
本章以祝祷偈与《往世书》惯常的启请开篇(那罗延那、那罗、萨拉斯瓦蒂)。来自诸方、精通吠陀的众圣贤齐集于一场长久的萨特拉祭会,恭请苏多(罗摩诃尔沙那)——毗耶娑之弟子、通晓往世书者——宣说法义。诸贤请求他系统叙述阿约提亚:其神圣性、城郭形制与范围、历代君王、诸圣地(tīrtha)、河流与汇合处,以及朝礼、沐浴与布施所获功德。 苏多依毗耶娑之恩而允诺,并陈明传承次第(斯坎达 → 那罗陀 → 阿伽斯提亚 → 毗耶娑 → 苏多)。随后叙事转为阿伽斯提亚在完成阿约提亚朝圣后向毗耶娑的禀告:阿约提亚被称为毗湿奴的太初之城,辉煌壮丽、城防坚固,坐落于萨拉尤河畔,并与太阳王族(Sūryavaṃśa)相连。萨拉尤河以其起源传说而被圣化,并与恒河并列为至上净化之水。 本章又引入关键的地方圣迹:婆罗门毗湿奴沙尔曼在阿约提亚苦修(tapas),赞颂毗湿奴,得赐不退转的虔信(bhakti)。毗湿奴遂显现“轮圣地”(Cakratīrtha),开启神圣水源,并安立毗湿奴诃利之临在。并规定每年朝圣时段(迦尔提迦月自白分第十日至满月),宣说在轮圣地行沐浴(snāna)、布施(dāna)与祖灵供献(pitṛ)之果报(phala)。
Verse 1
अयोध्यामाहात्म्यं प्रारभ्यते । जयति पराशरसूनुः सत्यवतीहृदयनंदनो व्यासः । यस्यास्यकमलगलितं वाङ्मयममृतं जगत्पिबति
今启《阿踰陀圣地功德》(Ayodhyā-māhātmya)。胜利归于毗耶娑——波罗沙罗之子、萨蒂娅瓦蒂心之欢喜;其口莲中流出甘露般的言辞,普世皆饮。
Verse 2
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं चैव ततो जयमुदीरयेत्
先礼敬那罗延(Nārāyaṇa),复礼敬那罗(Nara)——人中至上者——并礼敬女神萨拉斯瓦蒂(Sarasvatī),然后当宣唱胜利。
Verse 3
व्यास उवाच । हिमवद्वासिनः सर्वे मुनयो वेदपारगाः । त्रिकालज्ञा महात्मानो नैमिषारण्यवासिनः
毗耶娑曰:凡居于喜马瓦特(Himavat)之诸牟尼——通达吠陀,了知三时,具大灵性者——皆为奈弥沙林(Naimiṣāraṇya)之住者。
Verse 4
येऽर्बुदारण्यनिरता दण्डकारण्यवासिनः । महेन्द्राद्रिरता ये वै ये च विन्ध्यनिवासिनः
或专修于阿尔布达林(Arbuda-forest)者,或居于檀陀迦荒林(Daṇḍaka)者,或乐于摩醯因陀罗山(Mahendra)者,或住于温陀耶山脉(Vindhya)者——(皆悉在座)。
Verse 5
जंबूवनरता ये च ये गोदावरिवासिनः । वाराणसीश्रिता ये च मथुरावासिनस्तथा
凡乐居瞻部林者,凡依戈达瓦丽河而住者,凡归依瓦拉纳西者,亦复住于摩图罗者——诸圣皆在彼会。
Verse 6
उज्जयिन्यां रता ये च प्रथमाश्रमवासिनः । द्वारावतीश्रिता ये च बदर्य्याश्रयिणस्तथा
凡心系邬阇耶尼者,凡住于第一精舍者,凡归依堕罗伐底者,亦复依止跋陀梨者——诸圣皆聚集。
Verse 7
मायापुरीश्रिता ये च ये च कान्तीनिवासिनः । एते चान्ये च मुनयः सशिष्या बहवोऽमलाः
归依摩耶补梨者,与住于迦安提者——此等及其他众多无垢牟尼,偕同弟子,皆在会中。
Verse 8
कुरुक्षेत्रे महाक्षेत्रे सत्रे द्वादशवार्षिके । वर्तमाने च रामस्य क्षितीशस्य महात्मनः । समागताः समाहूताः सर्वे ते मुनयोऽमलाः
于拘卢之野——广大圣地——当十二年萨特拉祭会进行之时,又值大心罗摩王统御大地之世;诸无垢牟尼皆受如法邀请,齐集于彼。
Verse 9
सर्वे ते शुद्धमनसो वेदवेदांगपारगाः । तत्र स्नात्वा यथान्यायं कृत्वा कर्म जपादिकम्
彼等皆心地清净,通达吠陀及诸吠陀支分。于彼如法沐浴已,复行诸业,如持诵(japa)等种种修持。
Verse 10
भारद्वाजं पुरस्कृत्य वेदवेदांगपारगम् । आसनेषु विचित्रेषु बृष्यादिषु ह्यनुक्रमात्
他们推尊婆罗陀婆阇为首——精通吠陀与吠陀支者——遂依次就坐于种种华美座具之上,或垫褥、或坐垫等。
Verse 11
उपविष्टाः कथाश्चक्रुर्नानातीर्थाश्रितास्तदा । कर्मांतरेषु सत्रस्य सुखासीनाः परस्परम्
众人既已就座——诸位依止于不同圣地渡口(tīrtha)者——便在萨特拉祭仪诸业的间隙,安然相对而谈。
Verse 12
कथांतेषु ततस्तेषां मुनीनां भावितात्मनाम् । आजगाम महातेजास्तत्र सूतो महामतिः
当那些修持已成的牟尼们结束谈论之时,一位光辉炽盛、智慧宏深的苏多(Sūta)来到彼处。
Verse 13
व्यासशिष्यः पुराणज्ञो समः हर्षणसंज्ञकः । तान्प्रणम्य यथान्यायं मुनीनुपविवेश सः । उपविष्टो यथान्यायं मुनीनां वचनेन सः
他乃毗耶娑之弟子,通晓诸《往世书》(Purāṇa),性情平和,名曰哈尔沙那(Harṣaṇa)。他依礼向诸牟尼顶礼后,便在其旁就坐;并在牟尼们的吩咐下,按规仪端然入座。
Verse 14
व्यासशिष्यं मुनिवरं सूतं वै रोमहर्षणम् । तं पप्रच्छुर्मुनिवरा भारद्वाजादयोऽमलाः
无垢的圣贤们——婆罗陀婆阇等——向罗摩哈尔沙那(Romaharṣaṇa)发问;他是显赫的苏多,毗耶娑之弟子,亦为牟尼中之最胜。
Verse 15
ऋषय ऊचुः । त्वत्तः श्रुता महाभाग नानातीर्थाश्रिताः कथाः । सरहस्यानि सर्वाणि पुराणानि महामते
诸仙人说道:“噢有福者,我们从你处听闻了依止众多圣地(tīrtha)的种种传说,也听闻了一切《往世书》(Purāṇa)及其内在奥义,噢大慧者。”
Verse 16
सांप्रतं श्रोतुमिच्छामः सरहस्यं सनातनम् । अयोध्याया महापुर्या महिमानं गुणोज्ज्वलम्
如今我们愿聆听那含藏奥义的永恒教法——伟大城邑阿踰陀(Ayodhyā)德行充盈、光辉灿然的荣耀。
Verse 17
कीदृशी सा सदा मेध्याऽयोध्या विष्णुप्रियापुरी । आद्या सा गीयते वेदे पुरीणां मुक्तिदायिका
那阿踰陀(Ayodhyā)究竟如何——恒常清净、为毗湿奴所钟爱的城?她在《吠陀》中被歌咏为最初之城,诸城之中赐予解脱者。
Verse 18
संस्थानं कीदृशं तस्यास्तस्यां के च महीभुजः । कानि तीर्थानि पुण्यानि माहात्म्यं तेषु कीदृशम्
她的形制与城郭布局如何?城中有哪些君王?那里有哪些圣洁有功德的渡口圣地(tīrtha),它们各自的伟大功德又是怎样?
Verse 19
अयोध्यासेवनान्नृणां फलं स्यात्सूत कीदृशम् । किं चरित्रं सूत तस्याः का नद्यः के च संगमाः
噢苏多(Sūta),人们侍奉并常来阿踰陀(Ayodhyā)将得何等果报?噢苏多,她的神圣事迹为何?那里有哪些河流,又有哪些汇流之处(saṅgama)?
Verse 20
तत्र स्नानेन किं पुण्यं दानेन च महामते । तत्सर्वं श्रोतुमिच्छामस्त्वत्तः सूत गुणाधिक
噢,大智者,在那里沐浴能得何等功德?布施又有何等福德?噢,德行圆满的苏多啊,我们愿从你处听闻这一切。
Verse 21
एतत्सर्वं क्रमेणैव तथ्यं त्वं वेत्थ सांप्रतम् । अयोध्याया महापुर्य्या माहात्म्यं वक्तुमर्हसि
这一切你如今都按次第、如实了知。因此,你应当宣说伟大城邑阿踰陀的《摩诃德米亚》(圣地功德)。
Verse 22
सूत उवाच । व्यासप्रसादाज्जानामि पुराणानि तपोधनाः । सेतिहासानि सर्वाणि सरहस्यानि तत्त्वतः
苏多说道:“承蒙毗耶娑之恩,噢,苦行之宝藏,我如实知晓诸《往世书》与一切《史传》,并知其内秘义理。”
Verse 23
तं प्रणम्य प्रवक्ष्यामि माहात्म्यं भवदग्रतः । अयोध्याया महापुर्या यथावत्सरहस्यकम्
我先向他(毗耶娑)顶礼,然后将在诸位面前,如法宣说伟大城邑阿踰陀的《摩诃德米亚》,并连同其内在深义。
Verse 24
विद्यावन्तं विपुलमतिदं वेदवेदांगवेद्यं श्रेष्ठं शान्तं शमितविषयं शुद्धतेजोविशालम् । वेदव्यासं सततविनतं विश्ववेद्यैकयोनिं पाराशर्य्यं परमपुरुषं सर्वदाऽहं नमामि
我恒常顶礼帕罗沙利耶——吠陀毗耶娑:学识充盈、慧思宏广;由《吠陀》与《吠陀支》而可证知;至上寂静,调伏诸根;清净光明,辉耀广大;常怀谦恭;使整个世界得以被认识的唯一源泉——实为至上之人(Paramapuruṣa)。
Verse 25
ॐ नमो भगवते तस्मै व्यासायामिततेजसे । यस्य प्रसादाज्जानामि ह्ययोध्यामहिमामहम्
唵——我顶礼那位福德尊者毗耶娑,光辉无量;承其加持,我得以知晓阿踰陀的伟大圣德。
Verse 26
शृण्वन्तु मुनयः सर्वे सावधानाः सशिष्यकाः । माहात्म्यं कथयिष्यामि अयोध्याया महोदयम्
愿诸位牟尼圣贤与弟子们悉皆专心聆听。如今我将宣说阿踰陀的《圣地功德》(Mahātmya),吉祥而能提升心灵。
Verse 27
उदीरितमगस्त्याय स्कन्देनाश्रावि नारदात् । अगस्त्येन पुरा प्रोक्तं कृष्णद्वैपायनाय तत्
此事由军荼(Skanda)宣说于阿迦斯底耶(Agastya),而军荼先从那罗陀(Nārada)处听闻。久远以前,阿迦斯底耶又将此传与黑岛生者克利须那·兑毗波耶那(毗耶娑)。
Verse 28
कृष्णद्वैपायनाच्चैतन्मया प्राप्तं तपोधनाः । तदहं वच्मि युष्मभ्यं श्रोतुकामेभ्य आदरात्
诸位苦行之珍宝啊,此法我从黑岛生者克利须那·兑毗波耶那(毗耶娑)处得来。故我将以恭敬之心,为诸位渴望聆听者宣说。
Verse 29
नमामि परमात्मानं रामं राजीवलोचनम् । अतसीकुसुमश्यामं रावणांतकमव्ययम्
我顶礼罗摩——至上真我:莲华之眼,肤色如亚麻花般幽青;诛灭罗波那者,不坏不灭者。
Verse 30
अयोध्या सा परा मेध्या पुरी दुष्कृतिदुर्ल्लभा । कस्य सेव्या च नाऽयोध्या यस्यां साक्षाद्धरिः स्वयम्
阿踰陀(Ayodhyā)至为清净,是罪业深重者难以抵达之城。谁会不应当奉事阿踰陀?因为哈利(毗湿奴)亲自现前其中。
Verse 31
सरयूतीरमासाद्य दिव्या परमशोभना । अमरावतीनिभा प्रायः श्रिता बहुतपोधनैः
抵达萨罗瑜河岸,便见(阿踰陀)神圣而极其庄严美丽,几如阿摩罗伐底;多有苦行深厚的大修行者往来居住。
Verse 32
हस्त्यश्वरथपत्त्याढ्या संपदुच्चा च संस्थिता । प्राकाराढ्यप्रतोलीभिस्तोरणैः कांचनप्रभैः
城中象马战车与步兵充盈,富贵高隆而安立;又以坚固城垣、宏伟城门与金辉灿然的托罗那门拱为庄严。
Verse 33
सानूपवेषैः सर्वत्र सुविभक्तचतुष्टया । अनेकभूमिप्रासादा बहुभित्तिसुविक्रिया
处处具足相称的居处与格局,四方分区井然有序;多层宫殿林立,重墙构作精妙,工艺繁丽而细致。
Verse 34
पद्मोत्फुल्लशुभोदाभिर्वापीभिरुपशोभिता । देवतायतनैर्दिव्यैर्वेदघोषैश्च मण्डिता
阿踰陀以吉祥清水之池塘为美,莲华盛开,光彩殊胜;又以诸天神祠庄严点缀,并因吠陀诵声回荡而愈加辉耀。
Verse 35
वीणावेणुमृदंगादिशब्दैरुत्कृष्टतां गता । शालैस्तालैर्नालिकेरैः पनसामलकैस्तथा
此地因维那琴、笛、姆里丹伽鼓等诸乐器之妙音而臻于殊胜;又以娑罗树、塔罗树、椰树、菠萝蜜与余甘子(āmalaka)等而增其庄严。
Verse 36
तथैवाम्रकपित्थाद्यैरशोकैरुपशोभिता । आरामैर्विविधैर्युक्ता सर्वर्तुफलपादपैः
同样,此地以芒果树、木苹果(kapittha)等诸树与阿输迦树而更显华美;又具种种园林,遍植四时结果之树。
Verse 37
मालतीजातिबकुलपाटलीनागचंपकैः । करवीरैः कर्णिकारैः केतकीभिरलंकृता
此地以茉莉(mālatī、jāti)、巴库拉花、帕塔利花、那伽占波迦花而为庄严;又以夹竹桃(karavīra)、金雨花(karṇikāra)与凯塔姬花(ketakī)增其华饰。
Verse 38
निम्बजंवीरकदलीमातुलिंगमहाफलैः । लसच्चंदनगंधाढ्यैर्नागरैरुपशोभिता
此地以楝树(neem)、蒲桃(jambīra)、香蕉、香橼(mātuliṅga)及诸多硕果之树而增其秀美;又以那伽罗树芬馥檀香、光华灿然,令其更显庄严。
Verse 39
देवतुल्यप्रभायुक्तैर्नृपपुत्रैश्च संयुता । सुरूपाभिर्वरस्त्रीभिर्देवस्त्रीभिरिवावृता
此地充满如天神般光辉的王子;又为端丽高贵的淑女所环绕,宛若被天女围侍。
Verse 40
श्रेष्ठैः सत्कविभिर्युक्ता बृहस्पतिसमैर्द्विजैः । वणिग्जनैस्तथा पौरैः कल्पवृक्षैरिवावृता
此城汇聚卓越善诗之士,亦有堪比布里哈斯帕提的婆罗门,并有商贾与市民;宛如被能满愿的劫波树(Kalpavṛkṣa)环绕。
Verse 41
अश्वैरुच्चैःश्रवस्तुल्यैर्दंतिभिर्दिग्गजैरिव । इति नानाविधैर्भावैरुपेतेन्द्रपुरी समा
城中有如优钵罗婆(Uccaiḥśravas)般的神骏之马,又有如护方之地象(Diggaja)般的巨象;具足种种殊胜德相,堪与因陀罗之城相媲美。
Verse 42
यस्यां जाता महीपालाः सूर्यवंशसमुद्भवाः । इक्ष्वाकुप्रमुखाः सर्वे प्रजापालनतत्पराः
在此城中诞生了护持大地的君王,皆出自太阳王族——以伊克什瓦库(Ikṣvāku)为首——人人专志于守护与安乐其民。
Verse 43
यस्यास्तीरे पुण्यतोया कूजद्भृंगविहंगमा । सरयूर्नाम तटिनी मानसप्रभवोल्लसा
其城之滨流淌着娑罗瑜河(Sarayū)——圣水清净,蜂鸣与鸟啼相和;光辉灿然,传说其源出自玛那萨罗瓦尔湖(Mānasarovar)。
Verse 44
धर्मद्रवपरीता सा घर्घरोत्तमसंगमा । मुनीश्वराश्रिततटा जागर्ति जगदुच्छ्रिता
那条圣河充盈着流动的法(Dharma)之精髓,与尊贵的伽尔伽罗河(Gharghara)相会;其岸为大牟尼所依止,恒常警醒,擎持诸世界。
Verse 45
दक्षिणाच्चरणांगुष्ठान्निःसृता जाह्नवी हरेः । वामांगुष्ठान्मुनिवराः सरयूर्निर्गता शुभा
从哈利(毗湿奴)右足大趾流出者为阇诃那毗(恒河);而从其左足大趾,噢诸牟尼中最胜者,涌现出吉祥的萨罗由河。
Verse 46
तस्मादिमे पुण्यतमे नद्यौ देवनमस्कृते । एतयोः स्नानमात्रेण ब्रह्महत्यां व्यपोहति
因此,这两条河最为神圣,噢受诸天礼敬者;仅以在其中沐浴,便能除去乃至“杀婆罗门”之重罪。
Verse 47
तामयोध्यामथ प्राप्तोऽगस्त्यः कुम्भोद्भवो मुनिः । यात्रार्थं तीर्थमाहात्म्यं ज्ञात्वा स्कन्दप्रसादतः
随后,生于瓶中的圣仙阿伽斯提耶抵达那座阿踰陀;并蒙斯坎达之恩,为了朝圣之行,他得知此地诸圣渡(tīrtha)的伟大功德。
Verse 48
आगत्य तु इतः सोऽपि कृऽत्वा यात्रां क्रमेण च । यथोक्तेन विधानेन स्नात्वा संतर्प्य तान्पितॄन्
既至其处,他亦循序渐进完成朝圣;并依所说仪轨沐浴,以供献祭品使诸皮特里(祖灵)得以满足。
Verse 49
पूजयित्वा यथान्यायं देवताः सकला अपि । सर्वाण्यपि च तीर्थानि नमस्कृत्य यथाविधि
他依正法礼敬一切诸神,并按仪则向一切圣渡(tīrtha)恭敬顶礼。
Verse 50
कृतकृत्योर्ज्जितानन्दस्तीर्थमाहात्म्यदर्शनात् । अभूदगस्त्यो रूपेण पुलकां चितविग्रहः
因瞻仰诸圣地(tīrtha)的伟大功德,阿伽斯提亚圣仙圆满所愿,喜乐充溢;其身亦现法喜,毛发竖立,遍起战栗。
Verse 51
स त्रिरात्रं स्थितस्तत्र यात्रां कृत्वा यथाविधि । स्तुवन्नयोध्यामाहात्म्यं प्रतस्थे मुनिसत्तमः
那位最胜牟尼在彼处住了三夜;依仪轨完成朝圣之后,便启程而去,口诵赞叹阿踰陀(Ayodhyā)的殊胜荣光。
Verse 52
तमायांतं विलोक्याशु बहुलानन्दसुन्दरम् । कृष्णद्वैपायनो व्यासः पप्रच्छानंदकारणम्
见他走近,满面光辉、喜乐充盈,黑天·岛生(Kṛṣṇa Dvaipāyana)毗耶娑便立刻询问他欢喜的缘由。
Verse 53
व्यास उवाच । कुतः समागतो ब्रह्मन्सांप्रतं मुनिसत्तमः । परमानंदसंदोहः समभूत्सांप्रतं तव
毗耶娑说道:“婆罗门啊,最胜圣仙,你此刻从何处而来?为何此时此刻,你心中涌起如此洪流般的至上喜乐?”
Verse 54
कस्मादानंदपोषोऽभूत्तव ब्रह्मन्वदस्व मे । ममापि भवदानंदात्प्रमोदो हृदि जायते
“婆罗门啊,请告诉我——为何你的喜乐如此增长充盈?仅因你的欢喜,我心中也生起了欣悦。”
Verse 55
अगस्त्य उवाच । अहो महदथाश्चर्य्यं विस्मयो मुनिसत्तम । दृष्ट्वा प्रभावं मेऽद्याभूदयोध्यायास्तपोधन
阿伽斯提亚说道:噫,最胜牟尼,此真是宏大奇迹,令人惊叹!今日得见阿约提亚之威德光辉,我心中生起深深的惊异,噢,具足苦行功德者。
Verse 56
तस्मादानंदसंदोहः समभून्मम सांप्रतम् । तच्छ्रुत्वागस्त्यवचनं व्यासः प्रोवाच तं मुनिम्
因此,就在此刻,喜乐的洪流在我心中涌起。毗耶娑听闻阿伽斯提亚之言,便对那位牟尼开口说道。
Verse 57
व्यास उवाच । भगवन्ब्रूहि तत्त्वेन विस्तरात्सरहस्यकम् । अयोध्याया महापुर्या महिमानं गुणाधिकम्
毗耶娑说道:噢,具福德者,请如实而详尽地宣说,并连同其内在奥秘,讲述伟大城邑阿约提亚那超胜功德与宏大威德。
Verse 58
कः क्रमस्तीर्थयात्रायाः कानि तीर्थानि को विधिः । कि फलं स्नानतस्तत्र दानस्य च महामुने । एतत्सर्वं समाचक्ष्व विस्तराद्वदतां वर
朝圣巡礼的次第当如何?有哪些圣渡处,仪轨又应怎样?在彼处沐浴有何功德,行布施又得何果报,噢大牟尼?请你这位最善宣说者,将这一切详尽圆满地开示。
Verse 59
अगस्त्य उवाच । अहो धन्यतमा बुद्धिस्तव जाता तपोधन । दृश्यते येन पृच्छा ते ह्ययोध्यामहिमाश्रिता
阿伽斯提亚说道:噫,具苦行之宝者,你所生起的智慧实为最吉祥;因为你的提问本身,显然是依止于阿约提亚的伟大威德。
Verse 60
अकारो ब्रह्म च प्रोक्तं यकारो विष्णुरुच्यते । धकारो रुद्ररूपश्च अयोध्यानाम राजते
“A”被宣说为梵天;“ya”被称为毗湿奴;“dha”具鲁陀罗之性——因此“阿踰陀耶(Ayodhyā)”之名熠熠生辉,含摄神圣。
Verse 61
सर्वोपपातकैर्युक्तैर्ब्रह्महत्यादिपातकैः । नायोध्या शक्यते यस्मात्तामयोध्यां ततो विदुः
即便背负一切次罪,并犯有弑婆罗门等重罪之人,也不能与阿踰陀耶相抗、将其征服;因此她被称为“阿踰陀耶”——不可战胜者。
Verse 62
विष्णोराद्या पुरी येयं क्षितिं न स्पृशति द्विज । विष्णोः सुदर्शने चक्रे स्थिता पुण्यकरी क्षितौ
此乃毗湿奴之本初圣城,噢二次生者;她不触尘土。她安住于毗湿奴的苏达尔沙那神轮之上,向世间赐予清净与福德。
Verse 63
केन वर्णयितुं शक्यो महिमाऽस्यास्तपोधन । यत्र साक्षात्स्वयं देवो विष्णुर्वसति सादरः
谁能充分称述此城的伟大,噢苦行之宝?在此处,天神毗湿奴亲自显现,怀着慈爱而安住。
Verse 64
सहस्रधारामारभ्य योजनं पूर्वतो दिशि । प्रतीचि दिशि तथैव योजनं समतोवधिः
自“千流(Sahasradhārā)”起,圣界向东方延伸一由旬;向西方亦复如是,其界限均等量为一由旬。
Verse 65
दक्षिणोत्तरभागे तु सरयूतमसावधिः । एतत्क्षेत्रस्य संस्थानं हरेरन्तर्गृहं स्थितम् । मत्स्याकृतिरियं विप्र पुरी विष्णोरुदीरिता
其南与其北,以娑罗瑜河与多摩萨河为界。此圣域之格局,宛如哈利(Hari)之内殿安住。婆罗门啊,此毗湿奴之城被宣说为鱼形。
Verse 66
पश्चिमे तस्य मूर्द्धा तु गोप्रतारासिता द्विज
其西方为其“首部”,噢二次生者;以名为“瞿波罗多罗”(Gopratārā)之处为标志。
Verse 67
पूर्वतः पृष्ठभागो हि दक्षिणोत्तरमध्यमः । तस्यां पुर्य्यां महाभाग नाम्ना विष्णुर्हरिः स्वयम् । पूर्वंदृष्टप्रभावोऽसौ प्राधान्येन वसत्यपि
其东方为其“背部”之域,中部则处于南北之间。在那座城中,噢有大福德者,哈利——毗湿奴自身——以“毗湿奴”之名安住。其威力自古可证,故于彼处以殊胜尊位而住。
Verse 68
व्यास उवाच । भगवन्किं प्रभावोऽसौ योऽयं विष्णुहरिस्त्वया । कीर्तितो मुनिशार्दूल प्रसिद्धिं गतवान्कथम् । एतत्सर्वं समाचक्ष्व विस्तरेण ममाग्रतः
毗耶娑说道:尊者啊,你所称述的“毗湿奴—哈利”究竟具何威德?噢诸牟尼之虎,他如何获得盛名?愿你在我面前详尽宣说这一切。
Verse 69
अगस्त्य उवाच । विष्णुशर्मेति विख्यातः पुराभूद्ब्राह्मणोत्तमः । वेदवेदांगतत्त्वज्ञो धर्मकर्मसमाश्रितः
阿迦斯底耶说道:往昔有一位最上婆罗门,名闻为“毗湿奴沙尔曼”(Viṣṇuśarman)。他通达吠陀与吠陀支分之真实义理,安住于正法之职分与清净圣行。
Verse 70
योगध्यानरतो नित्यं विष्णुभक्तिपरायणः । स कदाचित्तीर्थयात्रां कुर्वन्वैष्णवसत्तमः । अयोध्यामागतो विष्णुर्विष्णुःसाक्षाद्वसेदिति
他恒常安住于瑜伽与禅定,专一归依对毗湿奴(Viṣṇu)的奉爱(bhakti);这位最上等的毗湿奴信徒曾一度踏上朝圣诸圣地(tīrtha)之旅。来到阿约提亚(Ayodhyā)时,他心中思惟:“此处正是毗湿奴亲自住世之地。”
Verse 71
चिंतयन्मनसा वीरस्तपः कर्तुं समुद्यतः । स वै तत्र तपस्तेपे शाकमूलफलाशनः
他在心中深深思惟,那坚毅之人立志修行苦行。就在彼处,他行持 tapas,只以蔬菜、根茎与果实为食。
Verse 72
ग्रीष्मे पंचाग्निमध्यस्थो ह्यतपत्स महातपाः । वार्षिके च निरालम्बो हेमन्ते च सरोवरे
夏季,这位大苦行者立于五火之间修行;雨季,他不倚不靠而住;冬季,他安住于湖水之中。
Verse 73
स्नात्वा यथोक्तविधिना कृत्वा विष्णोस्तथार्चनम् । वशीकृत्येन्द्रियग्रामं विशुद्धेनांतरात्मना
他依所说仪轨沐浴,又如法礼拜供奉毗湿奴;以清净的内在自我,摄伏诸根之群,使之归于调御。
Verse 74
मनो विष्णौ समावेश्य विधाय प्राणसंयमम् । ओंकारोच्चारणाद्धीमान्हृदि पद्मं विकासयन्
他摄心于毗湿奴,并修持调息;那位智者以诵出“唵”(Oṃ)之音,使心中莲华绽放。
Verse 75
तन्मध्ये रविसोमाग्निमण्डलानि यथाविधि । कल्पयित्वा हरिं मूर्तं यस्मिन्देशे सनातनम्
在那心莲之中,他依仪轨观想日、月与火的圆轮;并于那内在圣域中,塑成永恒的诃利(Hari)之显现圣相。
Verse 76
पीतांबरधरं विष्णुं शंखचक्रगदाधरम् । तं च पुष्पैः समभ्यर्च्य मनस्तस्मिन्निवेश्य च
他观想身披黄衣的毗湿奴,执螺、持轮、握杵;以花供养礼拜,并将心神全然安住于彼。
Verse 77
ब्रह्मरूपं हरिं ध्यायञ्जपन्वै द्वादशाक्षरम् । वायुभक्षः स्थितस्तत्र विप्रस्त्रीन्वत्सरान्वसन्
他观想诃利之梵体,并确然持诵十二音节真言;那婆罗门住于彼处,以风为食,历三年而不移。
Verse 78
ततो द्विजवरो ध्यात्वा स्तुतिं चक्रे हरेरिमाम् । प्रणिपत्य जगन्नाथं चराचरगुरुं हरिम् । विष्णुशर्माथ तुष्टाव नारायणमतंद्रितः
于是那位卓越的婆罗门,既已入定,便作此赞颂诃利之歌。顶礼宇宙之主——诃利,动与不动一切众生之师——毗湿奴沙尔玛不知疲倦地赞扬那罗延。
Verse 79
विष्णुशर्म्मोवाच । प्रसीद भगवन्विष्णो प्रसीद पुरुषोत्तम । प्रसीद देवदेवेश प्रसीद कमलेक्षण
毗湿奴沙尔玛说道:愿垂慈,世尊毗湿奴;愿垂慈,至上之人。愿垂慈,诸天之天主;愿垂慈,莲华眼者。
Verse 80
जय कृष्ण जयाचिंत्य जय विष्णो जयाव्यय । जय यज्ञपते नाथ जय विष्णो पते विभो
胜利归于克里希纳,胜利归于不可思议者;胜利归于毗湿奴,胜利归于不朽者。胜利归于祭祀之主,噢大主;胜利归于你,毗湿奴之主——遍满一切的至尊。
Verse 81
जय पापहरानंत जय जन्मज्वरापह । नमः कमलनाभाय नमः कमलमालिने
胜利归于无尽者,能除罪垢;胜利归于他,能息灭轮回再生之热恼。顶礼莲脐之主;顶礼佩戴莲华花鬘者。
Verse 82
नमः सर्वेश भूतेश नमः कैटभसूदन । नमस्त्रैलोक्यनाथाय जगन्मूल जगत्पते
顶礼万有之主、众生之主;顶礼诛灭凯塔婆者。顶礼三界之主——宇宙之根、世界之主宰。
Verse 83
नमो देवाधिदेवाय नमो नारायणाय वै । नमः कृष्णाय रामाय नमश्चक्रायुधाय च
顶礼诸神之上的神;确然顶礼那罗延。顶礼克里希纳,顶礼罗摩,并顶礼以神轮(恰克拉)为武器者。
Verse 84
त्वं माता सर्वलोकानां त्वमेव जगतः पिता । भयार्त्तानां सुहृन्मित्रं त्वं पिता त्वं पितामहः
你是一切世界之母,你唯独是宇宙之父。对受恐惧所迫者,你是慈善的朋友与同盟;你是父亲——诚然,你是万有的太祖。
Verse 85
त्वं हविस्त्वं वषट्कारस्त्वं प्रभुस्त्वं हुताशनः । करणं कारणं कर्त्ता त्वमेव परमेश्वरः
你是祭祀的供献,你是“vaṣaṭ”的赞呼;你是主宰,你也是领受供品的圣火。你是器具、是因由、是行作者——唯你一位,乃至上之主。
Verse 86
शंखचक्रगदापाणे मां समुद्धर माधव
噢摩陀婆,手持海螺、神轮与金刚杵者——请提携我,救度我!
Verse 87
प्रसीद मंदरधर प्रसीद मधुसूदन । प्रसीद कमलाकान्त प्रसीद भुवनाधिप
垂怜吧,噢擎持曼陀罗山者;垂怜吧,噢诛灭摩度者摩度苏陀那。垂怜吧,噢莲华女神迦摩罗(吉祥天女)之爱侣;垂怜吧,噢诸世界之主。
Verse 88
अगस्त्य उवाच । इत्येवं स्तुवतस्तस्य मनोभक्त्या महात्मनः । आविर्बभूव विश्वात्मा विष्णुर्गरुडवाहनः
阿迦斯底耶说道:当那位大德如此以至诚之心赞颂祂时,毗湿奴——宇宙之魂、乘迦楼罗者——便在他面前显现。
Verse 89
शंखचक्रगदापाणिः पीतांबरधरोऽच्युतः । उवाच स प्रसन्नात्मा विष्णुशर्माणमव्ययः
手持海螺、神轮与金刚杵,身披黄衣的阿周陀——不朽不坏者——心神澄明安泰,对毗湿奴舍摩开口说道。
Verse 90
श्रीभगवानुवाच । तुष्टोऽस्मि भवतो वत्स महता तपसाऽधुना । स्तोत्रेणानेन सुमते नष्टपापोऽसि सांप्रतम्
世尊曰:爱子啊,今因汝广大苦行,我甚欢喜。以此赞颂,慧心之人,汝罪业于此刻即已消灭。
Verse 91
वरं वरय विप्रेन्द्र वरदोऽहं तवाग्रतः । नाऽतप्ततपसा द्रष्टुं शक्यः केनाप्यहं द्विज
世尊曰:婆罗门中之最胜者啊,择取一愿;我在汝前,乃赐愿之主。无有苦行,二次生者啊,任何人都不能见我。
Verse 92
विष्णुशर्म्मोवाच । कृतकृत्योऽस्मि देवेश सांप्रतं तव दर्शनात् । त्वद्भक्तिमचलामेकां मम देहि जगत्पते
毗湿奴舍摩曰:天神之主啊,今得瞻仰尊颜,我此生之愿已圆满。世间之主啊,唯愿赐我一事——对汝不动摇的虔敬。
Verse 93
श्रीभगवानुवाच । भक्तिरस्त्वचला मे वै वैष्णवी मुक्तिदायिनी । अत्रैवास्त्वचला मे वै जाह्नवी मुक्तिदायिनी
世尊曰:愿汝对我之信爱坚固不移——此即赐解脱之毗湿奴派虔敬。并且就在此地,愿阇那维(恒河)亦恒常不变——赐解脱者。
Verse 94
इदं स्थानं महाभाग त्वन्नाम्ना ख्यातिमेष्यति
有福之人啊,此圣地将因汝之名而得盛名。
Verse 95
अगस्त्य उवाच । इत्युक्त्वा देवदेवेशश्चक्रेणोत्खाय तत्स्थलम् । जलं प्रकटयामास गांगं पातालमंडलात्
阿伽斯提耶说:言毕,诸天之主以其神轮(苏达尔沙那轮)掘开彼处,从帕塔拉界显现出恒河圣水。
Verse 96
जलेन तेन भगवान्पवित्रेण दयांबुधिः । नीरजस्तु भूमितलं क्षणाच्चक्रे कृपावशात्
以那净化之水,慈悲如海的世尊出于怜悯,顷刻间令大地表面无有垢染。
Verse 97
चक्रतीर्थमिति ख्यातं ततः प्रभृति तद्द्विज । जातं त्रैलोक्यविख्यातमघौघध्वंसकृच्छुभम्
自此以后,婆罗门啊,此处名为“轮圣渡口”(Cakratīrtha):吉祥殊胜,三界闻名,能摧灭罪业洪流。
Verse 98
तत्र स्नानेन दानेन विष्णुलोकं व्रजेन्नरः
在彼处沐浴并行布施者,便得往生毗湿奴之界(Viṣṇuloka)。
Verse 99
ततः स भगवान्भूयो विष्णुशर्माणमच्युतः । कृपया परया युक्त उवाच द्विजवत्सलः
随后,福德的阿周陀(Acyuta)怀着至上的悲悯,再次对毗湿奴沙尔摩(Viṣṇuśarmā)——爱护婆罗门者——开口说道。
Verse 100
श्रीभगवानुवाच । त्वन्नामपूर्विका विप्र मन्मूर्तिरिह तिष्ठतु । विष्णुहरीति विख्याता भक्तानां मुक्तिदायिनी
世尊曰:婆罗门啊,愿我的圣像安住于此,并以前缀冠以汝名。此像将以“毗湿奴—诃利(Viṣṇu-Hari)”之名闻世,赐予信众解脱。
Verse 101
अगस्त्य उवाच । इति श्रुत्वा वचो विप्रो वासुदेवस्य बुद्धिमान् । स्वनामपूर्विकां मूर्तिं स्थापयामास चक्रिणः
阿迦斯底耶曰:智慧的婆罗门听闻婆苏提婆之言,便安置那持轮者之圣像,并以前缀加上自己的名字。
Verse 102
ततः प्रभति विप्रेश शंखचक्रगदाधरः । पीतवासाश्चतुर्बाहुर्नाम्ना विष्णुहरिः स्थितः
自此以后,婆罗门中最胜者啊,那四臂之主——执螺、持轮、握杵,身披黄衣——便以“毗湿奴—诃利(Viṣṇu-Hari)”之名安住于彼处。
Verse 103
कार्तिके शुक्लपक्षस्य प्रारभ्य दशमी तिथिम् । पूर्णिमामवधिं कृत्वा यात्रा सांवत्सरी भवेत्
自迦尔底迦月明半第十日开始,直至满月为期,此一朝圣行持便成为岁岁奉行的年例。
Verse 104
चक्रतीर्थे नरः स्नात्वा सर्वपापैः प्रमुच्यते । बहुवर्षसहस्राणि स्वर्गलोके महीयते
凡于轮圣渡处(Cakratīrtha)沐浴者,皆得脱离一切罪垢;并在天界受尊崇,历经千千岁月。
Verse 105
पितॄनुद्दिश्य यस्तत्र पिंडान्निर्वापयिष्यति । तृप्तास्तु पितरो यान्ति विष्णुलोकं न संशयः
凡在彼处,怀念并奉献于祖灵(Pitṛ),供奉团食祭(piṇḍa)者;诸祖先得满足,必往毗湿奴之界,毫无疑惑。
Verse 106
चक्रतीर्थे नरः स्नात्वा दृष्ट्वा विष्णुहरिं विभुम् । सर्वपापक्षयं प्राप्य नाकपृष्ठे महीयते
于轮圣渡(Cakratīrtha)沐浴,并瞻礼遍在之主毗湿奴·哈利者,得尽灭诸罪,且在天界高处受尊崇。
Verse 107
स्वशक्त्या तत्र दानानि दत्त्वा निष्कल्मषो नरः । विष्णुलोके वसेद्धीमान्यावदिन्द्राश्चतुर्दश
在彼处随己之力行布施者,得离垢无染;智者将住于毗湿奴之界,久如十四位因陀罗之世仍在。
Verse 108
अन्यदापि नरस्तत्र चक्रतीथे जितेंद्रियः । दृष्ट्वा सकृद्धरिं देवं सर्वपापैः प्रमुच्यते
即便在他时,于轮圣渡(Cakratīrtha)自制诸根之人,只要一见哈利天主一次,便解脱一切罪业。
Verse 109
इति सकलगुणाब्धिर्ध्येयमूर्तिश्चिदात्मा हरिरिह परमूर्त्या तस्थिवान्मुक्तिहेतोः । तमिह बहुलभक्त्या चक्रतीर्थाभिषेकी वसति सुकृतिमूर्त्तिर्योऽर्चयेद्विष्णुलोके
由是,哈利——具足诸德之海,堪为观想之圣相,乃觉知之真我——为解脱之因,以至上妙相安住于此。凡于轮圣渡(Cakratīrtha)沐浴后,在此以深厚信爱礼拜彼者,此具福德之身必住毗湿奴之界。