Adhyaya 28
Avanti KhandaReva KhandaAdhyaya 28

Adhyaya 28

マーラカンデーヤは語る。ウマーとともにナルマダー河畔に坐すルドラは、ナーラダよりバーナとその宮殿の報を受ける。シヴァはトリプラ征討を思惟し、神々・ヴェーダ・韻律(チャンダス)・宇宙原理を戦車の各部に配して、宇宙的戦車と武装体系を組み立てる。三つの都が一直線に重なる刹那、矢を放ちトリプラは滅びる。凶兆と大火の惨状が、都の混乱と秩序の崩れを描き出す。 バーナは道義的な罪と招いた破滅を悟り、シヴァに帰依して長き讃歌(ストートラ)を捧げ、シヴァこそ諸神と諸元素に遍満する根底であると称える。シヴァの憤怒は鎮まり、バーナに加護と位を授け、破壊の火の一部を止める。さらに、燃え落ちた破片がシュリーシャイラやアマラカーンタカなどの聖地に結び付けられ、「ジャヴァレーシュヴァラ」の名の由来が説かれて巡礼の教義が確立される。マーラカンデーヤはまた、アマラカーンタカにおける所定の「パータナ」行のため、苦行(クリッチュラ)・真言誦(ジャパ)・護摩(ホーマ)・礼拝の規定法を示し、レヴァー(ナルマダー)南岸の近隣ティールタを列挙して、戒律ある実践、祖霊供養、過失の除去を強調する。

Shlokas

Verse 1

मार्कण्डेय उवाच । एतस्मिन्नन्तरे रुद्रो नर्मदातटमास्थितः । क्रीडते ह्युमया सार्द्धं नारदस्तत्र चागतः

マールカンデーヤは言った。「その間、ルドラはナルマダーの岸に留まり、ウマーとともに戯れていた。そこへナーラダも到来した。」

Verse 2

प्रणम्य देवदेवेशमुमया सह शङ्करम् । व्यज्ञापयत्तदा देवं यद्वृत्तं त्रिपुरे तदा

ウマーとともに万神の主シャンカラに礼拝し、彼はその時トリプラで起こった出来事を神に申し上げた。

Verse 3

गतोऽहं स्वामिनिर्देशाद्यत्र तद्बाणमन्दिरम् । दृष्टा बाणं यथान्यायं गतो ह्यन्तःपुरं महत्

「我が主の命により、バーナの宮殿のある所へ赴いた。礼にかなってバーナに拝謁したのち、広大な内殿へと入った。」

Verse 4

तत्र भार्यासहस्राणि दृष्ट्वा बाणस्य धीमतः । यथायोग्यं यथाकाममागतः क्षोभ्य तत्पुरम्

そこで、聡明なるバーナ(Bāṇa)の幾千の妻たちを見て、彼はふさわしきまま、また望むがままに進み、その都を揺り動かした。

Verse 5

नारदस्य वचः श्रुत्वा साधु साध्विति पूजयन् । चिन्तयामास देवेशो भ्रमणं त्रिपुरस्य हि

ナーラダの言葉を聞き、「善い、善い」と称えて礼拝しつつ、神々の主はトリプラ(Tripura)の巡行と動きについて思索し始めた。

Verse 6

करमुक्तं यथा चक्रं विष्णुना प्रभविष्णुना । महावेगं महायामं रक्षितं तेजसा मम

「ヴィシュヌ(Viṣṇu)—威光あふれる大いなる御方—の手より放たれた円盤が、甚だしい速さと遠大な勢いで進むように、同じくそれは我が霊妙なる光輝によって支えられ、守られている。」

Verse 7

स च मे भक्तिनिरतो बाणो लोके च विश्रुतः । भारती च मया दत्ता ब्राह्मणानां विशेषतः

「またそのバーナ(Bāṇa)は我への信愛に励み、世に名高い。さらに我は彼にバーラティー(Bhāratī)—言霊の才、雄弁の恵み—を授けた。とりわけブラーフマナ(Brāhmaṇa)に関してである。」

Verse 8

एवं स सुचिरं कालं देवदेवो महेश्वरः । चिन्तयित्वा सुनिर्वाणं कार्यं प्रति जनेश्वरः

かくして久しき時ののち、マヘーシュヴァラ(Maheśvara)—神々の神、衆生の主—は深く思惟し、ついに明らかで断固たる行動の道を定めた。

Verse 9

ततोऽसौ मन्दरं ध्यात्वा चापे कृत्वा गुणे महीम् । विष्णुं सनातनं देवं बाणे ध्यात्वा त्रिलोचनः

そのとき三眼者(シヴァ)はマンダラを弓として観想し、大地を弦として結び、さらに永遠の神ヴィシュヌを念じて、それを矢と成した。

Verse 10

फले हुताशनं देवं ज्वलन्तं सर्वतोमुखम् । सुपर्णं पुङ्खयोर्मध्ये जवे वायुं प्रकल्प्य च

彼は、あらゆる方角に面を向けて燃え盛る火神フターシャナを矢尻とし、スパルナ(ガルダ)を羽の間に据え、ヴァーユ(風)をその疾速として定めた。

Verse 11

रथं महीमयं कृत्वा धुरि तावश्विनावुभौ । अक्षे सुरेश्वरं देवमग्रकील्यां धनाधिपम्

大地そのものから戦車を作り、轅のくびきには二人のアシュヴィニー・クマーラを置き、車軸には神々の主インドラを据え、前方の楔には財宝の主クベーラを安置した。

Verse 12

यमं तु दक्षिणे पार्श्वे वामे कालं सुदारुणम् । आदित्यचन्द्रौ चक्रे तु गन्धर्वानारकादिषु

右にはヤマを、左には恐るべき猛きカーラを置き、太陽と月を車輪とした。さらにガンダルヴァやナーガなどの群衆を、それぞれの持ち場に配した。

Verse 13

यन्तारं च सुरज्येष्ठं वेदान्कृत्वा हयोत्तमान् । खलीनादिषु चाङ्गानि रश्मींश्छन्दांसि चाकरोत्

神々のうち最年長の者を御者とし、ヴェーダを最上の馬とした。さらに聖なる秩序の肢よりくつわ等を作り、ヴェーダ韻律(チャンダス)を手綱とした。

Verse 14

कृत्वा प्रतोदमोंकारं मुखग्राह्यं महेश्वरः । धातारं चाग्रतः कृत्वा विधातारं च पृष्ठतः

マヘーシュヴァラは、先に携えるにふさわしい御鉤(ごこう)を聖音「オーム(Oṃ)」として造り、ダートリを前に、ヴィダートリを後ろに据えた。

Verse 15

मारुतात्सर्वतो दिग्भ्य ऊर्ध्वयन्त्रे तथैव च । महोरगपिशाचांश्च सिद्धविद्याधरांस्तथा

風より、あらゆる方角より、また上方の機構にも、彼は大蛇とピシャーチャを配し、さらにシッダとヴィディヤーダラをも据えた。

Verse 16

गणांश्च भूतसङ्घांश्च सर्वे सर्वाङ्गसंधिषु । युगमध्ये स्थितो मेरुर्युगस्याधो महागिरिः

彼は車の肢体のあらゆる節目と結び目に、ガナたちと諸々の存在の群れを配した。轭の中央にはメール(Meru)が立ち、轭の下には大いなる山があった。

Verse 17

सर्पा यन्त्रस्थिता घोराः शम्ये वरुणनैरृतौ । गायत्री चैव सावित्री स्थिते ते रश्मिबन्धने

猛き蛇は機構の内に据えられ、ヴァルナとナイリルタは横木に配された。さらにガーヤトリーとサーヴィトリーが、手綱を結ぶ紐としてそこに立った。

Verse 18

सत्यं रथध्वजे शौचं दमं रक्षां समन्ततः । रथं देवमयं कृत्वा देवदेवो महेश्वरः

彼は車旗に「真実」を掲げ、清浄と自制とを四方の護りとした。かくして神々の神マヘーシュヴァラは、その車をことごとく神聖なるものと成した。

Verse 19

संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् । बद्धा परिकरं गाढं जटाजूटं नियम्य च

全身を武具で固め鎧をまとい、剣を携え、オオトカゲの皮の指当てを着け、堅い帯をきつく締め、もつれたジャターの髪を結い上げた。

Verse 20

सज्जं कृत्वा धनुर्दिव्यं योजयित्वा रथोत्तमम् । रथमध्ये स्थितो देवः शुशुभे च युधिष्ठिर

神聖なる弓を整え、最上の戦車を繋ぎ終えると、神は車の中央に立ち、燦然と輝いた――おお、ユディシュティラよ。

Verse 21

धनुषः शब्दनादेनाकम्पयच्च जगत्त्रयम् । स्थानं कृत्वा तु वैशाखं निभृतं संस्थितो हरः

弓弦の轟く響きによって、ハラは三界を震わせた。ついでヴァイシャーカ月にその位を定め、深い静寂のうちに身を据えて立った。

Verse 22

निरीक्ष्य सुचिरं कालं कोपसंरक्तलोचनः । ध्यात्वा तं परमं मन्त्रमात्मानं च निरुध्य सः

久しく見据えるうち、怒りによりその眼は赤く染まった。至上のマントラを観想し、自らを制して、集中した統御のうちに身を収めた。

Verse 23

मुमोच सहसा बाणं पुरस्य वधकाङ्क्षया । यदा त्रीणि समेतानि अन्तरिक्षस्थितानि तु

そして都の滅亡を願い、彼は矢を忽ち放った――三つ(の都)が合一し、虚空にとどまったその瞬間に。

Verse 24

ततः कालनिमेषार्धं दृष्ट्वैक्यं त्रिपुरस्य च । त्रिपर्वणा त्रिशल्येन ततस्तान्यवसादयत्

そのとき、三重のトリプラが半瞬のうちに一つとなるのを見て、彼は三つの節と三つの鏃を備えた矢でこれを射抜き、滅びへと沈めた。

Verse 25

ततो लोका भयत्रस्तास्त्रिपुरे भरतोत्तम । सर्वासुरविनाशाय कालरूपा भयावहाः

そのとき、トリプラにおいて諸世界は恐怖に震えた、バラタ族の最勝よ。時そのものの姿をしたおぞましい凶兆が現れ、すべてのアスラの滅亡を告げた。

Verse 26

अट्टहासान् प्रमुञ्चन्ति कष्टरूपा नरास्तदा । निमेषोन्मेषणं चैव कुर्वन्ति लिपिकर्मसु

その時、凄惨な相の人々は荒々しい高笑いを放ち、書記の務めの最中にも、まばたきしたり凝視したりと奇妙な動きを繰り返し、恐怖に取り憑かれたかのようであった。

Verse 27

निष्पन्दनयना मर्त्याश्चित्रेष्वालिखिता इव । देवायतनगा देवा रटन्ति प्रहसन्ति च । स्वप्ने पश्यन्ति चात्मानं रक्ताम्बरविभूषितम्

人々はまばたきもせず凝視し、まるで絵に描かれた像のようであった。社殿に坐す神々さえ叫び、奇妙に笑い、また夢の中で人々は自らが赤衣をまとっているのを見た。

Verse 28

रक्तमाल्योत्तमाङ्गाश्च पतन्तः कार्दमे ह्रदे । पश्यन्ति नाम चात्मानं सतैलाभ्यङ्गमस्तकम्

彼らは、赤い花輪を頂いた自らの首が泥濘の池へ落ちるのを見、また自らの頭が油の塗油で塗られているのを見た――まことに凶兆の幻視であった。

Verse 29

पश्यन्ति यानमारूढं रासभैश्च नृपोत्तम । संवर्तको महावायुर्युगान्तप्रतिमो महान्

王の中の最勝よ、彼らは自らが驢馬に引かれる乗り物に乗っているのを見た。すると、劫末に似た大いなる「サンヴァルタカ」の風が起こり、猛威を振るった。

Verse 30

गृहानुन्मूलयामास वृक्षजातीननेकशः । भूमिकम्पाः सनिर्घाता उल्कापाताः सहस्रशः

それは家々を根こそぎにし、さまざまな樹木を数多く引き抜いた。雷鳴のような轟きとともに地震が起こり、流星が幾千も降り注いだ—諸世界を満たす恐るべき前兆であった。

Verse 31

रुधिरं वर्षते देवो मिश्रितं कर्करैर्बहु । अग्निकुण्डेषु विप्राणां हुतः सम्यग्घुताशनः

神は血の雨を降らせた。濃く、無数のざらついた破片を交えて。さらに婆羅門たちの火坑では、正しく招来された祭火が、しかるべく供物を受けて燃え盛った。

Verse 32

ज्वलते धूमसंयुक्तो विस्फुलिङ्गकणैः सह । कुंजरा विमदा जातास्तुरगाः सत्त्ववर्जिताः

それは煙をまとい、火花の雨を伴って燃え上がった。象は発情の昂ぶりを失い、馬は活力と気魄を奪われた。

Verse 33

अवादितानि वाद्यन्ते वादित्राणि सहस्रशः । ध्वजा ह्यकम्पिताः पेतुश्छत्राणि विविधानि च

奏でられていなかった楽器が、幾千もひとりでに鳴り響いた。揺らされてもいない旗幟が倒れ、さまざまな王の天蓋(傘)もまた落ちた。

Verse 34

ज्वलति पादपास्तत्र पर्णानि च सभं ततः । सर्वं तद्व्याकुलीभूतं हाहाकारसमन्वितम्

そこでは樹々が燃え、葉までもが灼けた。するとその地はことごとく騒然となり、「ああ、ああ!」という叫びに満ちた。

Verse 35

उद्यानानि विचित्राणि प्रबभञ्ज प्रभञ्जनः । तेन संप्रेरिताः सर्वे ज्वलन्ति विशिखाः शिखाः

猛き風プラバンジャナは、妙なる園々を打ち砕いた。その勢いに駆られて、炎は四方にうねり起こり、火の舌が峰のごとく燃え上がった。

Verse 36

वृक्षगुल्मलतावल्ल्यो गृहाणि च समन्ततः । दिग्विभागैश्च सर्वैश्च प्रवृत्तो हव्यवाहनः

四方において、樹木・灌木・蔓草・藤づる、さらに家々までもが呑み込まれた。あらゆる方角から、供物を運ぶ火神アグニが広がり出た。

Verse 37

सर्वं किंशुकपर्णाभं प्रज्वलच्चैव दृश्यते । गृहाद्गृहं तदा गन्तुं नैव धूमेन शक्यते

すべては燃え立つように見え、キンシュカの葉のごとく赤かった。その時、煙のために、家から家へ移ることさえ叶わなかった。

Verse 38

हरकोपाग्निनिर्दग्धाः क्रन्दन्ते त्रिपुरे जनाः । प्रदीप्तं सर्वतो दिक्षु दह्यते त्रिपुरं परम्

ハラの憤怒の火に焼かれて、トリプラの人々は泣き叫んだ。四方八方すべてに燃え広がり、偉大なるトリプラの都は炎上した。

Verse 39

पतन्ति शिखराग्राणि विशीर्णानि सहस्रशः । पावको धूमसंपृक्तो दह्यमानः समन्ततः

砕け散り、楼塔の頂は幾千ともなく落ちた。煙を帯びた火は四方に燃えさかり、あらゆるものが焼かれていった。

Verse 40

नृत्यन्वै व्याप्तदिग्देशः कान्तारेष्वभिधावति । देवागारेषु सर्वेषु गृहेष्वट्टालकेषु च

舞うように進み、あらゆる方角と地を満たして、それは森へと駆け込み—すべての神殿へ、家々へ、さらには見張りの楼へも押し寄せた。

Verse 41

प्रवृत्तो हुतभुक्तत्र पुरे कालप्रचोदितः । ददाह लोकान्सर्वत्र हरकोपप्रकोपितः

その都の中で、火は燃え上がった—時そのものに駆り立てられ—ハラ(シヴァ)の怒りに煽られて、四方の世界を焼き尽くした。

Verse 42

दहते त्रैपुरं लोकं बालवृद्धसमन्वितम् । सपुरं सगृहद्वारं सवाहनवनं नृप

王よ、トリプラの世界は燃えていた—幼子も老いた者もともに—都のすべて、家々と門、乗り物、そして林苑や森までも。

Verse 43

केचिद्भोजनसक्ताश्च पानासक्तास्तथापरे । अपरा नृत्यगीतेषु संसक्ता वारयोषितः

ある者は饗宴に耽り、ある者は酒に溺れ、また別の者—遊女たち—は舞と歌にすっかり心を奪われていた。

Verse 44

अन्योन्यं च परिष्वज्य हुताशनशिखार्दिताः । दह्यमाना नृपश्रेष्ठ सर्वे गच्छन्त्यचेतनाः

互いに抱き合い、火の炎に責められて焼かれつつ、王の中の最上よ、彼らは皆、意識を失い迷い歩いた。

Verse 45

अथान्ये दानवास्तत्र दह्यन्तेऽग्निविमोहिताः । न शक्ताश्चान्यतो गन्तुं धूमेनाकुलिताननाः । हंसकारण्डवाकीर्णा नलिन्यो हेमपङ्कजाः

そのとき、そこにいた他のダーナヴァたちも、火に惑わされて焼かれた。煙に顔を乱され、どこへも逃れ得なかった。白鳥とカーランダヴァ鳥で満ちた蓮池には、黄金の蓮華が咲いていた。

Verse 46

दह्यन्ते विविधास्तत्र वाप्यः कूपाश्च भारत । दृश्यन्तेऽनलदग्धानि पुरोद्यानानि दीर्घिकाः । अम्लानैः पङ्कजैश्छन्ना विस्तीर्णावसुयोजनाः

バーラタよ、そこではさまざまな池や井戸までも燃え立っていた。王の園苑と長い貯水池が火に焼かれて見えた—しおれぬ蓮華に覆われ、幾多のヨージャナにわたり広がっていた。

Verse 47

गिरिकूटनिभास्तत्र प्रासादा रत्नशोभिताः । दृश्यन्तेऽनलसंदग्धा विशीर्णा धरणीतले

そこでは、山の峰のごとき楼閣が宝玉に飾られていたが、火に焼かれ、砕け散って地に崩れ落ちているのが見えた。

Verse 48

नरस्त्रीबालवृद्धेषु दह्यमानेषु सर्वतः । निर्दयं ज्वलते वह्निर्हाहाकारो महानभूत् । काचिच्च सुखसंसुप्ताप्रमत्तान्या नृपोत्तम

男も女も子らも老いた者も、あらゆる所で焼かれるとき、火は無慈悲に燃えさかり、「ああ!」という大いなる叫びが起こった。しかも、安らかに眠る者もいれば、なお不注意のままの者もいた—王の中の最上よ。

Verse 49

क्रीडित्वा च सुविस्तीर्णशयनस्था वराङ्गना । काचित्सुप्ता विशालाक्षी हारावलिविभूषिता । धूमेनाकुलिता दीना न्यपतद्धव्यवाहने

戯れののち、気高き女は広々とした寝台に横たわった。大きな瞳の佳人は、幾重もの首飾りに飾られて眠っていた。煙に包まれ、哀れにも、彼女はすべてを焼き尽くす火へと落ちた。

Verse 50

काचित्तस्मिन्पुरे दीप्ते पुत्रस्नेहानुलालसा । पुत्रमालिङ्गते गाढं दह्यते त्रिपुरेऽग्निना

燃えさかるその都で、子への愛に焦がれる母は、わが子を固く抱きしめた。だがトリプラにて、彼女は火に焼かれた。

Verse 51

काचित्कनकवर्णाभा इन्द्रनीलविभूषिता । भर्तारं पतितं दृष्ट्वा पतिता तस्य चोपरि

黄金の輝きを帯び、青玉の飾りを身にまとう女は、倒れた夫を見て、たちまち彼の上へと倒れ伏した。

Verse 52

काचिदादित्यवर्णाभा प्रसुप्ता तु प्रियोपरि । अग्निज्वालाहता गाढं कंठमालिङ्गते नृप

また別の女は太陽のごとく輝き、愛しい人の上で眠っていた。火の舌に打たれても、なお固くその首に抱きついた――王よ。

Verse 53

मेधवर्णा परा नारी चलत्कनकमेखला । श्वेतवस्त्रोत्तरीया तु पपात धरणीतले

気高き女は白き肌をもち、揺れる黄金の帯を締め、白衣と上衣をまとっていたが、大地に崩れ落ちた。

Verse 54

काचित्कुन्देन्दुवर्णाभा नीलरत्नविभूषिता । शिरसा प्राञ्जलिर्भूत्वा विज्ञापयति पावकम्

また一人の女は、くんどの花と月のように白く、青き宝玉を身に飾り、頭を垂れて合掌し、火神に願いを申し上げた。

Verse 55

कस्याश्चिज्ज्वलते वस्त्रं केशाः कस्याश्च भारत । ज्वलज्ज्वलनसङ्काशैर्हेमभाण्डैस्त्रसंहित च

ある者は衣が燃え、ある者は髪が燃えた――おお、バーラタよ。さらに、火そのもののごとく燃えさかる黄金の器により、いっそう苦しめられる者もいた。

Verse 56

काचित्प्रभूतदुःखार्ता विललाप वराङ्गना । भस्मीभूतं पतिं दृष्ट्वा क्रन्दन्ती कुररी यथा

気高き女は、はなはだしい悲しみに打たれて声をあげて嘆いた。夫が灰と化したのを見て、クラーリー鳥のように泣き叫んだ。

Verse 57

आलिङ्ग्य गाढं सहसा पतिता तस्य मूर्धनि । काचिच्च बहुदुःखार्ता व्यलपत्स्त्री स्ववेश्मनि

彼を固く抱きしめると、彼女はたちまちその頭上に崩れ落ちた。さらに別の女は深い悲しみに沈み、自らの家の中で泣き叫んだ。

Verse 58

भस्मसाच्च कृतं दृष्ट्वा क्रन्दते कुररी यथा । मातरं पितरं काचिद्दृष्ट्वा विगतचेतनम्

人が灰となったのを見て、彼女はクラーリー鳥のように泣いた。また別の者は、母と父が気を失って倒れているのを見て、心の平静を失った。

Verse 59

वेपते पतिता भूमौ खेदिता वडवा यथा । इतश्चेतश्च काचिच्च दह्यमाना वराङ्गना

ある者は地に倒れ、疲れた雌馬のように震えていた。別の気高い女は恐怖に焼かれるごとく、取り乱してあちらこちらへ走り回った。

Verse 60

नापश्यद्बालमुत्सङ्गे विपरीतमुखी स्थिता । कुम्भिलस्य गृहं दग्धं पतितं धरणीतले

彼女は顔を逆の方へ向けて立ち、膝の上の幼子に気づかなかった。クンビラの家は火に焼かれて崩れ、地に倒れ落ちた。

Verse 61

कूष्माण्डस्य च धूम्रस्य कुहकस्य बकस्य च । विरूपनयनस्यापि विरूपाक्षस्य चैव हि

「(火はまた)クーシュマーンダとドゥームラの家に、クハカとバカの家に、さらにヴィルーパ・ナヤナの家に、まことにヴィルーパークシャの家にも燃え広がった。」

Verse 62

शुम्भो डिम्भश्च रौद्रश्च प्रह्लादश्चासुरोत्तमः । दण्डपाणिर्विपाणिश्च सिंहवक्त्रस्तथानघ

「(また同じく)シュンバとディンバの家に、ラウドラの家に、そしてアスラの中でも最勝なるプラフラーダの家に、ダンダパーニとヴィパーニの家に、さらにシンハヴァクトラの家にも、ああ罪なき者よ。」

Verse 63

दुन्दुभश्चैव संह्रादो डिण्डिर्मुण्डिस्तथैव च । बाणभ्राता च बाणश्च क्रव्यादव्याघ्रवक्त्रकौ

「そして(また)ドゥンドゥバとサンフラーダの家に、ディンディとムンディの家にも;バーナの兄弟とバーナ自身の家にも;さらにクラヴィヤーダとヴィヤーグラヴァクトラの家にも。」

Verse 64

एवमन्येऽपि ये केचिद्दानवा बलदर्पिताः । तेषां गृहे तथा वह्निर्ज्वलते निर्दयो नृप । दह्यमानाः स्त्रियस्तात विलपन्ति गृहे गृहे

同じく、力の驕りに酔うほかのダーナヴァたちの家々にも、無慈悲な火が燃えさかった、王よ。焼かれながら、女たちは、いとしき者よ、家ごとに泣き叫んだ。

Verse 65

करुणाक्षरवादिन्यो निराधारा गताः शिवम् । यदि वैरं सुरारेश्च पुरुषोपरिपावक

哀れみの言葉を口にし、拠り所を失った彼女らは、シヴァに救護を求めた。「もし神々の敵に対する怨みがあるのなら、人の命に従い動く火よ……」

Verse 66

स्त्रियः किमपराध्यन्ति गृहपञ्जरकोकिलाः । अनिर्दयो नृशंसस्त्वं कस्ते कोपः स्त्रियं प्रति

女たちに何の罪があるのか——家という籠に閉じ込められた郭公のような女たちに。お前は無慈悲で残忍だ。女に向けるその怒りは何なのか。

Verse 67

किं त्वया न श्रुतं लोके अवध्याः सर्वथा स्त्रियः । किं तु तुभ्यं गुणो ह्यस्ति दहने पवनेरितः

世に言われることを聞かなかったのか。女は決して殺してはならぬ、と。だが、風にあおられて燃えるだけのお前に、火よ、いかなる「徳」があるというのか。

Verse 68

न कारुण्यं त्वया किंचिद्दाक्षिण्यं च स्त्रियं प्रति । दयां म्लेच्छा हि कुर्वन्ति वचनं वीक्ष्य योषिताम्

お前には女に対する憐れみも、情けも少しもない。たとえムレッチャでさえ、女の言葉を聞けば慈悲を示すというのに。

Verse 69

म्लेच्छानामपि च म्लेच्छो दुर्निवार्यो ह्यचेतनः । एवं विलपमानानां स्त्रीणां तत्रैव भारत

たとえムレッチャの中にも「ムレッチャ」がいる――心なく、抑えがたい者が。かくして女たちがその場で嘆き悲しむあいだ、バ―ラタよ……

Verse 70

ज्वालाकलापबहुलः प्रज्वलत्येव पावकः । एवं दृष्ट्वा ततो बाणो दह्यमान उवाच ह

炎の群れが幾重にも満ち、火は激しく燃えさかった。これを見て、焼かれつつあったバーナは語った。

Verse 71

अवज्ञाय विनष्टोऽहं पापात्मा हरमञ्जसा । मया पापेन मूर्खेण ये लोका नाशिता ध्रुवम्

ハラ(シヴァ)を侮ったゆえに、罪深き心のこの身はたちまち滅びた。わが罪、愚かなる我によって、あの人々に必ずや破滅をもたらしたのだ。

Verse 72

गोब्राह्मणा हता नित्यमिह लोके परत्र च । नाशितान्यन्नपानानि मठारामाश्रमास्तथा

牛とバラモンは常に害され、この世でも来世でもその罪は及ぶ。食と飲みの蓄えは滅び、また僧院(マタ)、園林、アーシュラマも同様に破壊された。

Verse 73

ऋषीणामाश्रमाश्चैव देवारामा गणालयाः । तेन पापेन मे ध्वंसस्तपसश्च बलस्य च

リシたちのアーシュラマ、神々の聖なる園、そしてシヴァのガナたちの住処までもが荒廃した。その罪ゆえに、我がタパス(苦行)も力もまた滅び去った。

Verse 74

किं धनेन करिष्यामि राज्येणान्तःपुरेण च

財宝や王権、さらには王宮の奥御殿さえ、我に何の用があろうか。

Verse 75

वरं शङ्करपादौ च शरणं यामि मूढधीः । न माता न पिता चैव न बन्धुर्नापरो जनः

たとえ我が心が迷っていようとも、なお勝るのは、シャンカラ(Śaṅkara)の御足に帰依すること。母も父も、親族も他の誰も、まことに我を守り得ない。

Verse 76

मुक्त्वा चैव महेशानं परमार्तिहरं परम् । आत्मना च कृतं पापमात्मनैव तु भुज्यते

マヘーシャーナ(Maheśāna)――最上にして深き苦患を除く御方――を捨てるは、まことに誤りである。自らなした罪は、まさに自らが受ける。

Verse 77

अहं पुनः समस्तैश्च दह्यामि सह साधुभिः । एवमुक्त्वा शिवं लिङ्गं कृत्वा तन्मस्तकोपरि

「我もまた、皆とともに聖者たちと共に焼かれよう。」そう言い終えると、彼はシヴァ・リンガ(Śiva-liṅga)を作り、それを頭上に載せた。

Verse 78

निर्जगाम गृहाच्छीघ्रं पावकेनावगुण्ठितः । स खिन्नः स्विन्नगात्रस्तु प्रस्खलंस्तु मुहुर्मुहुः

彼は火に包まれたまま、家から急ぎ出た。疲れ果て、全身は汗に濡れ、幾度も幾度もよろめきつまずいた。

Verse 79

हरं गद्गदया वाचा स्तुवन्वै शरणं ययौ । त्वत्कोपानलनिर्दग्धो यदि वध्योऽस्मि शङ्कर

声を詰まらせて彼はハラを讃え、御許に帰依して言った。「もし私が、シャṅカラよ、あなたの怒りの火に焼かれて討たれるべきなら——そのままに。」

Verse 80

त्वत्प्रसादान्महादेव मा मे लिङ्गं प्रणश्यतु । अर्चितं मे सुरश्रेष्ठ ध्यातं भक्त्या मया विभो

あなたの恩寵により、マハーデーヴァよ、我がリンガが滅びませんように。神々の最勝者よ、主よ——私はこれを礼拝し、信愛をもって観想してきました、遍満なる御方よ。

Verse 81

प्राणादिष्टतमं देव तस्माद्रक्षितुमर्हसि । यदि तेऽहमनुग्राह्यो वध्यो वा सुरसत्तम

神よ、あなたは命そのものよりも私にとって愛しい。ゆえにお守りください。神々の最勝者よ、私に恩寵を与えるか、あるいは討つか——それはただあなたの御意のままです。

Verse 82

प्रतिजन्म महादेव त्वद्भक्तिरचलास्तु मे । पशुकीटपतङ्गेषु तिर्यग्योनिगतेषु च । स्वकर्मणा महादेव त्वद्भक्तिरचलास्तु मे

マハーデーヴァよ、あらゆる生において、あなたへの信愛が揺るがずありますように。獣・虫・羽虫の中に生まれ、いかなる畜生の胎にあっても——自らの業の力によって、マハーデーヴァよ、あなたへのバクティが堅固でありますように。

Verse 83

एवमुक्त्वा महाभागो बाणो भक्तिमतां वरः । स्तोत्रेण देवदेवेशं छन्दयामास भारत

かく語り終えると、幸いなるバーナ——信愛者の中の第一——は、バーラタよ、讃歌によって神々の主を喜ばせ、なだめ奉り始めた。

Verse 84

बाण उवाच । शिव शङ्कर सर्वहराय नमो भवभीतभयार्तिहराय नमः । कुसुमायुधदेहविनाशंकर प्रमदाप्रियकामक देव नमः

バーṇaは言った。シヴァ、シャṅカラ、万を滅する御方に礼拝。世の生成におびえる者の恐れと苦悩を除く御方に礼拝。花の矢を持つカーマの身を滅ぼした神よ、愛妃パールヴァティーの願いを成就する御方よ、あなたに礼拝する。

Verse 85

जय पार्वतीश परमार्थसार जय विरचितभीमभुजङ्गहार । जय निर्मलभस्मविलिप्तगात्र जय मन्त्रमूल जगदेकपात्र

勝利あれ、パールヴァティーの主、最高真理の精髄よ。勝利あれ、恐るべき蛇を花輪としてまとう御方よ。勝利あれ、清らかな聖灰を身に塗る御方よ。勝利あれ、マントラの根源、宇宙ただ一つの器にして支えよ。

Verse 86

जय विषधरकपिलजटाकलाप जय भैरवविघृतपिनाकचाप । जय विषमनयनपरिमुक्तसङ्ग जय शङ्कर धृतगाङ्गतरङ्ग

勝利あれ、黄褐の結髪を蛇で飾る御方よ。勝利あれ、猛きバイラヴァの姿にてピナーカの弓を携える御方よ。勝利あれ、異なる眼を持つ者(三つ目)、一切の執着を離れた御方よ。勝利あれ、シャンカラ、ガンガーの波を戴く御方よ。

Verse 87

जय भीमरूप खट्वाङ्गहस्त शशिशेखर जय जगतां प्रशस्त । जय सुखरेश सुरलोकसार जय सर्वसकलनिर्दग्धसार

勝利あれ、恐るべき御姿にてカトヴァーンガを手にする御方よ。月を頂く御方よ、勝利あれ—諸世界に讃えられる者よ。勝利あれ、至福の主、デーヴァ界の精髄よ。勝利あれ、その威力が一切の不浄と虚ろを焼き尽くす御方よ。

Verse 88

जय कीर्तनीय जगतां पवित्र जय वृषाङ्क बहुविधचरित्र । जय विरचितनरकङ्कालमाल अघासुरदेहकङ्कालकाल

勝利あれ、讃えられるべき者、諸世界を清める御方よ。勝利あれ、牡牛の印を帯び、さまざまな神業を示す御方よ。勝利あれ、地獄の骸骨の花輪をまとう御方よ。カーラ、時よ、罪ある身の骸(アガースラ)さえも餌食とする御方よ。

Verse 89

जय नीलकंठ वरवृषभगमन जय सकललोकदुरितानुशमन । जय सिद्धसुरासुरविनतचरण जय रुद्र रौद्रभवजलधितरण

勝利あれ、ニーラカṇṭha(青き喉の主)よ、尊き牡牛に乗る御方よ。勝利あれ、あらゆる世界の罪と苦患を鎮め給う御方よ。勝利あれ、シッダ、デーヴァ、アスラが御足にひれ伏す御方よ。勝利あれ、ルドラよ、恐るべき輪廻の大海を衆生に渡らせ給う御方よ。

Verse 90

जय गिरिश सुरेश्वरमाननीय जय सूक्ष्मरूप संचितनीय । जय दग्धत्रिपुर विश्वसत्त्व जय सकलशास्त्रपरमार्थतत्त्व

勝利あれ、ギリーシャ(山の主)よ、デーヴァの主たちにも尊ばれる御方よ。勝利あれ、微妙なる御姿にして、内に収めて悟らるべき御方よ。勝利あれ、トリプラを焼き尽くした御方、宇宙の存在そのものよ。勝利あれ、あらゆるシャーストラの究極の趣意たる真実よ。

Verse 91

जय दुरवबोध संसारतार कलिकलुषमहार्णवघोरतार । जय सुरासुरदेवगणेश नमो हयवानरसिंहगजेन्द्रमुख

勝利あれ—測り難く、しかも衆生をサンサーラより渡らせる救済者よ。勝利あれ—カリの穢れの恐るべき大海を越えしめる峻厳なる解脱者よ。勝利あれ、デーヴァとアスラの群の主よ。礼拝す、馬・猿・獅子・象王の面として現れ給う御方よ。

Verse 92

अतिह्रस्वस्थूलसुदीर्घतम उपलब्धिर्न शक्यते ते ह्यमरैः । प्रणतोऽस्मि निरञ्जन ते चरणौ जय साम्ब सुलोचनकान्तिहर

不死なる者(アマラ)といえども、汝を尽くしては知り得ない—極微としても、粗大としても、無量の広がりとしても、また一切を超える至上としても。われは汝の無垢なる御足にひれ伏す。勝利あれ、サーンバよ、美しき眼の主よ、あらゆる光輝を凌ぎて奪い去る御方よ。

Verse 93

अप्राप्य त्वां किमत्यन्तमुच्छ्रयी न विनाशयेत् । अतिप्रमाथि च तदा तपो महत्सुदारुणम्

汝に到らずして、いかなる高き上昇が滅びに終わらぬであろうか。ゆえにそのとき、人は大いなる、きわめて峻厳なるタパス(苦行)を修し、諸の垢をことごとく打ち砕くべきである。

Verse 94

न पुत्रबान्धवा दारा न समस्तः सुहृज्जनः । सङ्कटेऽभ्युपगच्छन्ति व्रजन्तमेकगामिनम्

災難の時、子も親族も妻も、友の一切も助けに来ない。人が旅立つとき、ただ独り、ただ一つの道(死の道)を行く。

Verse 95

यदेव कर्म कैवल्यं कृतं तेन शुभाशुभम् । तदेव सार्थवत्तस्य भवत्यग्रे तु गच्छतः

人がなした行い—善であれ悪であれ—それこそが、その人にとって唯一の真の「財」となり、彼が先へ進むとき(死後)にこそ意味を持つ。

Verse 96

निर्धनस्यैव चरतो न भयं विद्यते क्वचित् । धनीभयैर्न मुच्येत धनं तस्मात्त्यजाम्यहम्

財なくして生きる者には、どこにも恐れはない。だが富める者は、富から生じる恐れを免れない。ゆえに我は財を捨てる。

Verse 97

लुब्धाः पापानि कुर्वन्ति शुद्धांशा नैव मानवाः । श्रुत्वा धर्मस्य सर्वस्वं श्रुत्वा चैवावधार्य तत्

貪る者は罪をなす。人は真にその分において清らかではない。たとえダルマの全精髄を聞き—聞いて熟考しても—(なお貪欲ゆえに堕ちる)。

Verse 98

त्वं विष्णुस्त्वं जगन्नाथो ब्रह्मरूपः सनातनः । इन्द्रस्त्वं देवदेवेश सुरनाथ नमोऽस्तु ते

汝はヴィシュヌ、汝はジャガンナータ(世界の主)。汝は梵天の姿をとる永遠者。汝はインドラ。ああ、 देव の देव たる主、スラの王よ、汝に礼拝あれ。

Verse 99

त्वं क्षितिर्वरुणश्चैव पवनस्त्वं हुताशनः । त्वं दीक्षा यजमानश्च आकाशं सोम एव च

汝は大地、汝はヴァルナ、汝は風、汝は火なり。汝はディークシャー(聖なる受戒・灌頂)にして祭主、汝は虚空の天、またソーマでもある。

Verse 100

त्वं सूर्यस्त्वं तु वित्तेशो यमस्त्वं गुरुरेव च । त्वया व्याप्तं जगत्सर्वं त्रैलोक्यं भास्वता यथा

汝は太陽、汝は財宝の主、汝はヤマ、また汝はグルでもある。汝によって一切の宇宙は遍満される――輝く光が三界を満たすがごとく。

Verse 101

एतद्बाणकृतं स्तोत्रं श्रुत्वा देवो महेश्वरः । क्रोधं मुक्त्वा प्रसन्नात्मा तदा वचनमब्रवीत्

バーナが作ったこの讃歌を聞くや、神マヘーシュヴァラは怒りを捨てた。心安らぎ、慈しみに満ちて、ついで次の言葉を告げた。

Verse 102

ईश्वर उवाच । न भेतव्यं न भेतव्यमद्यप्रभृति दानव । सौवर्णे भवने तिष्ठ मम पार्श्वेऽथवा पुनः

イーシュヴァラは言った。「恐れるな、恐れるな、ダーナヴァよ、今日より後は。黄金の御殿に住め、あるいは我が傍らに留まれ。」

Verse 103

पुत्रपौत्रप्रपौत्रैश्च बान्धवैः सह भार्यया । अद्यप्रभृति वत्स त्वमवध्यः सर्वशत्रुषु

「汝は子ら、孫ら、曾孫ら、親族、そして妻とともに――愛しき者よ――今日より、あらゆる敵の中にあっても不殺不滅、誰にも討たれぬであろう。」

Verse 104

मार्कण्डेय उवाच । भूयस्तस्य वरो दत्तो देवदेवेन भारत । स्वर्गे मर्त्ये च पाताले पूजितः ससुरासुरैः

マールカンデーヤは言った。「再び、バ―ラタよ、神々の神は彼にさらに一つの恩寵を授けた。天界・人界・地下界において、彼は尊崇される者となり、デーヴァにもアスラにも等しく礼拝された。」

Verse 105

अक्षयश्चाव्ययश्चैव वस त्वं वै यथासुखम् । ततो निवारयामास रुद्रः सप्तशिखं तदा

「朽ちることなく、衰えることなくあれ。安らぎのうちに、望むままに住まえ。」そのときルドラはサプタシカを抑えとどめた。

Verse 106

तृतीयं रक्षितं तस्य पुरं देवेन शम्भुना । ज्वालामालाकुलं चान्यत्पतितं धरणीतले

彼の第三の都は神シャンブによって守護された。しかし、炎の花輪に満ちた別の部分は大地へと落ちた。

Verse 107

अर्धेन प्रस्थितादूर्ध्वं तस्य ज्वाला दिवं गताः । हाहाकारो महांस्तत्र ऋषिसङ्घैरुदीरितः

その半分が上方へと突き進むと、炎は天へと昇った。そこに、リシたちの集いから「嗚呼!」という大いなる叫びが上がった。

Verse 108

दैवतैश्च महाभागैः सिद्धविद्याधरादिभिः । एकं तु पतितं तत्र श्रीशैले खण्डमुत्तरम्

また、福徳ある神々は、シッダやヴィディヤーダラなどと共に、北の一片がそこにあるシュリーシャイラへ落ちるのを見た。

Verse 109

द्वितीयं पतितं राजञ्छैले ह्यमरकण्टके । प्रज्वलत्पतितं तत्र तेन ज्वालेश्वरं स्मृतम्

第二の断片は、王よ、アマラカーンタカと呼ばれる山に落ちた。そこに燃えさかりつつ落ちたゆえに、その地は「ジャーヴァレーシュヴァラ」(Jvāleśvara)と記憶されるようになった。

Verse 110

दग्धे तु त्रिपुरे राजन्पतिते खण्ड उत्तमे । रुद्रो देवः स्थितस्तत्र ज्वालामालानिवारकः

トリプラが焼き尽くされ、すぐれた断片が落ちたとき、王よ、神ルドラはそこに鎮まり住した――周囲をめぐる炎の花輪を鎮め、退ける御方として。

Verse 111

हाहाकारपराणां तु ऋषीणां रक्षणाय च । स्वयं मूर्तिर्महेशानुमावृषभसंयुतः

嘆き叫ぶ聖仙たちを守るため、マヘーシャ自らがその御身を現した――ウマーを伴い、牡牛(ナンディン)に乗って。

Verse 112

मनसापि स्मरेद्यस्तु भक्त्या ह्यमरकण्टकम् । चान्द्रायणाधिकं पुण्यं स लभेन्नात्र संशयः

信心をもって、たとえ心のうちにでもアマラカーンタカを念ずる者は、チャンドラーイヤーナ(Cāndrāyaṇa)の誓戒にも勝る功徳を得る。これに疑いはない。

Verse 113

अतिपुण्यो गिरिश्रेष्ठो यस्माद्भरतसत्तम । अस्मान्नित्यं भवेद्राजन्सर्वपापक्षयंकरः

この山はきわめて功徳深く、山々のうち最勝である、バラタ族の最上者よ。ゆえに、王よ、我らのような者にとっても、あらゆる罪の滅尽が常に成就する。

Verse 114

नानाद्रुमलताकीर्णो नानापुष्पोपशोभितः । नानागुल्मलताकीर्णो नानावल्लीभिरावृतः

そこは種々の樹木と蔓草に満ち、さまざまな花々により美しく飾られていた。多様な灌木と蔓が繁り、数知れぬ攀縁の植物に覆われていた。

Verse 115

सिंहव्याघ्रसमाकीर्णो मृगयूथैरलंकृतः । श्वापदानां च घोषेण नित्यं प्रमुदितोऽभवत्

そこは獅子と虎で満ち、鹿の群れにより飾られていた。野の獣たちの叫び声によって、常に生き生きとした歓喜に満たされていた。

Verse 116

ब्रह्मेन्द्रविष्णुप्रमुखैर्ह्यमरैश्च सहस्रशः । सेव्यते देवदेवेशः शङ्करस्तत्र पर्वते

その山において、シャンカラ(Śaṅkara)—神々の神主—は、ブラフマー、インドラ、ヴィシュヌを先頭とする幾千の不死なる神々によって礼拝されている。

Verse 117

पतनं कुरुते योऽस्मिन्पर्वतेऽमरकण्टके । क्रीडते क्रमशो राजन्भुवनानि चतुर्दश

この山アマラカンタカに身を投げる者は、王よ、段階を追って十四の世界を戯れ歩む。

Verse 118

ऐन्द्रं वाह्नं च कौबेरं वायव्यं याम्यमेव च । नैरृत्यं वारुणं चैव सौम्यं सौरं तथैव च

インドラの界、アグニの界、クベーラの界、ヴァーユの界、そしてヤマの界。さらにナイリタの界、ヴァルナの界、ソーマの界、スーリヤの界もまた—

Verse 119

ब्राह्मं च पदमक्लिष्टं वैष्णवं तदनन्तरम् । उमारुद्रं महाभाग ऐश्वरं तदनन्तरम्

次に、汚れなきブラフマーの境地があり、その後にヴィシュヌの境地がある。さらにウマー=ルドラの境地があり、幸いなる者よ、その後にアイーシュヴァラの境地がある。

Verse 120

परं सदाशिवं शान्तं सूक्ष्मं ज्योतिरतीन्द्रियम् । तस्मिन्याति लयं धीरो विधिना नात्र संशयः

万有を超えてサダーシヴァがある――寂静にして微妙、感官を超えた光明。その中へ、定まれる者は正しい作法により融け入る。これに疑いはない。

Verse 121

युधिष्ठिर उवाच । कोऽप्यत्र विधिरुद्दिष्टः पतने ऋषिसत्तम । एतन्मे सर्वमाचक्ष्व संशयोऽस्ति महामुने

ユディシュティラは言った。「聖仙の中の最勝よ、ここでパタナ(落下・身を投ずる行)について何らかの規定が示されているのですか。大いなるムニよ、私にすべてを詳しく語ってください。疑いが起こったのです。」

Verse 122

श्रीमार्कण्डेय उवाच । शृणुष्व कथयिष्यामि तं विधिं पाण्डुनन्दन । यत्कृत्वा प्रथमं कर्म निपतेत्तदनन्तरम्

聖マールカンデーヤは言った。「聞きなさい、パーンドゥの子よ。私はその定められた作法を説こう。まず前行の儀礼を行い、その後にパタナを行ずるべきである。」

Verse 123

कृत्वा कृच्छ्रत्रयं पूर्वं जप्त्वा लक्षं दशैव तु । शाकयावकभुक्चैव शुचिस्त्रिषवणो नृप

「まず、三度のクリッチャラ(Kṛcchra)の苦行を行い、ジャパにて十ラクシャ(百万人)回を唱えよ。青菜と大麦の粥を食として清浄を保ち、三つのサンディヤーにおける一日三度の作法を守るのだ、王よ——」

Verse 124

त्रिकालमर्चयेदीशं देवदेवं त्रिलोचनम् । दशांशेन तु राजेन्द्र होमं तत्रैव कारयेत्

一日に三度、神々の神にして三つの眼をもつ主イーシャを礼拝すべし。さらに、ジャパの十分の一を供物として、王の中の最勝者よ、その場でホーマ(火供)を執り行わせよ。

Verse 125

लक्षवारं जपेद्देवं गन्धमाल्यैश्च पूजयेत् । रात्रौ स्वप्ने तदा पश्येद्विमानस्थं ततः क्षिपेत्

主を十万遍ジャパし、香と花鬘によって供養すべし。すると夜、夢のうちに、ヴィマーナに坐す御姿を拝する。のちにパタナとして身を投げ下ろすべし。

Verse 126

अनेनैव विधानेन आत्मानं यस्तु निक्षिपेत् । स्वर्गलोकमनुप्राप्य क्रीडते त्रिदशैः सह

この同じ作法に従って自らの身を投げ下ろす者は、天界に至り、そこで神々とともに遊楽する。

Verse 127

त्रिंशद्वर्षसहस्राणि त्रिंशत्कोट्यस्तथैव च । मुक्त्वा मनोरमान्भोगांस्तदा गच्छेन्महीतलम्

三万年、また同じく三十クロールのあいだ、心地よい享楽を味わい尽くしたのち、彼は地上へと帰還する。

Verse 128

पृथिवीमेकच्छत्रेण भुनक्ति लोकपूजितः । व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम्

彼はただ一つの王傘のもとに大地を治め、民に崇敬される。病と憂いを離れ、百の秋、すなわち一世紀を生きる。

Verse 129

ज्वालेश्वरं तु तत्तीर्थं त्रिषु लोकेषु विश्रुतम् । तत्र ज्वाला नदी पार्थ प्रस्रुता शिवनिर्मिता

その聖なる渡しはジャーヴァレーシュヴァラ(Jvāleśvara)といい、三界に名高い。そこに、プṛターの子よ、ジャーヴァラー(Jvālā)という河が流れ出でる—シヴァによって生み出された。

Verse 130

निर्वाप्य तद्बाणपुरं रेवया सह संगता । तत्र स्नात्वा महाराज विधिना मन्त्रसंयुतः

(ジャーヴァラーは)そのバーナプラ(Bāṇapura)を鎮め、レーヴァー(Revā)と合流して流れる。そこにて、大王よ、定められた作法により、真言を伴って沐浴し—

Verse 131

तिलसंमिश्रतोयेन तर्पयेत्पितृदेवताः । पिण्डदानेन च पित्ःन् पैण्डरीकफलं लभेत्

胡麻を混ぜた水にて、祖霊の神々へタルパナ(供水)を捧げれば、ピトリ(祖霊)は満たされる。さらに祖先へピṇḍa(供物の団子)を施せば、『パインダーリカ』(Paiṇḍarīka)と名づけられる功徳の果を得る。

Verse 132

अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप । मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति

王よ、その聖なるティールタにて断食を行う者は、あらゆる罪より解き放たれ、ルドラの世界へと赴く。

Verse 133

अमराणां शतैश्चैव सेवितो ह्यमरेश्वरः । तथैव ऋषिसङ्घैश्च तेन पुण्यतमो महान्

アマレーシュヴァラ(Amareśvara)は、まことに幾百の神々に仕えられ、また同じくリシたちの群れにも礼拝される。ゆえにその(御主と聖地)は、最上の功徳に満ち、偉大にして崇高である。

Verse 134

समन्ताद्योजनं तीर्थं पुण्यं ह्यमरकण्टकम् । रुद्रकोटिसमोपेतं तेन तत्पुण्यमुत्तमम्

アマルカṇṭカは四方に一ヨージャナ広がる聖なるティールタであり、無数億のルドラに満ちている。ゆえにその功徳は比類ない。

Verse 135

तस्य पर्वतराजस्य यः करोति प्रदक्षिणम् । प्रदक्षिणीकृता तेन पृथिवी नात्र संशयः

あの山々の王を右繞(プラダクシナー)する者は、あたかも全大地を巡ったのと同じである。これに疑いはない。

Verse 136

वाचिकं मानसं चैव कायिकं त्रिविधं च यत् । नश्यते पातकं सर्वमित्येवं शङ्करोऽब्रवीत्

かくしてシャンカラは宣言した。「言葉・心・身体という三種の一切の罪は滅する。」

Verse 137

अमरेश्वरपार्श्वे च तीर्थं शक्रेश्वरं नृप । तपस्तप्त्वा पुरा तत्र शक्रेण स्थापितं किल

王よ、アマレーシュヴァラの傍らにシャクレーシュヴァラと呼ばれるティールタがある。昔、シャクラ(インドラ)がそこで苦行(タパス)を修し、これを स्थापितしたと伝えられる。

Verse 138

कुशावर्तं नाम तीर्थं ब्रह्मणा च कृतं शुभम् । ब्रह्मकुण्डमिति ख्यातं हंसतीर्थं तथा परम्

ブラフマーによって造られた吉祥なるティールタ、クシャーヴァルタがある。それはブラフマクンダとして名高く、さらに勝れたハンサティールタもまたある。

Verse 139

अम्बरीषस्य तीर्थं च महाकालेश्वरं तथा । कावेर्याः पूर्वभागे च तीर्थं वै मातृकेश्वरम्

そこにはまたアンバリーシャのティールタがあり、同様にマハーカーレーシュヴァラもある。さらにカーヴェリーの東岸には、マートリケーシュヴァラと呼ばれるティールタがある。

Verse 140

एतानि दक्षिणे तीरे रेवाया भरतर्षभ । संसेवनस्नानदानैः पापसङ्घहराणि च

バーラタ族の雄牛よ、これらのティールタはレーヴァーの南岸にある。そこに参詣し、沐浴し、ダーナ(布施)を行えば、罪の積み重なりは滅せられる。

Verse 141

भृगुतुङ्गे महाराज प्रसिद्धो भैरवः शिवः । तस्य याम्यविभागे च तीर्थं वै चपलेश्वरम्

大王よ、ブリグトゥンガにおいてシヴァはバイラヴァとして名高い。さらにその南側には、チャパレーシュヴァラと呼ばれるティールタがまことにある。

Verse 142

एतौ स्थितौ दुःखहरौ रेवाया उत्तरे तटे । तावभ्यर्च्य तथा नत्वा सम्यग्यात्राफलं भवेत् । अदृष्टपूजितौ तौ हि नराणां विघ्नकारकौ

この二柱はレーヴァーの北岸に鎮まり、苦しみを取り除く。正しく供養し礼拝して拝すれば、巡礼は旅の完全な果報を得る。だが、見て礼拝しないなら、人々にとって障碍の因となる。