Adhyaya 2
Prabhasa KhandaArbudha KhandaAdhyaya 2

Adhyaya 2

婆悉吒(Vasiṣṭha)追述往昔:仙人乔多摩(Gautama)教化众多弟子,唯有优坦迦(Uttanka)至诚不懈,久居师门奉事。一次奉命外出,他见到象征“家务之责有失”的征兆,因忧虑家族血脉延续而心生惶惧。此事禀告师尊后,乔多摩命他与师母共同完成居家祭仪(gṛhya-rite),并声明不再索取任何额外酬谢。 优坦迦仍愿献上可见可持的师礼(guru-dakṣiṇā),遂求见师母阿诃利耶(Ahalyā)。阿诃利耶命他在严限之期内,从苏陀娑王(Saudāsa)处取回王后摩达衍提(Madayantī)的宝石耳环(kuṇḍalas)。国王虽以吞食相胁,却准其开口求取;摩达衍提要求出示王家信物为凭,方交付耳环,并警告说蛇王达叉迦(Takṣaka)觊觎此物。 归途中,优坦迦领会国王关于“取悦或触怒婆罗门之果报”的隐语,国王亦解释自己昔日所受诅咒及其解除。其后达叉迦夺走耳环,优坦迦追入地下龙族(nāga)之境;在因陀罗(Indra)与神骏/火神阿耆尼(Agni)之助缘下,他以烟与火逼使诸龙归还耳环。优坦迦终于及时将耳环奉还阿诃利耶,免遭师母之咒。 章末以缘起说明收束:相传因达叉迦与优坦迦之事,地上出现一处“孔隙”(vivara),并引出务实训诫——为牛群填平坑穴——使道德叙事与地景记忆、日常责任相互印证。

Shlokas

Verse 1

वसिष्ठ उवाच । आसीत्पूर्वं मुनिर्नाम्ना गौतमश्च महातपाः । अहिल्या दयिता तस्य धर्मपत्नी यशस्विनी

婆悉吒说道:“往昔有一位大苦行的圣仙,名为乔达摩。阿诃利耶是他所钟爱的、依正法而立的贤妻,声名卓著。”

Verse 2

शिष्यानध्यापयामास स मुनिः शतशस्तदा । श्रुताध्ययनसंपन्नान्विससर्ज ततो गृहान्

那位圣仙当时教导了数百弟子;待他们在闻受圣典与研习修学上皆已圆满,便遣他们各自归返家园。

Verse 3

तस्यान्योऽपि च यः शिष्यो गुरुभक्तिपरायणः । उत्तंको नाम मेधावी न्यवसत्तस्य मन्दिरे

他另有一位弟子,专心以师为依、具足师徒之敬;名为乌达坦迦(Uttaṅka)的聪慧少年,仍住在师尊的居所之中。

Verse 4

न तं विसर्जयामास जरयापि परिप्लुतम् । उत्तंकोऽपि सुशिष्यत्वान्नो वेत्ति पलितं शिरः

师长即便为老迈所侵,也未遣他离去;而乌达坦迦因具足善弟子之德,竟连师尊鬓发已白也未曾觉察。

Verse 5

जातकार्यसमायुक्तो विद्यापारंगतोऽपि सः । केनचित्त्वथ कालेन काष्ठार्थं स बहिर्ययौ

虽已具足诸般应行之事,亦通达学业,过了一段时日,他仍出到外面,为取薪柴而去。

Verse 6

प्रभूतानि समादाय आश्रमं परमं गतः । अथासौ न्यक्षिपत्तत्र भूतले काष्ठसंचयम्

他拾取了丰足的柴薪,回到那清胜的精舍;随即在彼处将柴束放置于地上。

Verse 7

काष्ठलग्नां तदा श्वेतां जटामेकां ददर्श सः । स दृष्ट्वा दुःखमापन्नः कृपणं पर्यचिन्तयत्

当时他看见一缕洁白的结发(jaṭā)缠挂在柴薪之上。见此情景,他悲从中来,心中凄然自思。

Verse 8

धिग्धिङ्मे जीवितं नष्टं कुतः कार्यरतस्य च । कलत्र संग्रहं नैव मया कृतमबुद्धिना

羞哉,羞哉——我此生已毁!我诸般劳作又有何益?因愚痴故,我竟未曾筹办娶妻立家。

Verse 9

भविष्यति कुलच्छेदः शैथिल्यान्मम दुर्मतेः । गुरुपत्न्या च संदृष्ट उत्तंको दुःखितस्तदा

“因我懈怠愚昧,我族脉将断绝。”其时,优多迦被师母看见,便为忧苦所压。

Verse 10

तस्य दुःखं तथा क्षिप्रं गौतमाय निेवेदितम् । गौतमेन तथेत्युक्त्वा मृदुवाण्या स भाषितः

他迅速将自己的忧苦禀告于乔达摩。乔达摩答曰:“如是。”继而以柔和之语对他说。

Verse 11

वत्स गच्छ गृहं त्वं च अग्निहोत्रादिकाः क्रियाः । पालयस्व विधानेन पत्न्या सह न संशयः

“爱子啊,汝当归家,依仪轨守持自阿耆尼火供(Agnihotra)等诸行;并与汝妻同修——毋庸疑虑。”

Verse 12

इत्युक्तो गुरुणा सोऽपि प्रत्युवाच गुरुं प्रति । दक्षिणां प्रार्थय स्वामिन्नहं दास्याम्यसंशयम्

既蒙师长如是教诲,他便答师曰:“师尊,请索取达克希那(dakṣiṇā,师资供养);我必无疑奉献。”

Verse 13

गौतम उवाच । सेवा कृता त्वया वत्स महती मम सर्वदा । तेनैव परिपूर्णत्वं जातं मे नात्र संशयः

乔达摩说道:“孩子啊,你常常以大功德侍奉于我。仅凭此事,我已圆满满足——毫无疑虑。”

Verse 14

उत्तंक उवाच । किंचिद्ग्राह्यं त्वया स्वामिन्सन्तोषो जायते मम । त्वत्प्रसादान्मुनिश्रेष्ठ विद्यापारंगतोऽस्म्यहम्

优多迦说道:“师尊,请收下我一点供奉,使我心得安宁。承蒙您的恩德,噢最胜仙人,我已通达诸学。”

Verse 15

गौतम उवाच । न ग्राह्यं च मया पुत्र सन्तुष्टः सेवयास्म्यहम् । नेच्छाम्यहं धनं त्वत्तः सुखं गच्छ गृहं प्रति

乔达摩说道:“孩子啊,我不应收取任何东西;你的侍奉已令我满足。我不求你之财物——欢喜回家去吧。”

Verse 16

इत्युक्तो गुरुणा सोऽपि मातरं चाभ्यभाषत । किंचिद्ग्राह्यं मया मातः सन्तोषो दीयतां मम

蒙师长如此告诫后,他又对师母说道:“母亲,请从我这里收下一物,使我的心获得满足与安宁。”

Verse 17

गुरुपत्न्युवाच । सौदासं गच्छ पुत्र त्वं ममाज्ञां कुरु सत्वरम् । मदयन्ती प्रिया तस्य धर्मपत्नी यशस्विनी

师母说道:“孩子,速去见苏达萨,赶紧奉行我的命令。他所钟爱的、声名卓著且守持正法的妻子,名为玛达延蒂。”

Verse 18

कुण्डलेऽथानय क्षिप्रं मदयंत्याश्च पुत्रक । नो चेच्छापं प्रदास्यामि पञ्चमेऽह्नि न आगतः

“孩子啊,速去从玛达延蒂那里取来那一对耳环。若不照办,至第五日仍未归来,我必降下诅咒。”

Verse 19

इत्युक्तो गुरुपत्न्या स प्रस्थितः सत्वरं तदा । सौदासस्यगृहं प्राप व्याघ्रास्यं तं च दृष्टवान्

他受师母如此吩咐,便立刻启程。到了苏达萨的宅邸,见其面貌如虎,凶相毕露。

Verse 20

दृष्ट्वा प्राह तदा विप्रं भक्षणार्थमुपस्थितम् । भक्षयिष्यामि वै विप्र त्वामहं नात्र संशयः

见那婆罗门已近在咫尺、如同食物,他说道:“婆罗门啊,我必定吞食你,此事毫无疑问。”

Verse 21

उत्तंक उवाच । अवश्यं भक्षय त्वं मामेकं शृणु नराधिप । देहि मे कुण्डले तात दत्त्वाऽहं गुरवे पुनः । आगमिष्यामि भक्षस्व मा त्वं कार्यविवर्जितम्

乌坦迦说道:“大王啊,你固然可以吞食我,但请听我一言。请赐我那一对耳环,尊者;我将先奉还于师尊,随后必归。届时你再吞食我吧——莫使你所欲行之事落空。”

Verse 22

सौदास उवाच । गच्छ त्वं मन्दिरे दुर्गे यत्राऽस्ते दयिता मम । तां त्वमासाद्य यत्नेन जीवितव्यभयाद्द्विज

苏达萨说道:“去那坚固设防的宫殿,我的爱妃居于其内。婆罗门啊,为保全性命,你须谨慎用心,方可见到她。”

Verse 23

याच्यतां मम वाक्येन सा ते दास्यति कुण्डले । त्वया च नान्यथा कार्यं यत्सत्यं द्विजसत्तम

以我的名义向她求取,她必将耳环赐与你。你不可用别的方式行事——此乃真实不虚,噢,最上之婆罗门。

Verse 24

वसिष्ठ उवाच । मदयन्त्याः समीपं तु गत्वोवाच द्विजोत्तमः । देहि मे कुण्डले देवि सौदासस्त्वां समादिशत्

婆悉吒说道:那位最胜婆罗门走近摩达衍蒂,说:“夫人,请赐我耳环;苏达萨已命你如此。”

Verse 25

मदयंत्युवाच । सन्देहोऽद्यापि मे विप्र कुण्डले द्विजसत्तम । अभिज्ञानं त्वमानीय नृपस्य द्विज दर्शय

摩达衍蒂说道:“婆罗门啊,最胜的二次生者,我对这耳环仍有疑虑。请带来一件识别信物,并出示——作为来自国王的凭证。”

Verse 26

स गत्वा त्वरितं भूपमभिज्ञानमयाचत

他迅速前往国王处,请求一件识别信物。

Verse 27

सौदास उवाच । यैर्विना सुगतिर्नास्ति दुर्गतिं ये नयंति वै । गत्वैवं ब्रूहि तां साध्वीं मम वाक्यं द्विजोत्तम । प्रदास्यति ततो नूनं कुण्डले रत्नमंडिते

苏达萨说道:“若无此物,便无善趣(su-gati);而此物亦确能导向恶趣(dur-gati)。婆罗门中最胜者啊,去把我这番话告诉那位贞善的夫人。如此,她必定会把镶嵌宝石的耳环赐给你。”

Verse 28

वसिष्ठ उवाच । प्रत्यभिज्ञानमादाय गत्वा तस्यै न्यवेदयत्

婆悉吒说道:他取了相认的信物,前往她那里,将其呈献给她。

Verse 29

ततोऽसौ प्रददौ तस्मै गृह्ण मे कुण्डले द्विज । उवाच यत्नमास्थाय नीयतां द्विजसत्तम

于是她把耳环交给他,说:“婆罗门啊,收下我的耳环。务必谨慎携带,噢,二次生中最殊胜者。”

Verse 30

एते च वांछते नित्यं तक्षको द्विज कुण्डले । स तथेति समादाय विस्मयोत्फुल्ललोचनः । कौतुकात्पुनरागत्य राजानं वाक्यमब्रवीत्

“婆罗门啊,龙蛇王多叉迦恒常渴求这对耳环。”他答道“如是”,便将其收起,惊异得双目圆睁。随后因好奇,他又返回,对国王说道如下之言。

Verse 31

अभिज्ञानान्मया भूप सम्प्राप्ते दीप्तकुण्डले । वाक्यार्थस्तु न विज्ञातस्ततोऽहं पुनरागतः

“大王啊,凭借相认的信物,我确已得到了这对光辉的耳环;然而我未明白话语的旨意,因此我又返回。”

Verse 32

कौतुकाद्वद मे राजन्स्वकार्ये च यथास्थितम् । कैर्विना सुगतिर्नास्ति दुर्गतिं के नयंति च

“出于好奇,大王啊,请明白告知我你此事的真实情形:没有谁便无有善趣(sugati),又是谁将人驱入恶趣(durgati)?”

Verse 33

सौदास उवाच । आराधिता द्विजा विप्र भवंति सुगतिप्रदाः । असन्तुष्टा दुर्गतिदाः सद्यो मम यथा पुरा

苏达萨说道:“婆罗门啊,若能如法恭敬供养诸二生者,他们便成为赐予善趣之人;若令其不悦,便成赐予厄运之人——正如往昔我所遭遇,立刻应验。”

Verse 34

एतावान्मम शापोऽयं वसिष्ठस्य महात्मनः । तेनोक्तं त्वां यदा कश्चित्प्रश्नं विख्यापयिष्यति

“这便是大德瓦西什塔加于我身的诅咒:他曾宣告,当有人向你提出某个问题之时,(其条件便将成就)。”

Verse 35

तदा दोषविनिर्मुक्तो भविष्यसि न संशयः । त्वत्प्रसादाद्विनिर्मुक्तो ह्यहं शापाद्द्विजोत्तम । सात्त्विकं धाम चापन्नो गच्छ विप्र नमोऽस्तु ते

“那时你必脱离诸过失——毫无疑虑。蒙你恩泽,二生中最胜者啊,我亦已从诅咒中解脱。既已抵达清净的萨特维卡之境,去吧,婆罗门;向你致敬。”

Verse 36

वसिष्ठ उवाच । उत्तंकस्तेन निर्मुक्तः सत्वरं पथमाश्रितः । गच्छंश्चातिक्षुधाविष्टो ऽपश्यद्बिल्वफलानि सः

瓦西什塔说道:“乌坦迦既如此得释,便迅速踏上旅途。行走之间,饥饿剧烈逼迫,他看见了毕尔瓦果。”

Verse 37

ततः कृष्णाजिने बद्ध्वा कुण्डले न्यस्य भूतले । आरुरोह फलाकांक्षी स मुनिः क्षुधयाऽन्वितः

随后他把耳环系在黑羚羊皮中,放置于地。那位牟尼——渴求果实,又为饥饿所迫——便攀上(树)。

Verse 38

एतस्मिन्नेव काले तु तक्षकः पन्नगोत्तमः । गृहीत्वा कुण्डले तूर्णमगमद्दक्षिणामुखः

就在那一刻,塔克沙迦——诸那伽之最胜者——夺走耳环,迅疾离去,面向南方而行。

Verse 39

अथोत्तंकः फलाहारी अवतीर्य धरातले । सर्वतोऽन्वेषयामास वेगेन महता वृतः

随后,乌坦迦以果实为食,降至地面,怀着极大的急切,四方奔寻。

Verse 40

स दृष्ट्वा सम्मुखं प्राप्तं समीपं पन्नगोत्तमः । प्रविवेश बिलं रौद्रमन्धकारेण संवृतम्

见他迎面而来、逼近身前,那最胜之蛇便钻入一处可怖的洞窟,浓重黑暗将其遮蔽。

Verse 41

उत्तंकोऽपि बिलं प्राप्तः प्रविश्य तमसावृतम् । दण्डकाष्ठं समादाय कुपितोह्यखनत्तदा

乌坦迦也来到那洞窟;他踏入被黑暗笼罩之处,抓起一根木杖,怒火中烧,立刻开始掘挖。

Verse 42

तं तथा दुःखितं दृष्ट्वा सक्लेशं गुरुकार्यतः । वज्रमारोपयामास दण्डांते पाकशासनः

见他为师命之事而忧苦劳顿,帕迦沙娑那(因陀罗)便将金刚杵安置在他木杖的尖端。

Verse 43

ततो विदारयामास स शीघ्रं धरणीतलम् । प्रविष्टश्चैव पातालं कुण्डलार्थं परिभ्रमन्

于是他迅疾撕裂大地表层,进入帕塔拉(Pātāla)幽界,在其中徘徊寻觅那对耳环。

Verse 44

सोऽपश्यद्वाजिनं तत्र सर्वश्वेतं गुणान्वितम् । तेनोक्तः स्पृश मे गुह्यं ततः कार्यं भविष्यति

在那里他见到一匹骏马,通体雪白,具足吉祥之相。那马对他说:“触及我隐秘之处;随后你的使命便将成就。”

Verse 45

स चकार तथा शीघ्रं ततो धूमो व्यजायत । पातालं तेन सर्वत्र व्याप्तं भूधर वह्निना

他立刻照做;随即烟雾升起。凭那如山般的烈火,整个帕塔拉处处弥漫充满。

Verse 46

ततश्च व्याकुलाः सर्वे पन्नगाः समुपाद्रवन् । तक्षकं पुरतः कृत्वा संप्राप्ताः कुण्डलान्विताः । उत्तंकाय ततो दत्त्वा प्रणिपत्य ययुर्गृहम्

随后诸蛇惊惶不安,纷纷奔出。以塔克沙迦(Takṣaka)为前导,它们携带耳环而来;交予乌坦迦(Uttaṅka)后,俯伏礼拜,复归其所居之处。

Verse 47

वसिष्ठ उवाच । अथाश्वस्तमुवाचेदमहमग्निर्द्विजोत्तम । यस्त्वयाऽराधितः पूर्वमुपाध्यायनिदेशतः

毗湿多(Vasiṣṭha)说道:随后,他对那已得安慰的婆罗门如是言:“我乃阿耆尼(Agni),噢二生之最胜者;你先前遵师命而供奉礼敬的,正是我。”

Verse 48

ज्ञात्वा त्वां दुःखितं प्राप्तमिह प्राप्तः कृपापरः । सर्वथा त्वं च मे पृष्ठं भगवञ्छीघ्रमारुह

得知你怀着忧苦来到此处,我以慈悲之心赶来。故而,尊者啊,请速登我背。

Verse 49

नयामि तत्र यत्रास्ते गुरुः सर्वगुणालयः । आरूढस्तस्य पृष्ठे स प्रतस्थे ह्याश्रमं प्रति

“我将带你去你师尊——诸德所归之处——所居之地。”他骑上其背,便启程前往精舍。

Verse 50

तत्क्षणात्समनुप्राप्तो गौतमस्य निवेशनम् । एतस्मिन्नेव काले तु अहिल्या कृतमंडना

就在那一瞬间,他抵达了乔达摩的住处。恰在此时,阿诃利耶已然妆饰庄严,正在那里。

Verse 51

स्नाता चाभ्येत्य भर्तारं साध्वी वाक्यमुवाच ह । उत्तंकोऽद्य न संप्राप्तः शापं दास्याम्यहं ध्रुवम्

沐浴之后,那位贞德之妇走近夫君说道:“若乌坦迦今日仍未到来,我必定要发下诅咒。”

Verse 52

शिथिलो गुरुकृत्येषु स यदालक्षितो मया । तस्या वाक्यावसाने तु उत्तंकः पर्य्यदृश्यत

当我察觉他在奉事师尊之责上已有懈怠之时,恰在她话音落尽之际,乌坦迦便映入眼帘。

Verse 53

प्रसन्नवदनो हृष्टः कुण्डलाभ्यां समन्वितः । प्रणिपत्य स तां भक्त्या कुण्डले संन्यवेदयत्

他面容欢悦、心生喜乐,携带一对耳环,便以虔敬之心俯伏礼拜,将耳环奉献于她。

Verse 54

सा दृष्ट्वा तत्क्षणात्साध्वी कर्णाभ्यां संन्यवेशयत् । स्वगृहाय ततस्तूर्णमुत्तंकं विससर्ज ह

她一见之下,那位贞善的女子立刻将其戴在双耳。随后她迅速遣退优多迦,使其回归自家。

Verse 55

वसिष्ठ उवाच । एवं स विवरो जातस्तक्षकोत्तंककारणात् । यथा मे चिंत्यते नित्यं धेन्वर्थं श्वभ्रपूरणे

婆悉吒说道:“正因多叉迦与优多迦之缘故,那裂隙深渊遂如是生成。我恒常思惟:为那母牛之故,当填平此坑。”

Verse 56

तस्मात्त्वं पूरय क्षिप्रं नान्यः शक्तोऽत्र कर्मणि । शीघ्रं कुरु नगश्रेष्ठ मम कार्यमसंशयम्

“因此,你当速速将其填满——于此事上,别无他者能胜任。速行吧,群山之最胜者;无疑地成就我之所托。”