Sukta 5.39
यन्मन्यसे वरेण्यमिन्द्र द्युक्षं तदा भर । विद्याम तस्य ते वयमकूपारस्य दावने ॥
यन्मन्य॑से॒ वरे॑ण्य॒मिन्द्र॑ द्यु॒क्षं तदा भ॑र । वि॒द्याम॒ तस्य॑ ते व॒यमकू॑पारस्य दा॒वने॑ ॥
yán manyase váreṇyam índra dyukṣáṃ tád ā́ bhar | vidyā́ma tásya te vayám akū́pārasya dā́vane ||
Whatever thou deemest most choice and luminous, O Indra—bring that splendour to us; may we know and partake of thy boundless giving, of that inexhaustible largesse.
यत् । मन्य॑से । वरे॑ण्यम् । इन्द्र॑ । द्यु॒क्षम् । तत् । आ । भ॒र॒ । वि॒द्याम॑ । तस्य॑ । ते॒ । व॒यम् । अकू॑पारस्य । दा॒वने॑ ॥यत् । मन्यसे । वरेण्यम् । इन्द्र । द्युक्षम् । तत् । आ । भर । विद्याम । तस्य । ते । वयम् । अकूपारस्य । दावने ॥yat | manyase | vareṇyam | indra | dyukṣam | tat | ā | bhara | vidyāma | tasya | te | vayam | akūpārasya | dāvane