
普拉斯提耶(Pulastya)讲述前往迦毗罗圣渡处 Kapilā-tīrtha 的行程次第;据说在此沐浴可洗除久积过失。苏普拉婆王(Suprabha)沉迷狩猎,竟射杀一只正在哺乳幼鹿的母鹿;母鹿临终痛斥其行违背刹帝利之法 kṣātra-dharma,并诅咒国王在山坡上化为凶猛之虎,唯有遇见名为迦毗罗(Kapilā)的乳牛方得解脱。国王遂成虎身,后来与离群的迦毗罗相遇。 迦毗罗请求暂返哺育小牛,并誓言必定归来;她以一连串自我惩戒的誓词加固诺言,称若失信当受重罪重业。猛虎为其“真实之德”satya 所感,准其离去。迦毗罗哺乳幼犊,教其警觉与不贪,向族群辞别后如约返回。众人宣示:satya 之力胜过浩大祭仪,甚至可比千次马祭 aśvamedha;虎遂放生,诅咒当下解除,国王复得人形。 迦毗罗求水时,国王以箭击地,涌出清凉纯净之泉。法(Dharma)现身赐福,宣告此圣渡处之名与功德:沐浴 snāna(尤以月十四日为胜)、施行 śrāddha 与布施 dāna,皆得倍增且无尽之福德;乃至微小众生触水亦获利益。最终天车降临,迦毗罗、其群体与国王同证天界之境;叙事以劝勉众人量力于此行沐浴、祭祖与布施而终。
Verse 1
पौलस्त्य उवाच । ततो गच्छेन्नृपश्रेष्ठ कपिलातीर्थमुत्तमम् । यत्र स्नातो नरः सम्यङ्मुच्यते सर्वकिल्बिषैः
保罗罗私底耶说道:于是,噢诸王之最,应前往殊胜的迦毗罗圣渡(Kapilā Tīrtha);人在彼处如法沐浴,便能解脱一切罪垢。
Verse 2
पुराऽभून्नृपतिर्नाम सुप्रभः परवीरहा । नित्यं च मृगयाशीलो मृगाणामहिते रतः
往昔有一位国王名为苏普拉婆(Suprabha),能诛灭敌方勇士。他常常沉迷狩猎,以伤害群鹿为乐。
Verse 3
न तथा स्त्रीषु नो भोगे नाश्वयाने न वारणे । तस्याभूदनुरागश्च यथा मृगविमर्द्दने
他并不那样贪恋女色与享乐,也不迷于骏马车乘或大象;他的热情唯在狩猎中践灭群鹿。
Verse 4
स कदाचिन्नृपश्रेष्ठ मृगासक्तोऽर्बुदं गतः । अपश्यत्सानुदेशे च मृगीं शिशुसमावृताम्
有一次,噢诸王之最,他因迷恋追猎而来到阿尔布达(Arbuda)。在那里,山坡林间,他看见一只母鹿,被幼鹿环绕。
Verse 5
स्तनं धयन्तीं सुस्निग्धां शिशोः क्षीरानुरागिणः । सा तेन विद्धा बाणेन सहसा नतपर्वणा
那母鹿温柔地哺乳幼子,幼鹿恋慕母乳;然而她忽被他的箭矢骤然射中,那箭杆在缺口处微曲。
Verse 6
अथ सा पार्थिवं दृष्ट्वा प्रगृहीतशरासनम् । द्वितीयं योजयानं च मृगी बाणं सुनिर्मलम्
于是母鹿见国王手执弓弩,正搭上第二支清净无瑕之箭。
Verse 7
ततः सा कोपसन्तप्ता भूपालं प्रत्यभाषत । नायं धर्मः स्मृतः क्षात्त्रो यस्त्वयाद्य निषेवितः
随后她怒火炽盛,对国王说道:“你今日所行,并非人所传诵的刹帝利之法(dharma)。”
Verse 8
शयानो मैथुनासक्तः स्तनपो व्याधिपीडितः । न हंतव्यो मृगो राजन्मृगी च शिशुना वृता
“大王啊,鹿卧地而息时不可杀,交合之时不可杀,哺乳之时不可杀,患病受苦时不可杀;母鹿若伴随幼崽,也不可加害。”
Verse 9
तदद्य मरणं जातं मम सर्वं नृपाधम । तव बाणं समासाद्य पुत्रस्य च मया विना
“因此今日于我一切皆成死亡,卑劣之王啊——因我之子遭你之箭所伤,而今离我而孤。”
Verse 10
यस्मादहमधर्मेण हता भूमिपते त्वया । तस्मादत्रैव सानौ त्वं रौद्रव्याघ्रो भविष्यसि
“既然你以非义(adharma)杀我,地上之主啊,因此就在这山坡之处,你将化为凶猛之虎。”
Verse 11
पुलस्त्य उवाच । तच्छ्रुत्वा सुमहत्पापं स नृपो भयसंकुलम् । तां वै प्रसादयामास प्राणशेषां तदा मृगीम्
普拉斯提耶说道:“听到那番充满重罪的话语,国王惶恐不安,便立刻设法安抚那只只剩一线生机的母鹿。”
Verse 12
अविवेकान्मया भद्रे हता त्वं निर्घृणेन च । कुरु शापविमोक्षं त्वं तस्माद्दीनस्य सन्मृगि
“温柔的你啊,由于我的无明与无情,我竟将你射杀。高贵的母鹿啊,愿你赐我这可怜之人脱离诅咒的解脱。”
Verse 13
मृग्युवाच । यदा तु कपिलां नाम द्रक्ष्यसे त्वं पयस्विनीम् । धेनुं तया समालापात्प्रकृतिं यास्यसे पुनः
母鹿说道:“然而当你见到一头名为迦毗罗(Kapilā)的乳牛时,只要与她交谈,你便会再度回归本来的形态。”
Verse 14
एवमुक्त्वा मृगी राजाग्रतः प्राणैर्व्ययुज्यत । पीडिता शरघातेन पुत्रस्नेहाद्विशेषतः
说罢,母鹿就在国王面前断了气——被箭伤所苦,更因对幼子的深情而倍增哀痛。
Verse 15
अथाऽसौ पार्थिवः सद्यो रौद्रास्यः समजायत । व्याघ्रो दशकरालश्च तीक्ष्णदन्तनखस्तथा । भक्षयामास तां सेनामात्मीयां क्रोधमूर्च्छितः
随即那位国王立刻变得面目狰狞——化作可怖之虎,十方凶猛,牙爪锋利;被狂怒所吞没,他竟开始吞噬自己的军队。
Verse 16
ततस्ते सैनिका राजन्हतशेषाः सुदुःखिताः । स्वगृहाणि ययुस्तत्र यथा वृत्तं जने पुरे
随后,那些幸存的士兵,哦大王——悲恸不已——回到各自家中,并向城中百姓叙说所发生的一切。
Verse 17
निवेदयन्तो वृत्तांतं चत्वरेषु त्रिकेषु च । यथा वै व्याघ्रतां प्राप्तः स राजाऽर्बुदपर्वते
他们在广场与路口处详尽禀报始末,述说那位国王在阿尔布达山上确已化为猛虎。
Verse 18
तच्छ्रुत्वा वचनं तस्य पुत्रं भूरिपराक्रमम् । राज्येऽभिषेचयामासु नाम्ना ख्यातं महौजसम्
听闻此言,他们为其子——勇武非凡——举行灌顶加冕之礼,立那位名声显赫、光辉伟岸的王子登上王位。
Verse 19
कस्यचित्त्वथ कालस्य तस्मिन्सानौ नृपोत्तम । तृषार्तं गोकुलं प्राप्तं गोपगोपीसमाकुलम्
过了一段时日,哦诸王之最,一处牧牛人的聚落——挤满牧牛人及牧女——来到那山坡上,因口渴而困苦。
Verse 20
तत्रैका गौः परिभ्रष्टा स्वयूथात्तृणतृष्णया । कपिलेति च विख्याता स्वयूथस्याग्रगामिनी
在那里,有一头母牛因觅草之饥与求水之渴而离群走失。她名闻为“迦毗罗”(Kapilā),乃其群中领前之首。
Verse 21
अच्छिन्नाग्रतृणं या तु सदा भक्षयते नृप । अथ सा गह्वरं प्राप्ता गिरेः शून्यं भयंकरम्
那常啃食未剪草尖的母牛啊,王者——随后她来到山中的洞窟,空寂无人,阴森可怖。
Verse 22
तत्राससाद तां व्याघ्रो दंष्ट्रोत्कटमुखावहः । सा तं दृष्टवती पापं त्रासमाप मृगीव हि
在那里,一只猛虎拦住了她,面目狰狞,獠牙突出。她见那恶兽,恐惧攫住心神,如同母鹿一般。
Verse 23
स्मरंती गोकुले बद्धं स्वसुतं क्षीरपायिनम् । दुःखेन रुदतीं तां स दृष्ट्वोवाच मृगाधिपः
她忆起自己那头小牛,系在牧牛村落里,仍在吮乳,便悲恸而泣。兽中之王见她哭泣,遂开口说道。
Verse 24
व्याघ्र उवाच । किं वृथा रुद्यते धेनो मां प्राप्य न हि जीवितम् । विद्यते कस्यचिन्मूर्खे स्मरेष्टां देवतां ततः
猛虎说道:“母牛啊,你为何徒然哭泣?既落到我手中,性命必不存。若你愚昧,便忆念你所敬爱的神祇——若真有援助可来。”
Verse 25
कपिलोवाच । स्वजीवितभयाद्व्याघ्र न रोदिमि कथंचन । पुत्रो मे बालको गोष्ठ्यां क्षीरपायी प्रतीक्षते
迦毗罗说道:“虎啊,我并非因惧自身性命而哭。我的小牛尚幼,仍在饮乳,在牛栏里等我。”
Verse 26
नाद्यापि स तृणा न्यत्ति तेनाहं शोकविक्लवा । रोद्मि व्याघ्र सुतस्नेहात्सत्येनात्मानमालभे
“直到如今它仍不吃草;因此我悲痛欲绝。我哭泣啊,虎王,只因怜爱我的小牛。以真实为誓,我以自身作担保(必将归来)。”
Verse 27
पाययित्वा सुतं बालं दृष्ट्वा पृष्ट्वा जनं स्वकम् । पुनः प्रत्यागमिष्यामि यदि त्वं मन्यसे विभो
“待我哺乳小牛,复又探望并问候我家眷之后,我必再度归来——若你,伟力者,允准。”
Verse 28
व्याघ्र उवाच । गत्वा स्वसुतसांनिध्यं दृष्ट्वात्मीयं च गोकुलम् । पुनरागमनं यत्ते न च तच्छ्रद्दधाम्यहम्
老虎说道:“你若去到自己小牛身边,又看见自家的牛栏,我便不信你还会再回来。”
Verse 29
भयान्मां भाषसे चैवं नास्ति प्राणसमं भयम् । तस्मात्प्राणभयान्न त्वमागमिष्यसि धेनुके
“你这样对我说,是出于恐惧;世间无惧可比惧命。故因惜命之惧,你必不再回来,母牛啊。”
Verse 30
कपिलो वाच । शपथैरागमिष्यामि सत्यमेतच्छृणुष्व मे । प्रत्ययो यदि ते भूयान्मां मुञ्च त्वं मृगाधिप
迦毗罗说道:“我必归来,以庄严誓愿自缚——请听我此真实之言。若你还要更坚固的凭据,便放我去吧,万兽之主。”
Verse 31
व्याघ्र उवाच । ब्रूहि ताञ्छपथान्भद्रे समागच्छसि यैः पुनः । ततोऽहं प्रत्ययं गत्वा मोचयिष्यामि वा न वा
老虎说道:“温柔的女子啊,告诉我你凭哪些誓言还会再回来。待我得了确证之后,便决定是否放你离去。”
Verse 32
कपिलोवाच । वेदाध्ययनसंपन्नं ब्राह्मणं वंचयेत्तु यः । तेन पापेन लिप्यामि यद्यहं नागमे पुनः
迦毗罗说道:“若我不再归来,愿我染上那欺骗精通吠陀研习之婆罗门者的罪业。”
Verse 33
गुरुद्रोहरतानां च यत्पापं जायते नृणाम् । तेन पापेन लिप्यामि यद्यहं नागमे पुनः
“若我不再归来,愿我沾染那在喜好背叛上师(古鲁)之人身上所生的罪业。”
Verse 34
यत्पापं ब्राह्मणं हत्वा गां च हत्वा प्रजायते । तेन पापेन लिप्यामि यद्यहं नागमे पुनः
“若我不再归来,愿我承担那由杀害婆罗门与杀害母牛所生的罪业。”
Verse 35
मित्रद्रोहे च यत्पापं यत्पापं गुरुवंचके । तेन पापेन लिप्यामि यद्यहं नागमे पुनः
“若我不再归来,愿我沾染背叛朋友之罪,以及欺骗上师(古鲁)之罪。”
Verse 36
यो गां स्पृशति पादेन ब्राह्मणं पावकं तथा । तेन पापेन लिप्यामि यद्यहं नागमे पुनः
若我不再归来,愿我染上以脚触牛之罪;同样,触犯婆罗门与圣火之罪也愿加于我身。
Verse 37
कूपारामतडागानां यो भंगं कुरुत नरः । तेन पापेन लिप्यामि यद्यहं नागमे पुनः
若我不再归来,愿我染上毁坏水井、园圃与池塘之人的罪业。
Verse 38
कृतघ्नस्य च यत्पापं सूचकस्य च यद्भवेत् । तेन पापेन लिप्यामि यद्यहं नागमे पुनः
若我不再来此,愿我染上忘恩负义者与告密者之罪;以此罪业,愿我受其玷污。
Verse 39
मद्यमांसरतानां च यत्पापं जायते नृणाम् । तेन पापेन लिप्यामि यद्यहं नागमे पुनः
若我不再来此,愿我染上沉溺于酒与肉食之人所生之罪;以此罪业,愿我受其玷污。
Verse 40
राजपैशुन्यकर्तॄणां यत्पापं जायते नृणाम् । तेन पापेन लिप्यामि यद्यहं नागमे पुनः
若我不再来此,愿我染上在王事之中行诽谤、搬弄是非者所生之罪;以此罪业,愿我受其玷污。
Verse 41
वेदविक्रयकर्तॄणां यत्पापं संप्रजायते । तेन पापेन लिप्यामि यद्यहं नागमे पुनः
若我不再来此,愿我被那贩卖《吠陀》者所招致之罪所染;愿我即以此罪而蒙垢。
Verse 42
दीयमानं द्विजातीनां निवारयति योऽल्पधीः । तेन पापेन लिप्यामि यद्यहं नागमे पुनः
若我不再来此,愿我被那愚钝之人阻挠施与“二次生”之布施所成之罪所染;愿我即以此罪而蒙垢。
Verse 43
विश्वस्तघातकानां च यत्पापं समुदाहृतम् । तेन पापेन लिप्यामि यद्यहं नागमे पुनः
若我不再来此,愿我被经典所宣说、加于杀害信任自己之人的罪所染;愿我即以此罪而蒙垢。
Verse 44
द्विजद्वेषरतानां हि यत्पापं जायते नृणाम् । तेन पापेन लिप्यामि यद्यहं नागमे पुनः
若我不再来此,愿我被那些沉溺于憎恨“二次生”之人所生之罪所染;愿我即以此罪而蒙垢。
Verse 45
परवादरतानां च पापं यच्च दुरात्मनाम् । तेन पापेन लिप्यामि यद्यहं नागमे पुनः
若我不再来此,愿我被那等恶人以诽谤他人为乐之罪——无论其罪为何——所染;愿我即以此罪而蒙垢。
Verse 46
रात्रौ ये पापकर्माणो भक्षंति दधिसक्तुकान् । तेन पापेन लिप्यामि यद्यहं नागमे पुनः
若我不再回到此处,愿我被那些作恶之人之罪所染——他们夜里食用酸乳与炒面相和;愿我因那同一罪业而受其污。
Verse 47
वृंताकं मूलकं श्वेतं रक्तं येऽश्नंति गृंजनम् । तेन पापेन लिप्यामि यद्यहं नागमे पुनः
若我不再回到此处,愿我被那些食茄子、萝卜,以及白色与红色“格里恩贾那”(gṛñjana)之人的罪所染;愿我因那同一罪业而受其污。
Verse 48
पुलस्त्य उवाच । स तस्याः शपथाञ्छ्रुत्वा विस्मयोत्फुल्ललोचनः । प्रत्ययं च तदा गत्वा व्याघ्रो वाक्यमथाब्रवीत्
普拉斯提亚说道:听到她庄严的誓言,猛虎惊异得双目圆睁。随后,它确信她的真诚,便说出了如下言辞。
Verse 49
व्याघ्र उवाच । गच्छ त्वं गोकुले भद्रे पुनरागमनं कुरु । न चैतदवगंतव्यं यदयं वञ्चितो मया
猛虎说道:善良的女士啊,你去往戈库拉——牧牛人之聚落——然后再回来。并且不可让人知晓,在此事上我曾被你所蒙骗。
Verse 50
कपिले गच्छ पश्य त्वं तनयं सुतवत्सले । पाययित्वा स्तनं पूर्णमवघ्राय च मूर्धनि
噢,迦毗罗(Kapilā)啊,去看你的儿子吧,慈爱恋子的母亲。让他在你乳房前尽情吮饮至饱足,然后在他头顶之冠处嗅吻他。
Verse 51
मातरं भ्रातरं दृष्ट्वा सखीः स्वजनवबांधवान् । सत्यमेवाग्रतः कृत्वा नान्यथा कर्तुमर्हसि
见到你的母亲、兄长、朋友以及本族亲眷之后——当以真实为先——不可另行其事。
Verse 52
पुलस्त्य उवाच । साऽनुज्ञाता मृगेन्द्रेण कपिला पुत्रवत्सला । अश्रुपूर्णमुखी दीना प्रस्थिता गोकुलं प्रति
普拉斯提耶说道:既蒙兽中王允准,慈爱其子如命的迦毗罗,满面泪痕,凄楚困顿,遂启程向戈库拉而去。
Verse 53
वेपमाना भयोद्विग्ना शोकसागरमध्यगा । करिणीव हि रौद्रेण हरिणा सा बलीयसा । ततः स्वगोकुलं प्राप्ता रभमाणा मुहुर्मुहुः
她战栗不已,惶惧惊扰,仿佛沉入忧愁之海——如母象被凶猛更强的狮子逼迫——于是抵达自己的戈库拉,哞鸣不止。
Verse 54
तस्याः शब्दं ततः श्रुत्वा ज्ञात्वा वत्सः स्वमातरम् । सम्मुखः प्रययौ तूर्णमूर्द्ध्वपुच्छः प्रहर्षितः
小牛听见她的呼唤,认出是自己的母亲,便疾奔迎上前去——尾巴高扬,满怀欢喜。
Verse 55
अकालागमनं तस्या रौद्रं भंभारवं तथा । दृष्ट्वा श्रुत्वा च वत्सोऽसौ शंकितः परिपृच्छति
见她不合时宜地归来,又听她哞声粗厉而慌乱,那小牛心生疑惧,便开口询问。
Verse 56
वत्स उवाच । न ते पश्यामि सौम्यत्वं दुर्मना इव लक्ष्यमे । किमर्थमन्यवेलायां समायाता वदस्व मे
小牛说道:慈和者啊,我不见你往日的温柔;你似乎心中忧惧烦恼。为何在这不寻常的时刻前来?请告诉我。
Verse 57
कपिलोवाच । पिब पुत्र स्तनं पश्चात्कारणं चापि मे शृणु । आगताऽहं तव स्नेहात्कुरु तृप्तिं यथेप्सिताम्
迦毗罗说道:孩子啊,先饮我乳;随后也听我缘由。我因爱你而来——愿你随心满足、得以饱足。
Verse 58
अपश्चिममिदं पुत्र दुर्लभं मातृदर्शनम् । मयाऽद्य पुत्र गंतव्यं शपथैरागता यतः
她说道:孩子啊,此番与母相见,既非其时,又极为难得。然而今日,我的孩子,我必须离去——因为我是被庄严誓言所系而来。
Verse 59
व्याघ्रस्य कामरूपस्य दातव्यं जीवितं मया । तेनाहं शपथैर्मुक्ता कारणात्तव पुत्रक
她说道:面对那能随意化形的猛虎,我必须交出自己的性命。因此,孩子啊,我唯有履行誓约,方能从誓缚中得解脱。
Verse 60
मयाऽद्य तत्र गंतव्यं मृगराजसमीपतः । यदा च शपथैः पुत्र दास्यामि च कलेवरम्
她说道:今日我必须前往那里,直至兽中王者面前。因为依我所立誓言,孩子啊,我必须舍弃甚至此身。
Verse 61
वत्स उवाच । अहं तत्र गमिष्यामि यत्र त्वं गंतुमिच्छसि । श्लाघ्यं हि मरणं मेऽद्य त्वया सह न संशयः
瓦察说道:无论你愿往何处,我都将前往。诚然,今日若能与你同死,便是可称颂的荣死;毫无疑虑。
Verse 62
एकाकिनाऽपि मर्त्तव्यं यस्मान्मया त्वया विना । यदि मां सहितं तत्र त्वया व्याघ्रो वधिष्यति
既然即使没有你、我独自一人也终须一死——若在彼处猛虎要在我与你同在时取我性命,那也就任其如此。
Verse 63
या गतिर्मातृभक्तानां ध्रुवं सा मे भविष्यति । तस्मादवश्यं यास्यामि त्वया सह न संशयः
凡敬爱母亲之人所归之命运,必定也将归于我。故我必与你同往,毫无疑虑。
Verse 64
अथवाऽत्रैव तिष्ठ त्वं शपथाः संतु मे तव । तव स्थाने प्रयास्यामि मातस्त्वं यदि मन्यसे
不然,你就留在此处——愿你的誓愿都落在我身上。母亲啊,若你允可,我将代你前往。
Verse 65
जनन्या विप्रयुक्तस्य जीवितं न हि मे प्रियम् । नास्ति मातृसमः कश्चिद्बालानां क्षीरजीविनाम्
若与母亲分离,生命于我便不再可爱。对以乳为生的婴孩而言,无人可与母亲相比。
Verse 66
नास्ति मातृसमो नाथो नास्ति मातृसमा गतिः । ये मातृनिरताः पुत्रास्ते यांति परमां गतिम्
世间无有如母亲般的护佑者,亦无有如母亲般的正道。凡一心敬奉母亲之子,必得至于最高境界。
Verse 67
कपिलोवाच । ममैव विहितो मृत्युर्न ते पुत्रक सांप्रतम् । न चायमन्यभूतानां मृत्युः स्यादन्यमृत्युतः
迦毗罗说道:此死唯为我所定,亲爱的孩子,此刻并非为你。此亦非为他众生而设之死,亦非由别因所生之死。
Verse 68
अपश्चिममिदं पुत्र मातुः सन्देशमुत्तमम् । शृणुष्वावहितो भूत्वा परिणामसुखावहम्
孩子啊,这是你母亲最后且最殊胜的教诲。请专心谛听;依正行而行,终将得安乐。
Verse 69
वने चर सदा वत्स अप्रमादपरो भव । प्रमादात्सर्वभूतानि विनश्यंति न संशयः
爱子啊,你在林中行走时,当恒常守持警觉。因放逸而一切众生皆趋败亡,此无疑也。
Verse 70
न च लोभेन चर्तव्यं विषमस्थं तृणं क्वचित् । लोभाद्विनाशो जंतूनामिह लोके परत्र च
切莫因贪欲而行事,纵为险处之一茎草亦不可。由贪欲而众生毁灭,于此世与彼世皆然。
Verse 71
समुद्रमटवीं युद्धं विशंते लोभमोहिताः । लोभादि कार्यमत्युग्रं कुर्वंति त्याज्य एव सः
众生为贪欲所迷,竟入大海、荒林,乃至战阵。凡由贪等而起、造作极其凶猛之业者,确应远离。
Verse 72
लोभात्प्रमादादाश्वासात्पुरुषो बाध्यते त्रिभिः । तस्माल्लोभो न कर्त्तव्यो न प्रमादो न विश्वसेत्
人被三者所缚:贪欲、放逸与过度自信(错置的安稳)。故不应纵贪,不应怠惰放逸,亦不应盲信。
Verse 73
आत्मा च सततं पुत्र रक्षितव्यः प्रयत्नतः । सर्वेभ्यः श्वापदेभ्यश्च म्लेच्छेभ्यस्तस्करादितः
而且,孩子啊,你当恒常用心护持自身;当防一切猛兽,亦当防敌对的外来者、盗贼之类。
Verse 74
तिर्यग्भ्यः पापयोनिभ्यः सदा विचरता वने । न च शोकस्त्वया कार्यः सर्वेषां मरणं धुवम्
你常在林中行走,当防禽兽与心性险恶之辈。亦莫令忧悲作主;因为死亡对一切众生皆为必然。
Verse 75
अस्माकं प्रतिवाचं च शृणु शोकविनाशिनीम् । यथा हि पथिकः कश्चिच्छायार्थी वृक्षमास्थितः । विश्रान्तश्च पुनर्याति तद्वद्भूतसमागमः
亦当聆听我等能灭忧悲之答:譬如行旅求荫,依树暂憩;歇息既毕,复又前行——众生相会亦复如是,不过暂时聚合而已。
Verse 76
पुलस्त्य उवाच । एवं संभाष्य तं वत्समवघ्राय च मूर्द्धनि । स्वमातरं सखीवर्गं ततो द्रष्टुं समागता
普拉斯提亚说:她如此对爱子说罢,慈爱地亲嗅其顶,随后前去拜见自己的母亲与诸位女伴。
Verse 77
अब्रवीच्च ततो वाक्यं पुत्रशोकेन दुःखिता । अंबाः शृणुत मे वाक्यमपश्चिममिदं स्फुटम्
随后,她因丧子之痛而悲恸,说道:“诸位母亲,请听我之言——这是我最后的嘱托,分明无疑。”
Verse 78
अनाथमबलं दीनं फेनपं मम पुत्रकम् । मातृशोकाभिसंतप्तं सर्वास्तं पालयिष्यथ
“我的孩子芬那帕无依无靠,孱弱可怜,被母亲的悲恸所灼。诸位姐妹,请务必护佑他。”
Verse 79
भाविनीनामयं पुत्रः सांप्रतं च विशेषतः । स्नपनीयः पायितव्यः पोष्यः पाल्यः स्वपुत्रवत्
“此子在未来的岁月里将托付于你们——尤其从此刻起。应为他沐浴,喂以乳汁,抚养滋养,并加以守护,如同你们自己的儿子。”
Verse 80
चरंतं विषमे स्थाने चरंतं परगोकुले । अकार्येषु प्रवर्तंतं हे सख्यो वारयिष्यथ
“若他徘徊于险地,或误入他人牛群,或趋向不当之行——诸位友伴,当加以劝止约束。”
Verse 81
क्षमध्वं च महाभागा यास्येऽहं सत्यसंश्रयात् । यत्राऽसौ तिष्ठते व्याघ्रो मुक्ताऽहं येन सांप्रतम्
请宽恕我,诸位尊贵者。因我依止于真谛,我必须前往——前往那猛虎所立之处;正是它使我暂得释放。
Verse 82
सर्वास्ता वचनं श्रुत्वा तस्याः शोकसमन्विताः । विषादं परमं गत्वा वाक्यमूचुः सुदुःखिताः
众人听了她的话,皆为悲伤所充满;陷入极深的沮丧之中,便在万分痛苦里开口说道。
Verse 83
कपिले नैव गंतव्यं न ते दोषो भविष्यति । प्राणात्यये न दोषोऽस्ति संपराये च दारुणे
他们说:“噢,迦毗罗啊,你不可前往。过失不会归于你——当性命攸关之时,即便在可怖的危难中,也无可责之处。”
Verse 84
अत्र गाथा पुरा गीता मुनिभिर्धर्मवादिभिः । प्राणात्यये समुत्पन्ने शपथे नास्ति पातकम्
“关于此事,昔日宣说法(dharma)的牟尼圣者曾唱过一首古老伽陀:当临死之境现前时,在逼迫之下违背誓言,并无罪过。”
Verse 85
कपिलोवाच । प्राणिनां प्राण रक्षार्थं वदाम्येवानृतं वचः । नात्मार्थमुपयुञ्जामि स्वल्पमप्यनृतं क्वचित्
迦毗罗说道:“唯为护持众生之命,我才会说不实之语;若为自身之利,我在任何时候都不愿动用哪怕一丝虚妄。”
Verse 86
अश्वमेधसहस्रं तु सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते
将一千次马祭(Aśvamedha)与真谛置于天平衡量;确然,唯有真谛,胜过千次马祭。
Verse 87
तस्मान्नानृतमात्मानं करिष्ये जीविताशया । आज्ञापयतु मामार्या यास्ये यत्र मृगाधिपः
因此,即便怀着求生之望,我也绝不使自己成为妄语之人。愿尊贵的夫人命我——我将前往兽中之王(虎)所在之处。
Verse 88
वयस्या ऊचुः । कपिले त्वं नमस्कार्या सर्वैरपि सुरासुरैः । यत्त्वं परमसत्येन प्राणांस्त्यजसि दुस्त्यजान्
迦毗罗的同伴们说:“噢,迦毗罗啊,你为一切众生所当礼敬——无论天神或阿修罗;因为你执持至上真谛,竟愿舍弃那最难舍的生命。”
Verse 89
अवश्यं न च ते भावी मृत्युः सत्यात्कथंचन । प्रमाणं यदि सत्यं हि व्रज पंथाः शिवोऽस्तु ते
确然,由于你的真实无妄,死亡绝不会以任何方式临到你。若真谛确为凭证与权威,那么就踏上你的道路——愿吉祥护佑于你。
Verse 90
पुलस्त्य उवाच । एवमुक्ता च कपिला गता यत्र मृगाधिपः । अथासौ कपिलां दृष्ट्वा विस्मयोत्फुल्ललोचनः । अब्रवीत्प्रश्रितं वाक्यं हर्षगद्गदया गिरा
普罗陀斯底耶说:迦毗罗既受此言,便前往兽中之王所在之处。那兽王见到迦毗罗,惊异得双目大张,随即以谦恭之语说道,声音因欢喜而颤动。
Verse 91
व्याघ्र उवाच । स्वागतं तव कल्याणि कपिले सत्यवादिनि । नहि सत्यवतां किंचिदशुभं विद्यते क्वचित्
老虎说道:“欢迎你,吉祥的迦毗罗啊,真实语者。凡守持真理之人,处处皆无不祥之事。”
Verse 92
त्वयोक्तं कपिले पूर्वं शपथैरागमाय च । तेन मे कौतुकं जातं याताऽगच्छेत्पुनः कथम्
“先前啊,迦毗罗,你以庄严誓言自缚,许诺必将归来。因此我心生惊异:既已离去之人,怎能再度返回?”
Verse 93
तस्माद्गच्छ मया मुक्ता यत्राऽसौ तनयस्तव । तिष्ठते गोकुले बद्धः क्षीरपायी सुदुःखितः
“因此你去吧——我已放你自由——到你儿子所在之处。他仍被捆在牧牛聚落中,尚在饮乳,却受苦甚深。”
Verse 94
पुलस्त्य उवाच । एतस्मिन्नेव काले तु स राजा प्रकृतिं गतः । मृगीशापेन निर्मुक्तो दिव्यरूपवपुर्धरः । ततोऽब्रवीत्प्रहृष्टात्मा कपिलां सत्यवादिनीम्
普拉斯提耶说道:就在那一刻,国王复归本来之身——脱离母鹿之诅咒——并具足天界的形相与身躯。随后他心怀欢喜,对真实语者迦毗罗说道。
Verse 95
राजोवाच । प्रसादात्तव मुक्तोऽहं शापादस्मात्सुदारुणात् । किं ते प्रियं करोम्यद्य धेनुके ब्रूहि सत्वरम्
国王说道:“承你恩泽,我已从这极其可怖的诅咒中解脱。今日我当为你成就何等心愿?噢,牧牛之女,请速速告知。”
Verse 96
कपिलोवाच । कृतकृत्याऽस्मि राजेन्द यत्त्वं मुक्तोऽसि किल्बिषात् । पिपासा बाधतेत्यर्थं सांप्रतं जलमानयम्
迦毗罗说道:“噢,诸王之主,我之所愿已圆满,因为你已从罪垢与过失中解脱。如今唯有口渴相逼——因此速速取水来。”
Verse 97
नैवानृतं विजानीहि सत्यमेतन्मयोदितम्
“当知此非虚妄;此乃我所宣说的真实。”
Verse 98
पुलस्त्य उवाच । अथासौ पार्थिवो हस्ते चापमादाय सत्वरम् । सज्यं कृत्वा शरं गृह्य जघान धरणीतलम्
普拉斯提耶说道:于是那位国王迅速执弓在手;张弦取箭,击中了大地的表面。
Verse 99
ततः सलिलमुत्तस्थौ निर्मलं शीतलं शुभम् । तत्र सा कपिला स्नात्वा वितृषा समपद्यत
随即清净、清凉而吉祥之水涌现。迦毗罗于彼处沐浴,其渴意尽除。
Verse 100
एतस्मिन्नन्तरे धर्मः स्वयं तत्र समागतः । अब्रवीत्कपिलां हृष्टो वरं वरय शोभने
其间,法(Dharma)亲自来到那里。欣然之下,他对迦毗罗说:“美善者啊,择取一愿吧。”
Verse 101
तव सत्येन तुष्टोऽहं नास्ति ते सदृशी क्वचित् । त्रैलोक्ये सकले धेनुर्न भविष्यति वै शुभे
我因你的真实无欺而欢喜宣告:世间无有与你相似者。于三界之中,吉祥者啊,必无一头母牛能与你等同。
Verse 102
कपिलोवाच । प्रसादात्तव गच्छेय सह राज्ञा सगोकुला । सुप्रभेण पदं दिव्यं जरामरणवर्जितम्
迦毗罗说道:“承蒙你的恩泽,愿我与国王及全体牛群一同启程,前往光辉的天界圣境,远离衰老与死亡。”
Verse 103
मन्नाम्ना ख्यातिमायातु पुण्यमेतज्जलाशयम् । सर्वपापहरं नृणां सर्वकामप्रदं तथा
愿此圣池以我之名而闻名;愿它为众人除尽诸罪,并赐予一切所愿。
Verse 104
धर्म उवाच । येऽत्र स्नानं करिष्यंति सुपुण्ये सलिले शुभे । चतुर्द्दश्यां विशेषेण ते यास्यंति परां गतिम्
法(Dharma)说道:“凡在此以吉祥而具大功德之水沐浴者,尤其在月之第十四日沐浴者,必得至上归趣。”
Verse 105
तव नाम्ना सुपुण्यं हि तीर्थमेतद्भविष्यति । दर्शमुद्दिश्य मर्त्यस्तु प्राप्स्यते गोसहस्रकम् । स्नानाल्लक्षगुणं दानात्पुण्यं चैव तथाऽक्षयम्
确实,凭你的名号,此处将成为大功德的圣地(tīrtha)。凡人若依新月日(darśa)而修行仪轨,将得如同布施千牛之果报。由沐浴生起的功德增至十万倍;由布施(dāna)亦得同样不尽的功德。
Verse 106
येऽत्र श्राद्धं करिष्यंति मानवाः सुसमाहिताः । सर्वदानफलं तेषां भुक्तिमुक्ती महात्मनाम्
凡人在此以专注安定之心行施祖祭(śrāddha)者,彼等大心之士将得一切布施之果,并获世间福乐与解脱(mokṣa)。
Verse 107
अपि कीटपतंगा ये तृषार्ताः सलिले शुभे । मज्जयिष्यति यास्यंति तेऽपि स्थानं दिवौकसाम्
即便虫蚁飞鸟,因渴所逼,若沉入此吉祥之水中,彼等亦将往生天众之境。
Verse 108
किं पुनर्भक्तिसंयुक्ता मानवाः सत्यवादिनः । मनस्विनो महाभागाः श्रद्धावंतो विचक्षणाः
更何况具足奉爱(bhakti)之人——言真语、心志坚、福分深、信心足而有辨慧者,其功德当增至何等!
Verse 109
पुलस्त्य उवाच । एतस्मिन्नेव काले तु विमानानि सहस्रशः । समायातानि राजेंद्र कपिलायाः प्रभावतः
普拉斯提耶说道:就在那一刻,噢人中王,千万辆天宫车(vimāna)齐至,皆为迦毗罗(Kapilā)不可思议之威力所感召。
Verse 110
तान्यारुह्याथ कपिला गोपगोकुलसंकुला । सुप्रभेण समायुक्ता तत्पदं परमं गता
登上那些天车后,迦毗罗被牧牛者与众牛环绕,并与苏普拉婆(Suprabhā)同往,证得至上境界,抵达最高归处。
Verse 111
तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत् । श्राद्धं चैवात्मनः शक्त्या दानं पार्थिवसत्तम
因此,应竭尽全力在彼处沐浴;并依自身能力举行施罗达(śrāddha)祭祖仪式,且行布施,噢,诸王之最胜者。