Adhyaya 22
Prabhasa KhandaDvaraka MahatmyaAdhyaya 22

Adhyaya 22

本章为圣者普罗诃罗陀(Śrī Prahlāda)对婆罗门所作之仪轨与义理教诲,依次开示以阇伽那陀/黑天(Jagannātha/Kṛṣṇa)为中心、尤以鲁克米妮(Rukmiṇī)为主的礼拜法;鲁克米妮被尊称为“黑天所爱”(Kṛṣṇapriyā)与“黑天所喜”(Kṛṣṇavallabhā)。开篇先述预备之 pūjā:为神像沐浴、涂抹香料、供奉图拉西(tulasī)、献供食(naivedya)、行献灯礼(nīrājana),并以虔敬礼敬阿难多(Ananta)、毗那帝耶(Vainateya)等相关圣众。继而教人行布施(dāna)须无欺诳,并施食于贫弱依赖之人。 随后转入“瞻礼鲁克米妮”(Rukmiṇī-darśana)与供养之功德,宣说在迦梨时代(Kali-yuga),诸苦如行星煞扰(graha-pīḍā)、疾病、恐惧、贫困、厄运与家室离散,唯至得见并礼拜黑天挚爱的鲁克米妮方能止息。文中详列灌顶(abhiṣeka)之物:酸乳、牛乳、蜂蜜、糖、酥油(ghee)、香水、甘蔗汁与圣地净水(tīrtha),并列涂香如檀香膏(śrīkhaṇḍa)、朱砂(kuṅkuma)、麝香(mṛgamada),以及花、熏香(aguru、guggulu)、衣服与饰物。又规定以真言向“毗达婆王之女”(Vidarbhādhipa-nandinī)献阿尔伽(arghya),行 ārati,并如法受持与使用圣水。 本章亦包含敬奉婆罗门及其妻室、供食与槟榔,礼拜门卫神乌恩玛塔(Unmatta)并具强烈 bali 供献之法;同时礼敬瑜伽女神众(yoginī)、护域神(kṣetrapāla)、毗卢帕斯瓦弥妮(Vīrūpasvāminī)、七母神(saptamātṛkā)以及黑天八位王后(如萨蒂雅婆摩 Satyabhāmā、贾姆巴瓦蒂 Jāmbavatī 等)。果报偈(phalaśruti)屡言:在都瓦拉卡(Dvārakā)得见并供养黑天与鲁克米妮之功德,胜过诸祭(yajña)、誓行(vrata)与布施;并列多种吉日(Dīpotsava caturdaśī、Māgha śukla aṣṭamī、Caitra dvādaśī、Jyeṣṭha aṣṭamī、Bhādrapada 之供养、Kārttika dvādaśī),许以富饶、健康、无畏与解脱。末尾申明都瓦拉卡于迦梨时代具殊胜救度力,并提及此部普罗那汇编之传承脉络。

Shlokas

Verse 1

श्रीप्रह्लाद उवाच । शृणुध्वं द्विजशार्दूला यथावत्कथयामि वः । स्नापयित्वा जगन्नाथं तथा गंधैर्विलिप्य च । पूजयित्वा तुलस्या तु भूषयित्वा च भूषणैः

圣普罗诃罗陀曰:“请听吧,诸位如虎之婆罗门;我将如法为汝等宣说。先为主‘世间之主’(Jagannātha)沐浴,又以芬芳香膏涂抹;复以圣罗勒(Tulasī)供奉,并以庄严宝饰装点……”

Verse 2

नैवेद्येन च सन्तर्प्य तथा नीराजनादिभिः । दुर्वाससं तथा पूज्य पुंडरीकाक्षमेव च

又当以食供(naivedya)令主欢喜,并行尼罗阇那(nīrājana,阿尔提)等仪轨;亦应礼敬杜尔瓦萨仙人,并同样礼敬莲目之主——普恩达利迦克沙(Puṇḍarīkākṣa)。

Verse 3

अनंतं वैनतेयादीन्भक्त्या सम्पूज्य मानवः । दद्याद्दानं स्वशक्त्या च वित्तशाठ्यविवर्जितः

人当以虔敬圆满礼拜阿难多与毗那提耶(迦楼罗)等诸尊,随后应随己之力行布施,于财物之事不欺不诈。

Verse 4

दीनांधकृपणांस्तत्र तर्पयेच्च समाश्रितान्

在彼处,也应供养并使贫者、盲者与困乏者得以满足——即那些前来归依、依靠他人的人。

Verse 5

रुक्मिणीं च ततो गच्छेद्विदर्भतनयां नरः । उपहृत्योपहारांश्च बलिभिर्गंधदीपकैः

随后,行者应前往礼敬鲁克米妮——毗达婆之女——携带供品,并奉上巴利供献、香品与明灯。

Verse 6

पीडयंति ग्रहास्तावद्व्याधयोऽभिभवंति च । भक्त्या न पश्यति नरो यावत्कृष्णप्रियां कलौ

只要在迦梨时代,人未以虔敬瞻礼并归依于黑天所钟爱者(鲁克米妮),诸星宿之力便加以侵扰,疾病亦将压倒其身。

Verse 7

उपसर्गभयं तावद्दुःखं च भूतसंभवम् । भक्त्या न पश्यति नरो यावत्कृष्णप्रियां कलौ

只要在迦梨时代,人未以虔敬瞻礼黑天所钟爱者(鲁克米妮),便仍受灾厄之惧所缚,并遭敌对灵体与无形之力所生的苦恼。

Verse 8

भवेद्दरिद्री दुःखी च तावद्वै परयाचकः । भक्त्या न पश्यति नरो यावत्कृष्णप्रियां कलौ

只要在迦梨时代,人未以虔敬瞻礼黑天所钟爱者(鲁克米妮),便将贫困而忧苦——依赖他人,甚至被迫乞求度日。

Verse 9

तावन्मृतप्रजा नारी दुर्भाग्या दुःखसंयुता । भक्त्या न पश्यति यदा नारीकृष्णप्रियां तथा

只要女子未以虔敬之心瞻礼鲁克米妮——克里希纳的挚爱——她便仍是命途多舛,常与忧苦相随,且无存活子嗣。

Verse 10

तावच्छत्रुभयं पुंसां गृहभंगं च मूर्खता । भक्त्या न पश्यति नरो यावत्कृष्णप्रियां कलौ

在迦梨时代,只要男子未以虔敬之心瞻礼鲁克米妮——克里希纳的挚爱——众人便仍有惧敌之怖、家室破败之患,以及迷妄所生的愚痴。

Verse 11

संपूज्य क्रृष्णं विधिवद्रुक्मिणीं पूजयेत्ततः । स्नापयेद्दधिदुग्धाभ्यां मधुशर्करया तथा

依仪轨恭敬礼拜克里希纳之后,当再礼拜鲁克米妮;并以酸乳与乳汁为其圣像行沐浴礼,亦以蜂蜜与糖同样灌沐。

Verse 12

घृतेन विविधैर्गन्धैस्तथैवेक्षुरसेन च । तीर्थोदकेन संस्नाप्य सर्वान्कामानवाप्नुयात्

以酥油、种种香料、甘蔗汁为其圣像灌沐,又以圣地(tīrtha)净水再行沐浴者,便能成就一切所愿。

Verse 13

एवं यः स्नापये द्देवीं रुक्मिणीं क्रृष्णवल्लभाम् । न तस्य दुर्ल्लभं किंचिदिह लोके परत्र च

如是为女神鲁克米妮——克里希纳的爱侣——行沐浴礼者,于此世与彼世皆无难得之物。

Verse 14

श्रीखण्डकुंकुमेनैव तथा मृगमदेन च । विलेपयेदपुत्रस्तु स पुत्रं लभते धुवम्

以檀香膏与朱砂(kuṅkuma)并以麝香涂抹供奉女神者,若无子嗣,必定得一子。

Verse 15

सदा स भोगी भवति रूपवाञ्जनपूजितः । पूजयेन्मालतीपुष्पैः शतपत्रैः सुगन्धिभिः

以茉莉(mālatī)花与芬芳的百瓣花(莲/玫瑰)供养礼拜者,恒常享受福乐与富足,容貌端丽,并为众人所敬。

Verse 16

करवीरैर्मल्लिकाभिश्च चम्पकैस्तु विशेषतः । कमलैर्वारिसंभूतैः केतकीभिश्च पाटलैः

当以夹竹桃(karavīra)、茉莉(mallikā),尤以金香木花(campaka)供奉女神;并以水中所生之莲花、鸡蛋花(ketakī)与 pāṭalā 之花礼拜。

Verse 17

धूपेनागुरुणा चैव पूजयेद्गौग्गु लेन च । वस्त्रैः सुकोमलैः शुभ्रैर्नानादेशसमुद्भवैः

当以香与沉香(aguru)并以古古罗香脂(guggulu)供养;又当奉上极其柔软洁白、来自诸方之衣。

Verse 18

भक्त्या संछाद्य वैदर्भीं रुक्मिणीं कृष्णवल्लभाम् । भूषणैर्भूषयेद्देवीं मणिरत्न समन्वितैः

以虔敬之心为鲁克米妮——毗达婆之公主、克里希纳所钟爱者——披衣覆体后,当以镶嵌宝石珠玉的饰物庄严女神。

Verse 19

तस्मिन्कुले नाऽसुखः स्यान्नाऽधर्मो नाऽधनस्तथा । नाऽपुत्रो न विकर्मस्थः कितवो नीचसेवकः

在那家族中将无苦难、无非义(阿达摩)、无贫乏;无无子之忧,无人行禁行,无赌徒,亦无卑劣之人的奴仆随从。

Verse 20

यैः पूजिता जगन्माता रुक्मिणी मानवैः कलौ । नैवेद्यैर्भक्ष्यभोज्याद्यैर्देवी मे प्रीयतामिति । तांबूलं च सकर्पूरं भावेन विनिवेदयेत्

在迦梨时代,凡以供食(naivedya)——诸般饮食、甜点等——礼敬世母鲁克弥妮,并祈愿“愿女神悦纳于我”者,也当以至诚之心奉上槟榔,并佐以龙脑香(樟脑)。

Verse 21

गृहीत्वा च फलं शुभ्रं ह्यक्षतैश्च समन्वितम् । मन्त्रेणानेन वै विप्रा ह्यर्घ्यं दद्याद्विधानतः

取一枚洁白清净之果,并配以阿克沙塔(不碎米粒),噢诸婆罗门,当依仪轨以如下真言奉献阿尔伽(arghya)。

Verse 22

कृष्णप्रिये नमस्तुभ्यं विदर्भाधिपनंदिनि । सर्वकामप्रदे देवि गृहाणार्घ्यं नमोऽस्तु ते

噢克里希纳所钟爱者,向汝顶礼;噢毗达婆国王之女,向汝顶礼。噢女神,赐予一切所愿者,请受此阿尔伽;向汝致敬。

Verse 23

आरार्तिकं ततः कुर्याज्ज्वलन्तं भावनान्वितः । नीराजनं प्रकर्तव्यं कर्पूरेण विशेषतः

随后,当以虔敬观想行那火焰炽盛的阿拉尔提卡(ārārtika);并当作尼拉贾那(nīrājana),尤以樟脑为胜。

Verse 24

शंखे कृत्वा तु पानीयं भ्रामयेद्भावसंयुतः । भ्रामयित्वा च शिरसा धारणीयं विशुद्धये

将清水盛入法螺中,以虔敬之心摇洒旋转;旋毕,当触及或顶戴于头,以求净化。

Verse 25

दण्डवत्प्रणमेद्भूमौ नमः कृष्णप्रियेति च । विप्रपत्नीश्च विप्रांश्च पूजयेच्छक्तितो द्विजाः

当以全身投地作顶礼(dandavat),并诵曰:“敬礼!噢,克里希纳所钟爱者。”又应量力而行,噢二次生者,当恭敬供养婆罗门之妻与婆罗门本人。

Verse 26

ग्रीवासूत्रकसिन्दूरैर्वासोभिः कञ्चुकैस्तथा । सुगन्धकुसुमैरर्च्य कुंकुमेन विलिप्य च

当以颈饰与朱砂(sindūra)、以衣裳与上衣供奉礼拜;又献上芬芳之花,并以藏红花膏(kuṅkuma)涂抹圣像。

Verse 27

कौसुंभकैः कज्जलेन तांबूलेन च तोषयेत् । भक्ष्यैर्भोज्यैमोदकैश्च इक्षुभिर्मधुसर्पिभिः

当以红花色(kausumbha)之供品、以眼膏(kajjala)与槟榔叶(tāmbūla)令主欢喜;并献上可嚼可食之肴:摩达迦甜团(modaka)、甘蔗、蜂蜜与酥油(ghee)。

Verse 28

प्रीतो भवति देवेशो रुक्मिण्या सह केशवः । विशेषतः फलानीह दातव्यानि द्विजोत्तमाः

如是,凯沙瓦——诸天之主——与鲁克米妮同得欢喜。故而,噢最胜二次生者,于此处尤当奉献诸果。

Verse 29

उन्मत्तकं ततो देवं द्वारपालं प्रपूजयेत् । स्नापयित्वा सुगन्धेन कुंकुमेन विलिप्य च

其后,应如法礼敬门卫神祇“乌恩玛塔迦”(Unmattaka);以芬芳之物为其沐浴,并复以藏红花膏(kunkuma)涂抹。

Verse 30

धूपेन धूपयित्वा तु पुष्पाद्यैः संप्रपूजयेत । नैवेद्यैर्भक्ष्यभोज्यैश्च मांसेन सुरया तथा

既以香熏供养,当以花等诸供具周遍礼敬;并献上食供(naivedya)——可嚼之食与可食之肴——亦供肉食与酒(surā)。

Verse 31

प्रभूतबलिभिश्चैव पिष्टेन विविधेन च । योगिनीनां चतुःषष्टिं तस्मिन्पीठे प्रपूजयेत्

以丰盛之巴利供(bali),并以种种面团糊制品,当于彼圣座(pīṭha)礼供六十四位瑜伽女神(Yoginī)。

Verse 32

अर्चयेद्धरसिद्धिं च क्षेत्रपालं च सर्वशः । विरूपस्वामिनीं तत्र तथा वै सप्तमातरः

当以阿尔恰那(arcanā)礼敬陀罗悉地(Dharasiddhi),并以诸般方式礼供护域神(Kṣetrapāla);亦于彼处礼敬毗卢帕斯瓦弥尼(Virūpasvāminī)及七母神。

Verse 33

अष्टमूर्तीः कृष्णपत्नीः पीठे तस्मिन्प्रपूजयेत् । रुक्मिणीं सत्यभामां च शुभां जांबवतीं तथा

于彼圣座(pīṭha)之上,当礼敬黑天(Kṛṣṇa)诸妃之八相——如鲁克弥尼(Rukmiṇī)、萨蒂亚婆摩(Satyabhāmā)、舒婆(Śubhā),以及阎婆伐蒂(Jāmbavatī)。

Verse 34

मित्रविन्दां च कालिन्दीं भद्रां नाग्नजितीं तथा । अष्टमीं लक्ष्मणां तत्र पूजयेत्कृष्णवल्लभाः

并当礼敬密多罗温达、迦林底、跋陀罗,以及那伽尼吉提;并于彼处礼敬拉克什玛那为第八位——皆为圣克里希纳所钟爱的王后。

Verse 35

एताः संपूज्य विधिवत्संतर्प्य दधिपायसैः । गीतवादित्रघोषेण दीपैर्जागरणेन च

如法礼敬诸位之后,以酸乳与甜乳饭使其欢喜;并当以歌咏与乐器之声、以明灯、以及通宵守夜而作供养庆赞。

Verse 36

पुत्र पौत्रसमायुक्तो धनधान्यसमन्वितः । सर्वान्कामानवाप्नोति तस्य विष्णुः प्रसीदति

此人将得子孙具足,财宝与五谷丰盈;诸愿皆成,毗湿奴亦将垂慈于此虔信者。

Verse 37

किं तस्य वहुदानैस्तु किं व्रतैर्नियमैस्तथा । येन दृष्टा जगन्माता रुक्मिणी कृष्णवल्लभा

若已得见世间之母鲁克米妮——圣克里希纳的挚爱——又何须多施布施,或立诸誓戒与苦行规约?

Verse 38

किं यज्ञैर्बहुभिस्तस्य संपूर्णवरदक्षिणैः । येन दृष्टा जगन्माता रुक्मिणी कृष्णवल्लभा

若已得见世间之母鲁克米妮——圣克里希纳的挚爱——又何须众多祭祀,纵然具足供品并备上等祭司酬礼(达克希那)?

Verse 39

तेन दत्तं हुतं तेन जप्तं तेन सनातनम् । येन दृष्टा जगन्माता रुक्मिणी कृष्णवल्लभा

对那人而言,布施已圆满,火供已圆满,恒常的持诵(japa)亦已圆满——因为他已瞻礼世母(Jagad-mātā)鲁克米妮(Rukmiṇī),克里希纳(Kṛṣṇa)的挚爱。

Verse 40

हेलया तेन संप्राप्ताः सिद्धयोऽष्टौ न संशयः । गत्वा द्वारवतीं येन दृष्टा केशववल्लभा

即使轻而易举,那人也必得八种悉地(siddhi),毫无疑问——凡往诣堕罗伐底(Dvāravatī)而瞻礼凯沙瓦(Keśava)之爱妃鲁克米妮者。

Verse 41

सफलं जीवितं तस्य सफलाश्च मनोरथाः । कलौ कृष्णपुरीं गत्वा दृष्ट्वा माधववल्लभाम्

此人生命得其果报,心中所愿亦皆圆满——在迦利时代前往克里希纳之城,瞻礼摩达瓦(Mādhava)之爱妃鲁克米妮者。

Verse 42

देव राज्येन किं तस्य तथा मुक्तिपदेन च । न दृष्टा चेज्जगन्माता रुक्मिणी कृष्णवल्लभा

若未曾瞻礼世母(Jagad-mātā)鲁克米妮——克里希纳的挚爱——那么对那人而言,诸天之王权又有何用,乃至解脱之位又有何益?

Verse 43

तस्मात्सर्वप्रयत्नेन रुक्मिणी कृष्णवल्लभा । सदाऽर्चनीया मनुजैर्द्रष्टव्या सर्वकामदा

因此,众人当竭尽全力,恒常礼拜鲁克米妮——克里希纳的挚爱——并当求见其圣容(darśana);因为她能赐予一切所愿。

Verse 45

स्नानगन्धादि वस्त्रैस्तु प्रभूतबलिभिस्तथा । गीतवादित्रघोषेण दीपजागरणेन च । तोषिता भीष्मकसुता सर्वान्कामान्प्रयच्छति

当毗湿摩迦之女鲁克米妮因如法沐浴、香料等供品、衣服、丰盛的巴利供献、歌咏与乐器之声,以及点灯守夜而欢喜时,便赐予众生一切所愿之成就。

Verse 46

तथा दीपोत्सवदिने चतुर्द्दश्यां समाहितः । पूजयित्वा यथाशास्त्रमीप्सितं लभते फलम्

同样,在灯节之日、月之第十四日,若能摄心安住,依经典之法而礼敬者,必得所求之果报。

Verse 47

माघमासे सिताष्टम्यां कन्दर्प्पजननी तु यैः । पूजिता गन्धपुष्पाद्यैरुपहारैरनेकशः । सफलं जीवितं तेषां सफलाश्च मनोरथाः

在摩伽月白半第八日,凡以香、花及种种供品礼敬“甘达尔帕之母”(迦摩之母)者,其生命诚然得其果实,心中所愿亦皆圆满。

Verse 48

द्वादश्यां चैत्रमासे तु कृष्णेन सह रुक्मिणीम् । ये पश्यंति नरा देवीं रुक्मिणीं मधुमाधवे । कृष्णेन सह गच्छन्तीं धन्यास्ते मानवा भुवि

然而在恰特罗月第十二日,凡得瞻见女神鲁克米妮与奎师那同在——鲁克米妮,摩度之敌所钟爱者——并见她随奎师那一同出行的人,实为世间蒙福之人。

Verse 49

पुत्रपौत्रसमायुक्ता धनधान्यसमन्विताः । जीविते व्याधिनिर्मुक्ताः पदं गच्छन्त्यनामयम्

他们子孙具足,财宝与谷粮丰盈,生时远离疾病,终得无恼无患之境。

Verse 50

ज्येष्ठाष्टम्यां नरैर्यैस्तु पूजिता कुष्णवल्लभा । तेषां मनोरथावाप्तिर्जायते नात्र संशयः

在耶什塔月的第八日(阿湿达弥)之时,凡礼敬鲁克米妮——圣克里希纳的挚爱者——必得所愿圆满;对此毫无疑惑。

Verse 51

तथा भाद्रपदे मासि मातुः पूजा कृता तु यैः । सर्वपापविनिर्मुक्ता यांति विष्णुपदे नराः

同样,在婆陀罗钵陀月,凡修行礼拜圣母天女者,皆脱离一切罪垢,往生毗湿奴之境。

Verse 52

कार्त्तिके मासि द्वादश्यां रुक्मिणीं कृष्णसंयुताम् । ये पश्यंति नरास्तेषां न भयं विद्यते क्वचित्

在迦尔提迦月的第十二日(德瓦达希)之时,凡得瞻礼与克里希纳相合的鲁克米妮者,处处无惧。

Verse 53

यस्त्वेकत्र स्थितां पश्येद्रुक्मिणीं कृष्णसंयुताम् । सफलं जीवितं तस्य ह्यक्षया पुत्रसंततिः । अक्षयं धनधान्यं च कदा नैव दरिद्रता

然而,凡见鲁克米妮与克里希纳同立一处者,其生命即得圆满有果;子嗣绵延不绝;财宝与粮食取之不尽;贫乏永不临身。

Verse 54

य एवं रुक्मिणीं पश्येत्पूजयेत्कृष्णवल्लभाम् । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति

因此,凡得见鲁克米妮并礼敬克里希纳之挚爱者,皆脱离一切罪业,往至毗湿奴世界。

Verse 55

यः स्नायात्सर्वतीर्थेषु दानं शक्त्या ददाति यः । तस्य पुण्यफलं चैव लोके यज्जायते द्विजाः । कथितं तदशेषेण कलौ कृष्णस्य संस्थितौ

婆罗门们啊,凡在一切圣地渡口(tīrtha)沐浴,并依自身能力行布施者,其于此世所生之功德与果报,已在迦梨时代克里希纳(Kṛṣṇa)住世的背景中被完整宣说。

Verse 56

द्वारावतीं विना विप्रा मुक्तिर्न प्राप्यते कलौ । पुराणसंहितामेतां कृतवान्बलिबन्धनः । ददौ स तु प्रसादेन पूर्वं मह्यं द्विजोत्तमाः

婆罗门们啊,在迦梨时代,若无堕罗伐底(Dvārāvatī,堕罗迦 Dvārakā),便不能得解脱(mokṣa)。此部《往世书》汇编由“缚巴利者”巴利缚那陀那(Balibandhana,即毗湿奴)所编纂;往昔他以慈恩赐予我,诸位最胜二生者啊。

Verse 57

इहार्थे च पुरा प्रोक्तं इतिहासो द्विजोत्तमाः । प्रद्युम्नेन सुसंवादे मार्कण्डेन महात्मना

诸位最胜二生者啊,就在此事上,往昔曾宣说过一段古老的圣传——在普拉丢姆那(Pradyumna)与大心圣者马尔坎德耶(Mārkaṇḍeya)之间那极妙的对话中。