Adhyaya 36
Prabhasa KhandaDvaraka MahatmyaAdhyaya 36

Adhyaya 36

苏多叙述一段宫廷式对话:在普罗诃罗陀的话语启发下,巴利询问圣地德瓦拉卡(Dvārakā)之“圣域威德”(kṣetra-vaibhava)。普罗诃罗陀以条理分明的“圣地功德赞”(māhātmya)作答:迈向德瓦拉卡的每一步皆具福德,而仅仅发起朝圣之意亦能净化身心;并宣称在迦梨时代的重罪,也不黏著于得见克里希纳(Kṛṣṇa)圣颜之人,尤以轮坛圣渡(Cakratīrtha)与克里希纳城(Kṛṣṇapurī)为要。 继而他比较诸圣城的高下,断言当亲见由克里希纳护持之城时,德瓦拉卡最为尊胜。又谈“难得之事”(durlabhatā):得以居住其地、获达尔善(darśana)、在戈摩提河(Gomati)沐浴、以及瞻礼鲁克米妮(Rukmiṇī);并教导居家奉爱之道——常念德瓦拉卡、在家供奉凯沙瓦(Keśava)——以及依历守斋,尤其重视“三触十二日”(tri-spṛśā-dvādaśī)及相关誓戒(vrata)的义理。 在迦梨瑜伽中,斋戒、守夜、歌咏与舞供等仪行之果报被特别增广,尤以德瓦拉卡与近克里希纳处为甚。文中赞叹戈摩提与大海汇合处的神圣、带轮印之石(cakrāṅkita),并宣示其与他处著名圣渡(tīrtha)等同或更胜。亦提及家族与社会之福祉——礼敬克里希纳诸王后可得子嗣——以及因瞻礼德瓦拉卡而解除恐惧与厄运。末以坚固的果报宣说(phalaśruti)作结:即便赴德瓦拉卡途中遭遇逆境,也被视为不再回堕卑下境界之征兆。

Shlokas

Verse 1

सूत उवाच । प्रह्लादस्य वचः श्रुत्वा स्थितस्तत्र सभास्थले । पप्रच्छात्युत्सुकमना बलिस्तत्क्षेत्रवैभवम्

苏多说道:听罢普罗诃罗陀之言,巴利立于会堂之中,心怀强烈渴求,便询问那圣地(kṣetra)的宏伟功德。

Verse 2

प्रह्लादस्तद्वचः श्रुत्वा भक्तिभावपुरस्कृतम् । अभिनन्द्य च तं प्रेम्णा प्रवक्तुमुपचक्रमे

普罗诃罗陀听到那出自虔敬之心的话语,便以慈爱热诚加以称许迎接,并开始开示说明。

Verse 3

प्रह्लाद उवाच । एकैकस्मिन्पदे दत्ते पुरीं द्वारवतीं प्रति । पुण्यं क्रतुसहस्राणां फलं भवति देहिनाम्

普罗诃罗陀说道:凡向德瓦拉瓦蒂城(德瓦拉迦)迈出每一步,有身众生皆得功德,其果报等同于千千吠陀祭祀之果。

Verse 4

येऽपीच्छंति मनोवृत्त्या गमनं द्वारकां प्रति । तेषां प्रलीयते पापं पूर्वजन्मायुतार्जितम्

即便只是随心念之趋向而愿往德瓦拉迦者,其于万万前生所积之罪亦皆消融。

Verse 5

अत्युग्राण्यपि पापानि तावत्तिष्ठंति विग्रहे । यावन्न गच्छते जंतुः कलौ द्वारवतीं प्रति

即使最凶猛之罪,也只在有身之境中停驻:只要在迦利时代,此人尚未启程趋向德瓦拉瓦蒂(德瓦拉迦)。

Verse 6

लोभेनाऽप्युपरोधेन दंभेन कपटेन वा । चक्रतीर्थे तु यो गच्छेन्न पुनर्विशते भुवि

纵使因贪欲、阻挠、伪善或欺诳而行,凡往恰克拉圣渡(Cakratīrtha)者,亦不复再入此世(不再受生)。

Verse 7

हीनवर्णोऽपि पापात्मा मृतः कृष्णुपुरीं प्रति । कलि कालकृतैर्दोषैरत्युग्रैरपि मानवः । भक्त्या कृष्णमुखं दृष्ट्वा न लिप्यति कदाचन

纵使卑微而罪心深重之人,若在趋往奎师奴城(德瓦拉迦)途中而逝,亦永不染污。即便人类受迦利时代所生极猛诸过所逼,然以虔敬得见奎师那圣颜者,终不为垢染于任何时刻。

Verse 8

तावद्विराजते काशी ह्यवंती मथुरापुरी । यावन्न पश्यते जंतुः पुरीं कृष्णेन पालिताम्

迦尸、阿槃提与摩图罗之城,唯在众生未曾瞻见由克里希纳护持之城——德瓦拉卡——之前,方显辉耀。

Verse 9

येषां कृष्णालये प्राणा गता दानवनायक । न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि

噢,达那婆之主,凡在克里希纳的居处(德瓦拉卡)舍离命息者,纵经百亿劫之久,亦不再回返。

Verse 10

दुर्लभो द्वारकावासो दुर्लभं कृष्णदर्शनम् । दुर्लभं गोमतीस्नानं रुक्मिणीदर्शनं कलौ

在迦梨时代,居住德瓦拉卡难得,瞻见克里希纳难得,在圣河戈摩提沐浴难得,得见鲁克米妮之达尔善亦难得。

Verse 11

नित्यं कृष्णपुरीं रम्यां ये स्मरंति गृहे स्थिताः । न तेषां पातकं किंचिद्देहमाश्रित्य तिष्ठति

凡在家中亦能日日忆念克里希纳那美妙之城者,任何罪垢都不能依附其身。

Verse 12

केशवार्चा गृहे यस्य न तिष्ठति महीपते । तस्यान्नं न च भोक्तव्यमभक्ष्येण समं स्मृतम्

大王啊,凡家中未立供奉凯沙瓦之礼者,其食物不应食用;经传记之,此与禁食之物无异。

Verse 13

नोष्णत्वं द्विज राजे वै न शीतत्वं हुताशने । वैष्णवानां न पापत्वमेकादश्युपवासिनाम्

正如火不离热、月不离清凉,如是守持圣日“埃卡达希”(Ekādaśī)斋戒的毗湿奴信众(Vaiṣṇava)不染罪垢。

Verse 14

नास्ति नास्ति महाभागाः कलिकालसमं युगम् । स्मरणात्कीर्त्तनाद्विष्णोः प्राप्यते परमव्ययम्

诸位有福者啊,世间再无一劫可比迦梨时代(Kali-yuga)——实无其比;只要忆念并歌咏赞颂毗湿奴(Viṣṇu),便能证得至上不坏之境。

Verse 15

सत्यभामापतिर्यत्र यत्र पुण्या च गोमती । नरा मुक्तिं प्रयास्यंति तत्र स्नात्वा कलौ युगे

凡有萨蒂雅婆摩(Satyabhāmā)之主所在之处,凡有圣洁的戈摩提河(Gomati)流淌之处——在迦梨时代,人们于彼处沐浴,便趋向解脱(mokṣa)。

Verse 16

माधवे शुक्लपक्षे तु त्रिस्पृशां द्वादशीं यदि । लभते द्वारकायां तु नास्ति धन्यतरस्ततः

若在摩达婆月(Mādhava,即毗舍佉 Vaiśākha)的白半月,于都瓦拉卡(Dwārakā)得遇“三触十二日”(Trispṛśā Dvādaśī),则无人比此人更为有福。

Verse 17

त्रिस्पृशां द्वादशीं प्राप्य गत्वा कृष्णपुरीं नरः । यः करोति हरेर्भक्त्या सोऽश्वमेधफलं लभेत्

得遇“三触十二日”(Trispṛśā Dvādaśī)而前往黑天之城(Kṛṣṇa-purī)者,若以虔信(bhakti)礼敬哈利(Hari),便得阿湿婆梅陀(Aśvamedha)大祭之果报。

Verse 18

नंदायां तु जयायां वै भद्रा चैव भवेद्यदि । उपवासार्चने गीते दुर्ल्लभा कृष्णसन्निधौ

若逢难陀、阇耶与吉祥的婆陀罗等瑞相并现,则在克里希纳圣临之前行斋戒、供奉与唱诵奉爱之歌,实为极其稀有而珍贵。

Verse 19

उदयैकादशी स्वल्पा अंते चैव त्रयोदशी । संपूर्णा द्वादशी मध्ये त्रिस्पृशा च हरेः प्रिया

若日出时的十一斋日(Ekādaśī)甚短,而末段现十三日(Trayodaśī),中间又具足圆满的十二日(Dvādaśī)——此即“三触日”Trispṛśā,为哈利所钟爱。

Verse 20

एकेन चोपवासेन उपवासाऽयुतं फलम् । जागरे शतसाहस्रं नृत्ये कोटिगुणं कलौ

在迦梨时代,一次斋戒所得功德等同一万次斋戒;一夜守夜等同十万;而以奉爱起舞,其功德更增至亿倍(crore)。

Verse 21

तत्फलं लभते मर्त्त्यो द्वारकायां दिनेदिने । गृहेषु वसतामेतत्किं पुनः कृष्णसंनिधौ

那同样的功德,凡人在都瓦拉卡日日可得。若仅居家而住尚且如此,更何况亲在克里希纳圣前!

Verse 22

वाङ्मनःकायजैर्दोषैर्हता ये पापबुद्धयः । द्वारवत्यां विमुच्यंते दृष्ट्वा कृष्णमुखं शुभम्

即便怀抱罪念、为言语之过、心念之过与身行之过所伤者,在都瓦拉瓦蒂只要瞻仰克里希纳吉祥圣颜,亦得解脱。

Verse 23

दैत्येश्वर नराः श्लाघ्या द्वारवत्यां गताश्च ये

噢,代底耶之主,凡前往德瓦拉瓦蒂者,确为可赞可颂之人。

Verse 24

दुर्ल्लभानीह तीर्थानि दुर्लभाः पर्वतोत्तमाः । दुर्ल्लभा वैष्णवा लोके द्वारकावसतिः कलौ

此世间,圣地渡口(tīrtha)实为难得;至胜之山亦难得。人间的毗湿奴信众(Vaiṣṇava)亦难得——而在迦梨时代,得居住于德瓦拉卡更是难得。

Verse 25

गवां कोटिसहस्राणि रत्नको टिशतानि च । दत्त्वा यत्फलमाप्नोति तत्फलं कृष्णसन्निधौ

布施千亿之牛、百亿之珍宝所得之功德——在克里希纳的临在之前,亦可得同等功德。

Verse 26

यस्याः सीमां प्रविष्टस्य ब्रह्महत्यादिपातकम् । नश्यते दर्शनादेव तां पुरीं को न सेवते

凡入彼城之境界者,婆罗门杀罪(brahmahatyā)等诸罪,仅以一见便得消灭。如此圣城,谁不归依敬奉?

Verse 27

चक्रांकिता शिला यत्र गोमत्युदधिसंगमे । यच्छति पूजिता मोक्षं तां पुरीं को न सेवते

在戈摩提河与大海交汇之处,有一块刻有神轮(cakra)印记的石;礼拜之,则赐解脱。如此圣城,谁不归依敬奉?

Verse 28

सिंहस्थे च गुरौ विप्रा गोदावर्य्यां तु यत्फलम् । तत्फलं स्नानमात्रेण गोमत्यां कृष्णसन्निधौ

噢,婆罗门们,当木星(师尊 Guru)行至狮子宫时,于戈达瓦丽河所得之功德——只要在克里希纳临在前,于戈马蒂河沐浴,亦得同等功德。

Verse 29

द्वारकाऽवस्थितं तोयं षण्मासं पिबते नरः । तस्य चक्रांकितो देहो भवते नात्र संशयः

若有人在德瓦拉卡饮其圣水达六个月,其身必现轮(查克拉)之印记;对此毫无疑虑。

Verse 30

मन्वन्तरसहस्राणि काशीवासेन यत्फलम् । तत्फलं द्वारकायां च वसतः पंचभिर्द्दिनैः

居于迦尸(Kāśī)历经千千摩奴劫(Manvantara)所获之灵果——住在德瓦拉卡仅五日者,亦得同等果报。

Verse 31

तावन्मृतप्रजा नारी दुर्भगा दैत्यपुंगव । यावन्न पश्यते भक्त्या कलौ कृष्णप्रियां पुरीम्

噢,阿修罗族(Dānava)之雄者,女子唯在迦利时代尚未以虔敬瞻礼克里希纳所钟爱的圣城——德瓦拉卡——之时,才被视为如同无子且命途不顺。

Verse 32

रुक्मिणीं सत्यभामां च देवीं जांबवतीं तथा । मित्रविंदां च कालिंदीं भद्रां नाग्नजितीं तथा

彼(圣克里希纳)偕同鲁克米妮与萨蒂娅婆摩,并有天女詹巴瓦蒂;又有密特拉温达、迦林迪、跋陀罗与那格那吉蒂随侍左右。

Verse 33

संपूज्य लक्ष्मणां तत्र वैष्णवीः कृष्णवल्लभाः । एताः संपूज्य विधिवच्छ्रेष्ठपुत्रश्च लभ्यते

在那里,依正法仪轨礼敬拉克什玛那与诸位毗湿奴派女神——皆为克里希纳所钟爱者——如法供奉,便得一位卓越之子。

Verse 34

तावद्भवभयं पुंसां गृहभंगश्च मूर्खता । यावन्न पश्यते भक्त्या कलौ कृष्णपुरीं नरः

只要人在迦梨时代尚未以虔敬之心瞻礼克里希纳城(德瓦拉卡),便仍受轮回之惧、家业败坏与愚昧黑暗所逼。

Verse 35

न सर्वत्र महापुण्यं संगमे सरितांपतेः । जाह्नवीसंगमान्मुक्तिर्गोमतीनीरसंगमात् । संपर्के गोमतीनीरपूतोऽहं कृष्णसन्निधौ

并非一切江河汇合之处都能成就至大功德。于阇诃那毗(恒河)之汇合处宣说解脱;而与戈摩提之水相汇之处,亦得出离。因触及戈摩提净化之水,我亦得清净——就在此地,克里希纳亲临之前。

Verse 36

गोमतीनीरसंपृक्तं ये मां पश्यंति मानवाः । न तेषां पुनरावृत्तिरित्याह सरितांपतिः

“凡被戈摩提之水所触、所净而得见我者,彼等不再回返(再入轮回)。”河流之主(大海)如是宣告。

Verse 37

द्वारकां गच्छमानस्य विपत्तिश्च भवेद्यदि । न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि

若有人前往德瓦拉卡途中遭逢不幸,则此人亦不再回返于轮回,纵经百亿万劫(kalpa)亦然。