Sukta 5.39
यदिन्द्र चित्र मेहनास्ति त्वादातमद्रिवः । राधस्तन्नो विदद्वस उभयाहस्त्या भर ॥
यदि॑न्द्र चित्र मे॒हनास्ति॒ त्वादा॑तमद्रिवः । राध॒स्तन्नो॑ विदद्वस उभयाह॒स्त्या भ॑र ॥
yád indra citra mehanā́sti tvā́dātam adrivaḥ | rā́dhas tán no vidadvaso ubhayāhastyā́ bhar ||
Whatever bright overflowing bounty is thine to bestow, O Indra—O wielder of the stone—bring that treasure to us, O finder of riches, with both hands full: let the plenitude descend without stint.
यत् । इ॒न्द्र॒ । चि॒त्र॒ । मे॒हना॑ । अस्ति॑ । त्वाऽदा॑तम् । अ॒द्रि॒ऽवः॒ । राधः॑ । तत् । नः॒ । वि॒द॒द्व॒सो॒ इति॑ विदत्ऽवसो । उ॒भ॒या॒ह॒स्ति । आ । भ॒र॒ ॥यत् । इन्द्र । चित्र । मेहना । अस्ति । त्वादातम् । अद्रिवः । राधः । तत् । नः । विदद्वसो इति विदत्वसो । उभयाहस्ति । आ । भर ॥yat | indra | citra | mehanā | asti | tvādātam | adri-vaḥ | rādhaḥ | tat | naḥ | vidadvaso | itividat-vaso | ubhayāhasti | ā | bhara