Sukta 5.39
यत्ते दित्सु प्रराध्यं मनो अस्ति श्रुतं बृहत् । तेन दृळ्हा चिदद्रिव आ वाजं दर्षि सातये ॥
यत्ते॑ दि॒त्सु प्र॒राध्यं॒ मनो॒ अस्ति॑ श्रु॒तं बृ॒हत् । तेन॑ दृ॒ळ्हा चि॑दद्रिव॒ आ वाजं॑ दर्षि सा॒तये॑ ॥
yát te ditsú pra-rādhyáṃ máno ásti śrutáṃ bṛhát | téna dṛḷhā́ cid adriva ā́ vā́jaṃ darṣi sātáye ||
Whatever in thy will is the power to grant (pra-rādhyam)—vast and renowned—by that, O stone-bearer, thou makest even the firm things yield, and thou bringest the vāja, the plenitude of force, for our winning.
यत् । ते॒ । दि॒त्सु । प्र॒ऽराध्य॑म् । मनः॑ । अस्ति॑ । श्रु॒तम् । बृ॒हत् । तेन॑ । दृ॒ळ्हा । चि॒त् । अ॒द्रि॒ऽवः॒ । आ । वाज॑म् । द॒र्षि॒ । सा॒तये॑ ॥यत् । ते । दित्सु । प्रराध्यम् । मनः । अस्ति । श्रुतम् । बृहत् । तेन । दृळ्हा । चित् । अद्रिवः । आ । वाजम् । दर्षि । सातये ॥yat | te | ditsu | pra-rādhyam | manaḥ | asti | sṛutam | bṛhat | tena | dṛḷhā | cit | adri-vaḥ | ā | vājam | darṣi | sātaye