्रांत मुदरांतेऽन्यसंभवम्
「酒の器でさえ、正しく火によって浄められれば清らかとなる。同様に、女もまた火に焼かれることで清浄となる——精が入り、胎内に他の由来の子が宿った者は、かくのごとし。」
Verse 9
एतस्मात्कारणान्माता मया ते पुत्र सा शिला । विहिता न हि तस्याश्च विशुद्धिस्तु कथञ्चन
息子よ、まさにこの理由により、私はお前の母がその石となるよう定めたのだ。彼女には、いかなる手段によっても浄化はないからである。
Verse 10
शतानन्द उवाच । यद्येवं साधयिष्यामि तत्कृतेऽहं हुताशनम् । विषं वा भक्षयिष्यामि पतिष्यामि जलाशये
シャターナンダは言った。「もしそうなら、その目的のために私は火に入りましょう。あるいは毒を仰ぎましょう。あるいは湖に身を投げましょう。」
Verse 11
मातुर्वियोगतस्तात सत्यमेतन्मयोदितम् । धर्मद्रोणाः स्थिताश्चान्ये मन्वाद्या मुनयस्तथा
「愛する父よ、母との別離ゆえに、私の言葉は真実です。ダルマ・ドローナやマヌをはじめとする賢者たちも、証人としてここにいます。」
Verse 12
इतिहासपुराणानि वेदांतानि बहूनि च । संचिंत्य तात सर्वाणि देहि शुद्धिं ममापि ताम् । मम मातुः करिष्यामि नो चेत्प्राणपरिक्षयम्
「すべてのイティハーサ(叙事詩)やプラーナ(聖典)、そして多くのヴェーダーンタの教えを熟考し、尊き父よ、私にもその浄化をお授けください。母のためにそれを成し遂げます。さもなくば、私は命を絶ちます。」
Verse 13
विश्वामित्र उवाच । तच्छ्रुत्वा सुचिरं ध्यात्वा गौतमः प्राह तं सुतम् । परिष्वज्य स्वबाहुभ्यां मूर्ध्न्याघ्राय ततः परम्
ヴィシュヴァーミトラは言った。「それを聞いて、長い間瞑想した後、ガウタマは息子に語りかけた。自らの腕で彼を抱きしめ、その頭の匂いを嗅いで(口づけして)、それから言った。」
Verse 14
यद्येवं वत्स मा कार्षीः साहसं पापसंभवम् । आत्मदेहविघातेन श्रूयतां वचनं मम
もしそうなら、わが子よ、自らの身を傷つけて罪を生むような無謀な行いをしてはならぬ。わたしの言葉を聞きなさい。
Verse 15
मेध्यत्वे तव मातुश्च शुद्धिर्ज्ञाता मया पुरा । यया सा मम हर्म्यार्हा भविष्यति न संशयः
はるか昔、そなたの母を清める法をわたしはすでに知った。その法により彼女は再び清浄となり、聖なるにふさわしく、疑いなく我が家に値する者となろう。
Verse 18
उत्पत्स्यते रवेर्वंशे रामरूपी जना र्दनः । रावणस्य वधार्थाय मानुषं रूपमास्थितः । तस्य पादस्य संस्पर्शाद्भूयः शुद्धा भविष्यति । तस्मात्प्रतीक्ष्य तावत्त्वमौत्सुक्यं व्रज पुत्रक । एतत्सम्यङ्मया ज्ञातं वत्स दिव्येन चक्षुषा
ジャナールダナはラーマの姿となり、太陽王家に生まれ、ラーヴァナを討つために人の身を取られる。その御足に触れれば、これは再び清浄となる。ゆえにその時を待ち、焦る心を捨てよ、愛し子よ。これは我が天眼により、まことに知り得たことだ、わが子よ。
Verse 19
एतच्छ्रुत्वा तथेत्युक्त्वा शतानन्दः प्रहर्षितः । स्थितः प्रतीक्षमाणस्तु तं कालं मातृवत्सलः
これを聞いてシャターナンダは歓喜し、「そのとおりに」と答え、母を慕う者のようにやさしく敬虔な心で、その定めの時を待ちながらそこに留まった。
Verse 20
ततः कालेन महता रामरूपी जनार्दनः । रावणस्य वधार्थाय जातो दशरथालये
やがて長い時を経て、ラーマの姿なるジャナールダナは、ラーヴァナを滅するため、ダシャラタの家にお生まれになった。
Verse 21
स मया भगवा विष्णुर्बालभावेन संस्थितः । निजयज्ञस्यरक्षार्थं समानीतः स्वमाश्रमम् । राक्षसानां विनाशाय यज्ञकर्मविनाशिनाम्
その福徳具わるヴィシュヌ尊は、若き王子の姿にとどまり、我が祭祀(ヤジュニャ)を護るため、またヤジュニャの儀礼を壊す羅刹どもを滅ぼすために、私によって自らのアーシュラマへ迎えられた。
Verse 22
हतैस्तै राक्षसै रौद्रैर्मम पूर्णोऽभवन्मखः । अयोध्यायाः समानीतः स मया रघुनंदनः
その荒ぶる羅刹どもが討たれると、我が祭祀(ヤジュニャ)は円満に成就した。ついで私は、ラグ族の歓喜たるラーマをアヨーディヤーへと伴い送った。
Verse 23
सीतायाश्च विवाहार्थं लक्ष्मणेन समन्वितः । श्रुत्वा स्वयंवरं तस्याः पार्थिवानां समागमम्
ラクシュマナを伴い、シーターとの婚姻を願いつつ、彼女のスヴァヤンヴァラと、そこに集う諸王の会合とを聞き知った。
Verse 24
ततो मार्गे मया दृष्टा गौतमस्याश्रमे शुभे । अहिल्या सा शिला रूपा प्रमाणेन महत्तमा
それから道すがら、ガウタマの吉祥なるアーシュラマにて、石の姿となっているアハリヤーを見た。彼女は量り知れぬほど大きかった。
Verse 25
ततः प्रोक्तो मया रामः स्पृशेमां वत्स पाणिना । मानुषत्वं लभेद्येन गौतमस्य प्रिया मुनेः । शापदोषेण संजाता शिलेयं तस्य सन्मुनेः
そこで私はラーマに告げた。「愛し子よ、これに手で触れなさい。その触れによって、聖仙ガウタマの愛妻は人の身を取り戻すであろう。呪いの過失により、彼女はこの石となったのだ――あの高貴なるリシの伴侶である者が。」
Verse 26
अविकल्पं ततो रामो मम वाक्येन तां शिलाम् । पस्पर्श पार्थिवश्रेष्ठ कौतू हलसमन्वितः
そのときラーマは、王の中の最勝者として、わが言葉に従い少しもためらわず、その石に触れた。心は厳かな驚異に満ちていた。
Verse 27
अथ रामेण संस्पृष्टा सहसैवांगना मुनेः । शुशुभे मानुषी जाता दिव्यरूपवपुर्धरा
そしてラーマに触れられるや、仙人の妻はたちまち人の姿に戻り、天なる美と形を備えた身となって輝き出た。
Verse 28
ततः सा लज्जयाऽविष्टा प्रणिपत्य च गौतमम् । स्मरमाणाऽत्मनः कृत्यं यच्छक्रेण समन्वितम्
それから彼女は恥に打たれ、ゴータマの前にひれ伏して礼拝し、シャクラ(インドラ)に関わる自らの行いを思い起こした。
Verse 29
प्रायश्चित्तं मम स्वामिन्देहि सर्वमशेषतः । यन्नरस्य समायोगे परस्याह प्रजापतिः
「わが主よ、私に贖罪(プラーヤシュチッタ)を余すところなくお授けください。他人の妻と不正に交わった者について、プラジャーパティが説かれたとおりに。」
Verse 30
अहं दुष्करमप्येतत्करिष्यामि न संशयः । येन शुद्धिर्भवेन्मह्यं पुरश्चरणसेवनात्
「たとえ困難であっても、疑いなく必ず成し遂げます。定められた修法プラシャラナ(puraścaraṇa)を修して、私の内に清浄が生じるように。」
Verse 31
ततः संचिंत्य सुचिरं प्रोवाच गौतमस्तदा । कुरु चान्द्रायणशतं कृच्छ्राणां च सहस्रकम्
そのときゴータマは久しく思案してから告げた。「チャンドラーयण(Cāndrāyaṇa)の行を百回、そしてクリッチュラ(Kṛcchra)の苦行を千回修せ。」
Verse 32
प्राजापत्यायुतं चापि तीर्थयात्रापरायणा । अष्टषष्टिषु तीर्थेषु यानि तीर्थानि भूतले । तेषां संदर्शनात्सम्यक्ततः शुद्धिमवाप्स्यसि
「さらに巡礼に心を捧げ、プラージャーパティヤ(Prājāpatya)の苦行を一万修せ。地上には六十八のティールタがある。それらを正しく拝観すれば、やがて清浄を得るであろう。」
Verse 33
सा तथैति प्रतिज्ञाय नित्यं व्रतपरायणा । अष्टषष्टिसु तीर्थेषु वाराणस्यादिषु क्रमात्
彼女はそのとおり誓願を立て、日々戒行に専心した。そして順次、ヴァーラーナシーをはじめとする六十八のティールタへと赴いた。
Verse 34
बभ्राम तानि लिंगानि पूजयन्ती प्रभक्तितः । क्रमेणैव तु संप्राप्ता हाटकेश्वरसंभवम्
彼女はそれらのリンガを巡り、深いバクティをもって礼拝した。そして順を追って、ハータケーシュヴァラ(Hāṭakeśvara)の聖なる御前に到った。
Verse 35
यावत्पश्यति सा साध्वी तावन्नागबिलो महान् । पूरितो नागरेणैव मार्गः पातालसंभवः
その貞淑なる女が目にしたその瞬間、巨大なナーガの洞穴が現れた。パーターラ(Pātāla)より起こると伝えられる道は、そのナーガ自身によって満ち塞がれていた。
Verse 36
गच्छंति येन पूर्वं तु तीर्थयात्रापरायणाः । हाटकेश्वरदेवस्य दर्शनार्थं मुनीश्वराः
まさにその道を、かつて巡礼(ティールタ・ヤートラー)に専心する大牟尼たちは進み、ハータケーシュヴァラ主のダルシャナ(拝観)を求めた。
Verse 37
अथ सा चिन्तयामास न दृष्टे तु सुरेश्वरे । हाटकेश्वरदेवे च न हि यात्राफलं लभेत्
そのとき彼女は思い巡らした。「もし神々の主を拝せず、もしハータケーシュヴァラ主を見奉らねば、巡礼の果報は真に得られない。」
Verse 38
तस्मात्तपः करि ष्यामि स्थित्वा चैव सुदुष्करम् । येनाहं तत्प्रभावेन तं पश्यामि सुरेश्वरम्
「ゆえに私はタパス(苦行)を修し、きわめて困難な戒行に堅く立って、その苦行の力により神々の主を拝見しよう。」
Verse 39
एवं सा निश्चयं कृत्वा तपस्तेपे सुदुष्करम् । दर्शनार्थं हि देवस्य पातालनिलयस्य च
かくして決意を固め、彼女はきわめて苛烈なタパスを修した。目的は、パーターラ(Pātāla)を住処とする神のダルシャナを得るためである。
Verse 40
पंचाग्निसाधका ग्रीष्मे हेमन्ते सलिलाश्रया । वर्षास्वाकाशशयना सा बभूव तपस्विनी
夏には「五火」の行を修し、冬には水に身を寄せ、雨季には露天に臥した—かくして彼女は真の苦行者(タパスヴィニー)となった。
Verse 41
हरलिंगं प्रतिष्ठाप्य स्वनाम्ना चांतिके तदा । त्रिकालं पूजयामास गन्धपुष्पानुलेपनैः
そののち彼女は近くにハラのリンガを安置し、自らの名をもってそれに名を授け、香・花・塗香を供えて一日三度礼拝した。
Verse 42
एवं तपसि संस्थायास्तस्याः कालो महान्गतः । न च संदर्शनं जातं हाटकेश्वरसंभवम्
このように苦行に没して久しい時が過ぎたが、それでも何のダールシャナも起こらず、ハータケーシュヴァラの顕現は彼女に現れなかった。
Verse 43
कस्यचित्त्वथ कालस्य शतानन्दश्च तत्सुतः । स तामन्वेषमाणस्तु तस्मिन्क्षेत्रे समागतः । मातृस्नेह परीतात्मा तीर्थान्वेषणतत्परः
やがて時が経ち、彼女の子シャターナンダは母を捜し求めてその聖なるクシェートラに到来した。母への情に心満ち、聖なるティールタを訪ね求めることに専心していた。
Verse 44
अथ तां तत्र संवीक्ष्य दारुणे तपसि स्थिताम् । प्रणिपत्य स्थितो दीनः सदुःखो वाक्यमब्रवीत्
そこで彼は、苛烈な苦行に住する母を見て、ひれ伏して礼拝し、悲嘆と苦悩に沈みつつ立ち、次の言葉を述べた。
Verse 45
किमत्र क्लिश्यते कायस्तपः कृत्वा सुदारुणम् । सप्तषष्टिषु तीर्थेषु यानि लिंगानि तेषु च
なぜここで、この身を苛むほどの恐ろしい苦行をなさるのですか。六十七のティールタには、そこに在すリンガが——
Verse 46
माहेश्वराणि लिंगानि तानि दृष्टानि च त्वया । एतत्पातालसंस्थं च हाटकेश्वरसंज्ञितम्
マーヘーシュヴァラのリンガは、まことに汝がすでに拝した。だがこの一つはパーターラに安置され、「ハータケーシュヴァラ」と称される——
Verse 47
न पश्यति नरः कश्चिद्दृष्टं क्षेत्रे न केनचित् । तेन शुद्धिश्च संजाता स्वभर्त्रा विहिता तु या
いかなる男もそれを見ることはなく、この聖なるクシェートラにおいても誰一人として見た者はいない。されどその行によって、汝の夫自らが定めた清浄はまことに成就した。
Verse 48
तस्मादागच्छ गच्छामस्ताताश्रामपदे शुभे । त्वन्मार्गं वीक्षते तातः कर्षुको वर्षणं यथा
ゆえに来たれ——われらは吉祥なるアーシュラマへ行こう。汝の父は汝の道を見守っている、農夫が雨の到来を待ち望むように。
Verse 49
आहिल्योवाच । यावत्पश्यामि नो देवं हाटकेश्वरसंज्ञितम् । तावद्गच्छामि नो गेहं यदा पश्यामि तं हरम्
アーヒリヤーは言った。「ハータケーシュヴァラと称される神を拝するまでは、わたしは家へは帰りません。あのハラ(シヴァ)を見奉ってこそ、わたしは戻ります。」
Verse 50
तदा यास्ये गृहं पुत्र निश्चयोऽयं मया कृतः
「その時こそ家へ帰りましょう、わが子よ——この決意はすでにわたしが定めました。」
Verse 51
तच्छ्रुत्वा सोऽपि तां प्राह ह्येष चेन्निश्चयस्तव । मयाऽपि तातपार्श्वे तु प्रगंतव्यं त्वयाप
それを聞くと、彼もまた彼女に言った。「もしそれがまことに汝の堅固なる決意であるなら、我もまた汝と共に、我が父の御許へ赴かねばならぬ。」
Verse 52
एवमुक्त्वा ततः सोपि स्थापयामास शांभ वम् । लिंगं च पूजयामास त्रिकालं तपसि स्थितः
かく語り終えると、彼はシヴァの(シャーンバヴァ)リンガを安置し、苦行に住して、一日に三度そのリンガを礼拝供養した。
Verse 53
शतानन्दस्तु राजर्षिः गन्धपुष्पानुलेपनैः । नैवेद्यैर्विविधैः सूक्तैर्वेदोक्तैः पर्यतोषयत्
しかし王仙シャターナンダは、香・花・塗香を捧げ、種々の供物(ナイヴェーディヤ)を供え、ヴェーダに説かれた讃歌(スークタ)をもって、主を歓喜させた。
Verse 54
षष्ठान्नकालभोज्यस्य व्रतचर्यारतस्य च । एवं तस्याऽपि संस्थस्य गतः कालो महान्मुने । न च तुष्यति देवेश स्ताभ्यां द्वाभ्यां कथञ्चन
第六の食時にのみ食し、誓戒と行法の修習を喜びとしていたが—かくして、ああ大牟尼よ、彼が苦行に住する間に長き歳月が過ぎ去った。されど天界の主は、その二つのみではいかなる意味でも満足されなかった。
Verse 55
ततः कालेन महता गौतमोऽपि महामुनिः । आजगाम स्वयं तत्र पुत्रदर्शनलालसः
久しき時を経て、大牟尼ガウタマは自らそこへ来たり、わが子を見んと切に願っていた。
Verse 56
स दृष्ट्वा भार्यया सार्धं पुत्रं तपसि संस्थितम् । तुतोष प्रथमं तावत्पश्चादुःखसमन्वितः
妻とともに苦行に堅く住する我が子を見て、彼はまず喜んだが、のちに悲しみに満たされた。
Verse 57
अहो बत महत्कष्टं पुत्रो मे कृशतां गतः । तपसः संप्रभावेन नयामि स्वगृहं कथम् । भार्येयं च तथा मह्यं विवर्णा तु कृशा स्थिता
「ああ、なんという大いなる苦難よ。わが子はやせ衰えてしまった。苦行の強い力によって、どうして我が家へ連れ帰れようか。わが妻もまたここに立ち、青白く、やせ細っている。」
Verse 58
एवं संचिंत्य मनसा तावुभौ प्रत्यभाषत । गम्यतां स्वगृहं कृत्वा तपसः संनिवर्तनम्
このように心中で思い巡らし、彼は二人に告げた。「汝らは自らの家へ帰り、この苦行をしかるべく結びとせよ。」
Verse 59
शतानन्द उवाच । तातांबा बहुधा प्रोक्ता तपसः संनिवर्तने । नो गच्छति तथा हर्म्यमदृष्टे हाटकेश्वरे
シャターナンダは言った。「尊き父母よ、苦行をやめよと幾度語られても、ハータケーシュヴァラを拝見するまでは、私は家へは戻りません。」
Verse 60
अहं तया विहीनस्तु नैव यास्यामि निश्चितम् । एवं ज्ञात्वा महाभाग यद्युक्तं तत्समाचर
「しかし私は、彼女と離れれば、決して去りません。これを知ったうえで、尊き方よ、ふさわしいようにお計らいください。」
Verse 61
गौतम उवाच । यद्येवं निश्चयो वत्स तव मातुश्च संस्थितः । अहं ते दर्शयिष्यामि तपसा हाटकेश्वरम्
ガウタマは言った。「もしその決意が、お前とお前の母のうちに堅く定まっているのなら、愛しき子よ、わたしのタパス(苦行)の力によって、汝にハーṭケーシュヴァラを拝見させよう。」
Verse 62
एवमुक्त्वा ततः सोऽपि तपश्चक्रे महामुनिः । एकांतरोपवासस्तु स्थितो वर्षशतं मुनिः । षष्ठान्नकालभोजी च तावत्काले ततोऽभवत्
そう語り終えると、その大聖仙は苦行に入った。牟尼は一日おきの断食(交互のウパヴァーサ)を百年守り、さらに同じ期間、六度目の食の間隔にのみ食して(長く規定された間を置いて)命を支えた。
Verse 63
त्रिरात्रभोजी पश्चाच्च स बभूव मुनीश्वरः । तावत्कालं फलैर्निन्ये तावत्कालं जलाशनः । वायुभक्षस्ततो भूयस्तावत्कालमभून्मुनिः
やがてその牟尼の主は、三夜に一度だけ食する者となった。同じ期間、果実によって生をつなぎ、同じ期間、水のみを口にし、さらに同じ期間、聖仙は「風を食とする者」としてただそれのみで生きた。
Verse 64
ततो वर्षसहस्रांते परमे संव्यवस्थिते । प्रभिद्य मेदिनीपृष्ठं निष्क्रांतं लिंगमुत्तमम्
そして千年の終わり、苦行が至上の成就に達したとき、最勝のリンガが大地の表を突き破って、姿を現した。
Verse 65
द्वादशार्कप्रतीकाशं सर्वलक्षणलक्षितम । एतस्मिन्नंतरे देवः शंभुः प्रत्यक्षतां गतः
それは十二の太陽のごとく輝き、あらゆる吉祥の相を具えていた。そのまさに瞬間、神シャンブ(Śambhu)は直に顕現した。
Verse 66
एतस्मिन्नेव काले तु भगवाञ्छशिशेखरः । तस्य दृष्टिपथं गत्वा वाक्यमेतदुवाच ह
まさにその時、福徳なる主—シャシシェーカラ(月冠の御方)—が彼の視界に現れ、次の言葉を告げられた。
Verse 67
गौतमाऽहं प्रतुष्टस्ते तपसाऽनेन सुव्रत
「おおガウタマよ、すぐれた誓戒を保つ者よ。この苦行によって、我は汝に深く満悦した。」
Verse 68
एतच्च मामकं लिंगं हाटकेश्वरसंज्ञितम् । पातालाच्च विनिष्क्रांतं तव भक्त्या महामुने
「この我がリンガはハータケーシュヴァラと名づけられ、汝の信愛ゆえにパーターラより現れ出たのだ、偉大なる仙よ。」
Verse 69
एतदर्थं तपस्तप्तं सभार्येण त्वया हि तत् । सपुत्रेणाखिलं जातं फलं तस्य यथेप्सितम्
「まことに汝はこの目的のため、妻とともに苦行を修した。さらに子とともに、その苦行の果はすべて、望みのままに成就した。」
Verse 70
एतत्पश्यतु ते भार्या अहिल्या दिव्यरूपिणी । अष्टषष्ट्युद्भवं येन यात्राफलमवाप्नुयात्
「神妙なる姿の汝の妻アハリヤーにも、これをまた拝見させよ。これによって、人は『六十八』の聖なる顕現に結ばれた巡礼の功徳果を得るであろう。」
Verse 71
त्वं चापि प्रार्थय वरं येन सर्वं ददामि ते
「汝もまた願いの恩寵を求めよ。その恩寵によって、我は汝に一切を授けよう。」
Verse 72
गौतम उवाच । हाटकेश्वरसंज्ञे तु सकृद्दृष्टे च यत्फलम् । पातालस्थे च यत्पुण्यं नराणां जायते फलम् । दृष्टेनानेन तत्पुण्यं पूजितेन विशेषतः
ガウタマは言った。「ハータケーシュヴァラをただ一度拝するだけで得られる果報、また彼がパーターラに住する間に人々に生ずる功徳——その同じ功徳は、この顕現したリンガを拝観することによって得られ、ことに供養礼拝すればさらに増す。」
Verse 73
अन्येऽपि ये जनास्तच्च पूजयंति प्रभक्तितः । चैत्रशुक्लचतुर्दश्यां ते प्रयांतु त्रिविष्टपम्
「また他の人々も、チャイトラ月の白分(明半)十四日に、深き信愛をもってこれを礼拝供養するならば、彼らがトリヴィシュタパ(天界)へ赴かんことを。」
Verse 74
एतल्लिंगं न जानंति नराः सिद्ध्यभिकांक्षिणः । विशंति विवरं तेन हाटकेश्वरकांक्षया
「成就(シッディ)を求める人々はこのリンガを知らない。ハータケーシュヴァラを欲して、その誤認ゆえに裂け目・洞へと入り込むのである。」
Verse 76
मुच्यंते मानवास्तद्वच्छतानंदेश्वरादपि । तस्मिन्दिने विहितया ताभ्यां चैव प्रपूजया
「同様に、人々はシャターナンデーシュヴァラによっても解脱する。その日に定められた作法により、両者をともに供養礼拝することによってである。」
Verse 77
विश्वामित्र उवाच । एतस्मिन्नेव काले तु व्याप्तः स्वर्गोऽखिलो नृप । मानुषैरपि पापाढ्यैः सर्वधर्मविवर्जितैः
ヴィシュヴァーミトラは言った。「まさにこの時、王よ、天界のすべては満ちあふれ、罪にまみれ、あらゆるダルマを失った人間でさえ充満している。」
Verse 78
न कश्चित्कुरुते यज्ञं तीर्थ यात्रामथापरम् । न व्रतं नियमं चैव दानस्यापि कथामपि
「誰もヤジュニャ(祭祀)を行わず、ティールタへの巡礼にも出ない。誓戒も規律も守られず、布施の話すら聞かれない。」
Verse 79
अपि पापसमोपेता लिंगस्यास्य प्रभावतः । परदारोद्भवा त्पापादहिल्येश्वरदर्शनात्
たとえ罪にまみれた者であっても、このリンガの霊威により、他人の婚姻を犯すことから生じる罪は、ただアヒリイェーシュヴァラ(Ahilyeśvara)を拝見するだけで解き放たれる。
Verse 80
ततो भीताः सुराः सर्वे सस्पर्धैर्मानुषैर्वृताः । प्रोचुः पुरंदरं गत्वा व्यथया प्रया युताः
そのとき、諸天はみな恐れ、競い争う人間たちに取り囲まれた。彼らはプランダラ(インドラ)のもとへ赴き、憂いに満ちて苦悩を訴えた。
Verse 81
मर्त्यलोके सहस्राक्ष सर्वे धर्माः क्षयं गताः । अपि पापसमाचारा अभ्येत्य पुरुषा इह
「千眼の御方(インドラ)よ、人界ではあらゆるダルマが衰えつつあります。罪深い行いの者たちでさえ、ここ(この聖地)へとやって来るのです。」
Verse 82
अस्माभिः सह गर्वाढ्याः स्पर्धां कुर्वंति सर्वदा । हाटकेश्वरजे क्षेत्रे लिंगत्रयमनुत्तमम्
驕りにふくれ、彼らは常に、われらとさえ競い合う。ハータケーシュヴァラの聖なるクシェートラには、比類なき三つのリンガがある。
Verse 83
यत्स्थितं स्थापितं तत्र गौतमेन महात्मना । सपुत्रेण सदारेण तस्य पूजाप्रभावतः
そこに立つそれ(リンガ/聖なる建立)は、大いなる魂のゴータマが、子と妻を伴って安置したものである。そしてその礼拝の力によって……
Verse 84
अपि पापसमाचारा इहागच्छंति तेऽखिलाः । यमस्य नरकाः सर्वे सांप्रतं शून्यतां गताः
罪深き行いの者でさえ、皆ここへ来る。ゆえにヤマのあらゆる地獄は、今や空となった。
Verse 85
गौतमेन समानीतः पातालाद्धाटकेश्वरः । तपसा तोषयित्वा तु तत्र स्थाने सुरेश्वरः
ハータケーシュヴァラは、ゴータマによってパーターラから引き上げられた。苦行に満悦した神々の主は、まさにその地に住まう。
Verse 86
तत्प्रभावादयं जातो व्यवहारो धरातले
その聖なる威力によって、このような成り行きが地上に生じた。
Verse 87
एवं ज्ञात्वा प्रवर्तंते यथा यज्ञास्तथा कुरु । तैर्विना नैव तृप्तिः स्यादस्माकं च कथंचन
かく知って彼らはそのとおりに進む。ゆえに、祭祀(ヤジュニャ)をしかるべき作法のままに修せよ。それらのヤジュニャなくしては、われらはいかなる仕方でも満足を得られぬ。
Verse 89
गत्वा धरातलं सर्वे ममादेशाद्द्रुतं ततः । स्वशक्त्या वारयध्वं भो गौतमेश्वरपूजकान्
ゆえに、わが命により、汝ら皆ただちに地上へ赴け。しかして自らの力をもって、ああ神々よ、ガウタメーシュヴァラを礼拝する者どもを抑えよ。
Verse 90
अहिल्येश्वरदेवस्य शतानंदेश्वरस्य च । शक्रादेशं तु संप्राप्य ते गता धरणीतले
シャクラの命を受けて、彼らは地上へ赴き、主アヒリェーシュヴァラとシャターナンデーシュヴァラの聖廟へと向かった。
Verse 91
कामादिका नरान्भेजुर्गौतमेश्वरपूजकान् । तथाऽहिल्येश्वरस्यापि शतानंदेश्वरस्य च
カーマをはじめとする諸欲は人々を襲った――ガウタメーシュヴァラの礼拝者さえも、またアヒリェーシュヴァラとシャターナンデーシュヴァラの帰依者をも。
Verse 92
ततो भूयो मखा जाताः समग्रे धरणीतले । संपूर्णदक्षिणाः सर्वे वतानि नियमास्तथा
その後ふたたび、全地にわたり祭祀(ヤジュニャ)が興り――すべては完全なダクシナーを伴い、また誓戒(ヴラタ)と規律(ニヤマ)も同様に修された。
Verse 93
तीर्थयात्रा जपो होमो याश्चान्याः सुकृतक्रियाः । एतत्सर्वं मया ख्यातं यत्पृष्टोऽस्मि धराधिप
聖なるティールタへの巡礼、ジャパ(真言誦持)、ホーマ(火供)ならびに他の功徳の行いのすべて——地の主よ、汝に問われたゆえ、我はこれらを悉く説き明かした。
Verse 94
गयाकूप्यनुषंगेण शक्रगौतमचेष्टितम् । बालमण्डनमाहात्म्यं शक्रेश्वरसमन्वितम्
ガヤークーピー(Gayākūpī)にまつわり、我はシャクラ(インドラ)とガウタマの行いを語り、さらにシャクレーシュヴァラ(Śakreśvara)を伴うバーラマンダナ(Bālamaṇḍana)の大いなる功徳を説いた。
Verse 95
इन्द्रस्य स्थापनं मर्त्ये अहिल्याख्यानमेव च । गौतमेश्वरमाहात्म्यं तथाहिल्येश्वरस्य च
また我は、インドラが人界に据えられたこと、アハリヤー(Ahalyā)の物語、ガウタメーシュヴァラ(Gautameśvara)の大いなる霊威、そして同様にアヒリイェーシュヴァラ(Ahilyeśvara)の霊威をも語った。
Verse 96
यश्चैतच्छृणुयान्नित्यं श्रद्धया परया युतः । स मुच्येत्पातकात्सद्यः परदारसमुद्भवात्
これを日々、至上の信をもって聴聞する者は、他人の妻に関わることより生ずる罪より、ただちに解き放たれる。
Verse 98
तच्छ्रुत्वा वासवस्तत्र समाहूय च मन्मथम् । क्रोधं लोभं तथा दंभं मत्सरं द्वेषसंयुतम्
それを聞くや、ヴァーサヴァ(インドラ)はその場でマンマタ(カーマ)を召し、さらに怒り・貪り・驕慢なる偽り(ダンバ)・嫉み(マツァラ)・憎しみ(ドヴェーシャ)を伴わせた。
Verse 208
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये गौतमेश्वराहिल्येश्वर शतानन्देश्वरमाहात्म्यवर्णनंनामाष्टोत्तरद्विशततमोऽध्यायः
かくして、『シュリー・スカンダ・マハープラーナ』の「エーカーシーティサーハスリー・サンヒター」に収められた第六「ナーガラ・カンダ」中、「ハーṭケーシュヴァラ聖域功徳(マーஹात्म्य)」における「ガウタメーシュヴァラ、アヒリイェーシュヴァラ、シャターナンデーシュヴァラの大功徳の叙述」と名づけられた第208章はここに終わる。