Adhyaya 36
Mahesvara KhandaKaumarika KhandaAdhyaya 36

Adhyaya 36

本章以紧密相连的“圣域(kṣetra)形成”叙事展开。诸天由梵天、毗湿奴与因陀罗为首,见到室建陀(Skanda)先前在陆海交汇处所立诸多林伽,商议礼拜分散不便,遂为共同奉祀与地方安宁,决定建立一尊吉祥的总林伽。得大自在天(Maheśvara)许可后,众神安立由梵天所造之林伽,古诃(Guha,室建陀)为其命名“悉地湿伐罗(Siddheśvara)”,并开凿圣池,注满诸圣地(tīrtha)之净水。 继而转入地下界(Pātāla)的危机:那伽禀告阿修罗普罗兰巴(Pralamba)在逃离塔罗迦之战后肆虐。室建陀遣其神力(śakti)下至帕塔拉;神力穿地而入,诛灭普罗兰巴,所成裂隙旋即充满净化罪垢的“帕塔拉-恒河(Pātāla-Gaṅgā)”之水。室建陀称此处为“悉地库帕(Siddhakūpa)”,并制定修持法门——尤以黑八日(kṛṣṇāṣṭamī)与十四日(caturdaśī)为要——沐浴、礼敬悉地湿伐罗并行祖先祭(śrāddha),许诺消罪除垢、福果长存。 本章又以制度化方式巩固圣域:安立悉地安比迦(Siddāmbikā),任命护域神(kṣetrapāla,含六十四位摩醯湿伐罗 Mahēśvara),并建立“悉地毗那夜迦(Siddhivināyaka)”以成就诸事之始。末尾功德颂(phalāśruti)赞叹诵读或聆听此章可得富足、护佑,并终至亲近六面神(Ṣaṇmukha)之境。

Shlokas

Verse 1

नारद उवाच । एवं दृष्ट्वा क्षितौ तानि लिंगानि हरसूनुना । हरिब्रह्मेंद्रप्रमुखा देवाः प्रोचुः परस्परम्

那罗陀说道:见到大地上那些由诃罗之子所建立的林伽,诸天——以毗湿奴、梵天与因陀罗为首——彼此商议。

Verse 2

अहो धन्यः कुमारोऽयं महीसागरसंगमे । येन चत्वारी लिंगानि स्तापितानि सुदुर्लभे

啊!此库玛罗在摩希河与大海交汇之处实为有福;他建立了四座极难得的林伽。

Verse 3

वयमप्यत्र शुद्ध्यर्थं तोषार्थं स्कन्दरुद्रयोः । साध्वर्थे चात्मलाभाय कुर्मो लिंगपरंपराम्

我们也将如此:为在此得清净,为令军荼与鲁陀罗欢喜,为成就善业,并为自得灵性之益,我们将建立相续的林伽。

Verse 4

अथवा कोटिशो देवा मुनयो नैव संख्यया । सर्वे चेत्स्थापयिष्यंति लिंगान्यत्र महीतटे

又或者,亿万诸天与不可胜数的圣仙——若他们都在此地河岸建立林伽——(此处将被至极圣化)。

Verse 5

पूजा तेषां कतं भावि बहुत्वाच्चात्र पठ्यते । यस्य राष्ट्रे रुद्रलिंगं पूज्यते नैव शक्तितः

“他们的供奉又怎能如法圆满?因其数量众多,此处已述及。凡在任何国度,若不能依其所能、以应有的虔敬礼拜鲁陀罗林伽……”

Verse 6

तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधितस्करैः । संभूय स्थापयिष्यामो लिंगमेकं ततः शुभम्

于是那国度衰败,遭饥荒、疫病与盗贼所苦。因此我们当共聚一处,建立一尊吉祥的林伽。

Verse 7

इति कृत्वा मतिं सर्वे प्राप्यानुज्ञां महेश्वरात् । प्रहर्षिता सुहश्चैव हरिब्रह्ममुखाः सुराः

众神既作此决意,又得大自在天(摩醯首罗)许可;由毗湿奴与梵天为首的诸天皆欢喜称心。

Verse 8

भूमिभागं शुभं वीक्ष्य विजने लिंगमुत्तमम् । स्थापयामासुरथ ते स्वयं ब्रह्मविनिर्मितम्

随后他们察看一处幽静之地的吉祥地段,便安立那至上林伽——由梵天亲自造作。

Verse 9

सिद्धार्थैः स्तापितं यस्मा द्देवैर्ब्रह्मादिभिः स्वयम् । सिद्धेश्वरमिति प्राह नाम लिंगस्य वै गुहः

由于此林伽为诸天亲自安立,以成就神圣之愿,且以梵天为首;故古诃(斯坎达)宣说其名为“悉地湿伐罗”(Siddheśvara)。

Verse 10

सर्वैर्देवैस्तत्र लिंगे खानितं सर उत्तमम् । सर्वतीर्थोदकैः शुभ्रैः पूरितं च महात्मभिः

在那里,众神在那林伽旁掘出一方殊胜之池;诸大心者又以从一切圣地(提尔他)取来的清净圣水将其注满。

Verse 11

एतस्मिन्नंतरे पार्थ पातालाच्छेषनंदनः । कुमुदोनाम आगत्य प्राह शेषाहिपन्नगान्

就在此刻,哦帕尔塔,名为俱牟陀者——舍沙之子——自帕塔拉升起,对舍沙族的诸那伽圣蛇开口说道。

Verse 12

अस्मिंस्तारकयुद्धे तु प्रलंबोनाम दानवः । पलायित्वा स्कंदभीत्या पापः पातालमाविशत्

在这场与塔拉卡的战争中,有一名名为普罗兰跋的达那婆,罪业深重,畏惧斯坎达,遂逃遁而入帕塔拉。

Verse 13

स वो वसूनि पुत्रांश्च भार्याः कन्या गृहाणि च । विध्वंसयति नागेंद्राः शीघ्रं धावतधावत

“他正在毁灭你们的财宝、儿子、妻子、女儿与居所。哦诸那伽之主——快些,奔走,奔走!”

Verse 14

शेषात्मजस्य तद्वाक्यं कुमदस्य निशम्यते । औत्सुक्यमापुर्नागेंद्रा यामयामेति वादिनः

听闻舍沙之子俱牟陀的这番话,诸那伽之王心生焦灼,口称“走吧,走吧”,便急忙行动起来。

Verse 15

तान्निवार्य ततः स्कंदः क्रुद्धः शक्तिमथाददे । पातालाय मुमोचाथ प्रोच्य दैत्यो निहन्यताम्

斯坎达制止了他们,怒火炽盛,执起圣枪(沙克提),掷向帕塔拉,并宣告:“当诛此魔!”

Verse 16

ततः स्कंदभुजोत्सृष्टा भुवं निर्भिद्य वेगतः । प्रविष्टा सहसा शक्तिर्यथा दैवं नरं प्रति

随即,天军神(Skanda)臂中所掷之枪以疾势穿破大地,倏然没入下界——正如命运骤然奔袭于人。

Verse 17

सा तं हत्वा प्रलंबं च कोटिभिर्दशभिर्वृतम् । नंदयित्वा गता नागाञ्जलकल्लोपूर्विका

那神枪诛灭了他,也诛灭了被十俱胝随从环绕的普罗兰婆(Pralamba)。令诸那伽欢喜之后,复向阇罗迦罗罗补尔毗迦(Jalakallopūrvikā)而去。

Verse 18

यांत्या शक्त्या तया पार्थ यत्कृतं विवरं भुवि । पातालगंगातोयेन पूरितं पापहारिणा

噢,帕尔塔!那离去之枪在地中所开之穴,已为地下恒河(Pātāla-Gaṅgā)之水所充满——此水能除罪垢。

Verse 19

तस्य नाम ददौ स्कंदः सिद्धकूप इति स्मृतः । कृष्माष्टम्यां चतुर्दश्यामुपवासी नरः स्वयम्

斯坎达为其赐名,世人忆之为“悉地库帕”(Siddhakūpa,成就之井)。于黑八日(Kṛṣṇāṣṭamī)及月十四日,当自守斋戒而禁食。

Verse 20

स्नात्वा कूपेऽर्चयेदीशं सिद्धेश्वरमनन्यधीः । प्रभूतभवसंभूतपापं तस्य विलीयते

于此井沐浴之后,当以不二之心礼敬供奉主宰悉地湿伐罗(Siddheśvara)。其由轮回世有所生的重重罪业,皆为之消融。

Verse 21

सिद्धकुंडे च यः स्नात्वा श्राद्धं कुर्याद्विचक्षणः । सर्वकल्मषनिर्मुक्तो भक्तियोग्यो भवेभवे

凡具明辨者,于悉达库恩达(Siddhakuṇḍa)沐浴并行施罗达(śrāddha)祭礼,即得脱离一切垢染,生生世世堪为奉爱瑜伽之器。

Verse 22

वृश्चाप्यक्षयस्तस्य तुष्टो रुद्रो वरं ददौ । प्रयाग वटतुल्योऽयमेतत्सत्यं न संशयः

甚至他(供奉祖灵)的祭献亦成无尽;鲁陀罗(Rudra)欢喜而赐此恩许:“此处等同于普拉亚伽(Prayāga)的不尽榕(Akṣayavaṭa)——此言真实,无有疑惑。”

Verse 23

अत्रागत्य महाभागः क्षाद्धं कुर्यात्सुभक्तितः । पितॄणामक्षयं तच्च सर्वेषां पिंडपातनम्

噫,有福者!来至此处,当以至诚奉爱行施罗达(śrāddha)。其功德于祖灵(Pitṛs)为无尽之利,亦等同为一切先祖奉献团食(piṇḍa)。

Verse 24

ततो ब्रह्मादयो देवाः स्कंदेन सहितास्तदा । सिद्धांबिकां महाशक्तिं प्रार्थयामासुरीश्वरीम्

于是,梵天等诸天与军荼(Skanda)同在,向至上女主祈祷——悉达安毗迦(Siddhāmbikā),大能量(Mahāśakti)。

Verse 25

त्वयाविष्टो हि भगवान्मत्स्यरूपी जनार्दनः । जगदुद्धारणार्थाय चक्रे कर्माम्यनेकशः

诚然,化为鱼身(Matsya)的阇那尔达那(Janārdana)为汝所感发所驱使;为拯济世界,他成就了无数威德大业。

Verse 26

इति तां प्रार्थयामासुरत्र त्याज्यं न ते शुभे । अत्र स्थिताः सर्व इमे क्षेत्रपाला महाबलाः

于是他们恳求她:“吉祥者啊,请勿舍弃此地。此处诸位威力无比的圣域守护者(kṣetrapāla)皆在此驻立。”

Verse 27

अष्टम्यां वा चतुर्दश्यां बलिपुष्पैश्च त्वां शुभे । ये पूजयंति ते पाल्याः सर्वापत्सु च या सदा

“吉祥者啊,凡于阿湿陀弥(Aṣṭamī)或十四日(Caturdaśī)以供献(bali)与花礼敬汝者,愿汝恒常护佑他们,于一切患难之中。”

Verse 28

एवमुक्ता सिद्धमाता तथेति प्रत्यपद्यत । स्थापयामासुरथ तां लिंगादुत्तरभागतः

如是告之,悉地母(Siddhamātā)答曰:“如是。”随后他们将她安置于林伽(Liṅga)之北。

Verse 29

ततः क्षेत्रपतीन्देवाश्चतुःषष्टिं महेश्वरम् । सिद्धेयं नाम क्षेत्रस्य रक्षार्थं निदधुः स्वयम्

其后,诸天亲自任命六十四位大自在天尊(Mahēśvara)为圣域之主护(kṣetrapati),以守护名为“悉地耶”(Siddheyā)的圣地(kṣetra)。

Verse 30

त्वां च ये पूजयिष्यंति कार्यारभेषु सर्वदा । वर्षे वर्षे राजमाषबलिना च विशेषतः

并且,凡在一切事业开端恒常礼敬汝者——尤其年复一年以黑豆(rājamāṣa)作供献(bali)者——

Verse 31

तानसौ पालयेत्तुष्टः पिता लोकानिव स्वकान् । सिद्धिकृतो देवास्तत्र सिद्धिविनायकम्

他将欢喜护佑众人,如父护持亲子。在彼处,诸天——赐予成就者——亦建立了“悉地毗那夜迦”(Siddhivināyaka)。

Verse 32

कपर्दितनयं प्रार्थ्य स्थापयाचक्रिरे मुदा । तं च ये पूजयंत्यत्र कार्यारंभेषु सर्वदा

他们祈请迦波尔迪多(Kapardita)之子,欢喜安立于此。凡在此处于一切事业开端恒常礼敬他者—

Verse 33

तेषां सिद्धिं ददात्येष प्रबलो विघ्नराड्भवः । यद्यत्र पूजयेद्यस्तु सततं सिद्धसप्तकम्

—此大力障碍之王毗伽那罗阇(Vighnarāj)赐予他们成就。又凡在此处恒常礼敬“悉地七尊”(Siddha-saptaka)者—

Verse 34

पश्येद्वा स्मरते वापि सर्वदोषैर्विमुच्यते । सिद्धेश्वरः सिद्धवटश्च साक्षात्सिद्धांबिका सिद्धविनायकश्च । सिद्धेयक्षेत्राधिपतिश्च सिद्धसरस्तथा सिद्धकूपश्च सप्त

无论亲见,或仅忆念,皆能解脱一切过失。其七者为:悉地湿伐罗(Siddheśvara)、悉地榕树(Siddha-vaṭa)、亲现的悉地安毗迦(Siddhāmbikā)、悉地毗那夜迦(Siddhivināyaka)、悉地耶圣域之主(Siddheyā-kṣetra-ādhipati)、悉地圣湖(Siddha-saras)与悉地圣井(Siddha-kūpa)。

Verse 35

अत्र तुष्टो ददौ रुद्रः सुराणां दुर्लभान्वरान् । वैशाखमासस्याष्टम्यां कृष्णायां सिद्धकूपके

在此处,鲁陀罗(Rudra)欢喜赐下连诸天亦难得之恩愿——于悉地库帕(Siddhakūpa),在毗舍佉月(Vaiśākha)黑半月的第八日(Aṣṭamī)。

Verse 36

स्नात्वा पिंडान्वटे कृत्वा पूजयन्मां च सिद्धभाक् । सदा योऽभ्यर्चयेन्मां च ब्रह्मचारी जितेंद्रियः

沐浴之后,于榕树下奉献 piṇḍa 供养,并礼敬于我者,便成为成就(悉地)之受者。凡恒常礼拜于我、守梵行(brahmacarya)且降伏诸根者,必得圆满之果。

Verse 37

अष्टाविष्टकरा नित्यं भवेयुस्तस्य सिद्धयः । मंत्रजाप्यं बलिं होममत्र यः कुरुते नरः

他的成就之力恒常增长,效验至“二十八倍”。凡在此处行持持诵真言、奉献 bali 供与火供 homa 者,便得如是悉地。

Verse 38

एकचित्तः शुचिर्भूत्वा सोऽभूष्टां सिद्धिमाप्नुयात् । समाहितमनाश्चाथ सिद्धेशं यस्तु पश्यति

心一境性而得清净者,便能获得所愿之成就。继而以摄心定意,凡得瞻礼悉地主(Siddheśa)者,必获其果报。

Verse 39

तस्य सिद्धिर्भवत्येव विघ्नैर्यदि न हन्यते । सिद्धांबिका महादेवी ह्यत्र संनिहितास्ति या

对他而言,成功必定生起——只要不为诸障所摧。因为在此处,成就母(Siddhāmbikā)大女神正亲临安住。

Verse 40

सिद्धिदा साधकेंद्राणां महाविद्यां जपंति ये । धीरेभ्यो ब्रह्मचारिभ्यः सत्यचित्तेभ्य एव च

她是赐予诸修行者之上首以悉地者——即持诵大明(Mahāvidyā)之人。她赐予坚忍者、守梵行者(brahmacārin),以及心安住于真实者。

Verse 41

मंत्रजाप्याद्ददात्येषा सर्वसिद्धीर्यथोप्सिताः । पातालस्य बिलं चैतद्गुहशक्त्या कृतं महत्

凭诵持真言,她如愿赐予一切悉地。此处帕塔拉的大洞窟,亦由古诃(斯甘达)之神力所造。

Verse 42

सिद्धां बिकाप्रसादेन विघ्नक्षेत्रपयोर्मम । प्रत्यक्षं भविता यत्र नानाश्चर्याणि भूरिशः

承蒙悉达安毗迦之恩,在这降伏障碍之地与此圣水之畔,种种奇瑞将大量亲现于前。

Verse 43

अत्र सिद्धिं प्रयास्यंति कोटिशः पुरुषाः सुराः । विद्याधरत्वं देवत्वं गंधर्वत्वं च नागता

在此,亿万众生——人乃至诸天——勤修而得悉地。在此亦可得持明者(Vidyādhara)之位、神格、乾闼婆之身,乃至那伽之性。

Verse 44

यक्षत्वं चामरत्वं च प्राप्स्यंत्यत्र च साधकाः । अत्र वै विजयोनाम स्थंडिलस्य प्रभावतः

在此,修行者亦得夜叉之位,乃至阿摩罗(不死天众)之境。诚然,此皆由名为“胜利”(Vijaya)的坛地之威力所致。

Verse 45

सिद्धांबिकां समाराध्य सिद्धिमाप्स्यति दुर्लभाम् । यो मां द्रक्ष्यति चात्रस्थं यश्च मां पूजयिष्यति । वादप्रचारतो वापि पुण्यावाप्तिर्भविष्यति

如法奉事悉达安毗迦者,必得难得之悉地。凡见我安住于此者,凡礼敬供养我者——乃至口宣此事、广为传扬者——皆得福德(puṇya)。

Verse 46

नारद उवाच । त्र्यंबकेण वरेष्वेवं दत्तेष्वपि सुरोत्तमाः

那罗陀说道:即使三目主(湿婆)如此赐下诸般恩赐之后,诸天中最尊胜者仍然……

Verse 47

प्रहृष्टाः समपद्यंत गाथां चेमां जगुस्तदा । तेन यज्ञैर्जपैःस्तोत्रैस्तपो भिस्तोषिता वयम्

他们欢喜踊跃,聚集一处,当时唱起此颂: “以彼等祭祀、持诵、赞歌与苦行,我们已得满足。”

Verse 48

सर्वे देवाः सिद्धिलिंगं यो नरः पूजयिष्यति । सर्वकामफलावाप्तिरित्येवं शंकरोऽब्रवीत्

“诸天皆欢喜:凡人若礼拜悉地林伽(Siddhiliṅga),必得一切所愿之果。”——商羯罗如是宣说。

Verse 49

इत्युक्त्वा ते जयं प्राप्ताः स्कंदेन सहिताः सुराः । काराय्यं रम्यप्रासादान्रम्यैस्तारकसंभवैः

说罢,那些天神与军神斯坎达同行,遂得胜利。他们命人建造华美宫殿,以击败塔罗迦一族所得的珍宝妙饰加以庄严。

Verse 50

चतुर्वर्गफलावाप्तिं दत्त्वा क्षेत्रस्य संययुः । केचित्स्कंदं प्रशंसंतस्तीर्थमन्ये हरिं परे

他们赐予那圣地得成就人生四义(法、利、欲、解脱)之果,随后离去。有的赞颂斯坎达,有的称扬圣渡处(tīrtha),也有的礼赞诃利(毗湿奴)。

Verse 51

केचिल्लिंगानि पंचापि युद्धं केचिद्दिवं ययुः । ततोंऽतरिक्षे चालिंग्य महासेनं हरोऽब्रवीत्

有人执持五种林伽;有人奔赴战阵;有人升入天界。随后在虚空之中,哈罗拥抱摩诃军(Mahāsena),开口宣说。

Verse 52

सप्तमे मारुतस्कंधे व स नित्यं प्रियात्मज । कार्येष्वहं त्वया पुत्र संप्रष्टव्यः सदैव हि

“在第七分部——即摩鲁陀支(Māruta-skandha)之中——此法将恒常宣讲,吾所钟爱的儿子啊。凡诸事业,孩子,你都应时时来问我。”

Verse 53

दर्शनान्मम भक्त्या च श्रेयः परमवाप्स्यसि । स्तंभतीर्थे च वत्स्येऽहं न विमोक्ष्यामि कर्हिचित्

“因得我之达尔沙那(darśana)并以虔敬奉我,你将获得至上的福祉。且在柱圣渡口(Staṃbha-tīrtha),我将常住——永不舍离。”

Verse 54

इत्युक्त्वा विससर्जैनं परिष्वज्य महेश्वरः । ब्रह्मविष्णुमुखांश्चैव भक्त्या तैरभिनंदितः

说罢,摩诃自在天(Maheśvara)拥抱了他,随后遣他离去。梵天、毗湿奴及诸神亦以虔敬向他致敬。

Verse 55

विसर्जिताः सुराजग्मुः स्वानिस्वान्यालयानि च । शर्वो जगाम कैलासं स्कंधं वै सप्तमं गुहः

诸天既蒙遣散,便各自返回本宫。舍婆(Śarva,湿婆)归于凯拉萨(Kailāsa),而古诃(Guha,军荼/斯坎达)则前往第七斯坎达之境。

Verse 56

इत्येतत्कथितं पार्थ लिंगपंचकसंभवम् । यः पठेत्स्कंदसंबद्धां कथां मर्त्यो महामतिः

如是,噢帕尔塔,与五林伽相连的起源已被宣说。凡具大慧之人诵读此与斯坎达相关之圣传—

Verse 57

श्रृणुयाच्छ्रावयेद्वापि स भवेत्कीर्तिमान्नरः । बह्वायुः सुभगः श्रीमान्कांतिमाञ्छुभदर्शनः

或自听闻,或令他人得闻,此人便成名望之士。得长寿、福运、富贵、光辉与吉祥仪容。

Verse 58

भूतेभ्यो निर्भयश्चापि सर्वदुःखविवर्जितः । शुचिर्भूत्वा पुमान्यश्च कुमारेश्वरसन्निधौ

彼亦无惧诸鬼神之类,远离一切忧苦。凡于俱摩雷湿伐罗圣前得清净之人—

Verse 59

श्रृणुयात्स्कंदचरितं महाधनपतिर्भवेत् । बालानां व्याधिदुष्टानां राजद्वारोपसेविनाम्

听闻斯坎达之行传者,可成大财主。(此叙述尤为有益) 于孩童、为病所困者,以及需出入王门侍候朝廷者。

Verse 60

इदं तत्परमं धन्यं सर्वदोषहरं सदा । तनुक्षये च सायुज्यं षण्मुखस्य व्रजेन्नरः

此实为至上吉祥,恒能除灭一切过失。及其身躯谢落之时,此人得证与六面神Ṣaṇmukha(斯坎达)之合一(sāyujya)。

Verse 61

वरमेनं ददुर्देवाः स्कंदस्याथ गता दिवम्

于是诸天为斯甘达之故赐予他此恩赐,随后便回归天界。