Adhyaya 10
Prabhasa KhandaDvaraka MahatmyaAdhyaya 10

Adhyaya 10

本章以对话体展开一则圣地(tīrtha)传说。普罗诃罗陀赞叹名为“克里卡拉萨/尼尔伽圣地”(Kṛkalāsa/Nṛga-tīrtha)的殊胜朝圣处,并叙述尼尔伽王(Nṛga)生平:他威德具足、奉行达摩,日日以隆重礼仪向婆罗门施赠乳牛。后因一头已施与圣者阇弥尼(Jaimini)的牛走失,竟又被转赠给另一位婆罗门苏摩沙尔曼(Somaśarman),遂引发争执。国王未能及时妥善裁断,触怒两位婆罗门,遂被诅咒化为“克里卡拉萨”(蜥蜴)。 王死后,阎摩赐其选择受报先后;因这微过,尼尔伽长久受蜥蜴之身。至二婆罗纪末期,天神之子黑天克里希纳(Kṛṣṇa,德瓦姬之子)示现;雅度族诸王子在水域中见一蜥蜴僵卧不动,黑天一触即令其解脱。尼尔伽随即赞颂主神,并蒙赐愿:愿那坑井以其名闻世,凡以虔敬沐浴其处并为祖先行祭者,得往毗湿奴界(Viṣṇuloka)。 章末给出行持次第:以花与檀香献阿尔伽(arghya),以泥土沐浴净身,为祖先/诸天/众人行供水礼(tarpaṇa),并举行施食与奉献供养金(dakṣiṇā)的施祖仪(śrāddha)。尤当优先布施饰牛携犊与床榻及其用具,并常济当地贫乏者,许以广大圣地功德与旅途圆满。

Shlokas

Verse 1

प्रह्लाद उवाच । ततो गच्छेद्द्विजश्रेष्ठास्तीर्थं पापप्रणाशनम् । कृकलासमिति ख्यातं नृगतीर्थमनुत्तमम्

普罗诃罗陀说道:“于是,噢最胜婆罗门,当往那能灭罪的圣渡口,名闻为‘克里迦罗萨’,即无与伦比的尼噜伽圣地(Nṛga Tīrtha)。”

Verse 2

नृगो यत्र महीपालः कृकलासवपुर्धरः । कृष्णेन सह संगत्य संप्राप परमां गतिम्

在那里,尼噜伽王——身披蜥蜴之形——与黑天(Kṛṣṇa)相遇;因这次相会,他证得至上的归趣。

Verse 3

ऋषय ऊचुः । नृगो नाम नृपः कोऽयं कथं कृष्णेन संगतः । कर्मणा कृकलासत्वं केन तद्वद विस्तरात्

诸仙人说道:“这位名为尼噜伽的国王是谁?他如何得以与黑天相接?因何业力而堕为蜥蜴之身?请为我们详说。”

Verse 4

प्रह्लाद उवाच । नृगो नाम नृपो विप्राः सार्वभौमो बलान्वितः । बुद्धिमान्धृतिमान्दक्षः श्रीमान्सर्वगुणान्वितः

普罗诃罗陀说道:“噢婆罗门们,曾有一位名为尼噜伽的国王——为天下共主,具大力,具慧智,心志坚固,才干圆满,福德昌盛,诸德悉备。”

Verse 5

अनेकशतसाहस्रा भूमिपा अपि तद्वशाः । हस्त्यश्वरथसंघैश्च पत्तिभिर्बहुभिर्वृतः

又有成百上千、乃至数十万的诸王臣服于他;他周围簇拥着庞大的象军、马军、战车队,以及众多步兵。

Verse 6

सैन्यं च तस्य नृपतेः कोशं चैवाक्षयं तथा । स नित्यं गुरुभक्तश्च देवताराधने रतः

那位国王拥有一支军队和取之不尽的宝库。他始终敬重师长,并致力于供奉神灵。

Verse 7

महा दानानि विप्रेन्द्रा ददात्यनुदिनं नृपः । शश्वत्स गोसहस्रं तु ददाति नृपसत्तमः

婆罗门中的佼佼者啊,那位国王每天都布施厚礼。确实,那位杰出的君主不断地捐赠一千头牛。

Verse 8

प्रक्षाल्य चरणौ भक्त्या ह्युपविश्यासने शुभे । परिधाप्य शुभे क्षौमे सुगन्धेनोपलिप्य च

他怀着虔诚之心洗净(婆罗门的)双脚,请其坐于吉祥的座位上;为他穿上精美的吉祥亚麻衣,并涂抹香料。

Verse 9

संपूज्य पुष्पमालाभि धूपेन च सुगन्धिना । ददौ दक्षिणया सार्द्धं प्रतिविप्राय गां तदा । तांबूलसहितां भक्त्या विष्णुर्मे प्रीयतामिति

在用花环和香薰适当地敬奉(婆罗门)之后,他给每位婆罗门一头牛和祭司费。他还虔诚地奉上槟榔,说道:“愿毗湿奴对我感到满意。”

Verse 10

एवं प्रददतस्तस्य यजतश्च तथा मखैः । ययौ कालो द्विजश्रेष्ठा भोगांश्चैवानुभुञ्जतः

婆罗门中的佼佼者啊,当他像这样不断布施和举行祭祀时,时光流逝——他也享受着应得的快乐。

Verse 11

एकदा तु द्विजश्रेष्ठं जैमिनिं संशितव्रतम् । श्रद्धया तं च नृपतिः प्रतिग्रहपराङ्मुखम् । उवाच वाक्यं नृपतिः कृतांजलिपुटः स्थितः

有一次,国王走近最尊贵的婆罗门耆弥尼,他持戒坚固。见他不愿受赠,国王合掌而立,恭敬地向他陈词。

Verse 12

मामुद्धर महाभाग कृपां कुरु तपोनिधे । गृहाण गां मया दत्तां दयां कृत्वा ममोपरि

“大德啊,愿以慈恩拔济于我;苦行之宝藏啊,愿垂怜。请怜悯我,收受我所奉献的这头母牛。”

Verse 13

तच्छ्रुत्वा वचनं तस्य अनिच्छन्नपि गौरवात् । नृपस्य चाब्रवीद्विप्र एवमस्त्विति लज्जितः

婆罗门听了国王之言,虽不情愿,却因敬重君王,羞赧地答道:“如是,便如此吧。”

Verse 14

अवनिज्य ततः पादौ शिरसा धारयज्जलम् । सुवर्णशृंगसहितां रौप्यखुरविभूषिताम्

随后,国王洗净其足,以那洗足之水顶戴于首;并献上一头金角、银蹄装饰的母牛。

Verse 15

रत्नपुच्छां कांस्यदोहां सितवस्त्रावगुंठिताम् । समभ्यर्च्य च विप्रेन्द्रं ददौ दक्षिणयान्विताम्

那母牛尾缀宝珠,配以青铜挤乳器,并以白布覆裹;国王如法礼敬最上婆罗门后,将此牛连同应施的达克希那(供养礼金)一并奉上。

Verse 16

आसीमान्तमनुव्रज्य हृष्टो राजा बभूव ह । तरुणीं हंसवर्णां च हंसीनामेति विश्रुताम्

国王护送那位婆罗门直到疆界,心中欢喜。那头母牛尚且年轻,色如天鹅,世人称其名为“诃ṃ西(Haṃsī)”。

Verse 17

गां गृह्य स्वगृहं प्राप्तो दाम्ना बद्धां सवत्सकाम् । स तस्यै यवसं चार्द्रं ददौ ब्राह्मणसत्तमः

那位最胜婆罗门牵着母牛回到自家,牛与犊同在,并以绳系之。随后他赐给它新鲜湿润的草料。

Verse 18

सुतृप्ता यवसेनैव मध्याह्ने तृषितां तदा । गृहीत्वा निर्ययौ विप्रो दामबद्धां जलाशयम्

它仅以草料便已满足;至正午时分便觉口渴。于是婆罗门牵着它——仍以绳系——出门前往水池。

Verse 19

मार्गे गजाश्वसंबाधे त्रस्ता सा उष्ट्रदर्शनात् । हस्तादाच्छिद्य सा धेनुर्ब्राह्मणस्य ययौ तदा

路上象马拥塞,它见到骆驼便惊惧不已。那母牛挣脱婆罗门之手,当即奔逃而去。

Verse 20

विचिन्वन्सकलामुर्वीं नापश्यत्तां द्विजर्षभः । सा ययौ विद्रुता धेनुस्तन्महद्राजगोधनम्

那位最胜的再生者遍寻四方大地,却终究不见其踪。那母牛奔逃远去——正是国王那丰厚的牛群财宝。

Verse 21

द्वितीयेऽह्नि पुनर्विप्रमाहूय नृपसत्तमः । संपूज्य विधिवद्भक्त्या वस्त्रालंकारभूषणैः

第二日,最尊贵的国王又召来婆罗门,依仪轨以虔敬之心供奉礼敬,赐予衣服、饰物与种种庄严之具。

Verse 22

विधिवद्गां ददौ तां च स नृपः सोमशर्मणे । गृहीत्वा राजभवनान्निर्ययौ गां द्विजर्षभः

那位国王依仪轨将那头母牛赐与苏摩沙尔曼。上等婆罗门牵得此牛,便从王宫中走出。

Verse 23

आशंसमानो राजानं धर्मज्ञमिति कोविदम् । स च विप्रो विचिन्वानः सर्वतो गां सुदुःखितः

他寄望于那位通达正法、智名远扬的国王庇护;而那婆罗门悲苦难当,四处寻觅那头母牛。

Verse 24

ददर्श पथि गच्छन्तीं पृष्ठतः सोमशर्मणः । दृष्ट्वा तां गां च स मुनिर्जैमिनिस्तमभाषत

他在路上看见那头母牛正跟在苏摩沙尔曼身后行走。见到那母牛,圣贤阇弥尼便对他说道。

Verse 25

मम गां चापि हृत्वा त्वं नयसे दस्युवत्कथम् । स तस्य वचनं श्रुत्वा विस्मयं दस्युकीर्त्तनात्

“你怎能夺走我的母牛,还像盗贼一般牵走?”听到这番话,他因被称作强盗而大为惊愕。

Verse 26

राजतो हि मया लब्धां गां नयामि स्वमन्दिरम् । गोहर्त्तेति च मां कस्माद्ब्रवीषि द्विजसत्तम

“此牛乃我从国王处所得,我正牵她归我家。何故称我为盗牛者?噫,最胜二生者!”

Verse 27

ब्राह्मण उवाच । मयापि राजतो लब्धा ममेयं गौर्न संशयः । कथं नयसि विप्र त्वं मयि जीवति मन्दिरम्

婆罗门说道:“我亦从国王处得此牛;此牛确属我,无有疑惑。婆罗门啊,我尚在世,你怎可牵她入你家?”

Verse 28

सोऽब्रवीदद्य मे लब्धा कथं मां वदसे मृषा । सोऽब्रवीद्ध्यो मया लब्धा बलान्नेतुं त्वमिच्छसि

一人说:“今日我方得此牛,你怎可诬我以妄言?”另一人说:“昨日我已得之;你欲以强力夺去。”

Verse 29

ममेयमिति संक्रुद्धः सोमशर्माऽब्रवीद्वचः । प्रज्वलत्क्रोधरक्ताक्षो ममेयमिति सोऽपरः

索摩沙尔曼怒不可遏,喊道:“她是我的!”另一人亦双目赤红、怒焰炽盛,叫道:“她是我的!”

Verse 30

विवदतौ तथा विप्रौ राजद्वारमुपागतौ । कुर्वाणौ कलहं घोरं त्यक्तुकामौ स्वजीवितम्

二婆罗门如此争执,遂至王门之前,掀起可怖之争,如同甘愿舍弃自身性命一般。

Verse 31

संक्रुद्धौ ब्राह्मणौ दृष्ट्वा शपन्तौ तौ परस्परम् । राज्ञे निवेदयामास द्वास्थं प्रणयपूर्वकम्

见两位婆罗门怒火中烧,彼此诅咒,守门者便恭敬有礼地将此事禀告国王。

Verse 32

अवज्ञाय तदा विप्रौ विवदन्तौ रुषान्वितौ । कामव्याकुलचेतस्को न बहिर्निःसृतो नृपः

然而那时,国王并未出宫相见那两位怒争的婆罗门,因为他的心被欲望扰乱,纷乱而分神。

Verse 33

एवं विवदमानौ तौ त्रिरात्रं समुपस्थितौ । अवज्ञातौ नृपेणाथ राजानं प्रति च क्रुधा

于是那两位婆罗门争执不休,在那里停留了三夜。然因被国王轻慢无视,他们便对国王生起嗔怒。

Verse 34

ऊचतुः कुपितो वाक्यं सामर्षौ नृपतिं प्रति । अवमन्यसे नौ यस्मात्त्वं न निर्गच्छसि मन्दिरात्

他们愤怒而怀怨,对国王厉声说道:“你轻慢我们,因为你竟不从王宫中出来相见。”

Verse 35

शास्ता भवान्प्रजानां हि न न्यायेन नियोक्ष्यति । भविष्यति भवांस्तस्मात्कृकलासो न संशयः

“你虽为众民之惩戒者与统御者,却不以正法施政。故而你必将化作蜥蜴——此事毫无疑问。”

Verse 36

एवं शप्त्वा तदा विप्रावन्यस्मै गां प्रदाय तौ । क्षुधितौ खेदसंयुक्तौ स्वगृहं गन्तुमुद्यतौ

如此诅咒之后,那两位婆罗门便将母牛转赠他人。饥饿而困乏,他们起身踏上归家之途。

Verse 37

प्रस्थितौ तौ नृगो द्वार आगत्य समुपस्थितः । दंडवत्प्रणिपत्याऽशु कृतांजलिरभाषत

当他们正要启程时,尼伽王来到门前,走近二人。他立刻如杖般俯伏叩拜,合掌恭敬而说道。

Verse 38

अमोघवचना यूयं तत्तथा न तदन्यथा । ममोपरि कृपां कृत्वा शापांत उपदिश्यताम्

“二位圣者之言绝不落空;必将如是,别无他途。愿怜悯于我,指示此诅咒如何得以终止。”

Verse 39

तस्य तद्वचनं श्रुत्वा ऊचतुर्वचनं नृपम् । द्वापरस्य युगस्यान्तं भगवान्देवकीसुतः

听了他的话,两位婆罗门对国王说道:“在二婆罗纪将尽之时,至福的主——提婆吉之子——(将显现……)。”

Verse 40

वसुदेवगृहे राजन्हरिराविर्भविष्यति । तस्य संस्पर्शनादेव शापमुक्तिर्भविष्यति

“大王啊,哈利将于婆苏提婆之家显现。仅以触及其身,便能从诅咒中得解脱。”

Verse 41

इत्युक्त्वा तौ तदा विप्रौ प्रयातौ स्वनिवेशनम् । राजा बहुविधान्भोगान्भुक्त्वा दत्त्वा च भूरिशः

说罢此言,那两位婆罗门便回到各自的住处。国王享受了种种王者之乐,又广行布施,慷慨施舍,继续度日。

Verse 42

इष्ट्वा च विविधैर्यज्ञैः कालधर्ममुपेयिवान् । ततः स गतवान्विप्रा धर्मराजनिवेशनम्

又以种种祭祀(yajña)奉献之后,他抵达时间之法——即到了命定之死。随后,诸婆罗门啊,他前往法王阎摩(Dharmarāja Yama)的居处。

Verse 43

सत्कृत्योक्तो यमेनाथ स्वागतेन नृपोत्तमः । प्रथमं सुकृतं राजन्नथवा दुष्कृतं त्वया । भोक्तव्यमिति मे ब्रूहि तत्ते संपाद्यते मया

阎摩以礼相待并致以欢迎,对那位最胜之王说道:“大王啊,告诉我——你愿先受福德之果,还是先受罪业之果?对我明言;我将为你安排成就。”

Verse 44

नृग उवाच । यद्यस्ति दुष्कृतं किंचित्प्रथमं प्रतिपादय । अनुज्ञातो यमेनैवं कृकलासो भवेति वै । ततो वर्षसहस्राणि कृकलासत्वमाप्तवान्

尼伽说道:“若我尚有丝毫罪业,愿先令其果报现前。”阎摩便允诺道:“确实成为蜥蜴吧。”于是他受蜥蜴之身,历经千千年。

Verse 45

एकस्मिन्दिवसे विप्राः सर्वे यदुकुमारकाः । वनं जग्मुर्मृगान्हन्तुं सर्वे कृष्णसमन्विताः

某一日,诸婆罗门啊,所有亚度族的王子们前往森林猎鹿,众人皆与克里希纳(Kṛṣṇa)同行。

Verse 46

तृषार्द्दिताश्च मध्याह्ने विचिन्वंतो जलं ह्रदे । सत्वं च सुमहत्तत्र कृकलासं च संस्थितम्

正午时分,他们被口渴所逼,在湖边寻水;在那里见到一只极其巨大的生灵,伫立如蜥蜴(kṛkalāsa)一般。

Verse 47

चक्रुश्चोद्धरणे तस्य यत्नं यदुकुमारकाः । आकृष्यमाणः स तदा गुरुत्वान्न चचाल ह

雅度诸王子竭力想把他抬出;然而当时纵然用力牵拉,他也因沉重无比而纹丝不动。

Verse 48

यदा न शेकुस्ते सर्व आचख्युः कृष्णरामयोः । ददर्श तं तदा कृष्णो नृगं मत्वा हसन्निव

当他们都无法挪动时,便将此事禀告给奎师那与罗摩。于是奎师那注视着他,认出是尼利伽(Nṛga),似乎含笑。

Verse 49

चिक्षेप वामहस्तेन लीलयैव जगत्पतिः । स संस्पृष्टो भगवता विमुक्तः शापबंधनात्

世间之主以左手戏然一掷,将他抛出;蒙至福者触及,他便从诅咒的束缚中解脱。

Verse 50

त्यक्त्वा कलेवरं राजा दिव्यमाल्यानुलेपनः । कृतांजलिरुवाचेदं भक्त्या परमया युतः

国王舍离其身,佩戴天界花鬘,涂抹天香妙膏;合掌恭敬,以至上虔信说出如下言辞。

Verse 51

नमस्ते जगदाधार सर्गस्थित्यंतकारिणे । सहस्रशिरसे तुभ्यं ब्रह्मणेऽनंतशक्तये

顶礼于您,宇宙之依止,成、住、坏之施行者。顶礼于您,千首之尊——无尽神力的梵(Brahman)。

Verse 52

एवं संस्तुवतः प्राह भगवान्देवकीसुतः । ददामि ते वरं तुष्टो यत्ते मनसि वर्त्तते

他如此赞颂时,至福的世尊、提婆吉之子说道:“我已欢喜,赐你一愿——凡你心中所住、所欲求者。”

Verse 53

याहि पुण्यकृतांल्लोकान्दर्शनात्स्पर्शनाच्च मे । एवमुक्तः स देवेन संप्रहृष्टतनूरुहः

“凭见我一面、蒙我一触,汝当往生于行善积德者所至之诸界。”主如此宣告,他欢喜战栗,遍体毛竖。

Verse 54

उवाच यदि तुष्टोऽसि यदि देयो वरो मम । गर्त्तेयं मम नाम्ना तु ख्यातिं गच्छतु केशव

他祈言:“若您欢喜,若可赐我一愿,噢凯沙瓦,愿此坑井以我之名而闻名于世。”

Verse 55

यः स्नात्वा परया भक्त्या पितॄन्संतर्पयिष्यति । त्वत्प्रसादेन गोविंद विष्णुलोकं स गच्छतु

“凡在此沐浴,以至上虔敬奉慰祖灵者——凭您的恩慈,噢戈文达,愿其往生毗湿奴之界。”

Verse 56

एवमुक्त्वा स भगवान्पुनर्द्वारावतीमगात्

如是言毕,世尊复返德瓦罗伐底(德瓦拉迦)。

Verse 57

स च राजा विमानेन दिव्यमाल्यानुलेपनः । जगाम भवनं विष्णोर्विबुधैरनुसंस्तुतः

那位国王乘天界宝车,佩戴天花与妙香涂饰,前往毗湿奴之居所,沿途为诸天所颂赞。

Verse 58

प्रह्लाद उवाच । तदाप्रभृति विप्रेंद्राः स कूपो नृगसंज्ञया । वरदानाच्च कृष्णस्य पावनः सर्वदेहिनाम्

普罗诃罗陀说道:“自那时起,噢婆罗门中最胜者,那口井以‘尼利伽(Nṛga)’之名而闻;又因克里希纳所赐之恩,它成为一切有身众生的净化者。”

Verse 59

तत्र गत्वा द्विजश्रेष्ठा ह्यर्घ्यं दद्याद्यथाविधि । फलपुष्पाक्षतैर्युक्तं चंदनेन च भूसुराः

到达彼处后,噢二次生者中最胜者,当依仪轨奉献阿尔伽(arghya),并配以果品、花朵、完整米粒与檀香膏,噢婆罗门们。

Verse 60

नमस्ते विश्वरूपाय विष्णवे परमात्मने । अर्घ्यं गृहाण देवेश कूपेऽस्मिन्नृगसंज्ञके

“顶礼于汝,具宇宙之相的毗湿奴,至上之我。噢诸天之主,请在此名为尼利伽(Nṛga)之井中,纳受此阿尔伽供奉。”

Verse 61

ततः स्नायाद्द्विजश्रेष्ठा मृदमालिप्य पाणिना । संतर्पयेत्पितॄन्देवान्मनुष्यांश्च यथाक्रमात्

随后,噢最尊贵的再生者,应当沐浴,以手将泥土涂抹于身;并依次行供水安慰之礼(tarpaṇa),使祖灵(Pitṛ)、诸天与人众皆得满足。

Verse 62

ततः श्राद्धं प्रकुर्वीत पितॄणां श्रद्धयान्वितः । विप्रेभ्यो भोजनं दद्याद्दक्षिणां च स्वशक्तितः

其后,应以信心为祖灵行施食追荐之礼(śrāddha);并当供养婆罗门,且依自身能力奉献供养金(dakṣiṇā)。

Verse 63

विशेषतः प्रदातव्या सवत्सा गौः स्वलंकृता । शय्या सोपस्करां दद्याद्विष्णुर्मे प्रीयतामिति

尤当施舍一头装饰庄严的母牛,并连同其犊。亦应布施备具齐全的卧榻,并祈愿曰:“愿毗湿奴悦纳于我。”

Verse 64

दीनांधकृपणानां च सदा तत्तीरवासिनाम् । दद्याद्दानं स्वशक्त्या च वित्त शाठ्यविवर्जितः

并应常常随力布施于居住在那圣河岸边的贫者、盲者与困乏者,于财物之事不怀欺诳。

Verse 65

स्नानमात्रेण विप्रेन्द्रा लभेद्गोदानजं फलम् । पितृणां श्राद्धदानेन वियोनिं न च गच्छति

噢婆罗门中最胜者,仅以沐浴一事,亦得布施母牛之果报;又以施行祖灵之施食(śrāddha)供献于Pitṛ,便不堕入不祥之胎。

Verse 66

कृकलासे कृतं श्राद्धं येनैव तर्पणं तथा । स गच्छेद्विष्णुलोकं तु पितृभिः सहितो नरः

凡在克里卡拉萨行施罗达(śrāddha)并同处奉献塔尔帕那(tarpaṇa)者,必与其祖灵同往毗湿奴之界。

Verse 67

तथा मनोरथावाप्तिर्यात्रा च सफला भवेत् । सर्वतीर्थफलावाप्तिं लभते नात्र संशयः

由此,所怀愿望皆得成就,朝圣亦圆满有果;并能获得一切圣地(tīrtha)之功德,毫无疑虑。